श्रीशाण्डिल्यकृतं हरिस्तोत्रम्
श्रीशाण्डिल्य उवाच ।
अथ वक्ष्ये हरिस्तोत्रं पावनं दुःखनाशनम् ।
भुक्तिमुक्तिप्रदं चान्त्ये भक्तितत्त्वार्थसङ्गतिम् ॥ १॥
श्रीमान् पुमान् स भगवान् निगमाभिगीतः
शेषाद्यशेषसुरपुङ्गवसेविताङ्घ्रिः ।
स स्वे महिम्न्यभिरतः स्वयमाप्तकाम-
स्तस्मै नमो भगवते महते सदैव ॥ २॥
एकोऽप्यनेकरचनारचनात्पुरासीत्
सच्चित्सुखैकघनमूर्तिरमूर्तिराद्यः ।
साम्यातिशायरहितो निजराधसा य-
स्तस्मै नमो भगवते महते सदैव ॥ ३॥
स्वात्मैकनिर्वृतिरसं रसितुं स्वकीय-
मानन्दमात्रममलं मिथुनं जजान ।
तस्यानुरूपरमणे रमणात्मना य-
स्तस्मै नमो भगवते महते सदैव ॥ ४॥
यस्माद्बभूव वपुषा वचसा हृदापि
कालस्वभावकृतिविप्रकृतिः प्रपञ्चः ।
जीवाः सुरासुरविधा मम गम्य यत्र
तस्मै नमो भगवते महते सदैव ॥ ५॥
यस्मिन्स्वधर्मचरणावरणोदितेन
धर्मेण तेन च हुतप्रहुतादिगेन ।
निर्धूय कर्म समलं विमला रताः स्यु-
स्तस्मै नमो भगवते महते सदैव ॥ ६॥
शेषाद्युपास्य विबुधैः समुपासनीयं
पाद्मादिदेशिकरुपदिष्टमार्गम् ।
प्राप्नोति यं श्रुतिमतं हृदि वासुदेवं
तस्मै नमो भगवते महते सदैव ॥ ७॥
नो यान्ति यं प्रवचनैर्हवनैस्तपोभि-
र्योगप्रयोगविततैर्भजनादपेतैः ।
पादाम्बुजाश्रयवतां श्रयणं च हित्वा
तस्मै नमो भगवते महते सदैव ॥ ८॥
वज्राङ्कुशध्वजमुखैरभिलक्षितस्य
यत्पादपङ्कजयुगस्य सदाभयस्य ।
तन्मूलकर्म रजसोऽस्य ग्रहस्य कर्म
तस्मै नमो भगवते महते सदैव ॥ ९॥
स्नातो विरक्तिसुगणेन यशोगुणेन
आमोदितः स्वमहिमा समलङ्कृतो यः ।
ज्ञानामृतेन चकितश्चकितः श्रियापि
तस्मै नमो भगवते महते सदैव ॥ १०॥
इति श्रीमद्धरिस्तोत्रं प्रातरुत्थाय यः पठेत् ।
सर्वपापविशुद्धात्मा हरिलोकं स गच्छति ॥ ११॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये
हरिस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar