श्रीकृष्णदत्तवराष्टकम्

श्रीकृष्णदत्तवराष्टकम्

मुनीन्द्राणां चेतीविषयममलं कञ्जनयनं दयासिन्धुं शौरिं स्वमनसि निधायामरतरुम् । वदाम्यादौ बुद्धेरभिलषितमेनं मपुधुरी- निवासी कृष्णाख्या रुचिदमिह नामैकशरणः ॥ १॥ श्रीनन्दात्मज भक्तवत्सल हरे मे प्रार्थनां त्वं श‍ृणु ब्रह्माण्डानि मुखानि मे प्रतिदिनं यावन्ति लोमेषु ते । हे कृष्णेति वदन्तु ताः प्रतिमुखं तावन्ति जिह्वां मम स्युर्मे दानमिदं हि देहि स तदा कृष्णस्तथाऽस्तूक्तवान् ॥ २॥ अन्यां तां श‍ृणु कीर्तिवज्जनगते श्रुत्वा च पूर्णं कुरु भक्तानां त्वयि यावती तव विभो त्रैकालिकानां रुचिः । नाम्नो वै युवयोः सदा भवतु मे गाने रुचिस्तावती त्वत्तोऽन्यत्र मनः प्रयातु न तदा कृष्णस्तथाऽस्तूक्तवान् ॥ ३॥ नीरौघाः प्रलये यथा यदुपते वर्धन्ति कृष्णामिताः प्रीतिर्वर्ध्तु मे मुकुन्द भवतः श्रीशाभिधाने तथा । उत्साहो हृदि नामते यदि भवेद्गायं तु रोमाणि मे मार्गे चासनगो जपान्यहरहः कृष्णस्तथाऽस्तूक्तवान् ॥ ४॥ अन्याऽमेस्त्याभिशस्त्रिका च भगवन् प्राणे गते कायतः (अन्याऽमेस्त्याभिप्रार्थना) कृष्णेति ति प्रसभं त्वतीव जपतु प्राणैर्विहिनास्तनुः । भिन्ना लोमगणाः कदाचिदपि ते कायन्तु कृष्णं शवा (गायन्तु कृष्णं) ब्रह्माण्डेषु गताश्च येषु सह तैः कृष्णस्तथाऽस्तूक्तवान् ॥ ५॥ हे गोविन्द ममाभिलाषकमिमं देवप्रभो पूरय स्थास्नूनां भुवनेषु सन्ति विजने यावन्ति बीजानि च । अन्नादे प्रति ते जपानि कवलं तावन्ति नामान्यहं गच्छाम्यध्वनि यत्र साध्वगनृभिः कृष्णस्तथाऽस्तूक्तवान् ॥ ६॥ याञ्चा मेऽस्ति तथैव निर्जरपते दामोदराधोक्षज यत्राहं च यदा स्वपानि वरद त्वं तत्र मेऽर्थं जप । श्रीराधा त्वयि तज्जपेच्छ्रमयुते मातेव हृद्यङ्करी मेऽखण्डः सुजपो भवेदिति तदा कृष्णस्तथाऽस्तूक्तवान् ॥ ७॥ अन्यां कृष्ण श‍ृणुष्व दुर्घटकरीं मायापते मेऽर्थनाम् ते नामानि जपेयमेव भुवने यावन्ति भानि क्षणे । (भानि एवं नक्षत्राणि) ते नामस्मरणं कृतं सुमतिभिर्यावत्करिष्यन्ति ये प्रत्युच्छ्वासमथो स्मरानि तदहं कृष्णस्तथाऽस्तूक्तवान् ॥ ८॥ विष्वक्सेन विधो श‍ृणुष्व चरमं शौरे गुरो लालसं (विष्वक्सेन हरे) काङ्क्षेद्यस्तव नाम वारिधिझषस्त्रैलोक्यमोक्षं यदा । कार्यं नैव विलम्बनं च भवता तस्माद्बहूंस्तारय तस्यान्ते सह राधया निवसतात् कृष्णस्तथाऽस्तूक्तवान् ॥ ९॥ इति श्रीमदुदासीनपरमहंसज्ञानदासाख्येन विरचितं श्रीकृष्णदत्तवराष्टकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shrikrishna Dattavara Ashtakam
% File name             : shrIkRRiShNadattavarAShTakam.itx
% itxtitle              : shrIkRRiShNadattavarAShTakam
% engtitle              : shrIkRRiShNadattavarAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : vairAgyabhAskaraH shlokasangraha by gopAladAsa
% Indexextra            : (Scan)
% Latest update         : November 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org