सती राणिकाकृतं कृष्णनारायणस्तोत्रम्

सती राणिकाकृतं कृष्णनारायणस्तोत्रम्

सतीं सत्यं प्रतुष्टाव तदा कृष्णनरायणम् । सत्याः सत्यं नित्यसत्यं नारायणं नमाम्यहम् ॥ ५२॥ ॐ नमो ब्रह्मसवित्रे सत्यानाथाय ते नमः । पातिव्रत्यस्वरूपाय पञ्चाग्नये च ते नमः ॥ ५३॥ त्रेताग्नये बीजस्वरूपाय च ते नमः । गर्भरूपाय बाल्याय युवरूपाय ते नमः ॥ ५४॥ कान्तायै चापि कान्ताय सवंशाय च ते नमः । युगलाय स्थविराय त्र्यात्मकाय च ते नमः ॥ ५५॥ नमो भगवते कृष्ण भगवत्यै च ते नमः । शीलरूपाय धर्माय धर्मलाभाय च ते नमः ॥ ५६॥ नमश्चितास्वरूपाय पतिरूपाय ते नमः । नमः पान्थस्य सार्थायाऽतिवाहिकायै ते नमः ॥ ५७॥ नमः सूर्याय मेघाय विद्युते शशिने नमः । नमो दिवास्वरूपाय निशारूपाय ते नमः ॥ ५८॥ अयनद्वयरूपाय नमो युगप्रवर्तिने । नमो दिवाय सत्याय नमो वैकुण्ठवासिने ॥ ५९॥ सतीनां पतये कृष्ण सतीलोकेशिने नमः । नमो गोलोककान्ताय नमोऽक्षरनिवासिने ॥ ६०॥ नमो मुक्तप्रपूज्याय सतां च पतये नमः । मुक्तेश्वरेशाय ब्रह्मप्रियेश ते नमः ॥ ६१॥ नमो माणिक्यमुक्तानां रमायाः पतये नमः । पद्मावतीसतीलक्ष्मीराधाश्रीपतये नमः ॥ ६२॥ सर्वेशाय परेशाय नमः श्रीपरमात्मने । लक्ष्मीशाय नमः श्रीपुरुषोत्तमाय ते नमः ॥ ६३॥ अनादिश्रीकृष्णनारायणाय स्वामिने नमः । अन्तर्यामिस्वरूपाय सयुजे ते नमो नमः ॥ ६४॥ गोपालनन्दनायेश कम्भराजाय ते नमः । अश्वपट्टस्य चन्द्राय मायासूर्याय ते नमः ॥ ६५॥ स्मृद्धिदाय विरागाय सर्वहर्त्रे च ते नमः । एषाऽहङ्गृहसंज्ञाऽस्मि गृहं सत्यं भवान्मम ॥ ६६॥ रक्षाङ्गारकनामा त्वं त्वत्परा गीश्च यावती । त्वां सहायं परं प्राप्य जुहोम्येनां गृहाण माम् ॥ ६७॥ विदित्वा चाऽविदित्वाऽपि सर्वं जुह्वति चान्ततः । उभयेन विधानाऽत्र होमो भवामि वै त्वयि ॥ ६८॥ त्वं यज्ञस्त्वं यज्ञकुण्डे चाहवनीयरूपवान् । गार्हपत्यस्वरूपस्त्वं चावसथ्यस्वरूपवान् ॥ ६९॥ यज्ञकुण्डाग्निरेवाऽसि सर्वकुण्डाग्निरेव च । नय मां सत्यधर्मेण सतीलोके कृपां कुरु ॥ ७०॥ सतीधर्मो हि नारीणां जगदुद्धारकारकः । सती दाक्षी पुरा जाता वह्निना त्वदहद्वपुः ॥ ७१॥ रेणुका च सती जाता शबरी चापि वै पुरा । कृतधर्माश्रिता नार्यः सतीत्वमुपयान्ति च ॥ ७२॥ तथाऽहं श्रीहरे कृष्ण सतीत्वमुपयामि च । इत्येवं भूपते सा तु कोमलाङ्गी हि राणिका ॥ ७३॥ चितामारुह्य यावच्चेन्धितुं वह्निं समिच्छति । तावच्छ्रीलोमशो देवश्चेशानश्च सुरादयः ॥ ७४॥ अनादिश्रीकृष्णनारायणो लक्ष्मीश्च गोचराः । अभवन् सन्निधौ तत्र सती नेमे समन्ततः ॥ ७५॥ सती त्वं जयमाप्नुहि सतीलोकं प्रगच्छसि । पत्या समं सुखं भुङ्क्ष्व यावत् स्वर्गं प्रविद्यते ॥ ७६॥ इत्युक्त्वा प्रददुराशीर्वादान् पुष्णाणि चन्दनम् । सती विष्णुं नमस्कृत्वा सस्मार च पुनः पतिम् ॥ ७७॥ इति श्रीलक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २६७-अध्यायान्तर्गतं सती राणिकाकृतं कृष्णनारायणस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड २। अध्याय २६७/५२-७७॥ lakShmInArAyaNIyasaMhitA . khaNDa 2. adhyAya 267/52-77.. Proofread by PSA Easwaran
% Text title            : Sati Ranikakritam Krishnanarayana Stotram
% File name             : satIrANikAkRRitaMkRRiShNanArAyaNastotram.itx
% itxtitle              : kRiShNanArAyaNastotram (satIrANikAkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : satIrANikAkRRitaM kRRiShNanArAyaNastotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, stotra, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 2 | adhyAya 267/52-77||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org