शिवराज्ञीश्रीकृतं पुरुषोत्तमसहस्रनामस्तोत्रम्

शिवराज्ञीश्रीकृतं पुरुषोत्तमसहस्रनामस्तोत्रम्

श्रीशिवराज्ञीश्रीरुवाच । तृप्ताहं पूर्वरूपाणि ज्ञात्वा कान्तमुखान्मम । प्राणेशाय नमस्तेऽस्तु पुरुरूपाय शार्ङ्गिणे ॥ २४॥ रौद्रीरमणीनाथश्रीद्युनारायण ते नमः । मैरवीधृतियुङ्मेरुनारायणाय ते नमः ॥ २५॥ सौरीशातनीयविष्णुनारायणाय ते नमः । चान्द्रीकौमुदीशदेवनारायणाय ते नमः ॥ २६॥ भूयसीदक्षिणाश्रीशयन्त्रयण ते नमः । वैष्णवीश्रीश ते ब्रह्मनारायण नमोऽस्तु च ॥ २७॥ देववीथीश्रीश आदित्यनरायण ते नमः । आनन्तीश्रीश ते गरुत्मन्नारायण ते नमः ॥ २८॥ आर्षीपद्मेश ते आर्षनारायणाय ते नमः । ज्योत्स्नाश्रीश्वर ते प्राज्ञनारायण नमोऽस्तु ते ॥ २९॥ शार्दूलिकाश्रीश वीरनारायणाय ते नमः । सरोभद्राश्रीश भद्रनारायणाय ते नमः ॥ ३०॥ सर्वभद्राश्रीश हरिनारायण नमोऽस्तु ते । स्वतन्त्राश्रीपते बीजनारायण नमोऽस्तु ते ॥ ३१॥ जयालक्ष्मीपते वरनारायण नमोऽस्तु ते । सुदर्शनीश्रीश स्त्रीपुन्नारायण नमोऽस्तु ते ॥ ३२॥ जलनारायणीश्रीश जलन्रयण ते नमः । स्वधाजश्रीश ते शीलनारायण नमो नमः ॥ ३३॥ पुण्डरीकश्रीश वार्धिनारायण नमोऽस्तु ते । माक्षिकीश्रीश ते चतुर्मुखनारायण नमः ॥ ३४॥ कृपावतीश्रीश कृपनारायण नमोऽस्तु ते । रत्ननारायणीश्रीश तीर्थन्रयण ते नमः ॥ ३५॥ भक्तिश्रीकान्त ते जीवनारायण नमो नमः । अर्धश्रीश्वर तेऽर्धश्रीपतिनारायण नमः ॥ ३६॥ अर्धोर्ध्वश्रीश्वर तेऽर्धपितृनारायण नमः । पिप्पलश्रीपते प्लक्षनारायण च ते नमः ॥ ३७॥ पीठिकाश्रीश ते शालपुंस्त्वनारायण नमः । वटश्रीकान्त ते श्यामनारायण नमो नमः ॥ ३८॥ राजराज्ञीश्रीश राजनारायण च ते नमः । नैष्ठिकीश्रीश ते ब्रह्मचारिन्रयण ते नमः ॥ ३९॥ शिवनारायणीश्रीश शिवन्रयण ते नमः । स्तनकीश्रीपते स्वर्णनारायण च ते नमः ॥ ४०॥ स्वामिनीश्रीपते स्वामिनारायण च ते नमः । निर्वाणीश्रीश सावननारायण च ते नमः ॥ ४१॥ साध्वीनारायणीश ते साधुनारायण नमः । कुम्भिकाश्रीश ते भक्तनारायण नमो नमः ॥ ४२॥ मेधावतीश्रीश ते च मेधानारायण नमः । पार्थिवीश्रीश ते वह्निनारायण नमो नमः ॥ ४३॥ रसनारायणीश्रीश रसन्रयण ते नमः । सुधाक्षिणीश्रीश चक्रनारायण नमोऽस्तु ते ॥ ४४॥ विजयाश्रीपते सत्यनारायण च ते नमः । हिरण्याश्रीपते हिरण्यनारायण ते नमः ॥ ४५॥ नैष्किञ्चनीश्रीश नैरञ्जनिन्रयण ते नमः । कल्याणीश्रीपते पुण्यनारायण च ते नमः ॥ ४६॥ रूक्मवतीश्रीश बृहद्ब्रह्मनारायण नमः । सुविद्याश्रीपते गुरुनारायण च ते नमः ॥ ४७॥ आचार्याणीश्रीश आचार्यनारायण ते नमः । वैद्युतीश्रीश ते विद्युन्नारायण नमो नमः ॥ ४८॥ माधवीश्रीपते मधुनारायण च ते नमः । धेनुमतीश्रीश नाथनारायण नमोऽस्तु ते ॥ ४९॥ विश्वीश्रीश विभुनारायण ते च नमो नमः । मुक्तिश्रीश ते मोक्षनारायण नमो नमः ॥ ५०॥ शिवराज्ञीश्रीश कृष्णनारायणाय ते नमः । लक्ष्मीनाथश्रीपते ते कमलाकान्त ते नमः ॥ ५१॥ पद्मापते रमाकान्त नारायणीश ते नमः । इन्दिराकान्त च हिरण्मयीप्राणपते नम ॥ ५२॥ महालक्ष्मीपते कृष्णापते ईश्वरीश नमः । हरिणीकान्त परमेश्वरीपते च ते नमः ॥ ५३॥ द्रव्यापते च पुरुषोत्तमीपते च ते नमः । वैष्णवीश च सम्पद्रूपाधीश च ते नमः ॥ ५४॥ भगवतीश च हरिदासीश्वर च ते नमः । हरिप्रियेश वैकुण्ठिकेश ब्राह्मीश ते नमः ॥ ५५॥ समृद्धीश्वर शालग्रामीकान्त च ते नमः । धनत्रयोदशीकान्त चक्रिणीनाथ ते नमः ॥ ५६॥ पद्मिनीस्वामिने बिन्द्वीपतये ते नमो नमः । अब्धिजेशाय च स्वर्णरूपिणीकान्त ते नमः ॥ ५७॥ गोशकृद्वासिनीस्वामिन् ब्रह्महृत्स्थेश ते नमः । धनेश्वरीश्वर ऋतम्भराय ते नमो नमः ॥ ५८॥ प्लक्षवासेश्वरीशाय मायेशाय च ते नमः । मातृकेश्वर चाऽमायेश्वर सतीश ते नमः ॥ ५९॥ स्वामिनीनाथ ते ब्रह्मशक्तिकान्त च ते नमः । आत्मात्मिकेशाऽन्तरात्मिकेश रमेश ते नमः ॥ ६०॥ सत्त्वप्रकर्षिणीकान्त पञ्चलेश च ते नमः । चञ्चद्रूपेश्वरश्रीवत्सेश ऐन्द्रीश ते नमः ॥ ६१॥ जयन्तीश च ते मण्डलात्मिकेश्वर ते नमः । सर्वतोभद्रिकास्वामिन् पद्मशिलेश ते नमः ॥ ६२॥ आक्षरीश च प्रज्ञेश श्राङ्गारिकेश ते नमः । भाग्यरूपेश सिद्धीशाऽवतारिणीपते नमः ॥ ६३॥ शान्तानाथ परेशांऽशेश्वर कलेश ते नमः । विभवीश्वर भूम्नीश धामिनीकान्त ते नमः ॥ ६४॥ अर्चास्वामिन् जननीश कारिणीवर ते नमः । देवीश्वरीश्वरीश्वर मुक्तानिकापते नमः ॥ ६५॥ प्रपोषिकेश च परब्रह्मपत्नीपते नमः । अनादिनीपते मम पते वृन्दापते नमः ॥ ६६॥ तुलसीकान्त ते चापि भार्गवीपतये नमः । अनादिश्रीकृष्णनारायणपत्नीश ते नमः ॥ ६७॥ अन्नादिनीपते वैभवेश्वरीशाय ते नमः । सम्पत्तीश च वासुदेवीश्वर च ते नमः ॥ ६८॥ कार्ष्णीस्वामिन् हंसिकेश माणिकीकान्त ते नमः । पद्मावतीपते राधापते गोपीपते नमः ॥ ६९॥ पार्षदानीपते पद्मालयापते च ते नमः । आजानुबाहवीशाय यान्त्रिकीशाय ते नमः ॥ ७०॥ सौराष्ट्रीशाय ते चाजनाभीश्वराय ते नमः । देविकापतये षष्ठीमनसापतये नमः ॥ ७१॥ दीपावलीस्वामिने ते तलाजापतये नमः । कामधेनवीकान्ताय आर्जन्तीस्वामिने नमः ॥ ७२॥ क्रोधनास्वामिने ते च गह्वरास्वामिने नमः । सूचीकान्ताय च वनदेवीश्वराय ते नमः ॥ ७३॥ दामनीस्वामिने कङ्कातालीनाथाय ते नमः । पितृकन्यास्वामिने ते दासीश्वराय ते नमः ॥ ७४॥ रासातलीस्वामिने ते वासन्तीपतये नमः । सालमालीश्वर मातृकेश्वराय च ते नमः ॥ ७५॥ स्वास्तिकीनाथ नागेशीश्वराय ते नमो नमः । शावदीनीस्वामिने ते ऐन्द्रजालीश ते नमः ॥ ७६॥ सरस्वतीस्वामिने ते विद्याकान्ताय ते नमः । लक्ष्मणीपतये भूगर्भीयानाथाय ते नमः ॥ ७७॥ नाडिकापतये वैश्वावासवीपतये नमः । जुम्मासेम्लीस्वामिने ते सान्तपनीश ते नमः ॥ ७८॥ सौरतीस्वामिने महाबालेश्वरीश ते नमः । ऐलवीलाधीश दाक्षजवङ्गरीश ते नमः ॥ ७९॥ औष्णालयीनाथ प्राजाकीयेश्वर नमोऽस्तु ते । पैत्रीनाथाय ते सेविकेश्वराय च ते नमः ॥ ८०॥ प्राचीनीपतये नृपीपतये ते नमो नमः । पैशङ्गीपतये सान्तारणीनाथाय ते नमः ॥ ८१॥ शैबीश्वराय ते थार्कूटस्थीश्वराय ते नमः । वैरजारीस्वामिने ते शाक्त्यक्षिणीश ते नमः ॥ ८२॥ पिशाचिनीश्वर कालिमाशीनाथाय ते नमः । औरलकेतवीस्वामिन् क्राथकीश च ते नमः ॥ ८३॥ पार्थवीराजिकेशाय चौष्ट्रालीशाय ते नमः । हङ्कारीपतये जयकाष्ठलीपतये नमः ॥ ८४॥ तीराणीपतये चाल्वीनारीशाय च ते नमः । वार्धिकापतयेऽनाथानाथाय ते नमो नमः ॥ ८५॥ राजपुत्रीश्वर प्रकीर्णिकाकान्तेश ते नमः । आल्पकेतवीकान्ताय जयकार्ष्णीश्वराय च ॥ ८६॥ पारीशानीस्वामिने ते चैन्दुरायीश ते नमः । मौद्राण्डीपतये गण्डात्मजानाथाय ते नमः ॥ ८७॥ लैनोर्णीस्वामिने बार्हच्छरीश्वराय ते नमः । बाललीनीस्वामिने ते वारसैंहीश ते नमः ॥ ८८॥ रायगामलिकाकान्त स्तोकहोमीश ते नमः । फैनतान्तवीनाथाय काष्ठयानीश ते नमः ॥ ८९॥ कोलकीशाय च दैनमानीशाय च ते नमः । रायकिन्नटिकास्वामिन् रायकोटीश्वरीश ते ॥ ९०॥ राणजितीस्वामिने ते वाकक्षिकेश ते नमः । मारीशीपतये बालेश्वरीश्वराय ते नमः ॥ ९१॥ लाम्बरीस्वामिने रायनवार्कीपतये नमः । हुण्डिशास्वामिने कूपेशिकाधिपतये नमः ॥ ९२॥ कालीमाण्डीस्वामिने ते जेलेशीपतये नमः । पारावारीस्वामिने ते कोटिश्वरीश ते नमः ॥ ९३॥ सातीशिकास्वामिने ते कार्कशिनीश ते नमः । आण्डजारीश ते बाल्यराजसीपतये नमः ॥ ९४॥ सौमनिकापतये ते गावाक्षीपतये नमः । पाराङ्वृत्तीश सुमणीश्वरीनाथ च ते नमः ॥ ९५॥ ऐशानपानीपतये रायपानीभृते नमः । मङ्गलापतयेऽमृतापतये ते नमो नमः ॥ ९६॥ प्रेमादिपतये राज्ञीपतये ते नमो नमः । कौबेरीपतये चापि माहेन्द्रीपतये नमः ॥ ९७॥ यमीश्वराय च नमो वायवीशाय ते नमः । वैश्वकर्मीस्वामिने ते वार्क्षीनाथाय ते नमः ॥ ९८॥ रौद्रीशाय च ते वह्निपुत्रीश्वराय ते नमः । श्रावणीस्वामिने ते खानिजीनाथाय वै नमः ॥ ९९॥ सांवत्सरीस्वामिने ते गोपिकेशाय ते नमः । प्राचीनीपतये ते च पिशङ्गीपतये नमः ॥ १००॥ राशियानीस्वामिने ते रोमायनीश ते नमः । पारशीपतये ते च धैवरीपतये नमः ॥ १०१॥ किन्नरीस्वामिनेऽमरीकान्ताय ते नमो नमः । गौरीशाय परीशायाऽऽब्रिक्तीशाय च ते नमः ॥ १०२॥ हारितीशाय पातालीश्वराय ते नमो नमः । स्वार्गिणीशायाऽप्सरःकान्ताय ते च नमो नमः ॥ १०३॥ ब्रह्मसरःपतये ते गायिकापतये नमः । विद्युन्मणिस्वामिने ते कुशलेशाय ते नमः ॥ १०४॥ भौमीश्वराय च तुभ्यं दानवीशाय ते नमः । शक्तिनाथाय च कशीराज्ञीशाय नमो नमः ॥ १०५॥ धेनुपालीस्वामिने ते सखीश्वराय ते नमः । राजराजेश्वरीशाय लीलेश्वराय ते नमः ॥ १०६॥ विभूतीशाय च दिव्यसिद्धीश्वराय ते नमः । अशनापतये विश्वापतये ते नमो नमः ॥ १०७॥ श्रीधराय भगवतीस्वामिने ते नमो नमः । महामायाधिपतये प्रकृतीशाय ते नमः ॥ १०८॥ न्यासिनीपतये साध्वीपतये ते नमो नमः । पतिव्रतास्वामिने ते दीक्षाधिपतये नमः ॥ १०९॥ प्रपत्तिपतये राधेशाय प्रियाभृते नमः । वैराजीशाय च भूतीश्वराय ते नमो नमः ॥ ११०॥ सृष्टीशाय विनष्टीशाय पुष्टीशाय ते नमः । गीतेश्वराय उपनिषदीश्वराय ते नमः ॥ १११॥ श्रुतीश्वराय च पराविद्येश्वराय ते नमः । गायत्रीशाय नमस्ते शारदेशाय ते नमः ॥ ११२॥ शाब्दीशाय नमस्तुभ्यमेकादशीश ते नमः । द्वादशीशाय च नमो जयन्तीशाय ते नमः ॥ ११३॥ भावनेशाय च मुक्तीशाय तुभ्यं नमो नमः । सेवानाथाय ते चाराधनाकान्ताय ते नमः ॥ ११४॥ गङ्गानाथाय च मोक्षपुरीनाथाय ते नमः । साङ्ख्ययोगिनीश्वराय नैष्ठकीपतये नमः ॥ ११५॥ त्यागिनीपतये चार्याधीशाय च ते नमः । योगिनीपतये वीतराणीशाय ते नमः ॥ ११६॥ नागवल्लीस्वामिने ते पूगीश्वराय ते नमः । रतिनाथाय सुरभिस्वामिने ते नमो नमः ॥ ११७॥ निर्वृत्तीशाय सन्ध्याऽधिपतये ते नमो नमः । मोहिनीशाय च विद्याध्रीशाय ते नमो नमः ॥ ११८॥ किम्पुरुषीस्वामिने ते कृषीश्वराय ते नमः । आबीश्वराय च मृदीश्वराय ते नमो नमः ॥ ११९॥ भूपतये ललितास्वामिने ते च नमो नमः । कुङ्कुमवापीश संहितानाथाय नमो नमः ॥ १२०॥ गुर्वीश्वराय च मुद्रिकेश्वराय च ते नमः । अरणीशाय च काशीश्वराय ते नमो नमः ॥ १२१॥ तपस्विनीस्वामिने ते सैरन्ध्रीशाय ते नमः । धात्रीशाय च नमो नागरीशाय ते नमः ॥ १२२॥ परिव्राजिकाकान्तायाऽऽर्यसूरिणीश्वराय च । रमेशाय तथा रामेशाय ते च नमो नमः ॥ १२३॥ स्तुतीशायाऽऽरार्तिकेशाय पूजेशाय ते नमः । अम्बिकेशाय च नभोवाणीश्वराय ते नमः ॥ १२४॥ बुद्धीश्वराय च स्तनश्रीश्वराय च ते नमः । प्रतिमाश्रीपतयेऽव्यक्तेशाय च ते नमः ॥ १२५॥ रसाधिपतये सुधापतये ते नमो नमः । पुण्याधिपतये मिष्टापतये ते नमो नमः ॥ १२६॥ पाकिनीशाय धान्याधिपतये ते नमो नमः । आज्ञानाथाय च मुमुक्षापतये च ते नमः ॥ १२७॥ विरजेशाय च चन्द्रकालेशाय च ते नमः । सुशीलापतये कदम्बमालेशाय ते नमः ॥ १२८॥ पारिजाताऽधिपतये कालिकापतये नमः । दुर्गानाथाय चाधिपतये ते नमो नमः ॥ १२९॥ नन्दिनीशाय च पट्टाङ्गनेशाय च ते नमः । सरयूस्वामिने सात्त्वतीशाय ते नमो नमः ॥ १३०॥ साकेतापतये सुदक्षिणाधिपतये नमः । करीषिणीस्वामिने ते हरिणीपतये नमः ॥ १३१॥ धरणीस्वामिने लीलास्वामिने ते नमो नमः । सत्यानाथाय पाञ्चालीपतये ते नमो नमः ॥ १३२॥ प्रदीपापतये भागिरथीकान्ताय ते नमः । कनकास्वामिने चैरावतीनाथाय ते नमः ॥ १३३॥ सरोजिनीस्वामिने ते कान्ताकान्ताय ते नमः । गोमतीपतये रेवास्वामिने ते नमो नमः ॥ १३४॥ विशालाक्षीस्वामिने ते स्वर्णरेखेश ते नमः । रेवतीस्वामिने ऋक्स्वामिने ते च नमो नमः ॥ १३५॥ वैकुण्ठापतये ब्रह्मसतीकान्ताय ते नमः । ईशावास्यास्वामिने ते स्मृतिकान्ताय ते नमः ॥ १३६॥ कन्याकान्ताय च भद्राकान्ताय ते नमो नमः । ओजस्वतीस्वामिने ते सत्ताकान्ताय ते नमः ॥ १३७॥ विष्णुगर्भाधिपतये वैराज्ञीपतये नमः । देवीश्वराय च प्रधानास्वामिने नमो नमः ॥ १३८॥ वरणीपतये गोलोकीश्वराय ते नमः । बदरीशाय च श्वेतानाथाय ते नमो नमः ॥ १३९॥ पावनीपतये चाऽव्याकृतिकान्ताय ते नमः । धात्रीशाय च ज्योत्स्नास्वामिने ते नमो नमः ॥ १४०॥ वीर्याकान्ताय महतीनाथाय ते नमो नमः । ओषधिपतयेऽजापतये ते च नमो नमः ॥ १४१॥ विश्वम्भरास्वामिने ते चान्नपूर्णाभृते नमः । विभावरीस्वामिने ते दक्षिणापतये नमः ॥ १४२॥ आहुतीशाय च सनातनीश्वराय ते नमः । अञ्जनीशाय च गण्डकीश्वराय च ते नमः ॥ १४३॥ ते सीतेशाय शबरीपतये पिङ्गलाभृते । प्रेयसीपतये चापि श्रेयसीपतये नमः ॥ १४४॥ मालावतीस्वामिने ते द्वारिकेशाय ते नमः । सिंहवतीस्वामिने ते त्रिस्पृशास्वामिने नमः ॥ १४५॥ पक्षवर्धिनीनाथायोन्मिलनीस्वामिने नमः । उत्पत्तिस्वामिने मोक्षदाकान्ताय च ते नमः ॥ १४६॥ सफलास्वामिने पुत्रप्रदानाथाय ते नमः । षट्तिलास्वामिने जयास्वामिने ते नमो नमः ॥ १४७॥ विजयास्वामिने चामलकीनाथाय ते नमः । पापमोचनीनाथाय कामदेशाय ते नमः ॥ १४८॥ वरूथिनीस्वामिने ते मोहिनीस्वामिने नमः । अपरास्वामिने ते च निर्जलास्वामिने नमः ॥ १४९॥ योगिनीस्वामिने ते च शयनीस्वामिने नमः । कामिकास्वामिने ते च पुत्रदास्वामिने नमः ॥ १५०॥ अजानाथाय पद्मानाथायेन्दिराभृते नमः । पाशाङ्कुशाधिनाथाय रमानाथाय ते नमः ॥ १५१॥ प्रबोधिनीश्वरायाऽपि कमलेशाय ते नमः । धामदेशाय च कपिलेशाय ते नमो नमः ॥ १५२॥ शलभेशाय च चन्द्रभागेशाय च ते नमः । कुमुद्वतीस्वामिने ते नित्यानाथाय ते नमः ॥ १५३॥ चन्द्रकान्ताय पद्माक्षीस्वामिने ते नमो नमः । कान्तिमतीस्वामिने ते हृषीकेशाय ते नमः ॥ १५४॥ अपराजितानाथाय पद्मावतीश ते नमः । सुनन्दास्वामिने धीपतये ते च नमो नमः ॥ १५५॥ नन्दानाथाय च त्रयीस्वामिने ते नमो नमः । क्षेमङ्करीस्वामिने ते सुन्दरीपतये नमः ॥ १५६॥ सुभगास्वामिने सुलक्षणानाथाय ते नमः । कूर्मीनाथाय च मत्स्यीनाथाय ते नमो नमः ॥ १५७॥ अश्विनीस्वामिने हंसीस्वामिने ते नमो नमः । सौभाग्यसुन्दरीशाय कल्किनीस्वामिने नमः ॥ १५८॥ दुःखहाश्रीस्वामिने ते वञ्जुलीस्वामिने नमः । रात्रीश्वराय नमोऽधवेश्वराय नमो नमः ॥ १५९॥ क्षीरोदतनयेशाय घण्टिकापतये नमः । नीराजनाधिनाथाय घटिकास्वामिने नमः ॥ १६०॥ वसुमत्यधिनाथाय ऋतम्भराभृते नमः । राध्यासापतये दिव्यारुणानाथाय ते नमः ॥ १६१॥ वम्रीनाथाय च ज्योष्ट्रीनाथाय ते नमो नमः । सुदुघास्वामिने कैदारिकानाथाय ते नमः ॥ १६२॥ जालन्धरीस्वामिने ते शङ्खचूडीभृते नमः । मालतीस्वामिने बर्बरिकानाथाय ते नमः ॥ १६३॥ वेदवतीस्वामिने ते पद्मिनीस्वामिने नमः । वृन्दावनीस्वामिने ते कंवतीस्वामिने नमः । पीवरीस्वामिने मरुपत्नीनाथाय ते नमः ॥ १६४॥ तीर्थवल्लीस्वामिने ते तीर्थश्रीस्वामिने नमः । तिलोत्तमास्वामिने ते रूपवतीभृते नमः ॥ १६५॥ वेदमातृवरायाऽपि गायत्रीपतये नमः । सरमेशाय च पैप्पलादीश्वराय ते नमः ॥ १६६॥ उपलेशाय धरणिजेशाय ते नमो नमः । धरेशाय नमस्तुभ्यं माटुलीशाय ते नमः ॥ १६७॥ पिङ्गलीशाय च मृगीशाय ते च नमो नमः । गौरस्वरूपिणीशाय नीतीश्वराय ते नमः ॥ १६८॥ बुद्धीश्वराय च नमः सक्रियेशाय ते नमः । तुष्टीशाय नमस्तुभ्यं कामनेशाय ते नमः ॥ १६९॥ वेदिकेशाय च नमश्चाज्याहुतिभृते नमः । पत्नीशालाधिपतये चितिनाथाय ते नमः ॥ १७०॥ इध्मानाथाय च नम उद्गीतिपतये नमः । धृतीशाय नमो वेलास्वामिने च नमो नमः ॥ १७१॥ धूमोर्णापतये ते च काष्ठाधीशाय ते नमः । वधूनाथाय च लतानाथाय ते नमो नमः ॥ १७२॥ नदीनाथाय च नमः पताकापतये नमः । भोगिनीपतये नमो रसिकापतये नमः ॥ १७३॥ चिदानन्दीस्वामिने ते मृत्युलक्ष्मीभृते नमः । सुश्रुतिपतये विजयन्तीश्वराय ते नमः ॥ १७४॥ सुकन्यापतये नमश्चालसापतये नमः । श्रीछायास्वामिने चित्रलेखानाथाय ते नमः ॥ १७५॥ नवरङ्गाधिपतये किंशुकीस्वामिने नमः । कल्पलताधिनाथाय बकुलापतये नमः ॥ १७६॥ चित्रवतीस्वामिने ते चारुपद्माभृते नमः । सुवर्णमुखरीशाय मालावतीभृते नमः ॥ १७७॥ वीराधिपतये प्रभावतीनाथाय ते नमः । श्रीमतीस्वामिने पण्यास्वामिने ते नमो नमः ॥ १७८॥ नागलक्ष्मीस्वामिने ते ज्योतिष्मतीभृते नमः । उद्योगिनीस्वामिने ते पूर्णानाथाय ते नमः ॥ १७९॥ सिद्धेश्वरीस्वामिने ते कृतिकान्ताय ते नमः । कवितास्वामिने ग्रन्थिवरात्मने नमो नमः ॥ १८०॥ तालिकास्वामिने चापि सङ्गीतिस्वामिने नमः । प्रहारिणीपतये ते मानिनीस्वामिने नमः ॥ १८१॥ जरत्कार्वीस्वामिने ते स्वस्तिनाथाय ते नमः । क्षमानाथाय च नमः प्रतिष्ठापतये नमः ॥ १८२॥ लज्जानाथाय च नमः पिपासापतये नमः । दाहिकास्वामिने श्रद्धास्वामिने ते नमो नमः ॥ १८३॥ मैथिलीयूथनाथाय कौशलास्वामिने नमः । निकुञ्जकान्तानाथाय शय्याकान्ताय ते नमः ॥ १८४॥ पुरन्ध्रीकुलकान्ताय किरातीस्वामिने नमः । पुलिन्दीस्वामिने सिंहलद्वीपस्त्रीभृते नमः ॥ १८५॥ दैशिकीस्वामिने नमो विदैशिकीभृते नमः । क्रतुकानकीनाथायाऽजितपत्स्त्रीभृते नमः ॥ १८६॥ श्रीलोकाद्रिप्रियेशाय देवतेशाय ते नमः । सामुद्रिकास्वामिने ते पार्थिवीस्वामिने नमः ॥ १८७॥ उर्वशीव्रातनाथाय सुतलीस्वामिने नमः । त्रिवेणीप्राणनाथाय शबरीशाय ते नमः ॥ १८८॥ पम्पावराय च राजेश्वरीशाय च ते नमः । लम्बाननाधिनाथाय चाजामुखीश्वराय च ॥ १८९॥ कन्याकुमारिकेशाय गोपकन्याभृते नमः । रैवतीस्वामिने नमो गौ लीस्वामिने नमः ॥ १९०॥ जीवन्तीपतये लावण्यवतीपतये नमः । मालिनीप्राणनाथाय कुब्जिकास्वामिने नमः ॥ १९१॥ यवनीस्वामिने मृगावतीनाथाय ते नमः । कान्तिमतीस्वामिने ते जरद्गौरीश्वराय च ॥ १९२॥ सुमित्रास्वामिने सुतानाथाय ते नमो नमः । विन्ध्यावलीस्वामिने ते पौण्यनैधेयिकाभृते ॥ १९३॥ वर्धिनीस्वामिने वैश्वावसवीशाय ते नमः । कुलादेवीस्वामिने ते रासेश्वरीभृते नमः ॥ १९४॥ राजवतीस्वामिने सीमन्तिनीशाय ते नमः । सामवतीस्वामिने ते चानर्तीशारदाभृते ॥ १९५॥ महानन्दास्वामिने बन्दुलानाथाय ते नमः । मनोरमाधिनाथाय शुचिष्मतीभृते नमः ॥ १९६॥ अर्चिष्मतीस्वामिने सुशीलाविप्राभृते नमः । कलावतीस्वामिने ते लीलावतीभृते नमः ॥ १९७॥ रत्नावलीस्वामिने ते शशिलेखाभृते नमः । अनङ्गलेखापतये चित्रलेखाभृते नमः ॥ १९८॥ दिव्यार्षीस्वामिने चापि सुरसास्वामिने नमः । वर्षाभ्वीस्वामिने पारावतीनाथाय ते नमः ॥ १९९॥ प्रभावतीस्वामिने ते नर्मदास्वामिने नमः । रोहिणीशाय कुमुदाकान्ताय ते नमो नमः ॥ २००॥ पुरुहूतापतये च शर्मवतीभृते नमः । सुधाम्नीस्वामिने ते च माधवी स्वामिने नमः ॥ २०१॥ कुन्ददन्तीस्वामिने ते कदम्बमालिकाभृते । शाण्डिलीस्वामिने मधुविद्याभृते च ते नमः ॥ २०२॥ अश्वमुखीस्वामिने ते गजमुखीश्वराय च । अम्बेश्वराय च वृद्धेश्वराय ते नमो नमः ॥ २०३॥ कुङ्कुमवापीनाथाय हिङ्गलाजीश्वराय च । कामाक्षीस्वामिने ते च मीनाक्षीशाय ते नमः ॥ २०४॥ दमयन्तीस्वामिने ते भद्रिकास्वामिने नमः । प्रीतिकर्णोत्पलेशाय दीर्धिकेशाय ते नमः ॥ २०५॥ फलवतीस्वामिने ते रमानाथाय ते नमः । गोभिलास्वामिने गोपसुतानाथाय ते नमः ॥ २०६॥ उदुम्बुरीस्वामिने तेऽष्टषष्टिस्वामिने नमः । रत्नवतीस्वामिने ते शुभाक्षीस्वामिने नमः ॥ २०७॥ देवलीलास्वामिने ते देवनदीश्वराय च । बहुचराधिनाथाय हिङ्गुलाजाभृते नमः ॥ २०८॥ ब्रह्ममोहिनीनाथायाऽनुवृत्तिस्वामिने नमः । विशालापतये पराविद्याधिपतये नमः ॥ २०९॥ देवतापतये चित्याकुतिस्वामिन्नमोऽस्तु ते । पुरीनाथाय कमलेश्वरीशाय नमो नमः ॥ २१०॥ प्राचीनाथाय च ऋषितोयानाथाय ते नमः । गौतमीशाय च वपुष्मतीशाय च ते नमः ॥ २११॥ मणिकर्णाधिनाथाय श्रीमातृस्वामिने नमः । नमः पार्थाधिपतये माहिष्मतीभृते नमः ॥ २१२॥ भिल्लिकास्वामिने तुभ्यं सौराष्ट्रीशीभृते नमः । व्याघ्रीशाय नमस्तुभ्यं चिल्लीनाथाय ते नमः ॥ २१३॥ तिथिनाथायाभिचारिणीश्वराय च ते नमः । निषादीस्वामिने व्यालीस्वामिने ते नमो नमः ॥ २१४॥ चतुर्भुजाधिनाथाय हर्षसिद्धिभृते नमः । सारिकापतये विश्वरूपानाथाय ते नमः ॥ २१५॥ श‍ृगालीपतये ते च मयूरीशाय ते नमः । मङ्गलास्वामिने शैलीकन्यकास्वामिने नमः ॥ २१६॥ नालमेधीस्वामिने ते भक्तानाथाय ते नमः । विमलास्वामिने चापि लम्बिकास्वामिने नमः ॥ २१७॥ मरीचिकाधिनाथाय वेदीनाथाय ते नमः । गुण्डिचाधिप्रणाथाय भक्तीश्वराय ते नमः ॥ २१८॥ रोहिणीशाय च कामदुघेशाय च ते नमः । रतीश्वराय च पृथ्वीश्वराय ते नमो नमः ॥ २१९॥ संज्ञेश्वराय च देविकेश्वराय च ते नमः । विभावर्यधिनाथाय मूर्तिकान्ताय ते नमः ॥ २२०॥ रुक्मिणीस्वामिने प्रेमसखीकान्ताय ते नमः । गोदावरीस्वामिने ते कपिलास्वामिने नमः ॥ २२१॥ स्वर्णगौरीस्वामिने ते रम्भानाथाय ते नमः । शीतलास्वामिने चम्पास्वामिने ते नमो नमः ॥ २२२॥ साध्यानाथाय धन्याधिस्वामिने ते नमो नमः । पुष्पाकान्ताय च कोकिलाकान्ताय नमो नमः ॥ २२३॥ पूर्णिमाधिपतये ते मञ्जरीशाय ते नमः । गालवीशाय च याज्ञसेनीशाय च ते नमः ॥ २२४॥ श्रीमतीस्वामिने लीलावतीनाथाय ते नमः । कदलीस्वामिने कालिन्दीश्वराय च ते नमः ॥ २२५॥ हैमीश्वराय च महावेदीश्वराय ते नमः । खनीश्वराय च सनातनीश्वराय ते नमः ॥ २२६॥ श्यामानाथाय च सर्वेशनीशाय च ते नमः । तपस्विनीस्वामिने ते गायिकास्वामिने नमः ॥ २२७॥ कल्पपुत्तलिकेशाय ईशिकास्वामिने नमः । लाजाधिपतये प्रेङ्खानाथाय ते नमो नमः ॥ २२८॥ नमः श्रीमङ्गलागौरीस्वामिने ते नमो नमः । क्रोधनापतये ते च श्रीवल्लीस्वामिने नमः ॥ २२९॥ वीरकन्याधिपतये रणचण्डीश्वराय च । गरुत्मतीस्वामिने ते भीरुलक्ष्मीश ते नमः ॥ २३०॥ बालाहकीस्वामिने ते सुसहास्वामिने नमः । किरणास्वामिने द्युतिस्वामिने ते नमो नमः ॥ २३१॥ नूत्नकुमारिकास्वामिनाथाय ते नमो नमः । शत्रुञ्जयीस्वामिने ते काललक्ष्मीश्वराय च ॥ २३२॥ श्रावणीपतये सांवत्सरीकान्ताय ते नमः । कालकन्याधिपतये वह्निजास्वामिने नमः ॥ २३३॥ प्रैतीनाथाय पित्रीस्वामिने ते च नमो नमः । दर्व्यादिस्वामिने राशिकन्याकान्ताय ते नमः ॥ २३४॥ आनन्दिनीस्वामिने ते महाब्राह्मीश ते नमः । शान्तिनाथाय च परधाम्नीशाय च ते नमः ॥ २३५॥ प्रधानापतये चापि प्राह्लादीपतये नमः । विभूषापतये कलिकाद्याधिपतये नमः ॥ २३६॥ दैत्यानिकाधिनाथाय सुनन्दिनीभृते नमः । भोगिनीस्वामिने महाकालीनाथाय ते नमः ॥ २३७॥ केसरिपृष्ठगाभृते तपतीस्वामिने नमः । सौदाम्नीपतये हरिजिह्वाधिपतये नमः ॥ २३८॥ दृषद्वतीप्रकान्ताय कृत्तिकास्वामिने नमः । करञ्जनिलयानाथात्मने ते च नमो नमः ॥ २३९॥ लोहितायनिकानाथात्मने ते च नमो नमः । नाट्यनटीस्वामिने ते नारीश्वराय ते नमः ॥ २४०॥ कथानाथाय च सञ्जीवनीनाथाय ते नमः । राणिकापतयेऽमरपुत्रिकापतये नमः ॥ २४१॥ धन्येश्वरीस्वामिने ते सतीशास्वामिने नमः । देवानिकीस्वामिने ते कृष्णिकास्वामिने नमः ॥ २४२॥ कुशानाथाय तेऽनरण्यसुतेशाय ते नमः । परानाथाय च हृच्छायिनीनाथाय ते नमः ॥ २४३॥ पट्टकन्यास्वामिने ते कृतमालाभृते नमः । माऽजाम्बिकाधिनाथाय जलनारीभृते नमः ॥ २४४॥ विद्यास्नातास्वामिने ते सुषुम्णास्वामिने नमः । इडानाथाय च नमः पिङ्गलापतये नमः ॥ २४५॥ यशस्विनीस्वामिने ते विश्वोदराभृते नमः । पयस्विनीस्वामिने ते तेजस्विनीभृते नमः ॥ २४६॥ नमः पुरीतत्पतये गान्धारीपतये नमः । अरजास्वामिने चित्राङ्गदानाथाय ते नमः ॥ २४७॥ दैत्यनारीप्रणाथाय श्वेतानाथाय ते नमः । रक्तानाथाय च पीतानाथाय ते नमो नमः ॥ २४८॥ नीलानाथाय च नमो जयश्रीपतये नमः । सेवादेवीश्वरायोर्ध्वरेतसीपतये नमः ॥ २४९॥ आरवीस्वामिनेऽनाथास्वामिने ते नमो नमः । गोपदेवीस्वामिने ते मेरुकोटीश्वराय च ॥ २५०॥ कल्पपावटिकेशाय कुलपूज्याभृते नमः । नमः किशोरीस्वामिने सुकृतिस्वामिने नमः ॥ २५१॥ राथीतरीस्वामिने च धामकन्याभृते नमः । ऋषिपत्नीस्वामिने ते त्यागिनीस्वामिने नमः ॥ २५२॥ मनुकन्याधिपतये भक्तकन्याभृते नमः । सुराणीपतये ते चाऽसुराणीपतये नमः ॥ २५३॥ धनालसाधिपतये त्र्यष्टकार्वीभृते नमः । द्युमतीपतये ते च साङ्ख्यसतीश ते नमः ॥ २५४॥ शीलवतीस्वामिने ते भीमाश्रीपतये नमः । कृष्णानाथाय च तुङ्गभद्रानाथाय ते नमः ॥ २५५॥ ऐलविलाधिनाथाय सह्यद्विजीभृते नमः । दुग्धानाथाय जीवन्तीस्वामिने ते नमो नमः ॥ २५६॥ महामारीस्वामिने ह्रस्वबद्रीश ते नमः । ब्रह्मयोषित्पतये ते धीनाथाय ते नमः ॥ २५७॥ सुनन्दापतये नमो लविङ्गास्वामिने नमः । चक्रवाकीस्वामिने ते मार्जारीशाय ते नमः ॥ २५८॥ जानकीपतये काञ्चनीगङ्गापतये नमः । चन्द्रावतीस्वामिने चेरावतीस्वामिने नमः ॥ २५९॥ शालावतीस्वामिने ते हराङ्गिकाभृते नमः । मीनकङ्ग्वधिनाथाय ब्रह्मपुत्रीभृते नमः ॥ २६०॥ शिक्षाङ्गापतये नमो मौक्तिकापतये नमः । पन्नामीपतये मणिवर्णानाथाय ते नमः ॥ २६१॥ नारायणीस्वामिने ते मेनकाङ्गाभृते नमः । अङ्गशिवाङ्गिकाभृते लवहिताभृते नमः ॥ २६२॥ लाटिशापतये नमः कानिशापतये नमः । मापीङ्गापतये नमः सीक्याङ्गापतये नमः ॥ २६३॥ अङ्गस्वाङ्गाधिनाथाय तारिमापतये नमः । अङ्गहास्वामिने पर्णवर्णानाथाय ते नमः ॥ २६४॥ मन्नाम्निस्वामिने देववर्णानाथाय ते नमः । रङ्गवर्णास्वामिने ते शरभीपतये नमः ॥ २६५॥ तरलिकाधिनाथाय कुमुदास्वामिने नमः । देववरूथिनीशाय शूरदेवीश्वराय च ॥ २६६॥ पिशाचीशतनाथाय दीक्षितास्वामिने नमः । त्रिनेत्रिकाधिकान्ताय चोरुलास्वामिने नमः ॥ २६७॥ जगतीस्वामिने पाटलिकानाथाय ते नमः । ध्वजानाथाय च योनिभूते तुभ्यं नमो नमः ॥ २६८॥ शिलानाथाय च यशोवत्यादिस्वामिने नमः । मेखलास्वामिने चाधिदेवतास्वामिने नमः ॥ २६९॥ प्रोक्षणीस्वामिने तुरीदेवीनाथाय ते नमः । भुवनेशीस्वामिने ते गङ्गापुत्रीश ते नमः ॥ २७०॥ वल्गुप्रभृतिनाथाय चेन्दिरास्वामिने नमः । आम्रजान्यादिनाथाय वामदेवीसुताभृते ॥ २७१॥ अमरीस्वामिने मास्वामिने तुभ्यं नमो नमः । निर्गुणापतये सर्वापतये ते नमो नमः ॥ २७२॥ काश्यपीपतये कुण्डलिनीनाथाय ते नमः । आपस्तम्बादिपतये निजाकान्ताय ते नमः ॥ २७३॥ मत्कुञ्जेशाय च आमजनायाः पतये नमः । अकान्तकान्ताकान्ताय मम कान्ताय ते नमः ॥ २७४॥ श्रीरङ्गायाऽशोकसुन्दरीश्रीकान्ताय ते नमः । द्वादशोत्तरसाहस्रयुगलात्माभिधाय ते ॥ २७५॥ विशिष्टस्वामिने स्वीयास्वामिने ते नमो नमः । शिवराज्ञीलक्ष्मीशाय नारायणीशाय नमः ॥ २७६॥ दयाजयारमाहैमीमनूर्जालाडकीभृते । मालतीसुगुणाहंसीकस्तूरीपतये नमः ॥ २७७॥ मुक्ताभुक्ताधिनाथाय रक्तारिक्ताभृते नमः । स्मृत्वा सर्वाणि रूपाणि मद्युक्तानि प्रभोस्तव । भवाम्यतीव मुदिता युगलानि सुखानि च ॥ २७८॥ अन्यान्यपि त्वसङ्ख्यानि स्मर्यन्ते कृपया तव । अन्यानन्दं समाप्तास्मि भूयः कान्ताय ते नमः ॥ २७९॥ अथाऽन्यानि चरित्राणि भक्तानां त्वद्गतात्मनाम् । मोक्षार्थानि वृषार्थानि श्रोतुमिच्छामि तद्रसा ॥ २८०॥ एतद् युगलश्रीकान्तस्तोत्रं नामसहस्रकम् । द्वादशोत्तरनामाढ्यं चतुःपुमर्थदं परम् ॥ २८१॥ सौभाग्यदं वंशदं च लक्ष्मीदं सम्पदां प्रदम् । राज्यदं स्वर्गदं सर्वभोग्यदं स्वेष्टदं परम् ॥ २८२॥ सिद्धिदं पुण्यदं मूर्तौ समाधिदं च पावनम् । पापहं मृत्युहं विघ्ननाशकं दुःखनाशकम् ॥ २८३॥ दिव्यभावप्रदं परामुक्तिभूप्रापकं शुभम् । अलभ्यदं तथाऽऽरोग्यप्रदं स्मृद्धिप्रदं सदा ॥ २८४॥ पठतां श‍ृण्वतां सर्वनामार्थस्मरतां तथा । नरनारीसमस्तानां सर्ववाञ्च्छाप्रपूरकम् ॥ २८५॥ साक्षान्मन्मुखतो जातं लक्ष्मीजं श्रीप्रदं हरे । लक्ष्मीरहं स्तवरूपा स्तवपात्रं भवान् पतिः ॥ २८६॥ आवयोः स्तावकानां चावयोस्तुल्यत्वमस्त्विति । अनादिश्रीकृष्णनारायण नमोऽन्तरात्मने ॥ २८७॥ सर्वाभ्यस्तव योषाभ्यो नमो भूयो नमो नमः । वद मेऽन्यचरित्राणि त्वयि स्नेहकराणि वै ॥ २८८॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे ३८-अध्यायान्तर्गतं शिवराज्ञीश्रीकृतं द्वादशाधिक पुरुषोत्तमसहस्रनामस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ३८/२४-२८८॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 38/24-288.. Proofread by PSA Easwaran
% Text title            : Shivarajnishrikritam Purushottamasahasranama Stotram
% File name             : shivarAjnIshrIkRRitaMpuruShottamasahasranAmastotram.itx
% itxtitle              : puruShottamasahasranAmastotram (shivarAjnIshrIkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : shivarAjnIshrIkRRitaM puruShottamasahasranAmastotram
% Category              : vishhnu, vishnu, lakShmInArAyaNIyasaMhitA, sahasranAma, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 38/24-288||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org