श्रीकृष्णकर्णामृत नामावलिः
(अवलम्बः - लीलाशुककविना बिल्वमङ्गलस्वामिना विरचितं श्रीकृष्णकर्णामृतम्)
हरिः श्री गणपतये नमः अविघ्नमस्तु ।
नमः शिवायै च नमः शिवाय ।
ॐ नमो नारायणाय ।
ॐ सरस्वत्यै नमः ।
ॐ श्री गुरुभ्यो नमः ।
श्रिकृष्णाय परब्रह्मणे नमः ।
नमोऽस्तुते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वत् चरणाम्भोजे रतिस्यादनपायिनी ॥
क्रमसङ्ख्या नाम (श्लोकः)
प्रथमसर्गः
१. ॐ भगवते नमः । (१.१)
२. ॐ शिखिपिञ्छमौलिने भगवते नमः । (१.१)
३. ॐ शिक्षागुरवे नमः । (१.१)
४. ॐ यत्पादकल्पतरुपल्लवशेखरेषु जयश्रीः लीलास्वयंवररसं लभते तस्मै नमः । (१.१)
५. ॐ स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुताय नमः । (१.२)
६. ॐ वेणुनादलहरीनिर्वाणनिर्व्याकुलाय नमः । (१.२)
७. ॐ स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृताय नमः । (१.२)
८. ॐ हस्तन्यस्तनतापवर्गाय नमः । (१.२)
९. ॐ अखिलोदाराय किशोराकृतये नमः । (१.२)
१०. ॐ चातुर्यैकनिधानसीमचपलाङ्गच्छटामन्थराय नमः । (१.३)
११. ॐ लावण्यामृतवीचिलालितदृशे नमः । (१.३)
१२. ॐ लक्ष्मीकटाक्षामृताय नमः । (१.३)
१३. ॐ कालिन्दीपुलिनाङ्कणप्रणयिने नमः । (१.३)
१४. ॐ कामावताराङ्कुराय नमः । (१.३)
१५. ॐ मधुरिमस्वाराज्यदायकाय नमः । (१.३)
१६. ॐ नीलबालाय नमः । (१.३)
१७. ॐ चेतसि चकासते ज्योतिषे नमः । (१.४)
१८. ॐ बर्होत्तंसविलासिकुन्तलभराय नमः । (१.४)
१९. ॐ माधुर्यमग्नाननाय नमः । (१.४)
२०. ॐ प्रोन्मीलन्नवयौवनाय नमः । (१.४)
२१. ॐ प्रविलसद्वेणुप्रणादामृताय नमः । (१.४)
२२. ॐ आपीनस्तनकुड्मलाभिः गोपीभिः अभितः आराधिताय नमः । (१.४)
२३. ॐ जगतां एकाभिरामाद्भुत ज्योतिषे नमः । (१.४)
२४. ॐ मधुरस्मितामृतविमुग्द्धमुखाम्बुरुहाय नमः । (१.५)
२५. ॐ मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयाय नमः । (१.५)
२६. ॐ विपुलविलोचनाय नमः । (१.५)
२७. ॐ ``विषयविषामिषग्रसनगृध्नुनि चेतसि चिरं चकास्तु'' इति प्रार्थ्यमानाय नमः । (१.५)
२८. ॐ मुकुलायमाननयनाम्बुजाय नमः । (१.६)
२९. ॐ मुरलीनिनादमकरन्दनिर्भराय नमः । (१.६)
३०. ॐ मुकुरायमानमृदुगण्डमण्डलाय नमः । (१.६)
३१. ॐ ``विभो! मुखपङ्कजं मनसि विजृम्भतां'' इति प्रार्थ्यमानाय नमः । (१.६)
३२. ॐ कमनीयकिशोरमुग्द्धमूर्तये नमः । (१.७)
३३. ॐ कलवेणुक्वणितादृताननेन्दवे नमः । (१.७)
३४. ॐ मुरारये नमः । (१.७)
३५. ॐ ``मधुरिम्णः कापि कापि कणिकापि वाचि विजृम्भतां'' इति प्रार्थ्यमानाय नमः । (१.७)
३६. ॐ मदशिखण्डिशिखण्डविभूषणाय नमः । (१.८)
३७. ॐ मदनमन्थरमुग्द्धमुखाम्बुजाय नमः । (१.८)
३८. ॐ व्रजवधूनयनाञ्चलवञ्चिताय नमः । (१.८)
३९. ॐ ``वाङ्मयजीवितं विजयतां'' इति प्रार्थ्यमानाय नमः । (१.८)
४०. ॐ पल्लवारुणपाणिपङ्कजसङ्घिवेणुरवाकुलयुताय नमः । (१.९)
४१. ॐ फुल्लपाटलपाटलीपरिवादिपादसरोरुहाय नमः । (१.९)
४२. ॐ उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननाय नमः । (१.९)
४३. ॐ वल्लवीकुचकुम्भकुङ्कुमपङ्किलाय नमः । (१.९)
४४. ॐ आश्रितप्रभवे नमः । (१.९)
४५. ॐ अनङ्गलीलारसरञ्जिताभिः वल्लवसुन्दरीभिः अनुक्षणं अपाङ्गरेखाभिः अभ्यर्च्यमानाय नमः । (१.१०)
४६. ॐ आश्रितविभवे नमः । (१.१०)
४७. ॐ हृद्यविभ्रमाणां व्रजबालसुन्दरीणां हृदयाय नमः । (१.११)
४८. ॐ हर्षविशाललोलनेत्राय नमः । (१.११)
४९. ॐ हृदये सन्निधाय तरुणाय तरलं किञ्चन धाम्ने नमः । (१.११)
५०. ॐ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां पादाम्बुजाभ्यां नमः । (१.१२)
५१. ॐ कमलविपिनवीथीगर्वसर्वङ्कषाभ्यां पादाम्बुजाभ्यां नमः । (१.१२)
५२. ॐ प्रणमदभयदानप्रौढि गाढोद्धताभ्यां पादाम्बुजाभ्यां नमः । (१.१२)
५३. ॐ ``कृष्णपदाम्बुजाभ्यां चेतः किमपि वहतु'' इति प्रार्थ्यमानाय नमः । (१.१२)
५४. ॐ प्रणयपरिणताभ्यां लोचनाभ्यां नमः । (१.१३)
५५. ॐ प्राभवालम्बनाभ्यां लोचनाभ्यां नमः । (१.१३)
५६. ॐ प्रतिपदललिताभ्यां लोचनाभ्यां नमः । (१.१३)
५७. ॐ प्रत्यहं नूतनाभ्यां लोचनाभ्यां नमः । (१.१३)
५८. ॐ प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां नमः । (१.१३)
५९. ॐ ``प्राणनाथः किशोरः हृदये प्रभवतु'' इति प्रार्थ्यमानाय नमः । (१.१३)
६०. ॐ माधुर्यवारिधिमदान्धतरङ्गभङ्गीशृङ्गारसङ्कलितशीतकिशोरवेषाय नमः । (१.१४)
६१. ॐ आमन्दहासललिताननचन्द्रबिम्बाय नमः । (१.१४)
६२. ॐ ``आनन्दसम्प्लवमनु मनः प्लवतां'' इति प्रार्थ्यमानाय नमः । (१.१४)
६३. ॐ अव्याजमञ्जुलमुखाम्बुजमुग्द्धभावैः आस्वाद्यमाननिजवेणुविनोदनादाय नमः । (१.१५)
६४. ॐ भुवनार्द्राय ओजसे नमः । (१.१५)
६५. ॐ ``आर्द्रे हृदये आक्रीडमानाय अरुणपादसरोरुहाभ्यां नमः । (१.१५)
६६. ॐ व्रजवीथिषु यदीयानि ललितानि लक्ष्मानि भवन्ति तत् मणिनूपुरवाचालचरणाय नमः । (१.१६)
६७. ॐ चेतसि स्फुरन्तं कमलामनोहरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतं मणिनूपुरप्रणयि मञ्जुशिञ्जिताय नमः । (१.१७)
६८. ॐ वल्लवीविभवे नमः । (१.१७)
६९. ॐ तरुणारुणकरुणामयविपुलायतनयनाय नमः । (१.१८)
७०. ॐ कमलाकुचकलशीधरपुलकीकृतहृदयाय नमः । (१.१८)
७१. ॐ मुरलीरवतरलीकृतमुनिमानसनलिनाय नमः । (१.१८)
७२. ॐ मधुराधराय नमः । (१.१८)
७३. ॐ मदचेतसि खेलन्तं अमृताय नमः । (१.१८)
७४. ॐ अर्धनयनाम्बुजचुम्ब्यमानहर्षाकुलामुग्धव्रजवधूमधुराननेन्दवे नमः । (१.१९)
७५. ॐ आरब्दवेणुरवाय नमः । (१.१९)
७६. ॐ चेतसि आविर्भवन्तं आदिकिशोरमूर्तये नमः । (१.१९)
७७. ॐ कलक्वणितकङ्कणकरनिरुद्धपीताम्बराय नमः । (१.२०)
७८. ॐ क्रमप्रसृतकुन्तलाय नमः । (१.२०)
७९. ॐ गलितबर्हभूषाय नमः । (१.२०)
८०. ॐ पुनःप्रसृतचापलप्रणयिनीभुजायन्त्रिताय नमः । (१.२०)
८१. ॐ मानसे स्फुरन्तं मदनकेलीशय्योत्थिताय नमः । (१.२०)
८२. ॐ विभवे नमः । (१.२०)
८३. ॐ स्तोकस्तोकनिरुद्ध्यमानमृदुलप्रस्यन्दिमन्दस्मिताय नमः । (१.२१)
८४. ॐ प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमाय नमः । (१.२१)
८५. ॐ श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पिताय नमः । (१.२१)
८६. ॐ क्रीडानिमीलद्दृशाय मिथ्यास्वपते भगवते नमः । (१.२१)
८७. ॐ विचित्रपत्रावलिशालिबालास्तनान्तरे उपास्यमानाय नमः । (१.२२)
८८. ॐ मौनिमनोन्तरे उपास्यमानाय नमः । (१.२२)
८९. ॐ वृन्दावनपादपास्ये उपास्यमानाय नमः । (१.२३)
९०. ॐ अमृतायमानैः आध्मायमानैः समृद्धैः मुरलीनिनादैः मूर्धाभिषिक्ताय नमः । (१.२३)
९१. ॐ यं मधुराकृतिं बालं विलोकयितुमिच्छति तस्मै नमः । (१.२३)
९२. ॐ शिखिपिञ्छाभरणाय शिशवे नमः । (१.२४)
९३. ॐ विगलन्मधुद्रवस्मितमुद्रामृदुमुखेन्दवे नमः । (१.२४)
९४. ॐ दृशोः युगलं शिशिरीकुर्वाणाय नमः । (१.२४)
९५. ॐ कालिन्दीकुवलयदलश्यामलतराय करुणावीचिनिचिताय कटाक्षाय नमः । (१.२६)
९६. ॐ कन्दर्पप्रतिभटजटाचन्द्रशिशिराय मुरलीकेलिनिनदाय नमः । (१.२६)
९७. ॐ कमपि अन्तस्तोषदायकाय नमः । (१.२६)
९८. ॐ अधीरालोकिताय नमः । (१.२७)
९९. ॐ आर्द्रजल्पिताय नमः । (१.२७)
१००. ॐ गम्भीरविलासमन्थरगामिने नमः । (१.२७)
१०१. ॐ अमन्दमालिङ्गिताय नमः । (१.२७)
१०२. ॐ आकुलोन्मदस्मिताय नमः । (१.२७)
१०३. ॐ गोपिकानाथाय नमः । (१.२७)
१०४. ॐ अस्तोकस्मितभराय नमः । (१.२८)
१०५. ॐ आयतायताक्षाय नमः । (१.२८)
१०६. ॐ व्रजाङ्गनाभिः निश्शेषस्तनमृदितमहसे नमः । (१.२८)
१०७. ॐ निस्सीमस्तबकितनीलकान्तिधारायै नमः । (१.२८)
१०८. ॐ त्रिभुवनसुन्दराय नमः । (१.२८)
१०९. ॐ द्रष्टुं काङ्क्षिताय नमः । (१.२८)
११०. ॐ वांशीनिनादानुचरमधुरकटाक्षाय नमः । (१.२९)
१११. ॐ ``त्वयि प्रसन्ने इह अपरैः किं नः, त्वय्यप्रसन्ने इह अपरैः किं नः, इति तव प्रसादसिद्ध्यर्थं प्रार्थ्यमानाय भगवते नमः । (१.२९)
११२. ॐ ``भवत्कटाक्षदाक्षिण्यलेशेन सकृत् निषिञ्चः'' इति निबद्धमुग्द्धाञ्जलिना नीरन्ध्रदैन्योन्नतमुक्तकण्ठेन याच्यमानाय नमः । (१.३०)
११३. ॐ दयाम्बुधये नमः । (१.३०)
११४. ॐ पिञ्छावतंसरचनोचितकेशपाशाय नमः । (१.३१)
११५. ॐ पीनस्तनीनयनपङ्कजपूजनीयाय नमः । (१.३१)
११६. ॐ चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बाय नमः । (१.३१)
११७. ॐ यस्य शैशवे नो नयनं चापल्यं एति तस्मै नमः । (१.३१)
११८. ॐ त्रिभुवनाद्भुतशैशवाय नमः । (१.३२)
११९. ॐ यत्चापलं वाग्विभवैः अगम्यं तस्मै नमः । (१.३२)
१२०. ॐ विरणन्मुरलीविलासमुग्धमुखाम्बुजाय नमः । (१.३२)
१२१. ॐ ``ईक्षणाभ्यां उदीक्षितुं किं करोमि'' इति पृच्छ्यमानाय नमः । (१.३२)
१२२. ॐ पर्याचितामृतरसानि पदार्थभङ्गीवल्गूनि बाल्याधिकानि मदवल्लवभावितानि जल्पकारिणे नमः । (१.३३)
१२३. ॐ वल्गितविशालविलोचनाय नमः । (१.३३)
१२४. ॐ यस्य दर्शनजल्पनादि सुदृशां भावे लुठन्ति तस्मै नमः । (१.३३)
१२५. ॐ प्रसन्नमुखतेजसे नमः । (१.३४)
१२६. ॐ पुरः अवतीर्णाय कृपामहाम्बुधये नमः । (१.३४)
१२७. ॐ यस्य मुरलीरवामृतं एव समाधिविघ्नाय कदा नु भवेत् इति प्रार्थ्यमानाय नमः । (१.३४)
१२८. ॐ मुग्धचपलेन भावेन विलोकनेन मानसे किमपि चापलं उद्वहते नमः । (१.३५)
१२९. ॐ लोलेन ईक्षणेन उपगूहितुं काङ्क्ष्यमाणाय लोचनरसायनाय लीलाकिशोराय नमः । (१.३५)
१३०. ॐ यस्य अनेन केनापि मनोहरेण अधीरबिम्बाधरविभ्रमेण हर्षाद्रवेणुस्वरसम्पदा च मनः धुनोति तस्मै नमः । (१.३६)
१३१. ॐ ``यावत् भवोपतापः निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनं न उदेति तावत् तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता चित्तधारा भवतु'' इति प्रार्थ्यमानाय नमः । (१.३७)
१३२. ॐ यावत् दशमी नरदशा दृशः रन्ध्रात् अपि तिमिरीकृतसर्वभावाः उदेति तावत् लावण्यकेलीसदनं समुत्क्वणितवेणु भगवत्मुखेन्दुबिम्बं लक्ष्यं एतु इति प्रार्थ्यमानाय नमः । (१.३८)
१३३. ॐ यस्य आलोललोचनविलोकनकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः प्रतिनादपूरैः वेणुनिनदैः आर्द्राणि मणिनूपुरशिञ्जितानि आकर्णयति तस्मै नमः । (१.३९)
१३४. ॐ जगदेकबन्धवे नमः । (१.४०)
१३५. ॐ करुणैकसिन्धवे नमः । (१.४०)
१३६. ॐ रमणाय नयनाभिरामाय नमः । (१.४०)
१३७. ॐ ``कदा नु दृशोः पदं भवितासि ``इति विलप्यमानाय नमः । (१.४०)
१३८. ॐ अनाथबन्धवे नमः । (१.४१)
१३९. ॐ करुणैकसिन्धवे नमः । (१.४१)
१४०. ॐ हरये नमः । (१.४१)
१४१. ॐ ``त्वदालोकनं अन्तरेण अधन्यानि अमूनि दिनान्तराणि हा हन्त हा हन्त कथं नयाति'' इति विलप्यमानाय नमः । (१.४१)
१४२. ॐ मधुरमधुरस्मेराकाराय नमः । (१.४२)
१४३. ॐ मनोनयनोत्सवाय नमः । (१.४२)
१४४. ॐ ``इह किं शृणुमः, कस्य भ्रूमः, कथं भ्रूमः, आशया कृतं, अन्यां धन्यां कथां, अहो हृदयेशयः'' इति प्रलपन् यस्मिन् चिरं कृपणकृपण तृष्णा लम्बते तस्मै नमः । (१.४२)
१४५. ॐ अम्बुजदलललितलोचनाय नमः । (१.४३)
१४६. ॐ आभ्यां विलोचनाभ्यां द्वाभ्यामपि यं बालं परिरब्धुं दैवसामग्री दूरे तस्मै नमः । (१.४३)
१४७. ॐ अश्रान्तस्मितमरुणारुणाधरोष्ठाय नमः । (१.४४)
१४८. ॐ हर्षाद्रद्विगुणमनोज्ञवेणुगीतवादकाय नमः । (१.४४)
१४९. ॐ विभ्राम्यद्विपुलविलोचनार्धमुग्धवदनाम्बुजाय नमः । (१.४४)
१५०. ॐ ``तव वदनाम्बुजं कदा नु वीक्षिषिअति'' इति प्रार्थ्यमानाय नमः । (१.४४)
१५१. ॐ कारुणिकाय किशोराय नमः । (१.४५)
१५२. ॐ ``रसशीतलाभ्यां नीलारुणाभ्यां अद्भुतविभ्रमाभ्यां नयनाम्बुजाभ्यां कदा काले आलोकयेत्'' इति प्रार्थ्यमानाय नमः । (१.४५)
१५३. ॐ बहुलचिकुरभाराय नमः । (१.४६)
१५४. ॐ बद्धपिञ्छावतंसाय नमः । (१.४६)
१५५. ॐ चपलचपलनेत्राय नमः । (१.४६)
१५६. ॐ चारुबिम्बाधरोष्ठाय नमः । (१.४६)
१५७. ॐ मधुरमृदुलहासाय नमः । (१.४६)
१५८. ॐ मन्थरोदारलीलाय नमः । (१.४६)
१५९. ॐ नयनेन मृग्यमानाय मुग्धवेषधारिणे नमः । (१.४६)
१६०. ॐ बहुलजलदच्छायाचोराय नमः । (१.४७)
१६१. ॐ विलासभरालसाय नमः । (१.४७)
१६२. ॐ मदशिखिशिखालीलोत्तंसाय नमः । (१.४७)
१६३. ॐ मनोज्ञमुखाम्बुजाय नमः । (१.४७)
१६४. ॐ कमलापाङ्गोदग्राय नमः । (१.४७)
१६५. ॐ प्रपन्नजगज्जिताय नमः । (१.४७)
१६६. ॐ मृग्यमानाय कमपि मधुरिमपरीपाकोद्रेकाय नमः । (१.४७)
१६७. ॐ मुनीनां परिषदि दूरे परामृश्याय नमः । (१.४८)
१६८. ॐ व्रजवधूदृशां शश्वत् दृश्याय नमः । (१.४८)
१६९. ॐ त्रिभुवनमनोहारिवदनाय नमः । (१.४८)
१७०. ॐ अनिदमुदयानां वाचामपि अनामृश्याय नमः । (१.४८)
१७१. ॐ दरदलितनीलोत्पलनिभाय नमः । (१.४८)
१७२. ॐ ``कदा दरीदृश्यते'' इति प्रार्थ्यमानाय नमः । (१.४८)
१७३. ॐ लीलाम्बुजाननाय नमः । (१.४९)
१७४. ॐ अधीरमुदीक्षमाणाय नमः । (१.४९)
१७५. ॐ वेणुविवरेषु नर्माणि निवेशयते नमः । (१.४९)
१७६. ॐ दोलायमाननयनाय नमः । (१.४९)
१७७. ॐ नयनाभिरामाय नमः । (१.४९)
१७८. ॐ ``कदा नु व्यतिलोकयिष्यते'' इति प्रार्थ्यमानाय नमः । (१.४९)
१७९. ॐ लम्पटसम्प्रदायरेखावलेखनरसज्ञमनोज्ञवेषधराय नमः । (१.५०)
१८०. ॐ लज्जत् मृदुस्मितमधुस्नपिताधरांशवे नमः । (१.५०)
१८१. ॐ राकेन्दुलालितमुखेन्दवे नमः । (१.५०)
१८२. ॐ मनसि मुहुः लग्नमुकुन्दबाल्याय नमः । (१.५०)
१८३. ॐ अहिमकरकरनिकरमृदुमृदितलक्ष्मीसरसतरसरसिरुहसरसदृशे नमः । (१.५१)
१८४. ॐ व्रजयुवतिरतिकलहविजयनिजलीलामदमुदितवदनशशिमधुरिमणि यस्मिन् मनो लीयते तस्मै नमः । (१.५१)
१८५. ॐ करकमलदलदलितललिततरवंशीकलनिनदगलदमृतघनसरसि सहजरसभरभरितदरहसितवीचीसततवहदधरमणिमधुरिमणि यस्मिन् मनो लीयते तस्मै नमः । (१.५२)
१८६. ॐ कुसुमशरशरसमरकुपितमदगोपीकुचकलशघुसृणरसलसत् उरसे नमः । (१.५३)
१८७. ॐ मदलुलितमृदुहसितमुषितशशिशोभाधिकमुखकमलमधुरिमणि यस्मिन् मनो मुहुः लीयते तस्मै नमः । (१.५३)
१८८. ॐ असितभ्रुवोः आनम्रां, अक्षीणपक्ष्माङ्कुरेषु उपचितां, अनुरागिणोः नयनयोः आलोलां, मुदौ जल्पिते आर्द्रां, अमृताधरे आताम्रां, अम्लानवंशीरवेषु मदकलां, जगन्मोहिनिं व्रजशिशोः मूर्तिं यद्दर्शनार्थं लोचनं आशास्ते तस्मै नमः । (१.५४)
१८९. ॐ तत् कैशोरं, तत् वक्त्रारविन्दं, तत् कारुण्यं, ते लीलाकटाक्षाः, तत् सौन्दर्यं, सा मन्दस्मितश्री च यत् दैवतेषु दुर्लभं तस्मै नमः । (१.५५)
१९०. ॐ विश्वासस्तबकितचेतसां जनानां विश्वोपप्लवशमनैकबद्धदीक्षाय नमः । (१.५६)
१९१. ॐ प्रतिनवकान्तिकन्दलार्द्राय नमः । (१.५६)
१९२. ॐ पथि पथि पश्यते मुरारेः शैशवाय नमः । (१.५६)
१९३. ॐ चन्द्रकभूषणमौलये नमः । (१.५७)
१९४. ॐ मरतकस्तम्भाभिरामवपुषे नमः । (१.५७)
१९५. ॐ चित्रविमुग्धहासमधुरवक्त्राय नमः । (१.५७)
१९६. ॐ विलोलबालदृशे नमः । (१.५७)
१९७. ॐ शैशवशीतलवाचे नमः । (१.५७)
१९८. ॐ मदगजश्लाघ्यविलासस्थितये नमः । (१.५७)
१९९. ॐ मन्दं मन्दं मथुरावीथीं गाहमानाय नमः । (१.५७)
२००. ॐ पादविनिर्जिताम्बुजवनाभ्यां पद्मालयालङ्कृताभ्यां पादाभ्यां नमः । (१.५८)
२०१. ॐ वेणुविनोदनप्रणयिनाभ्यां पर्याप्तशिल्पश्रियाभ्यां पाणिभ्यां नमः । (१.५८)
२०२. ॐ मृगदृशां दोहदभाजनाभ्यां बाहुभ्यां नमः । (१.५८)
२०३. ॐ माधुर्यधाराभ्यो गीर्भ्यो नमः । (१.५८)
२०४. ॐ वाग्विभवातिलङ्घितवक्त्राय नमः । (१.५८)
२०५. ॐ बर्हं नाम विभूषणाय, वेषाय बहुमताय, शेषैरलं वक्त्राय नमः । (१.५९)
२०६. ॐ चित्रविशेषकान्तिलहरीविन्यासधन्याधराय नमः । (१.५९)
२०७. ॐ अल्पधियां अगम्यविभवैः शिल्पैः शृङ्गारभङ्गीमयाय नमः । (१.५९)
२०८. ॐ विचित्रचित्रमहसे नमः । (१.५९)
२०९. ॐ अग्रे कामपि केलिलक्ष्मीं समग्रयति, अन्यासु दिक्ष्वपि विलोचनं एव साक्षी, जगत्त्रयं यस्य किशोरमयं तस्मै नमः । (१.६०)
२१०. ॐ विरलभ्रमरबहुलचिकुराय नमः । (१.६१)
२११. ॐ मृदुलवचनाय नमः । (१.६१)
२१२. ॐ विपुलनयनाय नमः । (१.६१)
२१३. ॐ मधुराधराय नमः । (१.६१)
२१४. ॐ ललितवदनाय नमः । (१.६१)
२१५. ॐ चपलचरिताय नमः । (१.६१)
२१६. ॐ ``कदा नु भवे'' इति प्रार्थ्यमानाय नमः । (१.६१)
२१७. ॐ कृपालयाय नमः । (१.६२)
२१८. ॐ आत्मबान्धवाय नमः । (१.६२)
२१९. ॐ ``परिपालय नः'' इत्यसकृत् जल्पितं मुरलीमृदुस्वनान्तरे कदा नु विभुं आकर्णयिताः'' इति प्रार्थ्यमानाय नमः । (१.६२)
२२०. ॐ कैशोरगन्धये करुणानिधये नमः । (१.६३)
२२१. ॐ ``कस्यां विपद्दशायां विपुलायताभ्यां विलोचनाभ्यां नः विलोकयिष्यन् विषयीकरोति'' इति प्रार्थ्यमानाय नमः । (१.६३)
२२२. ॐ मधुराधरबिम्बाय नमः । (१.६४)
२२३. ॐ मञ्जुलमन्दहासाय नमः । (१.६४)
२२४. ॐ शिशिरामृतवाक्याय नमः । (१.६४)
२२५. ॐ शीतलदृष्टिपाताय नमः । (१.६४)
२२६. ॐ विपुलारुणनेत्राय नमः । (१.६४)
२२७. ॐ विश्रुतवेणुनादाय नमः । (१.६४)
२२८. ॐ मरतकमणिनीलबालाय नमः । (१.६४)
२२९. ॐ माधुर्यात् अपि मधुराय नमः । (१.६५)
२३०. ॐ चापल्यात् अपि चपलाय नमः । (१.६५)
२३१. ॐ मन्मथताताय नमः । (१.६५)
२३२. ॐ चेतो हरते किमपि कैशोराय नमः । (१.६५)
२३३. ॐ विपुलवक्षस्थलाय नमः । (१.६६)
२३४. ॐ विपुलनयनोत्पलाय नमः । (१.६६)
२३५. ॐ मृदुलमन्दस्मिताय नमः । (१.६६)
२३६. ॐ मृदुलमदजल्पिताय नमः । (१.६६)
२३७. ॐ मृदुलबिम्बाधराय नमः । (१.६६)
२३८. ॐ मधुरविलासनिधये नमः । (१.६६)
२३९. ॐ आर्द्रावलोकितदयापरिणद्धनेत्राय नमः । (१.६७)
२४०. ॐ आविष्कृतस्मितसुधामधुराधरोष्ठाय नमः । (१.६७)
२४१. ॐ आद्याय पुंसे नमः । (१.६७)
२४२. ॐ कृतपुण्यपुञ्जाः कृतिनः आलोक्यमानाय नमः । (१.६७)
२४३. ॐ ``मारः स्वयं नु'' इति शङ्क्यमानाय नमः । (१.६८)
२४४. ॐ मधुरद्युतिमण्डलाय नमः । (१.६८)
२४५. ॐ ``माधुर्यं एव नु'' इति शङ्क्यमानाय नमः । (१.६८)
२४६. ॐ मनोनयनामृताय नमः । (१.६८)
२४७. ॐ ``वाणीमृजा नु'' इति शङ्क्यमानाय नमः । (१.६८)
२४८. ॐ जीवितवल्लभाय नमः । (१.६८)
२४९. ॐ लोचनाय अभ्युदयमानाय नमः । (१.६८)
२५०. ॐ आलोलविलोचनाय नमः । (१.६९)
२५१. ॐ चित्रीकृतदिङ्मुखाय नमः । (१.६९)
२५२. ॐ वक्त्रेण घोषोचितभूषणेन मुग्धेन वेषेण च नयनोत्सवाय नमः । (१.६९)
२५३. ॐ आन्दोलिताग्रभुजाय नमः । (१.७०)
२५४. ॐ आकुलनेत्रलीलाय नमः । (१.७०)
२५५. ॐ आर्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बाय नमः । (१.७०)
२५६. ॐ शिञ्जानभूषणशताय नमः । (१.७०)
२५७. ॐ शिखिपिञ्छमौलिने नमः । (१.७०)
२५८. ॐ शीताय विलोचनरसायनाय नमः । (१.७०)
२५९. ॐ पशुपालबालपरिषद्विभूषणाय नमः । (१.७१)
२६०. ॐ शीतलविलोललोचनाय नमः । (१.७१)
२६१. ॐ मृदुलस्मितार्द्रवदनेन्दु सम्पदा हृदयं मदयन् विगाहमानाय नमः । (१.७१)
२६२. ॐ तमालनीलाय नमः । (१.७२)
२६३. ॐ तरलविलोचनतारकाभिरामाय नमः । (१.७२)
२६४. ॐ मुदितमुदितवक्त्रचन्द्रबिम्बाय नमः । (१.७२)
२६५. ॐ मुखरितवेणवे नमः । (१.७२)
२६६. ॐ चापल्यसीमायै नमः । (१.७३)
२६७. ॐ चपलानुभवैकसीमायै नमः । (१.७३)
२६८. ॐ चातुर्यसीमायै नमः । (१.७३)
२६९. ॐ चतुराननशिल्पसीमायै नमः । (१.७३)
२७०. ॐ सौरभ्यसीमायै नमः । (१.७३)
२७१. ॐ सकलाद्भुतकेलिसीमायै नमः । (१.७३)
२७२. ॐ सौभाग्यसीमायै नमः । (१.७३)
२७३. ॐ व्रजभाग्यसीमायै नमः । (१.७३)
२७४. ॐ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहते नमः । (१.७४)
२७५. ॐ वंशीवीथिविगलदमृतस्रोतसा सेचयते नमः । (१.७४)
२७६. ॐ वाणीनां विहरणपदाय नमः । (१.७४)
२७७. ॐ पुण्यानां परिणतये नमः । (१.७४)
२७८. ॐ नेत्रयोः सन्निदधाते नमः । (१.७४)
२७९. ॐ धेनुपालिने नमः । (१.७५)
२८०. ॐ लोकपालिने नमः । (१.७५)
२८१. ॐ राधापयोधरोत्सङ्गशायिने नमः । (१.७५)
२८२. ॐ शेषशायिने नमः । (१.७५)
२८३. ॐ तेजसे नमः । (१.७५)
२८४. ॐ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये नमः । (१.७६)
२८५. ॐ वेणुगीतगतिमूलवेधसे नमः । (१.७६)
२८६. ॐ तत् इदं ॐ नमः । (१.७६)
२८७. ॐ मृदुक्वणन् नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन आत्तकेलि अनुस्वनन्मञ्जुलवेणुगीताय नमः । (१.७७)
२८८. ॐ उदञ्चितं कर्णयुग्मं विलासमुरलीनिनदामृतेन सिञ्चन् आयते नमः । (१.७८)
२८९. ॐ अनन्यबन्धवे नमः । (१.७८)
२९०. ॐ नयनबन्धवे नमः । (१.७८)
२९१. ॐ आनन्दकन्दलितकेलिकटाक्षलक्ष्याय नमः । (१.७८)
२९२. ॐ वारणखेलगामिने नमः । (१.७९)
२९३. ॐ धाराकटाक्षभरितविलोचनाय नमः । (१.७९)
२९४. ॐ हृदयङ्गमवेणुनादवेणीदुघ्दशनावरणाय नमः । (१.७९)
२९५. ॐ त्रिभुवनसरसाभ्यां पदाभ्यां नमः । (१.८०)
२९६. ॐ दीप्तभूषापदाभ्यां नमः । (१.८०)
२९७. ॐ दृशि दृशि शिशिराभ्यां पदाभ्यां नमः । (१.८०)
२९८. ॐ दिव्यलीलाकलाभ्यां पदाभ्यां नमः । (१.८०)
२९९. ॐ अशरणशरणाभ्यां पदाभ्यां नमः । (१.८०)
३००. ॐ अनुकूजद्वेणु आयाते अद्भुताभ्यां देवपादाभ्यां नमः । (१.८०)
३०१. ॐ मुनीन्द्रजनमानसतापहारिणे नमः । (१.८१)
३०२. ॐ मदव्रजवधूवसनापहारिणे नमः । (१.८१)
३०३. ॐ तृतीयभुवनेश्वरदर्पहारिणे नमः । (१.८१)
३०४. ॐ हृदयाम्बुरुहापहारिणे नमः । (१.८१)
३०५. ॐ सर्वज्ञत्वे मौग्ध्ये च सार्वभौमाय नमः । (१.८२)
३०६. ॐ यस्य तेजो निर्विशन् नयनं निर्वाणपदं अश्नुते तस्मै नमः । (१.८२)
३०७. ॐ उष्णेतरांशोः मुखेन्दोः उदयं पुनरुक्तशोभं पुष्णानाय नमः । (१.८३)
३०८. ॐ किञ्चन कृष्णाह्वयाय नमः । (१.८३)
३०९. ॐ तृष्णाम्बुराशिं द्विगुणीकुरुते कृष्णाह्वयाय नमः । (१.८३)
३१०. ॐ आताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गमधुराधरोष्ठाय नमः । (१.८४)
३११. ॐ मानसं चुम्बयते मुरारेः वदनाम्बुजाय नमः । (१.८४)
३१२. ॐ शरदुदञ्चिताम्बुजविलासशिक्षागुरुकराभ्यां नमः । (१.८५)
३१३. ॐ विबुधपादपप्रथमपल्लवोल्लङ्घिपदाभ्यां नमः । (१.८५)
३१४. ॐ दलितदुर्मदत्रिभुवनोपमानश्रीदृशाभ्यां नमः । (१.८५)
३१५. ॐ विलोचनामृतमहत्शैशवाय नमः । (१.८५)
३१६. ॐ अहन्यहन्यहनि साकारान् विहारक्रमान् आचिन्वानाय नमः । (१.८६)
३१७. ॐ आर्द्रस्मितास्यश्रिया अरुन्धतीहृदयमपि आरुन्धानाय नमः । (१.८६)
३१८. ॐ अनन्यजन्मनयनश्लाघ्यां अनर्घ्यां दशां आतन्वानाय नमः । (१.८६)
३१९. ॐ व्रजसुन्दरीस्तनतटीसाम्राज्याय नमः । (१.८६)
३२०. ॐ आमन्दं उज्जृम्भमानाय नमः । (१.८६)
३२१. ॐ तरलशैशवालङ्कृताय नमः । (१.८७)
३२२. ॐ समुच्छ्वसितयौवनाय नमः । (१.८७)
३२३. ॐ मदच्छुरितलोचनाय नमः । (१.८७)
३२४. ॐ मदनमुग्धहासामृताय नमः । (१.८७)
३२५. ॐ प्रतिक्षणविलोभनाय नमः । (१.८७)
३२६. ॐ प्रणयपीतवंशीमुखाय नमः । (१.८७)
३२७. ॐ जगत्त्रयविमोहनाय नमः । (१.८७)
३२८. ॐ यस्य चरणारविन्दं चित्रं तस्मै नमः । (१.८८)
३२९. ॐ यस्य नयनारविन्दं चित्रं तस्मै नमः । (१.८८)
३३०. ॐ यस्य वदनारविन्दं चित्रं तस्मै नमः । (१.८८)
३३१. ॐ यस्य तत् एतत् चित्रं तस्मै नमः । (१.८८)
३३२. ॐ अखिलभुवनैकभूषणाय नमः । (१.८९)
३३३. ॐ जलधिदुहितृकुचकुम्भाधिभूषणाय नमः । (१.८९)
३३४. ॐ व्रजयुवतिहारवल्लीमरतकनायकमहामणये नमः । (१.८९)
३३५. ॐ कान्ताकचग्रहणविग्रहलब्धलक्ष्मी खण्डाङ्गरागलवलवरञ्जितमञ्जुलश्री गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं खेलते किमपि कृष्णतेजसे नमः । (१.९०)
३३६. ॐ कृष्णतेजसे नमः । (१.९०)
३३७. ॐ मधुरमधुरवपुषे नमः । (१.९१)
३३८. ॐ मधुरमधुरवदनाय नमः । (१.९१)
३३९. ॐ मधुगन्धिमृदुस्मिताय नमः । (१.९१)
३४०. ॐ मधुरमधुरमधुरविभवे नमः । (१.९१)
३४१. ॐ शृङ्गाररससर्वस्वाय नमः । (१.९२)
३४२. ॐ शिखिपिञ्छविभूषणाय नमः । (१.९२)
३४३. ॐ अङ्गीकृतनराकाराय नमः । (१.९२)
३४४. ॐ भुवनाश्रयाय नमः । (१.९२)
३४५. ॐ यं सुदृशां सहस्रं कदाचन दर्शनेन, चित्तेन, उपनिषदा च अद्यापि न पश्यति तस्मै नमः । (१.९३)
३४६. ॐ स्वामिने नमः । (१.९३)
३४७. ॐ केशवाय नमः । (१.९४)
३४८. ॐ ``मुखेन्दोः इयं कान्ति का'' इति स्तुताय नमः । (१.९४)
३४९. ॐ वाचां अभूमये नमः । (१.९४)
३५०. ॐ ``अयं कोऽपि वेषः का'', इया स्वादुता का, इया मञ्जुलश्री का'' इत्येवं वदन् भूयः भूयः, भूयशः नमस्कृताय नमः । (१.९४)
३५१. ॐ शशिनं विनिर्जितवदनेन्दवे नमः । (१.९५)
३५२. ॐ यस्य पदं दशधा प्राप्य शशी अधिकं श्रियं अश्नुतेतरां तस्मै नमः । (१.९५)
३५३. ॐ ``तव कारुण्यविजृम्भितं कियत्'' इति वर्णिताय नमः । (१.९५)
३५४. ॐ ``वाङ्माधुरीबहुलपर्वकलासमृद्धं मुखं कथं अब्जसमानकक्ष्यं'' इति वर्णिताय नमः । (१.९६)
३५५. ॐ ``भुवनैककान्तं अपरं किं, सदा त्वदाननसमा सुषमा कस्य स्यात्'' इत्यपि वर्णिताय नमः । (१.९६)
३५६. ॐ शशिप्रदीपः यस्य आननेन्दोः चिराय नीराजनक्रमधुरां निर्व्याजं वहति तस्मै नमः । (१.९७)
३५७. ॐ अखण्डनिर्वाणरसप्रवाहैः विखण्डिताशेषरसान्तराणि नियन्त्रितोद्वान्तसुधार्णवानि शीतानि स्मितानि युक्ताय नमः । (१.९८)
३५८. ॐ यस्मिन् एव रमणीयतापरिणति पारं गता तस्मै नमः । (१.९९)
३५९. ॐ मन्दारमूले मदनाभिरामाय बिम्बाधरापुरितवेणुनादाय गोगोपगोपीजनमध्यसंस्थाय गोकुलपूर्णचन्द्राय गोपाय नमः । (१.१००)
३६०. ॐ यस्मिन् स्थाने जाते लोला गोपवनिताः गलद्व्रीलाः मदनवनिताः, तथा स्फीतं गितं मधु च (अभवत्)तस्मै नमः । (१.१०१)
३६१. ॐ चापलधुरया किमपि मधुरया मधुरिमगिरा समुज्जृम्भमाणया गुम्भेन चपलं जन्म सफलं दधानाय नमः । (१.१०१)
३६२. ॐ यस्य भवनं भुवनं, विलासिनी श्री, तनयौ तामरसासनः स्मरश्च, परिचारपरम्पराः सुरेन्द्राः, चरितं विचित्रं तस्मै नमः । (१.१०२)
३६३. ॐ त्रिलोकीसौभाग्यकस्तूरीतिलकाङ्कुराय नमः । (१.१०३)
३६४. ॐ व्रजङ्गनानङ्गकेलीललितविभ्रमाय नमः । (१.१०३)
३६५. ॐ प्रेमदाय कामदाय वेदनाय वैभवाय जीवनाय जीविताय दैवताय नमः । (१.१०४)
३६६. ॐ वाचः यस्य वैभवैः माधुर्येण विजृम्भन्ते चिन्ताः यस्य शैशवे चापल्येन विवर्धन्ते तस्मै नमः । (१.१०५)
३६७. ॐ ``धन्यात्मनां रसनालेह्यानि यानि चरितामृतानि, राधापरधोन्मुखाः ये वा शैशवचापलव्यतिकराः। मुखाम्भोरुहे भावितवेणुगीतिगतयः याः वा लीलाः, तानि एव हृदये धारावाहिकया वहन्तु'' इति प्रार्थ्यमानाय नमः । (१.१०६)
३६८. ॐ यस्मिन् कलितदिव्यकिशोरवेषे दैवेन स्थिरतराः भक्तिः यदि स्यात् मुक्तिः स्वयं मुकुलिताञ्जलि अस्मान् सेवते, धर्मार्थकामगतयः समयप्रतीक्षाः च तस्मै भगवते नमः । (१.१०७)
३६९. ॐ देवदेवदेवाय नमः । (१.१०८)
३७०. ॐ त्रिभुवनमङ्गलदिव्यनामधेयाय नमः । (१.१०८)
३७१. ॐ श्रवणमनोनयनामृतावताराय नमः । (१.१०८)
३७२. ॐ बालकृष्णदेवाय नमः । (१.१०८)
३७३. ॐ निर्भरहर्षवर्षविवशावेशस्फुटाविर्भवच्चापल्येन विभूषितेषु सुकृतां भावेषु निर्भासमानाय नमः । (१.१०९)
३७४. ॐ श्रीमद्गोकुलमण्डनाय नमः । (१.१०९)
३७५. ॐ वाचां विदूरस्फुरन्माधुर्यैकरसार्णवाय नमः । (१.१०९)
३७६. ॐ महते महसे नमः । (१.१०९)
३७७. ॐ ईशानदेवचरणाभरणेन नीलीदामोदरस्थिरयशस्तबकोद्गमेन लीलाशुकेनरचितेन श्रीकृष्णकर्णामृतस्तवेन स्तुताय नमः । (१.११०)
३७८. ॐ कृष्णाय नमः । (१.११०)
द्वितीयसर्गः
३७९. ॐ अभिनवनवनीतस्निग्धाय नमः । (२.१)
३८०. ॐ मुग्धाङ्गाय नमः । (२.१)
३८१. ॐ आपीतदुग्धाय नमः । (२.१)
३८२. ॐ दधिकणपरिदिग्धाय नमः । (२.१)
३८३. ॐ तापिञ्छगुच्छच्छवये नमः । (२.१)
३८४. ॐ नवशिखिपिञ्छालाञ्छिताय नमः । (२.१)
३८५. ॐ भुवनकृच्छ्रछेदिने नमः । (२.१)
३८६. ॐ वाञ्छितदायकाय नमः । (२.१)
३८७. ॐ अनिशं यमुनां पिपासुः गवां व्यूहः यं दृष्ट्वा गाहते तस्मै नमः । (२.२)
३८८. ॐ पावनीकान्तिवपुषे नमः । (२.२)
३८९. ॐ नीलकण्ठनिवहः विद्युत्वान् इति यां द्रष्टुं उलकण्ठते तस्मै नमः । (२.२)
३९०. ॐ उत्तंसाय गोपिकाः तमालपल्लवं इति यां छिन्दन्ति तस्मै नमः । (२.२)
३९१. ॐ पावनकान्तये नमः । (२.२)
३९२. ॐ कालियशासनाय नमः । (२.२)
३९३. ॐ विमले यामुने पयसि मज्जतीनां गोपस्त्रीणां (वसनचोर)वञ्चकाय नमः । (२.३)
३९४. ॐ अंशुकानि अनुनयपदैः याचन्तीनां गोपस्त्रीणां लज्जालोलैः अलसविलासैः उन्मिषद्पञ्चबाणैः नयनकुसुमैः अर्चिताय नमः । (२.३)
३९५. ॐ जठरपिठरीपूर्तये खलानां पुरस्तात् नर्तितानुचिताक्षन्तव्यापराधक्षमापणार्थं यस्य गोपवेषस्य गुणगणना प्रायश्चित्तं भवति तस्मै नमः । (२.४)
३९६. ॐ विष्णवे नमः । (२.४)
३९७. ॐ अरुणकिरणैः अङ्गुल्यग्रैः मुक्तसंरुद्धरन्ध्रं वारं वारं वदनमरुता वेणुं आपूरयते नमः । (२.५)
३९८. ॐ विकचकमलच्छायविस्तारिनेत्राय नमः । (२.५)
३९९. ॐ वृन्दावनसुचरितव्यत्यस्ताङ्घ्रये नमः । (२.५)
४००. ॐ नन्दगोपालसूनवे नमः । (२.५)
४०१. ॐ मन्दं मन्दं मधुरनिनदैः वेणुं आपूरयन्तं वृन्दावनभुवि गवां वृन्दं चारयन्तं चरते नमः । (२.६)
४०२. ॐ शतमखध्वंसिनां दानवानां हन्त्रे नमः । (२.६)
४०३. ॐ गोपकन्याभुजङ्गाय नमः । (२.६)
४०४. ॐ वेणीमूले विरचितघनश्यामपिञ्छावचूडाय नमः । (२.७)
४०५. ॐ विद्युल्लेखावलयितः इव स्निग्धपीताम्बराय नमः । (२.७)
४०६. ॐ तरुणतुलसीभूषणाय नमः । (२.७)
४०७. ॐ नीलमेघाय नमः । (२.७)
४०८. ॐ मरतकमणिस्तम्भगम्भीरबाहवे नमः । (२.७)
४०९. ॐ वसननिचयं हृत्वा कुलकुञ्जाधिरूढाय नमः । (२.८)
४१०. ॐ काचित् मुग्धया मुहुः अनुनयैः ``किं नु इति'' व्याहरन्ती सुभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं यस्य करतलगतान्यम्बराणि आचकर्ष तस्मै छायाशौरये नमः । (२.८)
४११. ॐ ``परस्मिन् जनुषि आत्तपुण्यः यमुनायाः तटभुवि यस्याधरमणिसमीपन्यासधन्यां अवस्थां वंशनालो भवेयं'' इति प्रार्थ्यमानाय नमः । (२.९)
४१२. ॐ श्रीमदाभीरसूनवे नमः । (२.९)
४१३. ॐ अम्भोजनेत्राय नमः । (२.१०)
४१४. ॐ कबरकलितचञ्चल्पिञ्छदामाभिरामाय नमः । (२.१०)
४१५. ॐ वलभिदुपलनीलाय नमः । (२.१०)
४१६. ॐ वल्लवीभागधेयाय नमः । (२.१०)
४१७. ॐ निखिलनिगमवल्लीमूलकन्दाय नमः । (२.१०)
४१८. ॐ मुकुन्दाय नमः । (२.१०)
४१९. ॐ अधरमणिसमीपं प्राप्य रहसि कर्णे ``दशां कथय'' इति यस्य मुरलिं प्रणम्य याचते तस्मै नमः । (२.११)
४२०. ॐ नन्दसूनवे नमः ।
४२१. ॐ स्मेरवक्त्रारविन्दश्वसनमधुरसंज्ञामुरलीधराय नमः ।
४२२. ॐ सजलजलदनीलाय नमः । (२.१२)
४२३. ॐ वल्लवीकेलिलोलाय नमः । (२.१२)
४२४. ॐ विद्युदुल्लासिचेलाय नमः । (२.१२)
४२५. ॐ श्रितसुरतरुमूलाय नमः । (२.१२)
४२६. ॐ नतसुरमुनिजालाय नमः । (२.१२)
४२७. ॐ सन्मनोबिम्बलीलाय नमः । (२.१२)
४२८. ॐ सुररिपुकुलकालाय नमः । (२.१२)
४२९. ॐ गोपालबालाय नमः । (२.१२)
४३०. ॐ अधरबिम्बविडम्बितविद्रुमाय नमः । (२.१३)
४३१. ॐ मधुरवेणुनिनादविनोदिताय नमः । (२.१३)
४३२. ॐ कमलकोमलकम्रमुखाम्बुजाय नमः । (२.१३)
४३३. ॐ गोपकुमाराय नमः । (२.१३)
४३४. ॐ अधरे वंशनालं निवेश्य अस्य विवराणि सलीलं अङ्गुलीभिः मुहुः अन्तरयन् मुहुः विवृण्वन् मधुरं गायते नमः । (२.१४)
४३५. ॐ माधवाय नमः । (२.१४)
४३६. ॐ वदने नवनीतगन्धवाहाय नमः । (२.१५)
४३७. ॐ वचने तस्करचातुरीधुरीणाय नमः । (२.१५)
४३८. ॐ नयने कुहनाश्रवे नमः । (२.१५)
४३९. ॐ चरणे कोमलताण्डवाय नमः । (२.१५)
४४०. ॐ नन्दनन्दनाय नमः । (२.१६)
४४१. ॐ यमुनारोधसि गोपगोपनार्थं वनसम्भवः दमुनाः पीतवते नमः । (२.१६)
४४२. ॐ शरणार्थिनां शरण्याय नमः । (२.१६)
४४३. ॐ जगदादरणीयजारभावाय नमः । (२.१७)
४४४. ॐ जलजापत्यवचोविचारगम्याय नमः । (२.१७)
४४५. ॐ सुरनाथोपलसुन्दराय नमः । (२.१७)
४४६. ॐ जगतां कापि अभिरामसीमायै नमः । (२.१८)
४४७. ॐ गोपकिशोरमूर्तये नमः । (२.१८)
४४८. ॐ श्रुतिगिरां शेखरे सुलभाय नमः । (२.१८)
४४९. ॐ योगभाजां हृदि सुलभाय नमः । (२.१८)
४५०. ॐ व्रजसुन्दरीणां पादाम्बुजे सुलभाय नमः । (२.१८)
४५१. ॐ अत्यन्तबालाय नमः । (२.१९)
४५२. ॐ अतसीकुसुमप्रकाशाय नमः । (२.१९)
४५३. ॐ दिग्वाससे नमः । (२.१९)
४५४. ॐ कनकभूषणभूषिताङ्गाय नमः । (२.१९)
४५५. ॐ विस्रस्तकेशाय नमः । (२.१९)
४५६. ॐ अरुणाधराय नमः । (२.१९)
४५७. ॐ आयताक्षाय नमः । (२.१९)
४५८. ॐ वसुदेवसूनवे नमः । (२.१९)
४५९. ॐ हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकाय नमः । (२.२०)
४६०. ॐ मध्येनितम्बमवलम्बितहेमसूत्राय नमः । (२.२०)
४६१. ॐ मुक्ताकलापमुकुलीकृतकाकपक्षाय नमः । (२.२०)
४६२. ॐ व्रजचराय वसुदेवभाग्याय नमः । (२.२०)
४६३. ॐ वृन्दावने द्रुमतलेषु गवां गणेषु वेदावसानसमयेषु च यत् दृश्यते तत् ब्रह्मणे नमः । (२.२१)
४६४. ॐ वेणुवादनपराय नमः । (२.२१)
४६५. ॐ शिखिपिञ्छचूडाय नमः । (२.२१)
४६६. ॐ कमलेक्षणाय नमः । (२.२१)
४६७. ॐ अभ्रनीलवर्णाय नमः । (२.२१)
४६८. ॐ व्यत्यस्तपादाय नमः । (२.२२)
४६९. ॐ अवतंसितबर्हिबर्हाय नमः । (२.२२)
४७०. ॐ साचीकृतानननिवेशितवेणुरन्ध्राय नमः । (२.२२)
४७१. ॐ परमकारुणिकाय नमः । (२.२२)
४७२. ॐ परं तेजसे नमः । (२.२२)
४७३. ॐ ``प्राणप्रयाणसमये पुरस्तात् सन्निधत्तां'' इति प्रार्थ्यमानाय नमः । (२.२२)
४७४. ॐ घोषप्रघोषशमनाय जननिना मथः गुणेन बन्धिताय नमः । (२.२३)
४७५. ॐ नवनीतचोराय नमः । (२.२३)
४७६. ॐ यस्य बन्धनं त्रिजगतां उदराश्रयाणां नितरां आक्रोशकारणं बभूव तस्मै नमः । (२.२३)
४७७. ॐ नितरां पञ्चाक्षरीजपपराणां शैवाणामपि चेतसि स्मरणीयाय नमः । (२.२४)
४७८. ॐ अतसीकुसुमावभासाय स्मेराननाय नमः । (२.२४)
४७९. ॐ गोपवधूकिशोराय नमः । (२.२४)
४८०. ॐ राधास्तनस्तबकचञ्चललोलदृष्टये दोहनधिया वृषभं निरुन्धते नमः । (२.२५)
४८१. ॐ गोधूलिधूसरितकोमलकुन्तलाग्राय नमः । (२.२६)
४८२. ॐ गोवर्धनोद्धरणकेलिकृतप्रयासाय नमः । (२.२६)
४८३. ॐ गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गाय नमः । (२.२६)
४८४. ॐ इन्दुवदनाय नमः । (२.२६)
४८५. ॐ गोविन्दाय नमः । (२.२६)
४८६. ॐ वाराहजन्मनि अमी समुद्राः यद्रोमरन्ध्रपरिपूर्तिविधौ अदक्षा बभूवुः तस्मै नमः । (२.२७)
४८७. ॐ यशोदा पाणिद्वयान्तरजलैः यं स्नपयां बभूव तस्मै नमः । (२.२७)
४८८. ॐ नाथाय नमः । (२.२७)
४८९. ॐ अरविन्ददृशे नमः । (२.२७)
४९०. ॐ उलूखले निबद्धाय नमः । (२.२८)
४९१. ॐ उपनिषदर्थाय नमः । (२.२८)
४९२. ॐ वल्लवीनां भवनेष्वन्वेष्यमाणाय नमः । (२.२८)
४९३. ॐ देवकीतनयाय नमः । (२.२९)
४९४. ॐ पूतनारिचरणाभ्यां नमः । (२.२९)
४९५. ॐ धनञ्जयसूताय नमः । (२.२९)
४९६. ॐ स्वयं गोपवेषं उपसेदुषः विभवे नमः । (२.३०)
४९७. ॐ भवभयैकभेषजाय नमः । (२.३०)
४९८. ॐ यापि कापि रमणीयता मम मानसे मुहुः मुहुः मुहुः भासमानाय नमः । (२.३०)
४९९. ॐ कर्णलम्बितकदम्बमञ्जरीकेसरारुणकपोलमण्डलाय नमः । (२.३१)
५००. ॐ निगमवागगोचराय नमः । (२.३१)
५०१. ॐ निर्मलाय नमः । (२.३१)
५०२. ॐ नीलिमानाय नमः । (२.३१)
५०३. ॐ साचिसञ्चलितलोचनोत्पलाय नमः । (२.३२)
५०४. ॐ सामिकुड्मलितकोमालाधराय नमः । (२.३२)
५०५. ॐ वेगवल्गितकराङ्गुलीदलाय नमः । (२.३२)
५०६. ॐ वेणुगानरसिकाय नमः । (२.३२)
५०७. ॐ गरुडमण्डितध्वजे स्यन्दने अधिरोपितां कुण्डिनेशतनयां नीयमानाय नमः । (२.३३)
५०८. ॐ नवतमालपल्लवश्यामलाय नमः । (२.३३)
५०९९९९९९पुरुषाय नमः ।
५१०. ॐ नितम्बबिम्बे विन्यस्तहस्ताय तमालनीलाय दिगम्बराय चित्तवित्तं समाकर्षते भीमरथ्याः पथी स्थिताय नमः । (२.३४)
५११. ॐ अङ्गनां अङ्गनां अन्तरा स्थिताय नमः । (२.३५)
५१२. ॐ माधवं माधवं च अन्तरेण अङ्गना इत्थं मण्डले आकल्पिते मध्यगाय वेणुवादकाय नमः । (२.३५)
५१३. ॐ कंसवंशाटवीदाहदावानलाय नमः । (२.३६)
५१४. ॐ केकिकेकादृतानेकपङ्केरुहालीनहंसावलीहृद्यताहृद्यता वेणुवादकाय नमः । (२.३६)
५१५. ॐ देवकीनन्दनाय नमः । (२.३६)
५१६. ॐ क्वापि वीणाभिराराविना कम्पिताः वेणुवादकाय नमाः (२.३७)
५१७. ॐ क्वापि वीणाभिराकिङ्कीणीनर्तितः वेणुवादकाय नमः'' (२.३७)
५१८. ॐ क्वापि वीणाभिरामान्तरं गापितः वेणुवादकाय नमः । (२.३७)
५१९. ॐ चारुचन्द्रावलीलोचनैश्चुम्बिताय नमः । (२.३८)
५२०. ॐ गोपगोवृन्दगोपालिकावल्लभाय नमः । (२.३८)
५२१. ॐ वल्लवीवृन्दवृन्दारकाय नमः । (२.३८)
५२२. ॐ मौलिमालामिलन्मत्तभृङ्गीलताभीतभीतप्रियाविभ्रमालिङ्गिताय नमः । (२.३९)
५२३. ॐ स्रस्तगोपीकुचाभोगसम्मेलिताय नमः । (२.३९)
५२४. ॐ चारुचामीकराभासभामाविभवे नमः । (२.४०)
५२५. ॐ वैजयन्तीलतावासितोरःस्थलाय नमः । (२.४०)
५२६. ॐ नन्दवृन्दावने वासिता मध्यगाय नमः । (२.४०)
५२७. ॐ बालिकातालिकाताललीलालयासङ्गसन्दर्शितभ्रूलताविभ्रमाय नमः । (२.४१)
५२८. ॐ गोपिकागीतदत्तावधानाय नमः । (२.४१)
५२९. ॐ पारिजातं समुद्धृत्य राधावयोरूपया मासभासा गुणैरङ्कणे स्थापिताय नमः । (२.४२)
५३०. ॐ शीतशीते वटे यामुनीतटे वेणुवादनं कृतवते नमः । (२.४२)
५३१. ॐ कलिन्दात्मजातीरतमालकाननतले गवां चक्रं चारयते नमः । (२.४३)
५३२. ॐ अव्याहतं पन्थानं दर्शयिष्यते नमः । (२.४३)
५३३. ॐ गोधूलिधूसरितकोमलगोपवेषाय नमः । (२.४४)
५३४. ॐ गोपालबालकशतैरनुगम्यमानाय नमः । (२.४४)
५३५. ॐ सायन्तने प्रतिगृहं पशुबन्धनार्थं गच्छते नमः । (२.४४)
५३६. ॐ अच्युतशिशवे नमः । (२.४४)
५३७. ॐ लावण्यानां निधये नमः । (२.४५)
५३८. ॐ निखिलजगदाश्चर्यनिलयाय नमः । (२.४५)
५३९. ॐ भासां निजावासाय नमः । (२.४५)
५४०. ॐ निरवधिकनिःश्रेयसरसाय नमः । (२.४५)
५४१. ॐ सुधाधारासाराय नमः । (२.४५)
५४२. ॐ मृगदृशां सुकृतपरिपाकाय नमः । (२.४५)
५४३. ॐ कृतधियां अधिदैवाय नमः । (२.४५)
५४४. ॐ प्रथममाङ्गल्याय नमः । (२.४५)
५४५. ॐ आताम्रपाणिकमलप्रणयप्रतोदाय नमः । (२.४६)
५४६. ॐ आलोलहारमणिकुण्डलहेमसूत्राय नमः । (२.४६)
५४७. ॐ आविःश्रमाम्बुकणाय नमः । (२.४६)
५४८. ॐ अम्बुदनीलवर्णाय नमः । (२.४६)
५४९. ॐ धनञ्जयरथाभरणाय नमः । (२.४६)
५५०. ॐ आद्याय महसे नमः । (२.४६)
५५१. ॐ विततगात्राय नमः । (२.४७)
५५२. ॐ तोत्रनिस्यूतमौलये नमः । (२.४७)
५५३. ॐ दशनविधृतरश्मये नमः । (२.४७)
५५४. ॐ पाण्डवस्यन्दनाश्वान् अञ्जलिस्थैः पयोभिरनुदिनं अभिषेकं कुर्वाणाय नमः । (२.४७)
५५५. ॐ देवकीपुण्यराशये नमः । (२.४७)
५५६. ॐ व्रजयुवतिसहायाय नमः । (२.४८)
५५७. ॐ यौवनोल्लासिकाय नमः । (२.४८)
५५८. ॐ सकलशुभविलासाय नमः । (२.४८)
५५९. ॐ कुन्दमन्दारहासाय नमः । (२.४८)
५६०. ॐ मुनिसरसिजभानवे नमः । (२.४८)
५६१. ॐ आर्द्रस्मितमधुरबिम्बाधरसुधासरण्या सङ्क्रान्तैः वेणुनिनदैः अरण्यानीं सपदि मदयते नमः । (२.४९)
५६२. ॐ धरण्या सानन्दोत्पुलकं उपगूढाङ्घ्रिकमलाय नमः । (२.४९)
५६३९९९९९शरण्यानां आद्याय नमः ।
५६४. ॐ मधुरिमाशरीरिणे नमः । (२.४९)
५६५. ॐ विदग्द्धगोपालविलासिनीनां सम्भोगचिह्नाङ्कितसर्वगात्राय नमः । (२.५०)
५६६. ॐ पवित्राय नमः । (२.५०)
५६७. ॐ आम्नायगिरां अगम्याय नमः । (२.५०)
५६८. ॐ ब्रह्मणे नमः । (२.५०)
५६९. ॐ अन्तर्गृहे चोरं कृष्णं अवेक्ष्य कवाटं बद्ध्वा जननिं गतया एकया तत्रापि उलूखले दामनिबद्धं दृष्टाय नमः । (२.५१)
५७०. ॐ आत्मीयमुखारविन्दं सङ्क्रान्तमादातुकामः तदलाभखेदात् धात्रीवदनं विलोक्य रोयमानाय रत्नस्थले जानुचराय कुमाराय नमः । (२.५२)
५७१. ॐ यशोदया आनन्देन चिरं दृष्टाय नमः । (२.५३)
५७२. ॐ गोपङ्गनाभिः समदनं चिरं दृष्टाय नमः । (२.५३)
५७३. ॐ वलविद्विषा साशङ्कं दृष्टाय नमः । (२.५३)
५७४. ॐ सिद्धैः सकुसुमैः दृष्टाय नमः । (२.५३)
५७५. ॐ गोपकुमारकैः पृथुव्याकुलं सेर्ष्यं दृष्टाय नमः । (२.५३)
५७६. ॐ पौरैः सकुतुकं चिरं दृष्टाय नमः । (२.५३)
५७७. ॐ जनैः सस्मितं चिरं दृष्टाय नमः । (२.५३)
५७८. ॐ प्रोत्क्षिप्तगोवर्धनाय नमः । (२.५३)
५७९. ॐ मुररिपवे नमः । (२.५३)
५८०. ॐ पुराणाभिः आत्मविद्भिः परस्तात् गुहायां निहिताय परस्मै नमः । (२.५४)
५८१. ॐ यशोदाशिशुबालाय नमः । (२.५४)
५८२. ॐ मुरारिपादार्पितचित्तवृत्त्या दध्यादिकं विक्रेतुकामया गोपकन्यया मोहवशात् ``गोविन्द, दामोदर, माधव'' इति वाच्यमानाय नमः । (२.५५)
५८३. ॐ यस्य कलभस्य आलानं उलूखलं वा यमिनां मनो वा गोपाङ्गनानां कुचकुड्मलं वा त्रयमेव आसीत् तस्मै नमः । (२.५६)
५८४९९९९९मुरारिनाम्ने नमः ।
५८५. ॐ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयते नमः । (२.५७)
५८६. ॐ वटस्य पत्रस्य पुटे शयानाय नमः । (२.५७)
५८७. ॐ बालाय मुकुन्दाय नमः । (२.५७)
५८८. ॐ ``शम्भो स्वागतं, इतः आस्यतां, पद्मासन, इतः वामेन (आस्यतां)क्रौञ्चारे कुशलं?, सुरपते सुखं?, वित्तेश, नो दृश्यसे'' इत्येवं जननीं श्राव्यमाणाय स्वप्नगताय नमः । (२.५८)
५८९. ॐ कैटभजिते नमः । (२.५८)
५९०. ॐ यदुनाथाय नमः । (२.५९)
५९१. ॐ ``निशा अन्धकारोदये, तदा एव पातुं पयः ददामि``इति वक्तुं जननीं आमील्याक्षियुगं ``निशा अपि उपगतं पयः पातुं देहि'' इति वदते नमः । (२.५९)
५९२९९९९९मातुः वक्षोजाम्बरकर्षकाय नमः ।
५९३. ॐ हरेः ``कर्बुरिका पयः पिब, ते शिखा वर्धिष्यते'' इत्थं यशोदागिरः बालतया श्रुत्वा क्षीरं अर्धपीते स्वशिखं स्पृशन् प्रमुदिताय नमः । (२.६०)
५९४. ॐ स्मेरे प्रफुल्ले मुखे लसन् कैलासं नवनीतति मातरं दर्शयितवते नमः । (२.६१)
५९५. ॐ इयं क्षितिं प्राग्जग्धमृल्लोष्टति मातरं दर्शयितवते नमः । (२.६१)
५९६. ॐ क्षिरोदमपि निपीतदुग्धति मातरं दर्शयितवते नमः । (२.६१)
५९७. ॐ मात्रा अजीर्णधिया दृढं चकितया ``वत्स धू धू चिरं जीव जीव'' इत्युक्ताय नमः । (२.६१)
५९८. ॐ किञ्चित् कुञ्चितलोचनाय पर्यायपीतं स्तनं पीयमानाय नमः । (२.६२)
५९९. ॐ सद्यः प्रस्नुतदुग्धबिन्दुं अपरहस्तेन सम्मार्जते नमः । (२.६२)
६००. ॐ मात्रा चिबुके एकाङ्गुलिलालिताय नमः । (२.६२)
६०१. ॐ अधरे निपतिता क्षीरकणान्विता दन्तद्युतये नमः । (२.६२)
६०२. ॐ शौरये नमः । (२.६२)
६०३. ॐ विवाहोत्सवे लक्ष्म्याः उत्तुङ्गस्तनमण्डले परिलसत् प्रालम्बमुक्तामणेः अन्तः बिम्बिताय नमः । (२.६३)
६०४. ॐ इन्द्रनीलनिकरच्छायानुकारिद्युतिवपुषे नमः । (२.६३)
६०५. ॐ लज्जाव्याजं उपेत्य नम्रवदनया लक्ष्म्या मुदितं स्पष्टं पश्यते नमः । (२.६३)
६०६. ॐ यशोदया ``व्यादेहि'' इत्युक्ताय विदारिते शिशुमुखे जगत् समस्तं दर्शयन् मातरं विस्मयपदं गमयितवते नमः । (२.६४)
६०७. ॐ रोहिणी(नक्षत्रे)प्रसूताय गोपवधूकुचेषु कृतास्पदाय नीलरत्नाय नमः । (२.६५)
६०८. ॐ अत्यन्तविलोकनीयं नृत्यते नमः । (२.६६)
६०९. ॐ यं अग्रे मणिस्तम्भगतं निरीक्ष्य मृगाक्षिणा एकं नवनीतं द्विधा वितेने तस्मै नमः । (२.६६)
६१०. ॐ ``वत्स जागृहि, विभातं आगतं, कृष्ण - शरदां शतं जीव'' इत्युदीर्य सुचिरं यशोदया दृश्यमानवदनाय नमः । (२.६८)
६११. ॐ वल्लवीभिः शिशु इति धिया चुम्बिते (सति)ओष्टं जिघ्रते नमः । (२.६८)
६१२. ॐ वल्लवीभिः गाढं आलिङ्गिते (सति)कण्ठं गृह्णते नमः । (२.६८)
६१३. ॐ वल्लवीभिः आरोपिताङ्के (सति)दोष्णा अभिमृशते नमः । (२.६८)
६१४. ॐ बालकृष्णाय नमः । (२.६८)
६१५. ॐ दुरितहारिणे नमः । (२.६८)
६१६. ॐ व्याहृतपूर्वजन्मचरितं श्रुत्वा शङ्कितया राधया सेर्ष्यं वीक्षिताय नमः । (२.६९)
६१७. ॐ ``ओष्ठं मुञ्च, भवता पानैः पूतना हता, कण्ठाश्लेषं जहीहि, आलिङ्गनेन अर्जुनौ दलितौ, छुरितं मा देहि, हिरण्यकशिपुः नखैः पञ्चतां नीतः'' इत्यादि नर्मापहासोक्त्या लक्ष्म्या वारितरात्रिकेलये नमः । (२.७०)
६१८. ॐ निद्रार्थं जनन्योक्तं रामायणकथां शृण्वते रावणशब्दश्रवणे ``सौमित्रे क्व धनुः, धनुः, धनुः'' इति व्यग्रेणोक्तवते नमः । (२.७१)
६१९. ॐ बालोऽपि शैलोद्धरणाग्रपाणये नमः । (२.७२)
६२०. ॐ नीलोऽपि नीरन्ध्रतमप्रदीपाय नमः । (२.७२)
६२१. ॐ धीरोऽपि राधानयनावबद्धाय नमः । (२.७२)
६२२. ॐ जारोऽपि संसारहराय नमः । (२.७२)
६२३. ॐ बालाय नीलवपुषे नमः । (२.७३)
६२४. ॐ नवकिङ्किणीकजालाभिरामजघनाय नमः । (२.७३)
६२५. ॐ दिगम्बराय शार्द्दूलदिव्यनखभूषणभूषिताय नमः । (२.७३)
६२६. ॐ नवनीतमुषे नमः । (२.७३)
६२७. ॐ नन्दात्मजाय नमः । (२.७३)
६२८. ॐ दक्षिणे पाणौ मुदा आहितरसं पायसभक्तं बिभ्रते नमः । (२.७४)
६२९. ॐ सव्ये (पाणौ)शारदचन्द्रमण्डलनिभं हैयङ्गवीनं दधानाय नमः । (२.७४)
६३०. ॐ कण्ठे उद्दामदीप्तं कल्पितपुण्डरीकनखमपि वहते नमः । (२.७४)
६३१. ॐ दिव्यदिगम्बराय नमः । (२.७४)
६३२. ॐ यशोदाशिशवे नमः । (२.७४)
६३३. ॐ सौख्यदायकाय नमः । (२.७४)
६३४. ॐ किङ्किणिकिणिकिणिरभसैः अङ्कणभुवि सदा रिङ्खणैः अटते नमः । (२.७५)
६३५. ॐ कुङ्कुणुकुणुपदयुगलाय नमः । (२.७५)
६३६. ॐ कङ्कणकरभूषणाय नमः । (२.७५)
६३७. ॐ सुरभीणां सम्बाधे अनुयान्तीं अम्बां आयासयते नमः । (२.७६)
६३८. ॐ लम्बालकाय नमः । (२.७६)
६३९. ॐ तनुविलग्नजम्बालाय बालाय नमः । (२.७६)
६४०. ॐ अञ्चितपिञ्छाचूडाय नमः । (२.७७)
६४१. ॐ सञ्चितसौजन्यवल्लवीवलयाय नमः । (२.७७)
६४२. ॐ अधरमणिनिहितवेणवे नमः । (२.७७)
६४३. ॐ प्रह्लादभागधेयाय नमः । (२.७८)
६४४. ॐ निगमगणमहागुहान्तराधेयाय नमः । (२.७८)
६४५. ॐ नरहरिपदाभिधेयाय नमः । (२.७८)
६४६. ॐ विबुधविधेयाय नमः । (२.७८)
६४७. ॐ संसारे सारं योऽस्ति तस्मै नमः । (२.७९)
६४८. ॐ कंसारेः चरणकमलाभ्यां नमः । (२.७९)
६४९. ॐ अन्धकारे ज्योतिः योऽस्ति तस्मै नमः । (२.७९)
६५०. ॐ अनुस्मरणीयाय अन्धकारये नमः । (२.७९)
६५१. ॐ कलशनवनीतचोराय नमः । (२.८०)
६५२. ॐ कमलादृक्कुमुदचन्द्रिकापूराय नमः । (२.८०)
६५३. ॐ गोपसुन्दरीजाराय नमः । (२.८०)
६५४. ॐ नन्दकुमाराय नमः । (२.८०)
६५५. ॐ बलानुजाय नमः । (२.८१)
६५६. ॐ गोपस्त्रिया ``इह ते किं'' पृच्छ्यमाने ``मन्मन्दिरशङ्कया'' इति प्रतिवचनं कृतवते नमः । (२.८१)
६५७. ॐ ``नवनीतभाण्डविवरे किमर्थं हस्तं न्यसेः'' इति पृच्छ्यमाने ``कञ्चन वत्सकं मृगयितुं, विषादं मा अगाः'' इत्युक्ताय नमः । (२.८१)
६५८. ॐ गोपालाजिरकर्द्दमे विहरते नमः । (२.८२)
६५९. ॐ विप्राद्ध्वरे लज्जमानाय नमः । (२.८२)
६६०. ॐ गोकुलहुङ्कृतैः ब्रवीते नमः । (२.८२)
६६१. ॐ विदां स्तुतिशतैः मौनं विधानाय नमः । (२.८२)
६६२. ॐ गोकुलपुंश्चलीषु दास्यं कुर्वाणाय नमः । (२.८२)
६६३. ॐ दान्तात्मसु स्वाम्यं न कुर्वाणाय नमः । (२.८२)
६६४. ॐ मञ्जुलाङ्घ्रिपङ्कजयुगाय नमः । (२.८२)
६६५. ॐ यशोदायाः दायादाय नमः । (२.८३)
६६६. ॐ राधामुखाम्भोजं भोजं भोजं वर्धमानाय तेजसे नमः । (२.८३)
६६७. ॐ सरसिजनयनाय नमः । (२.८४)
६६८. ॐ सर्वतोभद्राय नमः । (२.८४)
६६९. ॐ अन्यावतारेष्वदृश्यमानप्रभवाय नमः । (२.८४)
६७०. ॐ गोगोपगोपिकामुक्त्यैः प्रभवते नमः । (२.८४)
६७१. ॐ नवघनश्यामाय नमः । (२.८५)
६७२. ॐ रणन्नूपुराय नमः । (२.८५)
६७३. ॐ फाले बालविभूषणाय नमः । (२.८५)
६७४. ॐ कटिरणत्सत्किङ्किणीमेखलाय नमः । (२.८५)
६७५. ॐ कण्ठे व्याघ्रनखाय नमः । (२.८५)
६७६. ॐ शैशवकलाकल्याणकार्त्स्न्याय नमः । (२.८५)
६७७. ॐ दर्शितोदारलीलाय नमः । (२.८६)
६७८. ॐ करतलधृतशैलाय नमः । (२.८६)
६७९. ॐ वेणुनादैः रसालाय नमः । (२.८६)
६८०. ॐ व्रजजनकुलपालाय नमः । (२.८६)
६८१. ॐ कामिनीकेलिलोलाय नमः । (२.८६)
६८२. ॐ कलितललितमालाय नमः । (२.८६)
६८३. ॐ स्मितललितकपोलाय नमः । (२.८७)
६८४. ॐ स्निग्द्धसङ्गीतलोलाय नमः । (२.८७)
६८५. ॐ ललितचिकुरजालाय नमः । (२.८७)
६८६. ॐ चारुचातुर्यशीलाय नमः । (२.८७)
६८७. ॐ शतमखरिपुकालाय नमः । (२.८७)
६८८. ॐ शातकुम्भाभचेलाय नमः । (२.८७)
६८९. ॐ कुवलयदलनीलाय नमः । (२.८७)
६९०. ॐ मुरलिनिनदलोलाय नमः । (२.८८)
६९१. ॐ मुग्द्धमायूरवालाय नमः । (२.८८)
६९२. ॐ दलितदनुजजालाय नमः । (२.८८)
६९३. ॐ धन्यसौजन्यशीलाय नमः । (२.८८)
६९४. ॐ परहितनवहेलाय नमः । (२.८८)
६९५. ॐ पद्मसत्मानुकूलाय नमः । (२.८८)
६९६. ॐ नवजलधरनीलाय नमः । (२.८८)
६९७. ॐ सरसगुणनिकायाय नमः । (२.८९)
६९८. ॐ सच्चिदानन्दकायाय नमः । (२.८९)
६९९. ॐ शमितसकलमायाय नमः । (२.८९)
७००. ॐ सत्यलक्ष्मीसहायाय नमः । (२.८९)
७०१. ॐ शमदमसमुदायाय नमः । (२.८९)
७०२. ॐ शान्तसर्वान्तराय नमः । (२.८९)
७०३. ॐ सहृदयजनदायाय नमः । (२.८९)
७०४. ॐ गोपालरायाय नमः । (२.८९)
७०५. ॐ लक्ष्मीकलत्राय नमः । (२.९०)
७०६. ॐ ललिताब्जनेत्राय नमः । (२.९०)
७०७. ॐ पूर्णेन्दुवक्त्राय नमः । (२.९०)
७०८. ॐ पुरुहूतमित्राय नमः । (२.९०)
७०९. ॐ कारुण्यपात्राय नमः । (२.९०)
७१०. ॐ कमनीयगात्राय नमः । (२.९०)
७११. ॐ यमुनामवतीर्य मदमयं उरगं दमयितवते नमः । (२.९१)
७१२९९९९९वीर्यशालिने नमः ।
७१३. ॐ यस्य मौलौ मायूरबर्हं, लालाटपट्टे चारु मृगमदतिलकं, कर्णद्वन्दे अतिमृदुलं तालीदलं, नासिकायां मौक्तिकं, उपकण्ठे कौस्तुभं मन्दारमालापरिमलभरितः हारः, पाणौ वेणुश्च तस्मै नमः । (२.९२)
७१४. ॐ व्रजयुवतियुताय नमः । (२.९२)
७१५. ॐ पीताम्बरधराय नमः । (२.९२)
७१६. ॐ मृगेक्षणानां वारिविहारकाले मुषितांशुकाय नमः । (२.९३)
७१७. ॐ गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षाः यन्नासाचारुमुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे मीनायन्ते तस्मै नमः । (२.९४)
७१८. ॐ गोपाङ्गनानां अतिरभसलसच्चारुनीलालकान्ताः यस्याङ्घ्रिद्वयसरसिरुहे भृङ्गायन्ते तस्मै नमः । (२.९४)
७१९. ॐ यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्नाः एणाक्ष्यः कामावेशप्रगल्भप्रकटितपुलकाः बभूवुः तस्मै नमः । (२.९५)
७२०. ॐ देवक्याः जठराकरे समुदिताय नमः । (२.९६)
७२१. ॐ गवां पालिना पुण्यात्मना नन्देन निजसुतापण्येन आनकदुन्दुभेः क्रीताय नमः । (२.९६)
७२२. ॐ गोपालावलिमुग्धहारतरलाय नमः । (२.९६)
७२३. ॐ गोपीजनालङ्कृताय नमः । (२.९६)
७२४. ॐ सुमधुराय इन्द्रनीलमणये नमः । (२.९६)
७२५. ॐ पीठेपीठनिषण्णबालकगले तिष्ठन् यन्त्रान्तःस्थितदुग्धभाण्डमपकृष्य घण्डारवं आच्छाद्य वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पयः पीतवते नमः । (२.९७)
७२६. ॐ य आगतगोपिकानयनयोः गण्डूषफूल्कारकृत् तस्मै नमः । (२.९७)
७२७. ॐ गोपालकाय नमः । (२.९७)
७२८. ॐ चाणूरद्विषे नमः । (२.९८)
७२९. ॐ भक्तकल्मषमुषे नमः । (२.९८)
७३०. ॐ श्रीजुषे नमः । (२.९८)
७३१. ॐ भवद्वेषिणे नमः । (२.९८)
७३२. ॐ भक्त्या सुलभाय नमः । (२.९८)
७३३. ॐ ``त्वयि प्रसन्ने मयि गुणेन किं, त्वय्यप्रसन्ने मयि गुणेन किं'' इति यस्मिन् भक्तिं विना गुणाः निरर्थकाः तस्मै नमः । (२.९९)
७३४. ॐ गोकुले गोपाङ्गनाः क्षणदावसानसमये निजन्तकान्तिनिवहैः इन्दुप्रभां रुन्धन्त्यः पाणिकङ्कणझणत्कारानुकाराः व्यावद्गद्वसनाञ्चलाः जवाद् दधि मथ्नन्त्यः यं गायन्ति तस्मै नमः । (२.१००)
७३५. ॐ अंसालम्बितवामकुण्डलभराय नमः । (२.१०१)
७३६. ॐ मन्दोन्नतभ्रूलताय नमः । (२.१०१)
७३७. ॐ किञ्चित् कुञ्चितकोमलाधरपुटाय नमः । (२.१०१)
७३८. ॐ साचिप्रचारेक्षणाय नमः । (२.१०१)
७३९. ॐ आलोलाङ्गुलिपल्लवैः मुदा मुरलिकां आपूरयते नमः । (२.१०१)
७४०. ॐ कल्पतरोः मूले स्थिताय त्रिभङ्गिललिताय नमः । (२.१०१)
७४१. ॐ जगन्मोहनाय नमः । (२.१०१)
७४२. ॐ मल्लैः शैलेन्द्रकल्पः, अङ्गनाभिः पूष्पचापः, गोपैः तु प्राकृतात्मा, दिवि कुलिशभृता अप्रमेयः विश्वकायः, भयचकितदृशा कंसेन क्रुद्धः कालः, योगिभिः ध्येयमूर्तिः, इतरजनैः शिशुः इव रङ्गद्वारे दृष्टाय नमः । (२.१०२)
७४३. ॐ अमरगणानन्दकृते नमः । (२.१०२)
७४४. ॐ मणिविष्टरे संविष्टाय नमः । (२.१०३)
७४५. ॐ अङ्कतलमद्ध्यासीनलक्ष्मीमुखे कस्तूरीतिलकं मुदा विरचयते नमः । (२.१०३)
७४६. ॐ लक्ष्मीकुचौ संस्पृशन् हर्षात् अन्योन्यस्मितचन्द्रिकाकिसलयैः मन्मथं आराधयते नमः । (२.१०३)
७४७. ॐ गोपीगोपपरीवृताय नमः । (२.१०३)
७४८. ॐ यदुपतये नमः । (२.१०३)
७४९. ॐ ``बालः कश्चन चूतपल्लवः, इति प्रान्तस्मितास्यश्रियं नतमुखीं रुक्मिणीं श्लिष्टवते नमः । (२.१०४)
७५०. ॐ उर्व्यां लघुतरः कोऽपि महीधरः लीलया दोर्भ्यां धृतः तेन यो दिवि भूतले च गोवर्धनो गीयते तस्मै नमः । (२.१०५)
७५१. ॐ त्रैलोक्यधराय नमः । (२.१०५)
७५२. ॐ यादवकुलोत्तंसाय नमः । (२.१०६)
७५३. ॐ कंसद्विषे नमः । (२.१०६)
७५४. ॐ कृपाजलनिधये नमः । (२.१०७)
७५५. ॐ सिन्धुकन्यापतये नमः । (२.१०७)
७५६. ॐ कंसान्तकाय नमः । (२.१०७)
७५७. ॐ गजेन्द्रकरुणापारीणाय नमः । (२.१०७)
७५८. ॐ रामानुजाय नमः । (२.१०७)
७५९. ॐ जगत्त्रयगुरवे नमः । (२.१०७)
७६०. ॐ पुण्डरीकाक्षाय नमः । (२.१०७)
७६१. ॐ गोपीजननाथाय नमः । (२.१०७)
७६२. ॐ यो ललाटफलके कस्तूरीतिलकं, वक्षस्थले कौस्तुभं, नासाग्रे नवमौक्तिकं, करतले वेणुं, करे कङ्कणं, सर्वाङ्गे हरिचन्दनं, कण्ठे मुक्तावलिञ्च कलयते तस्मै नमः । (२.१०८)
७६३. ॐ गोपस्त्रीपरिवेष्टिताय नमः । (२.१०८)
७६४. ॐ गोपालचूडामणये नमः । (२.१०८)
७६५. ॐ लोकान् उन्मदयन्, श्रुतीर्मुखरयन्, क्षोणिरुहान् हर्षयन्, शैलान् विद्रवयन्, मृगान् विवशयन्, गोवृन्दमानन्दयन्, गोपान् सम्भ्रमयन्, मुनीन् मुकुलयन्, सप्तस्वरान् जृम्भयन्, ओम्कारार्थमुदीरयन् वंशीनिनादं कुर्वाणाय शिशवे नमः । (२.१०९)
तृतीयसर्गः
७६६. ॐ समस्तजगतां स्वस्त्ययनाय नमः । (३.१)
७६७. ॐ अभ्यस्तलक्ष्मीस्तनाय नमः । (३.१)
७६८. ॐ ध्वस्तरजस्तमोभिः अनिशं पुरस्तात् न्यस्तं इव स्थिताय नमः । (३.१)
७६९. ॐ हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारितस्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्ताविराधास्तुताय वस्तवे नमः । (३.१)
७७०. ॐ राधाराधितविभ्रमाद्भुतरसाय नमः । (३.२)
७७१. ॐ लालित्यरत्नाकराय नमः । (३.२)
७७२. ॐ साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहाय नमः । (३.२)
७७३. ॐ हरिनीलगर्वगुरुतासर्वस्वनिर्वापणाय नमः । (३.२)
७७४. ॐ मूर्धाभिषिक्ताय विमुग्धमधुराय नमः । (३.२)
७७५. ॐ वैणविकाय महसे बालाय नमः । (३.२)
७७६. ॐ करिणां अलभ्यगतिवैभवाय नमः । (३.३)
७७७. ॐ करुणावलम्बितकिशोरविग्रहाय नमः । (३.३)
७७८. ॐ यमिनां मानसे अनारतविहारिणे नमः । (३.३)
७७९. ॐ यमुनावनान्तरसिकाय नमः । (३.३)
७८०. ॐ परस्मै महसे नमः । (३.३)
७८१. ॐ विपुलविलोचनाज्ञया सकलजगत्नियन्त्रकाय नमः । (३.४)
७८२. ॐ व्रजाङ्गनानियन्त्रिताय नमः । (३.४)
७८३. ॐ समन्ततः सरसतराय नमः । (३.४)
७८४. ॐ हृदये निरन्तरं विजृम्भमाणाय परस्मै महसे नमः । (३.४)
७८५. ॐ कन्दर्पप्रतिमल्लकान्तिविभवाय नमः । (३.५)
७८६. ॐ कादम्बिनीबान्धववर्णाय नमः । (३.५)
७८७. ॐ वृन्दारण्यविलासिनीव्यसनिनाय नमः । (३.५)
७८८. ॐ वेषेण भूषामयाय नमः । (३.५)
७८९. ॐ मन्दस्मेरमुखाम्बुजाय नमः । (३.५)
७९०. ॐ मधुरिमव्यामृष्टबिम्बाधराय नमः । (३.५)
७९१. ॐ कन्दलितार्द्रयौवनवनाय कैशोरकाय नमः । (३.५)
७९२. ॐ शार्ङ्गिणे नमः । (३.५)
७९३. ॐ आमुक्तमानुषाय नमः । (३.६)
७९४. ॐ अमुक्तनिजानुभावाय नमः । (३.६)
७९५. ॐ आरूढविग्रहाय नमः । (३.६)
७९६. ॐ अगूढविदग्धलीलाय नमः । (३.६)
७९७. ॐ आमृष्टयौवनाय नमः । (३.६)
७९८. ॐ अनष्टकिशोरभावाय नमः । (३.६)
७९९. ॐ मानसे माद्यते आद्याय किमपि महसे नमः । (३.६)
८००. ॐ सकलजगतीलोभनीयप्रभावाय नमः । (३.७)
८०१. ॐ वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दाय नमः । (३.७)
८०२. ॐ नन्दपुण्याम्बुराशये नमः । (३.७)
८०३. ॐ अज्ञातापरमधुराय नमः । (३.७)
८०४. ॐ सुकृतिभिः आदृताय नमः । (३.८)
८०५. ॐ सरसवेणुनिनादसुधारसलहरीविहारनिरवग्रहकर्णपुटाय नमः । (३.८)
८०६. ॐ व्रजवरसुन्दरीमुखसरोरुहसन्मधुपाय नमः । (३.८)
८०७. ॐ कारुण्यकटाक्षकेल्या मोहमहान्धकारमुष्काय नमः । (३.९)
८०८. ॐ पुण्यदयैकसिन्धवे नमः । (३.९)
८०९. ॐ निखिलनिगममौलिलालिताय नमः । (३.१०)
८१०. ॐ परमस्य तेजसः व्रजभुवि सरसकरीषविशेषरूषितपदकमलाभ्यां नमः । (३.१०)
८११. ॐ उदारमृदुलस्मितव्यतिकराभिरामाननाय नमः । (३.११)
८१२. ॐ मुहुः उदीर्णया मुदा मुनि मनोम्बुजाम्रेडिताय नमः । (३.११)
८१३. ॐ मदालसविलोचनव्रजवधूमदास्वादिताय नमः । (३.११)
८१४. ॐ व्रजजनमदयोषिल्लोचनोच्छिष्ट शेषीकृताय नमः । (३.१२)
८१५. ॐ कुवलयदलनीलाय कान्तिपूराय नमः । (३.१२)
८१६. ॐ घोषयोषिदनुगीतयौवनाय नमः । (३.१३)
८१७. ॐ कोमलस्वनितवेणुनिस्वनाय नमः । (३.१३)
८१८. ॐ अभिरामसम्पदां सारभूताय नमः । (३.१३)
८१९. ॐ तामरसलोचनाय नमः । (३.१३)
८२०. ॐ ललितया लीलया अवलम्बिताय नमः । (३.१४)
८२१. ॐ मूर्तिसम्पदां मूलगेहमिव स्थिताय नमः । (३.१४)
८२२. ॐ नीलनीरदविलासविभ्रमाय नमः । (३.१४)
८२३. ॐ दयादर्शितशैशवाय नमः । (३.१५)
८२४. ॐ वन्दारुवृन्दारकवृन्दमौलिमालाविनिमर्दचारु चरणारविन्दद्वन्द्वाय नमः । (३.१५)
८२५. ॐ यस्मिन् क्रौञ्चद्विषः चन्द्रकी यस्य शेखरभरैः नृत्यति तस्मै नमः । (३.१६)
८२६. ॐ धूर्ज्जटेः वृषः यस्य घोषसुरभिं जिघ्रन् दृप्यति तस्मै नमः । (३.१६)
८२७. ॐ हरेः सिन्धुरः यस्य विभ्रमगतिं वाञ्छन् सज्जति तस्मै नमः । (३.१६)
८२८. ॐ वृन्दावनकल्पकद्रुमवनवासिने नमः । (३.१६)
८२९. ॐ अरुणाधरामृतविशेषितस्मिताय नमः । (३.१७)
८३०. ॐ वरुणालयानुगतवर्णवैभवाय नमः । (३.१७)
८३१. ॐ तरुणारविन्ददलदीर्घलोचनाय नमः । (३.१७)
८३२. ॐ करुणालयाय नमः । (३.१७)
८३३. ॐ लावण्यवीचिरचिताङ्गभूषाय नमः । (३.१८)
८३४. ॐ भूषापदारोपितपुण्यबर्हाय नमः । (३.१८)
८३५. ॐ कारुण्यधारालकटाक्षमालायै नमः । (३.१८)
८३६. ॐ वल्लववंशलक्ष्म्यै नमः । (३.१८)
८३७. ॐ मथुरावीथिचराय नमः । (३.१९)
८३८. ॐ नगरीमृगशाबलोचनानयनेन्दीवरवर्षहर्षिताय नमः । (३.१९)
८३९. ॐ मधुरैकरसवपुषे नमः । (३.१९)
८४०. ॐ पर्याकुलेन नयनान्तविजृम्भितेन कोमलमृदुस्मितविभ्रमेण मञ्जुलतरेण वक्त्रेण मन्देन जल्पितेन च हृदयं धुनुते नमः । (३.२०)
८४१. ॐ नन्दस्य तनयाय नमः । (३.२०)
८४२. ॐ कन्दर्पकण्डूलकटाक्षवीचीः इन्दीवराक्षीः अभिलक्षमाणान् मन्दस्मिताधारमुखारविन्दाय नमः । (३.२१)
८४३. ॐ वल्लवधूर्तपादाभ्यां नमः । (३.२१)
८४४. ॐ राधालोचनलालिताय नमः । (३.२२)
८४५. ॐ लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिकप्रीताय नमः । (३.२२)
८४६. ॐ गीतिविभङ्गसङ्गतलसद्वेणुप्रणादामृताय नमः । (३.२२)
८४७. ॐ ललितस्मेराय नमः । (३.२२)
८४८. ॐ माधुर्यैकरसाय मुखेन्दुकमलाय नमः । (३.२२)
८४९. ॐ शरणागतवज्रपञ्जराय नमः । (३.२३)
८५०. ॐ कृपया धृतगोपविग्रहाय नमः । (३.२३)
८५१. ॐ शार्ङ्गधराय नमः । (३.२३)
८५२. ॐ जगत्रैकान्तमनोज्ञभूम्यै नमः । (३.२४)
८५३. ॐ रमासमास्वादितसौकुमार्याय नमः । (३.२४)
८५४. ॐ राधास्तनाभोगरसज्ञाय नमः । (३.२४)
८५५. ॐ चेतसि अजस्रं सन्निधानाय ओजसे नमः । (३.२४)
८५६. ॐ करुणाकराय नमः । (३.२५)
८५७. ॐ वत्सपालचराय नमः । (३.२६)
८५८. ॐ श्रीवत्सलाञ्छनाय नमः । (३.२६)
८५९. ॐ मधुरिमभरिताय नमः । (३.२७)
८६०. ॐ मनोभिरामाय नमः । (३.२७)
८६१. ॐ मृदुलतरस्मितमुद्रिताननेन्दवे नमः । (३.२७)
८६२. ॐ त्रिभुवननयनैकलोभनीयाय नमः । (३.२७)
८६३. ॐ व्रजभाजि महसे नमः । (३.२७)
८६४. ॐ मकरन्दबिन्दुनिष्यन्दलीलामुरलीनिनादाय नमः । (३.२८)
८६५. ॐ व्रजाङ्गनापाङ्गतरङ्गभृङ्गसङ्ग्रामभूमिमुखारविन्दाय नमः । (३.२८)
८६६. ॐ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गिताम्रेडितदिव्यकेलिभरितैः व्रजस्त्रीजनैः स्फीताय महसे नमः । (३.२९)
८६७. ॐ स्वेदाम्भःकणभूषितेन स्मेरेण वक्त्रेन्दुना उपलक्षिताय पादाम्भोजमृदुप्रचारसुभगाय महसे नमः । (३.२९)
८६८. ॐ पाणौ वेणुधराय नमः । (३.३०)
८६९. ॐ प्रकृतिसुकुमाराकृतये बाल्यलक्ष्म्यै नमः । (३.३०)
८७०. ॐ पार्श्वे प्रणयसरसालोकितापाङ्गालीलाः बालाः समेताय नमः । (३.३०)
८७१. ॐ मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रा इत्यार्द्राकाराय नमः । (३.३०)
८७२. ॐ आरूढवेणुमरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहते नमः । (३.३१)
८७३. ॐ कैशोरके वयसि स्थिताय कापि च कान्तियष्टये नमः । (३.३१)
८७४. ॐ अनन्यसाधारणकान्तिकान्ताय नमः । (३.३२)
८७५. ॐ आक्रान्तगोपीनयनारविन्दाय नमः । (३.३२)
८७६. ॐ पुराणस्य पुंसः नवविलासाय नमः । (३.३२)
८७७. ॐ पुण्येन पूर्णेन दृश्यमानाय नमः । (३.३२)
८७८. ॐ मन्दस्मितार्द्रमधुराननचन्द्रबिम्बाय नमः । (३.३३)
८७९. ॐ नन्दस्य पुण्यनिचयाय नमः । (३.३३)
८८०. ॐ नीलाय बालाय नमः । (३.३४)
८८१. ॐ निसर्गसरसाधराय नमः । (३.३५)
८८२. ॐ निजदयार्द्रदिव्येक्षणाय नमः । (३.३५)
८८३. ॐ मनोज्ञमुखपङ्कजाय नमः । (३.३५)
८८४. ॐ मधुरसार्द्रमन्दस्मिताय नमः । (३.३५)
८८५. ॐ रसज्ञहृदयास्पदाय नमः । (३.३५)
८८६. ॐ रमितवल्लवीलोचनाय नमः । (३.३५)
८८७. ॐ भुवनलोभनीयाय महसे नमः । (३.३५)
८८८. ॐ सरसीरुहाक्षाय नमः । (३.३६)
८८९. ॐ वल्लवीस्तनद्वयीदुर्ललिताय नमः । (३.३७)
८९०. ॐ शनैः शनैः श्रावितवेणुनिःस्वनाय नमः । (३.३७)
८९१. ॐ विलासवेषाय नमः । (३.३७)
८९२. ॐ वचसां अतिभूम्यै अभूम्यै एव वा महसे नमः । (३.३८)
८९३. ॐ वासितवल्लवीस्तनाय महसे नमः । (३.३८)
८९४. ॐ मनसां अपररसायनाय नमः । (३.३८)
८९५. ॐ मधुराद्वैताय महसे नमः । (३.३८)
८९६. ॐ जगदेकमण्डनाय नमः । (३.३९)
८९७. ॐ कमलायतेक्षणाय नमः । (३.३९)
८९८. ॐ व्रजसुन्दरीजनविलोचनामृताय नमः । (३.३९)
८९९. ॐ कमनीयधाम्ने नमः । (३.३९)
९००. ॐ मुनिश्रेणीवन्द्याय नमः । (३.४०)
९०१. ॐ मदभरलसद्वल्लववधूस्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगाय नमः । (३.४०)
९०२. ॐ पुलकितगिरा नैगमगिरा पुनःश्लाघिताय नमः । (३.४०)
९०३. ॐ घनश्यामाय नमः । (३.४०)
९०४. ॐ महनीयाकृतये नमः । (३.४०)
९०५. ॐ मनुजाकृतये विभवे नमः । (३.४१)
९०६. ॐ मधुरिमश्रियै नमः । (३.४१)
९०७. ॐ कृशोदरीदृशां विशेषदृश्येन किशोरवेषेण उपलक्षिताय नमः । (३.४२)
९०८. ॐ विशाललोचनाय नमः । (३.४२)
९०९. ॐ यशोदयाऽऽलब्धयशोनवाम्बुधये नमः । (३.४२)
९१०. ॐ नीलनिशाकराय नमः । (३.४२)
९११. ॐ विलासलक्ष्म्याः प्रकृत्यै नमः । (३.४३)
९१२. ॐ प्रणतापराधवीथ्यां प्रकृतिजडाय नमः । (३.४३)
९१३. ॐ सुकृति किशोरभावे कृतपदाय नमः । (३.४३)
९१४. ॐ सुकृतिमनःप्रणिधानपात्राय नमः । (३.४३)
९१५. ॐ अपहसितसुधामदावलेपैः आर्द्रमन्दहासैः अतिसुमनोहराय नमः । (३.४४)
९१६. ॐ व्रजयुवतिविलोचनावलेह्याय नमः । (३.४४)
९१७. ॐ रमावरोधनधाम्ने नमः । (३.४४)
९१८. ॐ अङ्कुरितस्मेरदशाविशेषैरक्ष्णामश्रान्तहर्षामृतवर्षाय नमः । (३.४५)
९१९. ॐ गोपकन्याधन्यस्तनस्वस्त्ययनाय नमः । (३.४५)
९२०. ॐ व्रजगोपवधूस्तनकलशस्थलीघुसृणमर्दनकर्दमित मृगमदपङ्कसङ्करविशेषितवन्द्यमहागिरितटगण्डगैरिकघनद्रवविद्रुमितभुजान्तराय नमः । (३.४६)
९२१. ॐ अजिताय नमः । (३.४६)
९२२. ॐ आमूलपल्लवितलीलमपाङ्गजालैः भुवनं आसिञ्चते नमः । (३.४७)
९२३. ॐ आदृतगोपवेषाय बालाकृतये नमः । (३.४७)
९२४. ॐ मृदुलमुग्धमुखेन्दुबिम्बाय नमः । (३.४७)
९२५. ॐ मधुद्विषे नमः । (३.४७)
९२६. ॐ माधुर्यसिद्धये नमः । (३.४७)
९२७. ॐ व्रजे विरणन्मणिनूपुरचरणाम्भोजाय नमः । (३.४८)
९२८. ॐ अशरणानां शरणाय नमः । (३.४९)
९२९. ॐ शारदाम्भोजनेत्राय नमः । (३.४९)
९३०. ॐ निरवधि मधुरिम्णा नीलवेषेण रम्याय नमः । (३.४९)
९३१. ॐ स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभिः व्रजयुवतिभिः संवेष्टिताय नमः । (३.४९)
९३२. ॐ सुव्यक्तकान्तिभरसौरभदिव्यगात्राय नमः । (३.५०)
९३३. ॐ अव्यक्तयौवनपरीतकिशोरभावाय नमः । (३.५०)
९३४. ॐ गव्यानुपालनविधौ अनुशिष्टाय नमः । (३.५०)
९३५. ॐ अव्याजरम्याय नमः । (३.५०)
९३६. ॐ अखिलेश्वरवैभवाय नमः । (३.५०)
९३७. ॐ अम्बरालम्बिनीनां अमरीणां नयनमधुरिमश्रीनर्मनिर्माणसीम्ना अनुगताय नमः । (३.५१)
९३८. ॐ व्रजयुवतिविलासव्यापृताङ्गाय नमः । (३.५१)
९३९. ॐ त्रिभुवनसुकुमाराय नमः । (३.५१)
९४०. ॐ दिव्यकैशोरकाय नमः । (३.५१)
९४१. ॐ आपादमाचूडमतिप्रसक्तैः यमिनां मनोभिः आपीयमानाय नमः । (३.५२)
९४२. ॐ गोपीजनज्ञातरसाय नमः । (३.५२)
९४३. ॐ गोपालभूपालकुमारमूर्तये नमः । (३.५२)
९४४. ॐ विप्रयोगाकुलानां वृन्दावनमृगदृशां दिष्ट्या प्रणयचपलापाङ्गावीचितरङ्गैः प्रत्यासन्नाय नमः । (३.५३)
९४५. ॐ लक्ष्मीलीलाकुवलयदलश्यामलाय नमः । (३.५३)
९४६. ॐ पुलकमुकुलाभोगभूषाविशेषाय धाम्ने नमः । (३.५३)
९४७. ॐ गुहशिखीन्द्रपिञ्छमौलये नमः । (३.५४)
९४८. ॐ सुरगिरिगैरिककल्पिताङ्गरागाय नमः । (३.५४)
९४९. ॐ सुरयुवतिविकीर्णसूनवर्षस्नपितविभूषितकुन्तलाय नमः । (३.५४)
९५०. ॐ अङ्गजवेल्लितमधुरमन्दशुचिस्मितमञ्जुलव्रजबालवधूजनस्तनतटीविलुठन्नयनावदनपङ्कजाय नमः । (३.५५)
९५१. ॐ अलसविलसन्मुग्धस्निग्धस्मिताय नमः । (३.५६)
९५२. ॐ व्रजसुन्दरीमदनकदनस्विन्नधन्यवदनाम्बुजं वहते तरुणाय नमः । (३.५६)
९५३. ॐ अरुणज्योत्स्नाकृत्स्नस्मितस्नपिताधराय नमः । (३.५६)
९५४. ॐ एणीदृशां विजयश्रेणीं मदयते महसे नमः । (३.५६)
९५५. ॐ क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षणत्रासारूढोपगूहनमहासाम्राज्यसान्द्रश्रियै नमः । (३.५७)
९५६. ॐ त्रिभुवनस्वादीयसे नमः । (३.५७)
९५७. ॐ स्मितस्नुतसुधाधराय नमः । (३.५८)
९५८. ॐ मदशिखण्डिबर्हाङ्किताय नमः । (३.५८)
९५९. ॐ विशालनयनाम्बुजाय नमः । (३.५८)
९६०. ॐ मधुरवेणुनादद्रवाय नमः । (३.५८)
९६१. ॐ व्रजविलासिनीवासिताय नमः । (३.५८)
९६२. ॐ चिरं चेतसा उपासिताय नमः । (३.५८)
९६३. ॐ शिखिशिखण्डकृतावतंसाय नमः । (३.५९)
९६४. ॐ सरसकान्तिसुधासमृद्धये नमः । (३.५९)
९६५. ॐ यस्य सरसकान्तिसुधाबिन्दुलेश-कणिकापरिमाणभाग्यात् पञ्चबाणः सौभाग्यसीमपदं अञ्चति तस्मै नमः । (३.५९)
९६६. ॐ आर्द्रस्मितच्छायाधर्षित-शारदेन्दुललिताय नमः । (३.६०)
९६७. ॐ आयामेन अक्षय्याय विशालतरदृशे नमः । (३.६०)
९६८. ॐ रसिकैः अपरान् आयासान् विधूय मुहुः आस्वाद्यमानाय नमः । (३.६०)
९६९. ॐ उन्मदवल्लवीकुचभराधाराय किशोरमहसे नमः । (३.६०)
९७०. ॐ यस्य स्वाङ्गनाः गोपाङ्गनाः, स्कन्दालम्बि तु वत्सदाम, धनदाः सहायादयः गोपाः, शृङ्गाराः गिरिगैरिकं श्रीमन्ति बर्हाणि वा, तथापि यं त्रिलोकेश्वरं प्राहु तस्मै नमः । (३.६१)
९७१. ॐ त्रिलोकेश्वराय नमः । (३.६२)
९७२. ॐ श्रीमद्बर्हिशिखण्डमण्डनजुषे नमः । (३.६२)
९७३. ॐ श्यामाभिरामत्विषे नमः । (३.६२)
९७४. ॐ लावण्यैकरसावसिक्तवपुषे नमः । (३.६२)
९७५. ॐ लक्ष्मीसरःप्रावृषे नमः । (३.६२)
९७६. ॐ लीलाकृष्टरसज्ञभक्तमनसे नमः । (३.६२)
९७७. ॐ लीलामृतस्रोतसे नमः । (३.६२)
९७८. ॐ गोपीजनप्रेयसे नमः । (३.६२)
९७९. ॐ आपाटलाधराय नमः । (३.६३)
९८०. ॐ अधीरविलोलनेत्राय नमः । (३.६३)
९८१. ॐ आमोदनिर्भरिताय नमः । (३.६३)
९८२. ॐ अद्भुतकान्तिपूराय नमः । (३.६३)
९८३. ॐ आविःस्मितामृताय नमः । (३.६३)
९८४. ॐ अनुस्मृतिलोभनीयाय नमः । (३.६३)
९८५. ॐ आमुद्रिताननाय मधुराननाय नमः । (३.६३)
९८६. ॐ पुरः स्थिताय पूर्णनिर्वाणाय नमः । (३.६४)
९८७. ॐ चरणयोः अरुणाय नमः । (३.६५)
९८८. ॐ कचभरे बहुलाय नमः । (३.६५)
९८९. ॐ करुणार्द्रयोः दृशोः विपुलाय नमः । (३.६५)
९९०. ॐ अञ्जनमेचके वपुषि मञ्जुलाय नमः । (३.६५)
९९१. ॐ वयसि बालाय मधुरमहसे नमः । (३.६५)
९९२. ॐ मालाबर्हमनोज्ञकुन्तलभराय नमः । (३.६६)
९९३. ॐ वन्यप्रसूनोक्षिताय नमः । (३.६६)
९९४. ॐ शैलेयद्रवकॢप्तचित्रतिलकाय नमः । (३.६६)
९९५. ॐ शश्वन्मनोहारिणीं लीलावेणूरवामृतैकरसिकाय नमः । (३.६६)
९९६. ॐ लावण्यलक्ष्मीमयीबालतमालनीलवपुषे नमः । (३.६६)
९९७. ॐ परस्मै देवताय नमः । (३.६६)
९९८. ॐ पदे गुरुमृदवे नमः । (३.६७)
९९९. ॐ गुल्फे गूढाय नमः । (३.६७)
१०००. ॐ जघनस्थले घनाय नमः । (३.६७)
१००१. ॐ उदरे नलिनाय नमः । (३.६७)
१००२. ॐ बाह्वोः दीर्घाय नमः । (३.६७)
१००३. ॐ उरःस्थले विशालाय नमः । (३.६७)
१००४. ॐ अधरे मधुराय नमः । (३.६७)
१००५. ॐ वक्त्रे मुग्धाय नमः । (३.६७)
१००६. ॐ विलोचने विलासिने नमः । (३.६७)
१००७. ॐ कचभरे बहवे नमः । (३.६७)
१००८. ॐ वेषे वन्याय नमः । (३.६७)
१००९. ॐ मनोज्ञमहसे नमः । (३.६७)
१०१०. ॐ सुजानेन मौग्ध्यं जिहानाय जिहानाय नमः । (३.६८)
१०११. ॐ वेणुनादैः सुधां दुहानाय दुहानाय नमः । (३.६८)
१०१२. ॐ सुदीर्घैः अपाङ्गैः लिहानाय लिहानाय नमः । (३.६८)
१०१३. ॐ एकस्मै महानन्दसर्वस्वाय नमः । (३.६८)
१०१४. ॐ लसद्बर्हापीडाय नमः । (३.६९)
१०१५. ॐ ललितललितस्मेरवदनाय नमः । (३.६९)
१०१६. ॐ भ्रमद्क्रीडापाङ्गाय नमः । (३.६९)
१०१७. ॐ प्रणतजनतानिर्वृतिपदाय नमः । (३.६९)
१०१८. ॐ नवाम्भोदश्यामाय नमह् (३.६९)
१०१९. ॐ निजमधुरिमाभोगभरिताय नमः । (३.६९)
१०२०. ॐ परिमिलितकैशोरकरसाय नमः । (३.६९)
१०२१. ॐ आननेन सारस्य सामग्र्यमिव दृश्यमानाय नमः । (३.७०)
१०२२. ॐ स्मितेन माधुर्यचातुर्यमिव दृश्यमानाय नमः । (३.७०)
१०२३. ॐ ईक्षितेन कारुण्यतारुण्यमिव दृश्यमानाय नमः । (३.७०)
१०२४. ॐ दृशोः चापल्यसाफल्याय नमः । (३.७०)
१०२५. ॐ यस्मिन् यदि विश्वसितः निर्वाणमपि दुर्वारं तस्मै नमः । (३.७१)
१०२६. ॐ रागान्धगोपीजनवन्दिताभ्यां पदाभ्यां नमः । (३.७२)
१०२७. ॐ योगीन्द्रभृङ्गेन्द्रनिषेविताभ्यां पदाभ्यां नमः । (३.७२)
१०२८. ॐ आताम्रपङ्केरुहविभ्रमाभ्यां पदाभ्यां नमः । (३.७२)
१०२९. ॐ व्रजसुन्दरीणां सरस्वतीनां अकृत्रिमाणां (सरस्वतीनां)च अर्थानुलापान् आर्द्राशयेन श्रवणाञ्चलेन सम्भावयते तरुणाय नमः । (३.७३)
१०३०. ॐ मधुरमुखाय नमः । (३.७४)
१०३१. ॐ मन्थरापाङ्गाय नमः । (३.७४)
१०३२. ॐ करकलितललितवंशाय नमः । (३.७४)
१०३३. ॐ मनसि सन्निधानाय कापि कृपालहरये नमः । (३.७४)
१०३४. ॐ शिक्षितपाशुपाल्याः बालावृताय नमः । (३.७५)
१०३५. ॐ बर्हिशिखावतंसाय नमः । (३.७५)
१०३६. ॐ प्राणप्रियप्रस्तुतवेणुगीताय नमः । (३.७५)
१०३७. ॐ शीतलगोपकन्याः शीतादृशे नमः । (३.७५)
१०३८. ॐ स्मितस्तबकिताधराय नमः । (३.७६)
१०३९. ॐ शिशिरवेणुनादामृताय नमः । (३.७६)
१०४०. ॐ मुहुस्तरललोचनाय नमः । (३.७६)
१०४१. ॐ मदकटाक्षमालाकुलाय नमः । (३.७६)
१०४२. ॐ उरस्तलविलीनया कमलया समालिङ्गिताय नमः । (३.७६)
१०४३. ॐ भुवः तलं उपागताय भुवनदैवताय नमः । (३.७६)
१०४४. ॐ नयनाम्बुजे कामदुहे नमः । (३.७७)
१०४५. ॐ हृदयाम्बुजे किमपि कारुणिकाय नमः । (३.७७)
१०४६. ॐ चरणाम्बुजे मुनिकुलैकधनाय नमः । (३.७७)
१०४७. ॐ वदनाम्बुजे व्रजवधूविभवाय नमः । (३.७७)
१०४८. ॐ रसान्तराणां निर्वासनाय नमः । (३.७८)
१०४९. ॐ अवतीर्णनिर्वाणसाम्राज्यमिव स्थिताय नमः । (३.७८)
१०५०. ॐ अव्याजमाधुर्यमहानिधानाय नमः । (३.७८)
१०५१. ॐ व्रजानां अधिदैवताय नमः । (३.७८)
१०५२. ॐ गोपीनां अभिमतगीतवेषहर्षात् आपीनस्तनभरनिर्भरोपगूढाय नमः । (३.७९)
१०५३. ॐ केलीनां रसैः उपास्यमानाय नमः । (३.७९)
१०५४. ॐ कालिन्दीपुलिनचराय नमः । (३.७९)
१०५५. ॐ खेचराङ्गनामाननीयमृदुवेणुनिस्वनाय नमः । (३.८०)
१०५६. ॐ कानने कृतास्पदाय नमः । (३.८०)
१०५७. ॐ कालमेघकलहोद्वहाय किमपि महसे नमः । (३.८०)
१०५८. ॐ अलसश्रोणीभरप्रौढिभिः वेणीभूतरसक्रमाभिः श्रेणीकृताभिः एणीशाबविलोचनाभिः अभितः वृताय नमः । (३.८१)
१०५९. ॐ रतिपतेः द्वौ पाणी च तूणीशयैः सायकैः विनोदयते नमः । (३.८१)
१०६०. ॐ वाणीनां परं अपदाय नमः । (३.८१)
१०६१. ॐ व्रजजनक्षोणीपतये नमः । (३.८१)
१०६२. ॐ कालिन्दीपुलिने यः वामे पाणितले मधुरं वेणुं कटिप्रान्ते विषाणं निधाय प्रतिकलं गाः च विलोकयन् तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति तस्मै नमः । (३.८२)
१०६३. ॐ यत् गोपीवदनेन्दुमण्डनं कस्तूरिकापत्रकमभूत् तस्मै नमः । (३.८३)
१०६४. ॐ यत् लक्ष्मीकुचशातकुम्भकलशव्याकोचमिन्दीवरं तस्मै नमः । (३.८३)
१०६५. ॐ यत् निर्वाणनिधानसाधनविधौ योगिनां सिद्धाञ्जनं तस्मै नमः । (३.८३)
१०६६. ॐ श्यामलाय कृष्णाभिधानाय नमः । (३.८३)
१०६७. ॐ फुल्लेन्दीवरकान्ताय नमः । (३.८४)
१०६८. ॐ बर्हावतंसप्रियाय नमः । (३.८४)
१०६९. ॐ श्रीवत्साङ्काय नमः । (३.८४)
१०७०. ॐ उदारकौस्तुभधराय नमः । (३.८४)
१०७१. ॐ सुन्दराय नमः । (३.८४)
१०७२. ॐ गोपीनां नयनोत्पलार्चिततनवे नमः । (३.८४)
१०७३. ॐ गोगोपसङ्घावृताय नमः । (३.८४)
१०७४. ॐ कलवेणुनादरसिकाय नमः । (३.८४)
१०७५. ॐ दिव्याङ्गभूषाय नमः । (३.८४)
१०७६. ॐ यस्य नाभीसरसीरुहान्तरपुटे विधिः भृङ्गायमानः तस्मै नमः । (३.८५)
१०७७. ॐ यस्य वक्षः कमलाविहारभवनं तस्मै नमः । (३.८५)
१०७८. ॐ यस्य चक्षुषी इन्द्विनौ तस्मै नमः । (३.८५)
१०७९. ॐ यस्य पादाब्जविनिस्सृतं सुरनदी शम्भोः शिरोभूषणं तस्मै नमः । (३.८५)
१०८०. ॐ यस्य नामस्मरणं दुरितं धुनोति तस्मै नमः । (३.८५)
१०८१. ॐ घोषयोषित्कटाक्षाः यस्य पादमूले असितजलजैः अञ्जलिः नाभीसरसि मीनाः हृदये मारबाणाः कण्ठे हरिमणिमयाः हाराः वक्त्रपद्मे द्विरेफाः चिकुरनिचये पिञ्छाभूषाः भवन्ति तस्मै नमः । (३.८६)
१०८२. ॐ दधिमथननिनादैः प्रभाते निभृतपदं वल्लवीनां अगारं प्रविष्टः दीपान् मुखकमलसमीरैः आशु निर्वाप्य कबलितनवनीताय नमः । (३.८७)
१०८३. ॐ प्रातः दधिघोषविनीतनिद्राय नमः । (३.८८)
१०८४. ॐ निद्रावसानरमणीयमुखारविन्दाय नमः । (३.८८)
१०८५. ॐ हृद्यानवद्यवपुषे नमः । (३.८८)
१०८६. ॐ उन्निद्रपद्मनयनाय नमः । (३.८८)
१०८७. ॐ नवनीतचोराय नमः । (३.८८)
१०८८. ॐ फुल्लहल्लकवतंसकोल्लसद्गल्लाय नमः । (३.८९)
१०८९. ॐ आगमगवीगवेषिताय नमः । (३.८९)
१०९०. ॐ वल्लवीचिकुरवासिताङ्गुलीपल्लवाय नमः । (३.८९)
१०९१. ॐ यस्य नवनीतचौर्यं स्तेयं हरति तस्मै नमः । (३.९०)
१०९२. ॐ यस्य जारत्वं गुरुतल्पापराधं हरति तस्मै नमः । (३.९०)
१०९३. ॐ यस्य दशाननहतिः हत्यां हरति तस्मै नमः । (३.९०)
१०९४. ॐ यस्य पूतनास्तनपयः मधुपानदोषं हरति तस्मै नमः । (३.९०)
१०९५. ॐ श्री रमापतये नमः । (३.९१)
१०९६. ॐ आकुञ्चितं जानु वामं करं च क्षितौ न्यस्य दक्षिणहस्तपद्मे नवनीतखण्डं आलोकयते बालाय नमः । (३.९२)
१०९७. ॐ जानुभ्यां पाणिभ्यामपि अभिधावते सुन्दरबालकाय नमः । (३.९३)
१०९८. ॐ सकुण्डलालकाय नमः । (३.९३)
१०९९. ॐ सीतापतये नमः । (३.९४)
११००. ॐ यस्य पाणौ मणिचारुवेणुं तस्मै नमः । (३.९४)
११०१. ॐ यस्योत्तमाङ्गे मायूरबर्हं तस्मै नमः । (३.९४)
११०२. ॐ क्षीराम्भोधेः पतये नमः । (३.९५)
११०३. ॐ गवां पालकाय नमः । (३.९५)
११०४. ॐ यस्य निर्यासं हृदयात् न शक्यं तस्मै नमः । (३.९६)
११०५. ॐ तमसि उद्यन् रविरिव भासते नमः । (३.९७)
११०६. ॐ अम्बुराशौ मज्जतां प्लव इव यो विद्यते तस्मै नमः । (३.९७)
११०७. ॐ तृषितानां स्वादुवर्षी मेघ इव योऽस्ति तस्मै नमः । (३.९७)
११०८. ॐ विधनानां निधि इव योऽस्ति तस्मै नमः । (३.९७)
११०९. ॐ दीर्घतीव्रामयानां भिषक् इव योऽस्ति तस्मै नमः । (३.९७)
१११०. ॐ मसृणं कोदण्डं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं हैमीं वेणुलतां करैः च दधानाय नमः । (३.९८)
११११. ॐ सिन्दूरपुञ्जारुणाय नमः । (३.९८)
१११२. ॐ कन्दर्पाधिकसुन्दराय नमः । (३.९८)
१११३. ॐ स्मितमुखाय नमः । (३.९८)
१११४. ॐ गोपाङ्गनावेष्टिताय नमः । (३.९८)
१११५. ॐ वरदाय नमः । (३.९८)
१११६. ॐ त्रैलोक्यरक्षामणये नमः । (३.९८)
१११७. ॐ गोपालाय नमः । (३.९८)
१११८. ॐ त्रैलोक्याकर्षणाङ्गाय नमः । (३.९९)
१११९. ॐ सुरनरगणिकामोहनापाङ्गमूर्तये नमः । (३.९९)
११२०. ॐ नवरसभरितैः शृङ्गारभावैः सेव्याय नमः । (३.९९)
११२१. ॐ गोपकन्यासहस्रैः रासकेलीरताय नमः । (३.९९)
११२२. ॐ अतिसुभगाय नमः । (३.९९)
११२३. ॐ वश्यगोपालकृष्णाय नमः । (३.९९)
११२४. ॐ कदम्बमूले पद्मासनस्थिताय नमः । (३.१००)
११२५. ॐ वेणुं गायते क्रीडते अच्युताय नमः । (३.१००)
११२६. ॐ नीलाम्बुदाभाय नमः । (३.१०१)
११२७. ॐ नवमणिविलसत्किङ्किणीजालबद्धश्रोणीजङ्घान्तयुग्माय नमः । (३.१०१)
११२८. ॐ विपुलरुरुनखप्रोल्लसत्कण्ठभूषाय नमः । (३.१०१)
११२९. ॐ फुल्लाम्भोजाभवक्त्राय नमः । (३.१०१)
११३०. ॐ हतशकटमरुत्पूतनाद्याय नमः । (३.१०१)
११३१. ॐ वन्दितेन्द्राद्यमरवराय नमः । (३.१०१)
११३२. ॐ अजाय प्रसन्नाय नमः । (३.१०१)
११३३. ॐ विकसितकुरुविन्दाभाय नमः । (३.१०२)
११३४. ॐ इन्दीवराक्षाय नमः । (३.१०२)
११३५. ॐ गोगोपीवृन्दवीताय नमः । (३.१०२)
११३६. ॐ जितरिपुनिवहाय नमः । (३.१०२)
११३७. ॐ कुन्दमन्दारहासाय नमः । (३.१०२)
११३८. ॐ नीलग्रीवाग्र्यपिञ्छाकलनसुविलसत्कुन्तलाय नमः । (३.१०२)
११३९. ॐ भानुमते नमः । (३.१०२)
११४०. ॐ पीताम्बराढ्याय नमः । (३.१०२)
११४१. ॐ देवैः वन्द्याय नमः । (३.१०२)
११४२. ॐ चक्रान्तध्वस्तवैरिव्रजाय नमः । (३.१०३)
११४३. ॐ अपास्तावनीभाराय नमः । (३.१०३)
११४४. ॐ नारदाद्यैः मुनिभिरावीताय तत्त्वनिर्ण्णीतिहेतोः अभिनुताय नमः । (३.१०३)
११४५. ॐ निर्मलाङ्गाय नमः । (३.१०३)
११४६. ॐ निरुपमरुचिराय नमः । (३.१०३)
११४७. ॐ नीलभासाय नमः । (३.१०३)
११४८. ॐ विश्वोदयस्थित्यपहरणपराय नमः । (३.१०३)
११४९. ॐ मुक्तिदाय नमः । (३.१०३)
११५०. ॐ वासुदेवाय नमः । (३.१०३)
११५१. ॐ ऐक्षवं कोदण्डं अखण्डं पौष्पं इषुं च चक्राब्जपाशसृणिकाञ्चनवंशनालं अष्टविधबाहुभिः बिभ्राणाय नमः । (३.१०४)
११५२. ॐ अर्कवर्णाय नमः । (३.१०४)
११५३. ॐ मदनगोपविलासवेषाय नमः । (३.१०४)
११५४. ॐ विदुरार्पिते, कुन्त्यर्पिते, गोवर्धनमूर्ध्नि, पृथुके, यशोदार्पिते स्तन्ये, भारद्वाजसमर्पिते, शबरिकादत्ते, योषितां अधरे, मुनिपत्निभक्तिरचिते या प्रीतिः अत्रापि तां तां कुरु इति प्रार्थ्य एतत् नामावली श्रिकृष्णपादाम्बुजे समर्पिता । (३.१०५)
इति श्रीकृष्णकर्णामृतनामावलिः सम्पूर्णा ।
श्रीकृष्णार्पणमस्तु ।
सर्वापराधानि क्षम्यतां ।
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥
लोकाः समस्ताः सुखिनो भवन्तु ।
श्रीकृष्णकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन्
कृतज्ञता - श्री मोहन् चेट्टूर्
Compiled by: Madathil Narendran,
᳚Nama Sivaya᳚, Near Siva Temple,
Kallekulangara, Palakkad-678009, Kerala, India
email: madathilnarendran at gmail.com.
Phone (0091) 9495035516᳚
Encoded and proofread by Madathil Narendran