सप्तविभक्तिबोधकं श्रीकृष्णगीतम्
सप्तविभक्तिबोधकं श्रीकृष्णगीतम् (किम्-शब्दः पुंलिङ्गे)
कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे ।
कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे ॥
कोऽयं क्रीडति नन्दवने? श्रीकृष्णः क्रीडति नन्दवने ॥ १॥
कं तत्र पश्यति श्रीकृष्णः? गां तत्र पश्यति श्रीकृष्णः ॥ २॥
केन श्रीकृष्णो रञ्जयति? वेणुना श्रीकृष्णो रञ्जयति ॥ ३॥
कस्मै रोचते नवनीतम्? कृष्णाय रोचते नवनीतम् ॥ ४॥
कस्मादागता गोपबालाः? गोकुलादागता गोपबालाः ॥ ५॥
कस्येदं नाम हि गोविन्दः? कृष्णस्य नाम हि गोविन्दः ॥ ६॥
कस्मिन् विलसति गोविन्दः? हृदयान्तरङ्गे गोविन्दः ॥ ७॥
कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे ।
कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे जय कृष्ण हरे ॥