सङ्कल्पपद्धतिः
विष्ण्वादेशे वर्तमानवेधसश्चरमार्धके ।
आयुषः कल्पके चैव सिताङ्गस्य किटेस्तथा ॥ १॥
मनोश्च सूर्यपुत्रस्य सन्धौ पादे कलेस्तथा ।
आद्ये वर्षे महापुण्ये भरतस्य महीपतेः ॥ २॥
जम्बुद्वीपे वत्सरे च वर्तमाने तथाऽयने ।
कृतै मासे च पक्षे च तिथौ वारे च भे तथा ॥ ३॥
करणादियुते पुण्ये कालेऽस्मिन्प्रीतये हरेः ।
देवर्षिपितृतृप्त्यर्थं पापानां च निवृत्तये ॥ ४॥
अस्मिन्जलाशये विष्णोः पादपद्मं विचिन्तयन् ।
गङ्गां स्मरन्नहं स्नानं करिष्ये स्मृतिचोदितम् ॥ ५॥
अघौघविध्वंसकरस्य विष्णोस्तोषाय तेन प्रहितोऽहमस्मिन् ।
जले स्मरन्देवनदीं करोमि स्नानं स गोविन्दपदाभिधानम् ॥ ६॥
इति श्रीमद्वादिराजपूज्यचरणविरचिता सङ्कल्पपद्धतिः सम्पूर्णा ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Sripriya