सङ्कीर्णपद्यानि
१
(१)वातनन्दनमनःशान्तिकरचरणजलजात कुशतात कारुण्यसिन्धो!
शातकुम्भाभपट पातकापह धरणिजातपःफल दीनलोकबन्धो! ।
राम राजीवदलनयन रघुवीर रविवंशभूषणरत्न रावणारे ! -ध्रुव०॥ १॥
(२)चापोनिगमान्तग सदापदपहाररत तापसाराध्यपद पुण्यमूर्ते! ।
(३) क्ष्मापवर (४)कुसुरवनितापवादाघसन्तापभञ्जन भुवनगीतकीर्ते! राम ॥ २॥
रक्षसामन्तचतुर क्षमापालनपर क्षपानाथजितवदनकान्ते ! ।
रक्ष (५)रोमजमुदार क्षमादिगुणनिकरक्षय स्मृतिरस्तु मयि तवान्ते !राम ॥ ३॥
२
कथं तं न भजे पावनकथम् । शमितामितहृद्व्यथं कथं -ध्रुव०॥
त्रातुं (६)क्षममनलसमखिलं जगदिदं खलु यथातथं ।
कुर्वतं शरणागतसमवनमतुलविपदि सशपथम् । कथं०॥ १॥
परितसंश्रितजनघनधनतनयाद्यखिलमनोरथं ।
(७)कमलावरमजममलाशयमरिकरमण्डजवररथम् । कथं०॥ २॥
भक्कमयूरदयाघनमिनकुलपतिमतिभावुकपथं ।
यमभजतो जनुरमपतेरपि वरमपि भवति वितथम् । कथं०॥ ३॥
३
वक्ष सकलभक्तवृन्दरक्षणप्रवीणचरण दक्षमहाध्वरविनाशदक्ष चन्द्रगिरिपयो-
वलक्षदेह रक्ष मां द्रुतं
यक्षनाथसख भवाभिधार्युपद्रुतं
न क्षमत्यज क्षमस्व बहुभयाद्रुतम् ॥ १॥
शङ्करेगा शिव शरण्य शमशेवधे! -ध्रुव०॥
स्वर्वधूसमर्चिताङ्घ्रिपर्व समुदितेन्दुकान्तिगर्वतस्करास्यपद्म पर्वतेन्द्रजाधव गन्धर्व-
गीतगुणजगत्पते
शर्व! । कुर्वये! दयां त्वदङ्घ्रियुगनते
सर्वभुवननाथ न समुचितमदो नते । शङ्करेश ॥ २॥
भालदृगाविर्भवत्करालवीतिहोत्रखरज्वालदग्धरतिप्राणपाल सज्जनस्वमान-
सालयाद्य पालयाकुलं
व्यालमुण्डमालधर न मेऽन्यदिह बलं
कालकूटकण्ठ समव (८) रामसुतमलम् । शङ्करेश०॥ ३॥
४
(९)कुण्डलीशशयन मकरकुण्डलिननन्तगुण मृकण्डतनयदर्शितचिदखण्डमोदरूप सदघखण्ड नैकपण्डितप्रभो!
पुण्डरकिवरद भुवनमण्डनाद्य भो! ।
पुण्डरीकनयन शमय भवभयं विभो ! । ! ॥ १॥
पाण्डुरङ्ग मामिहाव शरणागतं -ध्रुव०॥
चण्डपराक्रम स्वभुजदण्डबलविमर्दितारिमण्डलानवद्यगुणकरण्ड (१०)मुकुलतलस्व
च्छगण्डतुस्तुण्डजनितनो(११) !
खण्डपरशुजप्यनामधेयसन्मनो
अण्डकूपरोमकूपसकलतनुतनो! पाण्डुरङ्ग ॥ २॥
अण्डजेन्द्रवाहन वेतण्डपरित्राणपटूद्दण्डदयाधारहृदाखण्डलानुजने शिरस्यञ्जलि
निधाय नुतिरतं
दण्डवत् प्रणम्य चिन्तयन्तमविरतं
दण्डपाणिभीतिमलं रामसुतमितम् । पाण्डुरङ्ग ॥ ३॥
५
ब्रह्मपुरन्दरमुखवृन्दारकवृन्दवन्द्यमीश्वरं
मन्दरमन्दिरमिन्दीवरदलरुचिबन्धुरकन्धरम् ॥ १॥
वन्दे मन्मथहरम् । हरं तं -ध्रुव०॥
हिमनगपतिनिजदुहितृमुखसलिलरुहमधुरसमधुकरं
स्वचरणयुगपरिचरणरतहृदयजनसमुदयसुखकरम् । हरं तम् ॥ २॥
वामदेवममितामरनुतपदतामरसं सुखकरं
रामतनूजभवामयवैद्यमकामदत्तपरवरम् । हरं तम् ॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृता सङ्कीर्णपद्याणि समाप्ता ।
१। वातनन्दनो हनूमांस्तस्य मनःशान्तिकरं चरणजलजातं चरणकमलं यस्य नत्सम्बुद्धौ । ``शात'' इति लिपिकरप्रमादः ।
२। धनुर्वेदपारग ।
३। भूपतिश्रेष्ठ
४। कुसुरो भूसुरो गौतमः ।
५। रामजं रामनन्दनं मयूर कविम् ।
६। अनलसमालस्यरहिनम् ।
७। अरिकरं चक्रपाणिम् ।
८। समव सम्यक्तया रक्षेत्यर्थः ।
९। कुण्डलांशः साधिराजः । शेष इति यावत् ।
१०। रलयोरभेदान्मुकुलो मुकुरः । दर्पण इत्यर्थः ।
११। चतुस्तुण्डो ब्रह्मा ।
Proofread by Rajesh Thyagarajan