सर्वदुःखपरिहारकं नृसिंहस्तोत्रम्
श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १॥
तप्तहाटककेशान्त ज्वलत्पावकलोचन ।
वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥ २॥
पान्तु वो नरसिंहस्य नखलाङ्गकोटयः ।
हिरण्यकशिपोर्वक्षः क्षेत्रासृक्कर्दमारुणः ॥ ३॥
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ।
त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः ॥ ४॥
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः ।
महेन्द्राद्रिरता ये च ये हि विन्ध्याद्रिवासिनः ॥ ५॥
धर्मारण्यरता ये च दण्डकारण्यवासिनः ।
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥ ६॥
कौमारपर्वते ये च ये च पम्पानिवासिनः ।
एते चान्ये च बहवः सशिष्याः मुनयोऽमलाः ॥ ७॥
सूतमभ्यर्च्य तत्रैव स्थितवान्मुनयो गताः ।
इत्येतत्सर्वमाख्यातं पुराणं नारसिंहकम् ॥ ८॥
पठतां शृण्वतां नृणां नरसिंहः प्रसीदति ।
सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥ ९॥
न तेषां कोऽपि बन्धस्तु कदाचिदपि जायते ।
विष्णवेऽर्पितमिदं पुराणं सर्वकामदम् ॥ १०॥
भक्त्या च वदतामेतत् शृण्वतां च फलं शृणु ।
शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ॥ ११॥
सहस्रकुलसंयुक्ताः प्रयान्ति परमं पदम् ।
किं तीथैर्गोप्रदानैर्वा तपोभिर्वा किमध्वरैः ॥ १२॥
अहन्यहनि गोविन्दं तत्परत्वेन शृण्वताम् ।
य पठेत्प्रातरुत्थाय पदस्य श्लोकविंशतिम् ॥ १३॥
ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते ।
एतत्पवित्रं पूज्यं च न वाच्यमकृतात्मनाम् ॥ १४॥
द्विजान्ना विष्णुभक्तानां श्राव्यमेतन्न संशयः ।
एतत्पुराणश्रवणमिहामुत्रसुखप्रदम् ॥ १५॥
वदतां शृण्वतां सद्यः सर्वपापप्रणाशनम् ।
बहुनात्र किमुक्तेन भूयो भूयो मुनीश्वराः ॥ १६॥
श्रद्धयाऽश्रद्धया वापि श्रोतव्यमिदमुत्तमम् ।
भारद्वाजमुखात्सर्वे कृतकृत्या द्विजोत्तमाः ॥ १७॥
सूतं हृष्टाः प्रपूज्याथ सर्वे स्वं स्वाश्रमं ययुः ।
प्रक्षीणपापबन्धास्ते मुक्तिं यान्ति नरा इति ॥ १८॥
इति श्रीनृसिंहपुराणे सर्वदुःखपरिहारकं नृसिंहस्तोत्रं सम्पूर्णम् ।
Proofread by M K Barman