सञ्जयप्रोक्तं श्रीकृष्णमहिमावर्णनम्

सञ्जयप्रोक्तं श्रीकृष्णमहिमावर्णनम्

धृतराष्ट्र उवाच । भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छते । नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥ १॥ सञ्जय उवाच । श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् । यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥ २॥ वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः । वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते ॥ ३॥ मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् । सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥ ४॥ कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः ॥ ५॥ पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् । तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ॥ ६॥ यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते । सत्त्वतः सात्त्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥ ७॥ न जायते जनित्र्यां यदजस्तस्मादनीकजित् । देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः ॥ ८॥ हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते । बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥ ९॥ अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः । नराणामयनाच्चापि तेन नारायणः स्मृतः । पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः ॥ १०॥ असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् । सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ॥ ११॥ सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् । सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः ॥ १२॥ विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते । शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥ १३॥ अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः । एवंविधो धर्मनित्यो भगवान्मुनिभिः सह । आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ १४॥ इति महाभारते उद्योगपर्वणि ६८ अध्यायान्तर्गतं सञ्जयप्रोक्तं श्रीकृष्णमहिमावर्णनं सम्पूर्णम् । महाभारत । उद्योगपर्व । अध्याय ६८/३-१४॥ mahAbhArata . udyogaparva . adhyAya 68/3-14.. Proofread by PSA Easwaran
% Text title            : Sanjayaproktam Shri Krishnamahimavarnanam
% File name             : sanjayaproktaMshrIkRRiShNamahimAvarNanam.itx
% itxtitle              : shrIkRiShNamahimAvarNanam (sanjayaproktaM mahAbhAratAntargatam)
% engtitle              : sanjayaproktaM shrIkRRiShNamahimAvarNanam
% Category              : vishhnu, vishnu, krishna, mahAbhArata
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | udyogaparva | adhyAya 68/3-14||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : October 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org