श्रीकृष्णलीला रत्नपञ्चकम् ३
(रत्नपञ्चके तृतीयं रत्नम् ।)
गोवर्धनधर ! गोपीवल्लभ ! गोपाल ! गोप ! गोविन्द ! ॥
प्रसीद परमानन्द ! पावन ! परमात्मकृष्ण ! पापघ्न ! ॥ १॥
वृन्दावनसुरभूरुहतलासीनपार्थसारथिं कृष्णम् ॥
सुवेणुनादविनोदं विष्णुं वन्दे वनमालाकण्ठम् ॥ २॥
प्रणम्य कृष्णं ह्यतिशुद्धरूपं
साक्षात्प्रभुं राममजस्वरूपम् ।
वदामि किञ्चित्स्वनुभूतमात्रं
श्रीकृष्णलीलाममनस्त्वसिद्ध्यै ॥ ३॥
कालिन्दीयमुनाजलेषु बहुषः श्रीकृष्णलीलाऽभव-
तच्चित्सौख्यसुसक्तवारिषु नरैः स्नात्वा मुदा प्रेमतः ।
सन्ध्यादौ हरिचन्दनं ह्यतिशुभं श्रीकृष्णनामामृतै-
र्मिश्रीकृत्य सुधार्यतां सुविमलं मूढैरपि प्रोच्चकैः ॥ ४॥
यल्लिप्तं प्रतिनित्यमर्चनविधौ भक्तैः प्रभौ चन्दनं
गोपीभिः स्वकरैस्तदेव सलिलैः प्रक्षालितं प्रेमतः ।
गोपीचन्दननामतस्तदभव च्चित्सौख्यसङ्गात्प्रभोः
पापघ्नं धरणीतले निजमुखे यो धारयेन्मुक्तिभाक् ॥ ५॥
ऊर्ध्वं पुण्ड्रं धारयेद्विष्णुभक्तः
संन्यासी वा ब्रह्मचारी गृहस्थः ।
शङ्खं चक्रं सर्वचिह्नानि सम्यक्
तत्तत्स्थाने ध्यानयुक्तं सुभक्त्या ॥ ६॥
हृदयकमले ध्यात्वा कृष्णं हरिं प्रभुमच्युतं
नियतमनसा पूर्णात्मानं सदैव जगद्विभुम् ।
हृदि शिरसि यो बाहौ कण्ठे नरोऽत्र सुधारये-
दिहपरसुखं कृष्णप्रीत्या निजामृतमाप्नुयात् ॥ ७॥
कमलनयनं मेघश्यामं तनौ समलङ्कृतं
द्विभुजममलं गोपीप्राणं सुरद्रुममश्रितम् ।
रसति भजति ज्ञानानन्दो न्विहाचलभक्तितो
वनचरगवीमध्ये कृष्णं स मुक्तिमवाप्नुयात् ॥ ८॥
ईड्यः कृष्णः सुरमुनिजनैर्गोपगोपीसमेतो
यः कालिन्दीसलिललहरीसङ्गिवातेन सेव्यः ।
एको नित्यो विविधरहितोऽद्वैतमात्रोऽपि लीलां
कुर्वाणोऽजोऽज्ञजनसुहितार्थाय देहं दधानः ॥ ९॥
कृष्णो हि ब्रह्मचारी सरसि कमलवच्छ्रेष्ठ एवावतारे
भूम्यां साक्षात्स्वरूपः प्रकटितविमलो लोककल्याणकारी
सर्वे गायन्ति कृष्णं त्रिगुणविरहितं गोपगोपीसमेतं
नानालीलां स्वमायां मुनिहृदयहरां दर्शयन्तं जनानाम् ॥ १०॥
गर्भजन्ममृत्युरोगतापपापहारकः
शक्तियुक्तिभुक्तिभक्तिसर्वदायकः प्रभुः ।
स्त्रीसुयुक्त -गोपबाल -पार्थसारथिर्हरि-
र्ब्रह्म नित्यशुद्धबुद्धमुक्तसत्सुखात्मकम् ॥ ११॥
क्रोधकामलोभमोहदम्भदर्पमत्सराऽऽ-
दुष्टदैत्यनाशतो भजेत्सुधीः सुभावतः ।
शान्तिदान्तिवेदसारकृष्णभक्तिमेव तां
नित्यसिद्धमुक्तकृष्णवस्तु लभ्यते ततः ॥ १२॥
वक्रदन्तकेशिकंसपूतनादिराक्षस-
स्वस्थसर्वदोषरूपनाशतः स्वयं प्रभुः ।
स्वस्वरूपसिद्धगुह्यशाश्वतं निजप्रभं
ब्रह्म कृष्ण एव राजते सदा मुदा हृदि ॥ १३॥
रामकृष्णवासुदेवनारसिंहवामनः
पद्मनाभमाधवत्रिविक्रमाच्युताव्ययः ।
श्रीधरो जनार्दनो ह्यधोक्षजोऽद्वयो विभु-
ब्रह्म कृष्ण एव नारदादिमौनिसेवितः ॥ १४॥
नारायणो रघुवरो ज्ञवरैः सुसेव्यो
दामोदरो हरिहरोऽप्यनिरुद्धविष्णुः ।
सङ्कर्षणश्च मधुसूदनगोपिकाहृ-
त्पद्मासनस्थविमलो भगवान्वरेण्यः ॥ १५॥
विज्ञानरूपपरिपूर्णमनाद्यनन्तं
ब्रह्मात्मवस्तु सुखकेवलसुज्ञसेव्यम् ।
गोविन्दवेणुधरगोपसुचित्तचोरं
कृष्णं परात्परतरं शरणं व्रजेन्ना ॥ १६॥
कृष्णो ब्रह्मैव साक्षाज्जनविजनसमः स्त्रीपुमान्भेदशून्यो
गोपीगोपादिलीलां भ्रमनिरतजनाः सर्वसत्यां वदन्ति ।
नानास्त्रीबाललीला गुणरहितगुणे कल्पना का कथं स्या-
त्कृष्णज्ञानाय तस्माद्विषयसुरमणं त्यज्यतां शीघ्रमेव ॥ १७॥
कंसोऽहङ्कार आदौ नियमितमनसा कृष्णभक्त्या विलीनः
कर्तव्यः साधकेन प्रथितशमदमा उद्धवाक्रूररूपाः ।
दुर्बोधं ब्रह्म कृष्णं विरहितविषमं सच्चिदानन्दपूर्णं
ज्ञात्वा ह्यत्यन्तयत्नैर्निरतिशयसुखं कृष्णभावं लभेत्सः ॥ १८॥
द्वेषश्चाणूरनामा ह्यतिनिजमहिमा मुष्टिको मत्सरो वै
गर्वः कंसश्च दर्पः सहजकुवलयापीड एवातिदुष्टः ।
तन्नाशानन्तरं वै सुमधुरललनागोपिकाध्यातरूपः
श्रीकृष्णो ब्रह्म पूर्णं सततमुपनिषत्सारभूतं चकास्ति ॥ १९॥
सकामोऽकामो भवति स्मृत्वा कृष्णं च गोपिकाः ॥
जलं तीर्त्वा भवाम्बोधेः परं पारं गता यथा ॥ २०॥
ब्रह्मानन्दो गोपिकाप्रीतिपात्रं
कृष्णः शान्तः शुद्धमायाविहीनः ।
गोपो बालः शुद्धचित्तेन नित्यं
ध्यातव्यश्चित्साधकैः प्रेमभक्त्या ॥ २१॥
गीताप्रोक्तं पार्थरूपेण नित्यं
स्वस्मिंज्ञात्वा स्वेन, मायाविमोहम् ।
त्यक्त्वाऽद्वैतं केवलं ब्रह्म पूर्णं
कृष्णात्मानं भावयेद्वस्तुमात्रम् ॥ २२॥
विश्वेऽस्मिन्खलु चरजङ्गमे मुरारिः
सर्वात्मा सततविशुद्धमूर्तिरस्ति ।
कल्याणं परमपवित्रकृष्णमत्र
ज्ञात्वा स्वं स्वनुभवतश्च मुक्तिभाक्सः ॥ २३॥
मनोवाचातीतं परमपुरुषं कृष्णममलं
स्वमात्रं स्वस्मिन्सद्ध्यनुभवपरं केवलमजम् ।
कथं को निःशब्दं निरवयवनित्यं निरुपमं
कया सामग्र्या वा प्रवदति महद्ब्रह्म विबुधः ॥ २४॥
कल्याणसेवककृताऽमलकृष्णलीला
लीला हरेघ्दृदयरागविकल्पलीलाम् ।
शृण्वन्ति ये च कथयन्ति कथाममूं ते
भक्ता भवन्ति गृहबन्धनतो विमुक्ताः ॥ २५॥
इति श्रीसमर्थरामदास-कल्याणसेवकपदान्वित-
कल्याणसेवकप्रणीत रत्नपञ्चके तृतीयं रत्नं
श्रीकृष्णलीलानाम सम्पूर्णम् ॥
Proofread by Brahatha Mohan