शम्भुकृतं २ विष्णुस्तोत्रम्
ईश्वर उवाच ।
संसारार्णवसन्तारसुपर्णसुखदायिने ।
मोहतीव्रतमोहारिचन्द्राय हरये नमः ॥ २४॥
स्फुरत्संविन्मणिशिखां चित्तसङ्गतिचन्द्रिकाम् ।
प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम् ॥ २५॥
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ।
या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा ॥ २६॥
पवनान्दोलिताम्भोजदलपर्वान्तवर्त्तिनाम् ।
पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः ॥ २७॥
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ।
हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने ॥ २८॥
नमस्तस्मै यमवते योगिनां गतये सदा ।
परमेशाय वै पारे महसां तमसां तथा ॥ २९॥
यज्ञाय भुक्तहविषे ऋग्यजुःसामरूपिणे ।
नमः सरस्वतीगीतदिव्यसद्गुणशालिने ॥ ८.६.३०॥
शान्ताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।
शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ।
घोराय मायाविधये सहस्रशिरसे नमः ॥ ३१॥
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ।
नमः सलिलरूपाय कारणाय जगत्स्थितेः ॥ ३२॥
कार्यमेयाय बलिने जीवाय परमात्मने ।
गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे ॥ ३३॥
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।
वीर्यायानन्तमनसे जगद्भावभृते नमः ॥ ३४॥
संसारकारणाज्ञानमहासन्तमसच्छिदे ।
अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः ॥ ३५॥
शान्ताय शान्तकल्लोलकैवल्यपददायिने ।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ॥ ३६॥
इन्दीवरदलश्यामं स्फूर्जत्किञ्जल्कविभ्रमम् ।
बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम् ॥ ३७॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे अयोध्यामाहात्म्ये षष्ठाध्यायान्तर्गतं
शम्भुकृतं विष्णुस्तोत्रं समाप्तम् ।
स्कन्दपुराण । वैष्णवखण्ड । अयोध्याखण्ड । अध्याय ६/२४-३७॥
skandapurANa . vaiShNavakhaNDa . ayodhyAkhaNDa . adhyAya 6/24-37..
Proofread by PSA Easwaran