श्रीकृष्णाष्टकम्
यद्ब्रह्मनिर्गुणमिति श्रुतयो वदन्ति
यद्दिव्यभक्तिवशगः स्थिरसौख्यमेति ।
यस्मिन् स्थिते तु भवमेति पुनर्न कश्चित्
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ १॥
यस्मिन्न जीवजगदादिकबन्धजालं
ब्रह्मैव यत्स्वमहसैव सदा चकास्ति ।
यस्मिन् परे सुखघने न विभिन्नमीषत्
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ २॥
कार्यं न कारणमपीति न यस्य किञिचत्
स्वानन्दमात्रमिह यत्परिपूर्णमेकम् ।
माया न तत्सकलकार्यमुदेति यस्मिन्
तत्कृष्णादिव्यपदपङ्कजमाश्रयेहम् ॥ ३॥
यन्नेति नेति वचनैर्निगमा अवोचुः
नश्येन्न यत्क्वचिदिहास्य विनाशकत्वात् ।
यच्छाश्वतं विततमद्वयचित्स्वरूपं
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ ४॥
यस्मिन्न किल्विषमिदं किल देहजातं
यस्मिंस्तथा न खलु भाति मनःकृतं यत् ।
यस्मिन्न जन्मगुणकर्मजपाशबन्धः
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ ५॥
ब्रह्माण्डमीदृगथवा न तथैव पिण्डं
पुंस्त्री तथा च पुरूषः प्रकृतिर्न यत्र ।
सर्वज्ञ ईश इति यत्र च नैव जीवः
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ ६॥
यन्मङ्गलं परमहोखिलमङ्गलानां
सत्यस्यसत्यमिति यत्प्रथितं च वेदैः ।
यत्सौख्यलेशत इमे त्रिदशाश्च धन्याः
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् ॥ ७॥
यत्सर्वचेतनमहोऽपि न यत्र सर्वं
स्वेनैव सर्वहृदयेहमिति स्फुटं यत् ।
ज्ञात्वा स्वसौख्यमिति यन्मुनयो विमुक्ताः
तत्कृष्णदिव्यपदपङ्कजमाश्रयेहम् । ८॥
त्रैलोक्यपावनी पुण्या मुक्तिदा कृष्णसंस्तुतिः ।
भद्रं तनोतु लोकेषु गङ्गेव किल सर्वदा ॥ ९॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान
श्रीधरस्वामीमहाराजविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ।
रचनाकाळः श्रीकृष्णजन्माष्टमी, संवत्सर- १९४३
रचनास्थळः काॅफी उद्यान, चिक्कमगळूरु