सर्वदुःखपरिहारकं नृसिंहस्तोत्रम्

सर्वदुःखपरिहारकं नृसिंहस्तोत्रम्

श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १॥ तप्तहाटककेशान्त ज्वलत्पावकलोचन । वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ २॥ पान्तु वो नरसिंहस्य नखलाङ्गकोटयः । हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणः ॥ ३॥ हिमवद्वासिनः सर्वे मुनयो वेदपारगाः । त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥ ४॥ येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः । महेन्द्राद्रिरता ये च ये हि विन्ध्याद्रिवासिनः ॥ ५॥ धर्मारण्यरता ये च दण्डकारण्यवासिनः । श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥ ६॥ कौमारपर्वते ये च ये च पम्पानिवासिनः । एते चान्ये च बहवः सशिष्याः मुनयोऽमलाः ॥ ७॥ सूतमभ्यर्च्य तत्रैव स्थितवान्मुनयो गताः । इत्येतत्सर्वमाख्यातं पुराणं नारसिंहकम् ॥ ८॥ पठतां श‍ृण्वतां नृणां नरसिंहः प्रसीदति । सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥ ९॥ न तेषां कोऽपि बन्धस्तु कदाचिदपि जायते । विष्णवेऽर्पितमिदं पुराणं सर्वकामदम् ॥ १०॥ भक्त्या च वदतामेतत् श‍ृण्वतां च फलं श‍ृणु । शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ॥ ११॥ सहस्रकुलसंयुक्ताः प्रयान्ति परमं पदम् । किं तीथैर्गोप्रदानैर्वा तपोभिर्वा किमध्वरैः ॥ १२॥ अहन्यहनि गोविन्दं तत्परत्वेन श‍ृण्वताम् । य पठेत्प्रातरुत्थाय पदस्य श्लोकविंशतिम् ॥ १३॥ ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते । एतत्पवित्रं पूज्यं च न वाच्यमकृतात्मनाम् ॥ १४॥ द्विजान्ना विष्णुभक्तानां श्राव्यमेतन्न संशयः । एतत्पुराणश्रवणमिहामुत्रसुखप्रदम् ॥ १५॥ वदतां श‍ृण्वतां सद्यः सर्वपापप्रणाशनम् । बहुनात्र किमुक्तेन भूयो भूयो मुनीश्वराः ॥ १६॥ श्रद्धयाऽश्रद्धया वापि श्रोतव्यमिदमुत्तमम् । भारद्वाजमुखात्सर्वे कृतकृत्या द्विजोत्तमाः ॥ १७॥ सूतं हृष्टाः प्रपूज्याथ सर्वे स्वं स्वाश्रमं ययुः । प्रक्षीणपापबन्धास्ते मुक्तिं यान्ति नरा इति ॥ १८॥ इति श्रीनृसिंहपुराणे सर्वदुःखपरिहारकं नृसिंहस्तोत्रं सम्पूर्णम् । Proofread by M K Barman
% Text title            : Nrisimhastotram Sarvaduhkhapariharakam
% File name             : sarvaduHkhaparihArastotram.itx
% itxtitle              : nRisiMhastotram sarvaduHkhaparihArakam (nRisiMhapurANAntargatam taptahATakakeshAnta jvalatpAvakalochana)
% engtitle              : nRisiMhastotram sarvaduHkhaparihArakam
% Category              : vishhnu, dashAvatAra, stotra, narasiMhapurANa, viShNu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : M K Barman
% Description/comments  : nRRisiMhakosha 2 upAsanA khaNDa, narasiMhapurANa | adhyAya
% Indexextra            : (Scans 1, 2, padmapurANalist)
% Latest update         : August 4, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org