श्रीशेषस्तोत्रम्
रसात्मा परात्मा पुरुषोत्तमो यो
निजोत्तारणायैव नारायणाय ।
महामन्त्रराजं प्रपेदे यतोऽयं
तमीशं फणीशं गुरुं शेषमीडे ॥ १॥
सहस्राननैर्वाक्सहस्रद्वयेन
सदा कीर्तयन्तं हरेः कीर्तिमेव ।
गृणन्तं श्रुतिभ्यो मतं भक्तिकाण्डं
तमीशं फणीशं गुरुं शेषमीडे ॥ २॥
विरिञ्चेः कुमारान्प्रति प्राह पूर्वं
नृपं चित्रकेतुं प्रति प्रीतिपूर्वम् ।
हरेर्भक्तिशास्त्रं मनुर्यश्च मह्यं
तमीशं फणीशं गुरुं शेषमीडे ॥ ३॥
सदा योगिनो भोगिनो यं भजन्ते
यथायोगमेषां ददात्यर्थसिद्धिम् ।
समृद्धिं करोति प्रियस्यैव विष्णो-
स्तमीशं फणीशं गुरुं शेषमीडे ॥ ४॥
त्रयीयोगवाग्यो गवां चाप्रकाशो
हरेर्भक्तियोगस्य वक्ता गुणानाम् ।
समस्तैर्नुतो योगिभिर्योगगम्य-
स्तमीशं फणीशं गुरुं शेषमीडे ॥ ५॥
अनन्तो हरेर्वल्लभामुत्तमाङ्गे
अनन्ताङ्घ्रिजामापगां यश्च धत्ते ।
अनन्तस्ततोऽनन्तदेवाश्रयो य-
स्तमीशं फणीशं गुरुं शेषमीडे ॥ ६॥
अशेषे विलीने लये शिष्यते यः
सुपर्यङ्कतां याति संवर्तसिन्धौ ।
मुरारेः प्रियाणामुपज्ञं गुरूणां
तमीशं फणीशं गुरुं शेषमीडे ॥ ७॥
यतो वासुदेवेऽभिप्रद्युम्नमन्तः
समाकर्षयच्चानिरुद्धं निरोधुम् ।
ततश्चाख्यया याति सङ्कर्षणो य-
स्तमीशं फणीशं गुरुं शेषमीडे ॥ ८॥
भुजङ्गाङ्गिनो गीर्गिरीशेन गीता
भुजङ्गाङ्गपर्यङ्कभाजः प्रियस्य ।
भुजङ्गप्रियस्य प्रियायैव भूयाद्
भुजङ्गप्रयाता भुजङ्गप्रयातैः ॥ ९॥
(२०-२८)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे
एकादशोऽध्याये श्रीशेषस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar