श्रीकृष्णाष्टाक्षरमन्त्रः

श्रीकृष्णाष्टाक्षरमन्त्रः

॥ विनियोगः ॥ अस्य श्रीकृष्णाष्टाक्षरमन्त्रस्य नारद ऋषिः । अनुष्टुप्छन्दः । श्रीकृष्णो देवता । श्रीं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ नारदऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीकृष्णदेवतायै नमः हृदि । श्रीं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः नाभौ । क्लीं कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गे ॥ ॥ करन्यासः ॥ ॐ क्लां अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः । ॐ क्लूं मध्यमाभ्यां नमः । ॐ क्लैं अनामिकाभ्यां नमः । ॐ क्लौं कनिष्ठिकाभ्यां नमः । ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥ ॥ षडङ्गन्यासः ॥ ॐ क्लां हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा । ॐ क्लूं शिखायै वषट् । ॐ क्लैं कवचाय हुं । ॐ क्लौं नेत्रत्रयाय वौषट् । ॐ क्लः अस्त्राय फट् ॥ ॥ ध्यानम् ॥ कलापकुसुमश्यामं वृन्दावनगतं हरिम् । गोपगोपीगवावीतं पीतवस्त्रयुगावृतम् ॥ नानालङ्कारसुभगं कौस्तुभोद्भासिवक्षसम् । सनकादिमुनिश्रेष्ठैः संस्तुतं परया मुदा ॥ शङ्खचक्रलसद्बाहुं वेणुहस्तद्वयेरितम् । मन्दस्मितमुखाम्भोजं नीलमेघनिभप्रभम् ॥ बर्हापीडकृतोत्तंसं वनमालाविराजितम् । श्रीवत्साङ्कितवक्षस्कं भक्तानुग्रहकारकम् ॥ राधालिङ्गितवामाङ्गं गोपीजनमनोहरम् । वृन्दावनविहारिणं वन्दे नन्दात्मजं हरिम् ॥ ॥ मन्त्रः ॥ श्रीं ह्रीं क्लीं कृष्णाय स्वाहा ॥ इति श्रीकृष्णाष्टाक्षरमन्त्रः मन्त्रः । The mantra given above may be chanted without initiation. Encoded and proofread by Durga Sharma
% Text title            : Shrikrishna AshtaksharamantraH
% File name             : shrIkRRiShNAShTAkSharamantraH.itx
% itxtitle              : shrIkRiShNAShTAkSharamantraH
% engtitle              : shrIkRRiShNAShTAkSharamantraH
% Category              : vishhnu, viShNu, krishna, mantra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Durga Sharma
% Proofread by          : Durga Sharma
% Latest update         : June 23, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org