श्रीकृष्णलीला रत्नपञ्चकम् ३

श्रीकृष्णलीला रत्नपञ्चकम् ३

(रत्नपञ्चके तृतीयं रत्नम् ।) गोवर्धनधर ! गोपीवल्लभ ! गोपाल ! गोप ! गोविन्द ! ॥ प्रसीद परमानन्द ! पावन ! परमात्मकृष्ण ! पापघ्न ! ॥ १॥ वृन्दावनसुरभूरुहतलासीनपार्थसारथिं कृष्णम् ॥ सुवेणुनादविनोदं विष्णुं वन्दे वनमालाकण्ठम् ॥ २॥ प्रणम्य कृष्णं ह्यतिशुद्धरूपं साक्षात्प्रभुं राममजस्वरूपम् । वदामि किञ्चित्स्वनुभूतमात्रं श्रीकृष्णलीलाममनस्त्वसिद्ध्यै ॥ ३॥ कालिन्दीयमुनाजलेषु बहुषः श्रीकृष्णलीलाऽभव- तच्चित्सौख्यसुसक्तवारिषु नरैः स्नात्वा मुदा प्रेमतः । सन्ध्यादौ हरिचन्दनं ह्यतिशुभं श्रीकृष्णनामामृतै- र्मिश्रीकृत्य सुधार्यतां सुविमलं मूढैरपि प्रोच्चकैः ॥ ४॥ यल्लिप्तं प्रतिनित्यमर्चनविधौ भक्तैः प्रभौ चन्दनं गोपीभिः स्वकरैस्तदेव सलिलैः प्रक्षालितं प्रेमतः । गोपीचन्दननामतस्तदभव च्चित्सौख्यसङ्गात्प्रभोः पापघ्नं धरणीतले निजमुखे यो धारयेन्मुक्तिभाक् ॥ ५॥ ऊर्ध्वं पुण्ड्रं धारयेद्विष्णुभक्तः संन्यासी वा ब्रह्मचारी गृहस्थः । शङ्खं चक्रं सर्वचिह्नानि सम्यक् तत्तत्स्थाने ध्यानयुक्तं सुभक्त्या ॥ ६॥ हृदयकमले ध्यात्वा कृष्णं हरिं प्रभुमच्युतं नियतमनसा पूर्णात्मानं सदैव जगद्विभुम् । हृदि शिरसि यो बाहौ कण्ठे नरोऽत्र सुधारये- दिहपरसुखं कृष्णप्रीत्या निजामृतमाप्नुयात् ॥ ७॥ कमलनयनं मेघश्यामं तनौ समलङ्कृतं द्विभुजममलं गोपीप्राणं सुरद्रुममश्रितम् । रसति भजति ज्ञानानन्दो न्विहाचलभक्तितो वनचरगवीमध्ये कृष्णं स मुक्तिमवाप्नुयात् ॥ ८॥ ईड्यः कृष्णः सुरमुनिजनैर्गोपगोपीसमेतो यः कालिन्दीसलिललहरीसङ्गिवातेन सेव्यः । एको नित्यो विविधरहितोऽद्वैतमात्रोऽपि लीलां कुर्वाणोऽजोऽज्ञजनसुहितार्थाय देहं दधानः ॥ ९॥ कृष्णो हि ब्रह्मचारी सरसि कमलवच्छ्रेष्ठ एवावतारे भूम्यां साक्षात्स्वरूपः प्रकटितविमलो लोककल्याणकारी सर्वे गायन्ति कृष्णं त्रिगुणविरहितं गोपगोपीसमेतं नानालीलां स्वमायां मुनिहृदयहरां दर्शयन्तं जनानाम् ॥ १०॥ गर्भजन्ममृत्युरोगतापपापहारकः शक्तियुक्तिभुक्तिभक्तिसर्वदायकः प्रभुः । स्त्रीसुयुक्त -गोपबाल -पार्थसारथिर्हरि- र्ब्रह्म नित्यशुद्धबुद्धमुक्तसत्सुखात्मकम् ॥ ११॥ क्रोधकामलोभमोहदम्भदर्पमत्सराऽऽ- दुष्टदैत्यनाशतो भजेत्सुधीः सुभावतः । शान्तिदान्तिवेदसारकृष्णभक्तिमेव तां नित्यसिद्धमुक्तकृष्णवस्तु लभ्यते ततः ॥ १२॥ वक्रदन्तकेशिकंसपूतनादिराक्षस- स्वस्थसर्वदोषरूपनाशतः स्वयं प्रभुः । स्वस्वरूपसिद्धगुह्यशाश्वतं निजप्रभं ब्रह्म कृष्ण एव राजते सदा मुदा हृदि ॥ १३॥ रामकृष्णवासुदेवनारसिंहवामनः पद्मनाभमाधवत्रिविक्रमाच्युताव्ययः । श्रीधरो जनार्दनो ह्यधोक्षजोऽद्वयो विभु- ब्रह्म कृष्ण एव नारदादिमौनिसेवितः ॥ १४॥ नारायणो रघुवरो ज्ञवरैः सुसेव्यो दामोदरो हरिहरोऽप्यनिरुद्धविष्णुः । सङ्कर्षणश्च मधुसूदनगोपिकाहृ- त्पद्मासनस्थविमलो भगवान्वरेण्यः ॥ १५॥ विज्ञानरूपपरिपूर्णमनाद्यनन्तं ब्रह्मात्मवस्तु सुखकेवलसुज्ञसेव्यम् । गोविन्दवेणुधरगोपसुचित्तचोरं कृष्णं परात्परतरं शरणं व्रजेन्ना ॥ १६॥ कृष्णो ब्रह्मैव साक्षाज्जनविजनसमः स्त्रीपुमान्भेदशून्यो गोपीगोपादिलीलां भ्रमनिरतजनाः सर्वसत्यां वदन्ति । नानास्त्रीबाललीला गुणरहितगुणे कल्पना का कथं स्या- त्कृष्णज्ञानाय तस्माद्विषयसुरमणं त्यज्यतां शीघ्रमेव ॥ १७॥ कंसोऽहङ्कार आदौ नियमितमनसा कृष्णभक्त्या विलीनः कर्तव्यः साधकेन प्रथितशमदमा उद्धवाक्रूररूपाः । दुर्बोधं ब्रह्म कृष्णं विरहितविषमं सच्चिदानन्दपूर्णं ज्ञात्वा ह्यत्यन्तयत्नैर्निरतिशयसुखं कृष्णभावं लभेत्सः ॥ १८॥ द्वेषश्चाणूरनामा ह्यतिनिजमहिमा मुष्टिको मत्सरो वै गर्वः कंसश्च दर्पः सहजकुवलयापीड एवातिदुष्टः । तन्नाशानन्तरं वै सुमधुरललनागोपिकाध्यातरूपः श्रीकृष्णो ब्रह्म पूर्णं सततमुपनिषत्सारभूतं चकास्ति ॥ १९॥ सकामोऽकामो भवति स्मृत्वा कृष्णं च गोपिकाः ॥ जलं तीर्त्वा भवाम्बोधेः परं पारं गता यथा ॥ २०॥ ब्रह्मानन्दो गोपिकाप्रीतिपात्रं कृष्णः शान्तः शुद्धमायाविहीनः । गोपो बालः शुद्धचित्तेन नित्यं ध्यातव्यश्चित्साधकैः प्रेमभक्त्या ॥ २१॥ गीताप्रोक्तं पार्थरूपेण नित्यं स्वस्मिंज्ञात्वा स्वेन, मायाविमोहम् । त्यक्त्वाऽद्वैतं केवलं ब्रह्म पूर्णं कृष्णात्मानं भावयेद्वस्तुमात्रम् ॥ २२॥ विश्वेऽस्मिन्खलु चरजङ्गमे मुरारिः सर्वात्मा सततविशुद्धमूर्तिरस्ति । कल्याणं परमपवित्रकृष्णमत्र ज्ञात्वा स्वं स्वनुभवतश्च मुक्तिभाक्सः ॥ २३॥ मनोवाचातीतं परमपुरुषं कृष्णममलं स्वमात्रं स्वस्मिन्सद्ध्यनुभवपरं केवलमजम् । कथं को निःशब्दं निरवयवनित्यं निरुपमं कया सामग्र्या वा प्रवदति महद्ब्रह्म विबुधः ॥ २४॥ कल्याणसेवककृताऽमलकृष्णलीला लीला हरेघ्दृदयरागविकल्पलीलाम् । श‍ृण्वन्ति ये च कथयन्ति कथाममूं ते भक्ता भवन्ति गृहबन्धनतो विमुक्ताः ॥ २५॥ इति श्रीसमर्थरामदास-कल्याणसेवकपदान्वित- कल्याणसेवकप्रणीत रत्नपञ्चके तृतीयं रत्नं श्रीकृष्णलीलानाम सम्पूर्णम् ॥ Proofread by Brahatha Mohan
% Text title            : Shrikrishnalila (Ratnapanchakam 3)
% File name             : shrIkRRiShNalIlA.itx
% itxtitle              : shrIkRiShNalIlA (ratnapanchakam 3 kalyaANasevakavirachitA)
% engtitle              : shrIkRRiShNalIlA (ratnapanchakam 3)
% Category              : vishhnu, viShNu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Kalyanasevaka
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Brahatha Mohan
% Indexextra            : (Scan)
% Latest update         : May 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org