श्रीश्रीनिवासस्तवः
श्री श्रीनिवासपरब्रह्मणे नमः
आत्रेय श्रीवेङ्गटाध्वरिणः कृतौ
श्रवणानन्दे
प्रथमशतकम्
आचक्रायुधमा च मामकगुरोराचार्यवर्गं भजे
यस्यान्तर्निगमान्तदेशिकयतिश्रेष्ठौ मुनिर्यामुनः ।
रामस्तामरसेक्षणः स च मुनिर्नाथः शठारातिरि-
त्यन्तस्सन्तमसच्छिदः श्रुतिदृशामग्रेसरा जाग्रति ॥ श्रीः ॥
या कल्याणनिधिर्व्रजन्ति शरणं यामेव धीमेदुरा
यक्षेशन्ति ययेक्षिता भुवि जना यस्यै हरिस्तिष्ठते ।
यस्या जातमिदं वदन्ति भुवनं यस्याः सदस्याः सुरा
यस्यामायतते शिवं भगवस्तामिन्दिरां चिन्तये ॥ २॥
माकानेकहगर्वचर्वणचणैर श्रान्तविश्राणनै-
र्मानाकाङ्क्षितसंविधाननिपुणे नारायणे जाग्रति ।
कष्टं कष्ठमुपेत्य दुष्टनृपतिद्वारक्षमा रक्ष मा-
मित्याक्रन्दकृतां वृथैव दिवसान्येतानि यातानि नः ॥ ३॥
तूर्णं दुर्नरपालवर्णनमहादुर्नाटकोपक्रमं
दोषं शेषयितुं वृषाचलपते तोषं च नेतुं सतः ।
अत्रामुत्र च लब्धुमग्र्यसुमनोलभ्यानि भाग्यान्यमी
पद्माकान्त तव स्तवे भवदवैरार्ताः प्रवर्तामहे ॥ ४॥
वाचा वाञ्छति यत्तव स्तवमिह प्रह्वापि जिह्वा चिरा-
दाराध्यामि भवन्तमित्यपदिशंस्तेनापराध्यामि ते ।
यद्वाऽसावतिबालवागिति कृपाव्याजाय ते जायते
सन्दत्ते शिशुकैः शुकैश्च कलितो वर्णोऽपि कर्णोत्सवम् ॥ ५॥
मालीमस्यमवापिता घनतमःप्रायैर्मुरारे चिरा-
दिङ्गालैरिव जङ्गमाधमगुणाभासैरियं भारती ।
तत्तादृग्भिरशङ्करशिरःकम्पस्य सम्पादकै-
र्गम्भीरैरवदायते तव गुणैर्गाङ्गैस्तरङ्गैरिव ॥ ६॥
जम्भालम्भनचित्तकम्पनमहाकुम्भाभवक्षोजभृ-
द्रम्भाद्यामरशम्भलीदृढरीरम्भादिकं भावुकम् ।
शम्पालोलमवेक्ष्य मुह्यतु जनः किं पामरेणामुना
त्वं पादाम्बुजचुम्बनं भगवतः सम्पादयेथा मनः ॥ ७॥
वेदैर्वक्तुमजादयो गुणगणान् विश्वेश ते नेशते
स्तोतुं तान् मितया गिरा व्यवसितो हास्याय हा स्यादयम् ।
सिन्धुं राघवसेतुनाऽपि तरितुं तं सर्वतो दुश्शकं
को वा लङ्घयितुं व्यवस्यति कुशस्तम्बेन कुम्भेन वा ॥ ८॥
मुग्धे वाणि नृणां गुणाः कतिपये मिथ्या निबद्धा इति
प्रोत्सिक्ता भगवद्गुणानुकथनारम्भाय किं जृम्भसे ।
आकृष्टाः कतिचिद् वनेषु हरिणा इत्याजिहार्षामहो
लुब्धो लब्धमदो विधास्यति विधोरङ्के कुरङ्गेऽपि कः ॥ ९॥
त्वत्कल्याणगुणामृतार्णवसुधालेशोऽपि लीढो भवं
हन्तीति स्तवविस्तरेष्वपटुता नातीव दोषाय नः ।
आपाताप्लव एव जह्नुदुहितर्यह्नाय शुध्द्यै भवेत्
तस्या नेतरगाधवारिषु तलस्पर्शोऽपि नापेक्षितः ॥ १०॥
सन्दर्भे मम माऽस्तु सुन्दरतया सन्तोषसान्द्रो बुधः
किन्तु त्वद्गुणलेशपेशलतया सन्तुष्यतु श्रीपते ।
राजानो मणिपेटिकामवहिता रक्षन्ति यत् तत्र नो
पेटीसौष्ठवमेव हेतुरपि तु ख्यातं मणेर्गौरवम् ॥ ११॥
नाद्यं भूतमहो वहामि शिरसा त्वत्पादजातं न च
द्वैतीयीकमथ त्वदीक्षणभुवः शौरे तृतीयस्य वा ।
अन्ते नावसमप्यवाप्य जननं तुर्यान्न वा पञ्चमे
किञ्चाहं चरतां गुरुस्तदपि ते स्तोत्रे प्रवर्ते कथम् ॥ १२॥
ओङ्कारस्य रहस्यमित्यज इति ब्रह्मेति सर्वात्मना-
मात्मेति प्रकृतेः परः पुरुष इत्याद्यः स्वयम्भूरिति ।
वेदान्तैरवबोधिताय भगवन् विश्वैकजीवातवे
बोधानन्दमयाय सिन्धुदुहितुर्नाथाय तुभ्यं नमः ॥ १३॥
यश्चक्षुर्जगतां तदेव निगमास्त्वञ्चक्षुराचक्षते
लक्ष्मीनाथ तथापि दृश्यमितरादृश्यः स्वयं पश्यसि ।
अप्येतच्छतमन्युपावकजनिस्थानं सदा नः पुन-
र्वक्त्रं देव तव प्रसादशिशिरं हर्षं दृशोर्वर्षति ॥ १४॥
तत्तादृक्करुणारसैरविरलैस्त्वन्मानसं शीतलं
तापानां त्रितयं हरेदिति हरे धैर्यं ममोदञ्चति ।
तज्जन्मा विवृणोति शीतकिरणस्तच्छैत्यमत्युज्ज्वलं
लिङ्गं कार्यगुणं हि कारणगुणे शंसन्ति निस्संशयम् ॥ १५॥
नित्याय स्वतनुस्थवारिधिवरापत्याय मृत्युञ्जय-
स्तुत्याय क्षपितप्रणम्रजनदौर्गत्याय सत्यात्मने ।
इच्छानिर्मितविश्वजन्यवनसंहाराय निश्श्रेयस-
द्वाराय स्थिरसम्पदे नम इदं नारायणायास्तु ते ॥ १६॥
दीनानां सुरधेनवे तनुभृतामन्तस्तमोभानवे
मायातूलकृशानवे कलयते मानक्षतिं दानवे ।
निर्धूताखिलकर्मणे विनमतां नित्येन्दिरानर्मणे
तुभ्यं निर्मलधर्मणे नम इदं कुर्मः परब्रह्मणे ॥ १७॥
पादाम्भोजमहं भजामि भवतो वेदाञ्चलैरञ्चितं
प्रख्यातात् किल पन्नगाचलपते यस्य प्रभावादसौ ।
सिद्धा मूर्ध्नि फनीश्वरस्य पृथिवीं शर्वस्य चापो मुने-
रग्निश्चाक्षपदस्त्रिवर्णजनुषां शुश्रूषकाप्तिस्तथा ॥ १८॥
मूर्तीनां तिसृणां परा तु कतमेत्यब्जाक्ष संशेरते
भ्रान्तिं यान्ति च देवतान्तरपरैर्ये वाङ्मयैस्तामसैः ।
यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति गृह्णाति वा
यश्चैतच्छिरसैव तेषु परमः को वेति पृच्छामि तान् ॥ १९॥
पर्यङ्कस्तव पङ्कज्जाक्ष गिरिजाप्राणेशितुर्भूषणं
चारु त्वच्चरणारविन्दसलिलं चूडापदे मालिका ।
मन्त्रो नित्यजपोचितो ननु भवन्नामैव तद्योषितः
पारम्ये भवतो मुकुन्द भुवि कः सन्देग्धि मन्देतरः ॥ २०॥
नालीके जननं स्थितिं च भजतो नारायण ब्रह्मणः
स्थानेऽभूद् रज एव कारणगुणः कार्ये हि सूते गुणम् ।
ईशाने पुनरन्धकारिपदभाज्यर्हं तमस्तत् किल
श्रीवासे त्वयि सारसत्वविभवः सञ्जाघटीति स्फुटम् ॥ २१॥
नागेन्द्राद्रिविहार सारसवनस्तोमप्रकाशावहा
धीरोदारपदक्रमा मतिमताध्येया सुवर्णाकृतिः ।
पुष्यन्ती निजमौलिना सुमनसो ज्योतिष्मदङ्गोज्ज्वला
त्रय्येषा सुरपूज्य रज्यतितरां त्वय्येव लक्ष्मीरिव ॥ २२॥
नित्पापाकृतमीर्निरत्ययशुभाधारैर्वृतो बान्धवैः
प्रौढाभस्थिरधीरसन्नभवनस्थायी व्यथाभारहृत् ।
सद्गोष्ठीषु सदा विभानमधिकं प्राप्तः श्रितस्त्वां हरे
तत्तुल्यस्त्वदनाश्रितश्च भगवन्नन्त्ये भङ्गं विदुः ॥ २३॥
श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय-
श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामन्वहम् ।
यो विश्वेन च गात्रवान् हिमरुचाऽप्युष्णांशुना नेत्रवान्
सुग्रीवेण च मित्रवान् कुशलवब्रह्मादिभिः पुत्रवान् ॥ २४॥
पूर्वं त्वत्पदपांसुना बलिरिपो पूता जलध्यद्गना
पुंसः साऽपि सुरापगा वितनुते पूतान् सुरापानपि ।
पत्नी योगिवरस्य सा सुरपगा प्राप्ता विशुद्धिं परां
तेनेत्यत्र न विस्मयः स मम किं पापं न लोपं नयेत् ॥ २५॥
मामाराध्य दुरत्ययं स्वयममी मायापयोधिं तर-
न्त्वित्यालोच्य सहेन्द्रियैरिह वपुस्त्वं चेतनेभ्योऽदिशः ।
तेष्वेके तत एव दुष्कृतशतं सञ्चिन्वते श्रीपते
क्लृप्ते तापशमाय विन्दति सरस्यन्धस्तु पातव्यथाम् ॥ २६॥
गोविन्देति कृपाकरेति कमलाकान्तेति कृष्णेति वा
काकुत्स्थेति रघूद्वहेति जलदश्यामेति रामेति वा ।
वैकुण्ठेत्यतिचण्डकण्टकवनीदावेति देवेति वा
शेषाद्रीश तवैव नाम कथयन् श्रेयो न विन्देत कः ॥ २७॥
कल्याणैकनिकेतनं तदनघं कालाम्बुदश्यामलं
चित्ते नृत्यतु शेषभूधरशिरोरत्नं चिरत्नं महः ।
यस्योरस्यनिशं सुता जलनिधेर्यस्यास्ति तन्मेखला
पार्श्वे यस्य पदे च तत्प्रियतमा यत् तत्र शेते स्वयम् ॥ २८॥
दुरादेव निरस्य दुष्टनृपतिद्वाराग्रनित्यस्थितिं
तारावल्लभदुर्लभप्रभमुखं धाराधरश्यामलम् ।
पारावारसुतासखं सुमनसामाराधयामः प्रभुं
घोरापारसमस्तदुष्कृतपरीहाराय नारायणम् ॥ २९॥
कीर्तिं नश्चिरवर्तिनीं क्षितितले पुष्णातु कृष्णाम्बुदः
कश्चित् तापहरो गृहीतकमलः कल्लोलिनीवल्लभात् ।
धिन्वन् जीवनदानतो जगदिदं तन्वन्नदीनां श्रियं
प्राप्तः साधुकदम्बजृम्भणकरः श्रीवेङ्कटक्ष्माधरम् ॥ ३०॥
आस्तामष्टनवैर्दिनैरपयती प्रास्तापर्वर्गस्पृहा
वृष्णोन्तःपुरकेळिताण्डवविधौ तृष्णा कदुष्णाञ्चिता ।
दीक्षामाश्रितरक्षणे कृतवतो मोक्षाय लक्ष्मीपतेः
साक्षदेव पदारविन्दविषयां प्रेक्षामपेक्षामहे ॥ ३१॥
कल्याणानि चिरं तरङ्गगयतु नः कारुण्यकल्लोलिनी-
कान्तस्स्वान्तचरस्सतां सफलयन् काकोदरेन्द्राचलम् ।
आमोदादमृतं ददाति विबुधव्राताय जातादरो
गाम्भीर्यैकनिधिर्घनैरभिगतो यो जीवनप्रेप्सुभिः ॥ ३२॥
पुण्यारण्यमहीरुहैरविरले पुष्पासवैश्शीतले
नानादिग्जनसेव्यमान शिखरे नागाधिपक्ष्माधरे ।
आविर्भूतमुपासितं मुनिजनैरप्राकृतं दैवतं
पद्माकान्तभुजान्तरं शुभपरीपाकाद्विलोकामहे ॥ ३३॥
अङ्घ्रिं जिघ्रति वेङ्कटाचलपतेरारुह्य चोरुद्वयी-
मध्यास्ते रशनामथाटति कटोमासेवते नन्दकम् ।
वक्षस्थां श्रयते श्रियं विहरते शङ्खे रथाङ्गे च धी-
रालीढे मुखचन्द्रमण्डलसुधां कोटीरमाटीकते ॥ ३४॥
ध्यातं योगकलाविलासरसिकैश्शीतं दयास्रोतसा
ख्यातं मौळिषु कृत्रिमेतरगिरां क्रीतं श्रिया विभ्रमैः ।
वेतण्डेन्द्रविपद्विमोचनचणं वातन्धयक्ष्माधरे
जातं धाम निरामयं प्रशमयत्वा तङ्कजातं मम ॥ ३५॥
हेमाटोपविडम्बिगात्रसुषमां वामालकां कामपि
प्रेमावेशवशेन वक्षसि वहन्वैमानिकेन्द्राञ्चितः ।
क्षेमाणि स्वयमातनोतु जगतां कामाभिरामाकृतिं-
र्भूमा कोऽपि भुजङ्गभूधरशिरस्सीमातमालोपमः ॥ ३६॥
प्रातर्नातनवं तवाभिगमनं पश्चात्त्वदर्चाक्षमं
द्रव्यं नार्जयमाचरं न च ततः प्राज्यां त्वदिज्यामषि ।
स्वाध्यायं न च हर्षहेतुमजपं नाध्यायमङ्घ्री च ते
तन्मे जन्म विपश्चितोऽपि विफलं शौरे तिरश्चामिव ॥ ३७॥
भोगीशानमहीधरेन्द्रमकुटीपाटीरवाटीचर-
द्भिल्लोत्फुल्लसरोजपत्रनयनानेत्रैकपात्रायितः ।
नाभीपद्मनिवासिधातृवदनप्रोद्यज्जरद्भारती-
गानाकर्णनहृष्टकर्णयुगळः पायादपूर्वः प्रभुः ॥ ३८॥
नाभेरेव बभूव यस्य गगनं नेत्रादसौ तन्मणिः
चित्तात्तत्परिपन्थि धाम शिशिरं तच्छेखरः फालतः ।
प्राणात्तत्करकङ्कणाशनमदोमित्रं च वक्रादयं
शेषाद्राववलोकितो हरिरुरोभूषायितान्तःपुरः ॥ ३९॥
शौरे वाहनयाञ्चकर्थ शकुनिं मुक्त्वा गजाश्चादिकान्
सर्पे संविशसे कथं मणिमये तल्पेऽप्यनल्पे सति ।
विस्तीर्णालयहीनवत् सुबहुषु स्थानेषु सत्स्वप्यहो
पुत्रं नाभिबिले न्यधाः कथमिमां पत्नीं च वक्षस्थले ॥ ४०॥
अविरतमधुपानक्षुभ्यदक्षिभ्रुवाणा-
मवनिभृदधमानामास्यमात्मम्भरीणाम् ।
परुषतममपास्य प्रत्यहं नित्यहर्ष-
प्रदमिदमवलोके पद्मनाभाङ्घ्रिपद्मम् ॥ ४१॥
सकलकुशलदायी सर्वदेवातिशायी
प्रबलदुरितलावी भक्तचित्तानुसेवी ।
भवगहनविदारी पारिजातापहारी
फणिपतिगिरिवासी पादु पद्माविलासी ॥ ४२॥
उरुतरदुरितैघध्वंसदक्षैः कटाक्षैः
उपचितकमलानामुत्पलश्यामलानाम् ।
फणिगिरिनिलयानां भक्तदत्ताभयानां
दृढमतिरहमद्य स्तोममभ्येमि भासाम् ॥ ४३॥
प्रबलदनुजपाळीप्राणसंहारकेळी-
पटिमघटितकीर्तिर्भास्वदानन्दमूर्तिः ।
फणिगिरिगृहमेधी भक्तबाधानिरोधी
भवतु हृदि ममायं प्रास्तुवन्नागमा यम् ॥ ४४॥
कमलविमलशोभाविभ्रमादभ्रमान्-
क्षपणनिपुणवक्त्रः कौणपानाममित्रः ।
उरसि सरसिजाक्षीमुद्वहन्विद्वदाढ्यं-
करणचरणरेणुः कोऽपि पायादपायात् ॥ ४५॥
विविधनिगमसारे विश्वरक्षैकधीरे
वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे ।
भगवति यदुवीरे भक्तबुद्धेरदूरे
भवतु चिरमुदारे भावना निर्विकारे ॥ ४६॥
अनिशमुरुभिरत्रामुत्र च क्लेशमूलैः
किमुदरभृतिकार्यैराप्रयाणादवार्यैः ।
सुखमनघमवाप्तुं सोऽहमम्भोदभासं
फणिपतिगिरिवासं भावये श्रीनिवासम् ॥ ४७॥
प्रतिकटकमटित्वा पार्थिवाग्रे नटित्वा
पटुचटुशतमुक्त्वा पातकान्येव कृत्वा ।
किमिह फलमवाप्तं केवलं कैटभारेः
स्मर चरणसरोजे सन्तराम्यन्तरात्मन् ॥ ४८॥
वशयति हृदयं मे वर्षति श्रीश हर्षं
जनयति परिशुद्धिं जायते मङ्गळाय ।
दमयति परितापं देव निर्हन्ति पापं
दरमपि विधुनीते दर्शनं तावकीनम् ॥ ४९॥
कबलितघनवर्गः कान्तिभिः पेशलाभिः
कमलवननिवासाकान्तबाहान्तरालः ।
पुरुष इह रथाङ्गी पूर्णिमाचन्द्रबिम्ब-
प्रतिभटवदनश्रीः प्रातराभातु चित्ते ॥ ५०॥
सुरतरुरिवोदारो दारोपशोभिभुजान्तरः
मधुरकरुणालोको लोकोपरक्षणदीक्षितः ।
अखिलसुमनःकोटीकोटीरचुम्बिपदाम्बुजः
फणिधरणिभृन्मल्लो मल्लोचनाभरणायते ॥ ५१॥
तमुपनिषदां सारं सारङ्गलाञ्छनलोचनं
प्रकटितकृपासारं सारम्भमाश्रितपालने ।
लयमिह रुषा वारं वारं नयन्तममुं द्विषां
वृषगिरिपतिं वारं वारं शुभाय विचिन्तये ॥ ५२॥
मुनिभिरनिशं ध्येया गेया सुरप्रमदाजनैः
वलभिदुपलच्छायादायाददीप्तिलसत्तनुः ।
उरसि विहरज्जाया कायाधवाभयदायिनी
विहितदुरितापाया पायाद्वृषाचलदेवता ॥ ५३॥
दुरितभरिते दुर्देहेऽस्मिन् दुरामयदूषिते
मम नवनवस्तर्षोत्कर्षो भवत्यनिवारितः ।
अमुमपनयन्नम्भोजश्रीकदम्बविडम्बके
तव हृतनमत्खेदे पादे रुचिं रचयेशितः ॥ ५४॥
अभिगतिमुखैरस्यामि श्रीनिवास न वासरान्
प्रशमितभवोद्वेगैर्योगैर्नयामि न यामिनीः ।
न च विरचये नाथ त्रुठ्यत्तमांसि नमांसि ते
तदपि भवता हा मे मुक्तिस्पृहाऽपि न हापिता ॥ ५५॥
दुरत्ययरुजातुरे दुरितधूसरे नश्वरे
हरे बत कलेवरे मतिहरे कृतघ्नोदरे ।
स्पृहामिह विहाय ते स्मरति मानसं मे यथा
तथा कुरु सुधाब्धिजासख दयामविघ्नोदयाम् ॥ ५६॥
तमःप्रकररुद्धये तदनु सत्त्वसंवृद्धये
विशुद्धमतिसिद्धये विमलनिर्बृतेर्लब्धय ।
भवन्तु मयि सन्ततं भगवतो वृषाद्रिप्रभोः
प्रगेतनपयोरुहप्रतिभटाः कटाक्षच्छटाः ॥ ५७॥
प्रपन्नानां नानादुरितपरितापव्यतिकरं
निरुन्धाना धानाप्रदमुनिधनेशीकृतिचणा ।
प्रबिभ्राणाऽभ्राणामपि मदहरां दीप्तिमनघाम्
भृताशेषा शेषाचलशिखरभूषा विजयते ॥ ५८॥
मुदे वो देवोऽयं भवतु भुजगेन्द्राचलतटी-
कृतावासो वासोरुचिनिचयधूताचिररुचिः ।
गजादीनां दीनां शमयितुमवस्थां करुणया
निजग्राह ग्राहप्रभृतिरिपुवर्गं सपदि यः ॥ ५९॥
अभीष्टं वो दुग्धामखिलमिह गोपालतिलकः
पयोदश्यामाङ्गः फणिधरणिभृत्काननचरः ।
अघा सं वद्धानामहह जरतीनामपि गवां
परीपोषं कुर्वन् रसममितमुत्पादयति यः ॥ ६०॥
नमस्तस्मै भस्मीकृतनरकबाणादिविबुध-
प्रतिद्वन्द्विश्रेणीविषतरुवनीकाय महते ।
हुतानां हव्यानां नियतमुपभोक्त्रेऽधिसवनं
प्रशस्ताराध्याय प्रचुररुचये निस्यशुचये ॥ ६१॥
विहारि जगदुद्भवस्थितिविलोपनैर्यातनां
धुनातु मिथुनं मिथस्तदवियोगि यत्रैककम् ।
वदन्ति वसुधाधरं पुनरचञ्चलाभं बुधाः
परं नवसुधाधरं स्फुरति चञ्चलाभं तथा ॥ ६२॥
शुचये रचये प्रणाममस्मै
प्रभवे सुप्रभवेषपेशलाय
हरये निरयेक्षणं क्षणं यं
विनता नो जनता कदाप्युपैति ॥ ६३॥
कलिकल्मषहारिनामधेयं
कलये तापसमानसावधेयम् ।
मदनस्पृहणीयरूपधेयं
तदनन्ताचलमौलिभागधेयम् ॥ ६४॥
तव सागरभूस्तु धर्मपत्नी
दिवसानामधिपो निवासवेदिः ।
शिवधातृमुखास्सुतास्त्वदन्यै-
रवधार्यो महिमा कथं त्वदीयः ॥ ६५॥
मधुरं विधुरम्यवक्त्रबिम्बं
महितं धाम हितं मखाशनेभ्यः ।
तदहं मदहन्तृ दानवानां
विदधे भीत्युदधेः प्लवं गुणाढ्यम् ॥ ६६॥
नमतां ममतावलेपहन्त्रे
वरदाय स्फुरदायतेक्षणाय ।
करवै मुरवैरिणे प्रणामा-
नुरगोर्वीधरगो य एष भाति ॥ ६७॥
करुणावरुणालयं मुरारे
कमलाक्षं कमलाक्षमासमेतम् ।
भजते निजतेजसा जितार्कं
विगतांहा जगतां धुरन्धरं त्वाम् ॥ ६८॥
अनन्तशैलेश तवाभिधानं
क्षणं गृणन्तः प्रविशन्ति नाकम् ।
रमासख त्वद्विमुखाश्च मध्ये
रसङ्गतं हन्त तमेव यान्ति ॥ ६९॥
प्रसाधयेद् यां तपसा चिरेण
स्मरान्तक श्लाघ्यतरां गतिं ताम् ।
वृषाचलारण्यनिषादकाना
प्रसादलेशेन न साधयेत्किम् ॥ ७०॥
ददासि दासप्रकराय राय
स्तथाऽपि नाथ त्वमकम्पसम्पत् ।
श्रियो वियोगस्य कथा कथं स्या-
दहीनपृथ्वीभृदुपाश्रयस्य ॥ ७१॥
प्राप्तोदयो हि प्रथमाद्रिशृङ्गे
दोषावसाने हरिरेष दृश्यः ।
संशोषयन्मानसवृतिपङ्गं
प्रसन्नपङ्केरुहशोभनाभः ॥ ७२॥
सा काऽपि राकाशशिदास्यदास्य-
मुद्रा समुद्रात्मजया जयाढ्या ।
शेषाद्रिभूषा जलदाविशेषा
पायादपायाद्वसतिः कृपायाः ॥ ७३॥
अन्यादृशी तार्क्ष्यरथा सुधाब्धि-
कन्यापदन्यासविशेषधन्या ।
मूर्तिर्मदार्तिं महनीयकीर्ति-
र्मुष्णातु कृष्णा विनतेष्वनुष्णा ॥ ७४॥
भवान् पुराणः पुरुषः प्रसिद्धो
वयोऽधिकं तावकवाहमाहुः ।
कापि त्वरा ते करिराजगर्जा-
काले कथङ्कारमभून्मुरारे ॥ ७५॥
नरे नरेऽहं धनचापलेन
नवं नवं व्यातनवं स्तवं यत् ।
ततस्ततं दोषमशेषमुञ्चै-
स्तव स्तवः श्रीकमन च्छिनत्तु ॥ ७६॥
न मे मनो योषिदुरोजकुम्भे
न स्वीयडिम्भे न च शातकुम्भे ।
परं तु रन्तुः कमलालयायाः
पदारविन्दे रुचिमेव विन्दे ॥ ७७॥
अभूरिवर्षोन्मुखमेघसुन्दरै-
रनाश्रितश्रीवृषशैलकन्दरैः ।
अनिन्दिरामन्दिरसद्भुजान्तरै-
रलं बतान्धै रिह देवतान्तरैः ॥ ७८॥
त्वदङ्घ्रिपद्मैकधना धनान्तरं
न कामयन्ते न च साधनान्तरम् ।
अनन्तशैलेश भवन्तमेव यत्
फणन्त्युपायं च फलं च पण्डिताः ॥ ७९॥
नलिननयन नागशैलवासिन्
मलिनहृदामपि कल्मषापहन्तः ।
जननमरणरोगदुःखशान्त्यै
चरणयुगं शरणं वृणे त्वदीयम् ॥ ८०॥
गोवर्धनोऽपि शिरसा विधृतः किमन्य-
द्येन त्वयाधिजठरं सकलोऽपि लोकः ।
तस्मिन्निह त्वयि वृषाद्रिपतेऽहमात्म-
रक्षाभरं कृशतमो निदधामि दक्षे ॥ ८१॥
किं भो मनः कितवलम्पटशम्भलीनां
सम्भोगकेलिकिलिकिञ्चितसम्भ्रमेण ।
अम्भोजदम्भहरनेत्रयुगो यशोदा-
डिम्भो रसेन भवता परिरम्भणीयः ॥ ८२॥
मोट्टायितं त्रिदशपट्टणकुट्टिनीनां
दृष्टं विनष्टमिदमष्टनवैर्दिनैस्तत् ।
हृट्टीकतां स्थितिमदुष्टिनि शुक्समष्टि-
कुट्टाकदृष्टिनि धृतक्षिणि वस्तुनीदम् ॥ ८३॥
दम्भोलिपाणिपुटभेदनशम्भलीनां
वक्षोजकुम्भपरिरम्भसुखोपलम्भम् ।
मा नाम चीकमत मानसमस्मदीयं
वैकुण्ठचिन्तनरसैर्वयमुत्सुकाः स्मः ॥ ८४॥
न मणीन् रमणीश्च सोऽहमीहे
न हयेभ्यः स्पृहये न वा गजेभ्यः ।
वरदश्शरदश्शतं दृशौ मे
भुजगाद्रौ शरणार्थिनो धिनोतु ॥ ८५॥
कारागेहे संसृतिरूपे भ्रमतो मे
का रागे हे कृष्ण विवृद्धे मतिवार्ता ।
नागोदाराहार्यपते मां स्वयमव्या
नागो दारालङ्कृतमूर्ते मम वीक्ष्यम् ॥ ८६॥
वन्दारुषु मन्दारममन्दार्तिहरं ते
वन्दामह इन्दावपि निन्दावहमास्यम् ।
मारारिकुमारादिसमाराधितमूर्ते
नारायण घोरादपचारादिह पायाः ॥ ८७॥
प्रधानाय सम्पन्निधानाय भक्त-
व्यथानाशदत्तावधानाय तुभ्यम् ।
समस्ताधिनाथ स्वमस्थाभिक्लृप्तं
नमस्स्तादिदं निस्तमस्ताविधायिन् ॥ ८८॥
नागराजाचले सागराग्र्यात्मजा-
कान्तबाहान्तरो दान्तबाधाहरः ।
वारिजाक्षश्श्रयत्पारिजातो जग-
द्राजते रक्षितुं राजतेजोमुखः ॥ ८९॥
मरुतां भगवन् मरुतां विरतिं
लषतां मिषतां द्विषतां ततयः ।
भवता मनुजीभवता मृदुतां
जहता महता निहता इह ताः ॥ ९०॥
किञ्चित्सञ्चिन्तये गोपीकिलिकिञ्चितवञ्चितम् ।
अञ्चितं ज्योतिरमरैरञ्जनाद्रावुदञ्चितम् ॥ ९१॥
सर्वदानन्दनिलयं सार्थयन्नवनीतहृत् ।
कृष्णस्त्वं वेङ्कटाधीश किं तु शैलेन धार्यसे ॥ ९२॥
वृषाचलपते कृत्स्नविषादहरणक्षमम् ।
प्रपद्ये भवतः पादपयोरुहमहं कृशः ॥ ९३॥
मानयामो हरे न त्वामानयामो न ते मुदम् ।
पनायामोऽहह क्षुद्रान् धनायामोहतो हताः ॥ ९४॥
प्रपद्ये निरवद्यं तत्फणिभूधरभूषणम् ।
परब्रह्म हरब्रह्मदुर्लभं वल्लभं श्रियः ॥ ९५॥
अञ्जनमहीधरचरं जनमनीषा-
रञ्जनमधोक्षज निरञ्जनमिह त्वाम् ।
लोचनयुगीकृतविरोचनसुधांशुं
केचन भजन्ति भवमोचनमभिज्ञाः ॥ ९६॥
सञ्चरति योगिहृदि किञ्च रविबिम्बे
यो लसति नीलघनजालसममूर्तिः ।
निष्कृतिविहीनबहुदुष्कृतिसमुत्थं
सङ्कटमपास्यतु स वेङ्कटगिरीशः ॥ ९७॥
इन्दुकरवृन्दपरिकन्दलदमन्दा-
नन्दकरमन्दहससुन्दरमुखश्रि ।
निस्तुलमुपस्थितमुरस्स्थितवरस्त-
न्यस्तु मम शेषगिरिमस्तगतवस्तु ॥ ९८॥
प्रशमितपिशिताशं प्रास्तसंसारपाशं
कृतनतगदनाशं कीर्तिभिस्स्मेरिताशम् ।
नवजलदनिकाशं नागशैलप्रकाशं
परिहृतविषयाशं भावयामो रमेशम् ॥ ९९॥
कल्याणाभ्यामशेषाभ्युदयविभवसम्पीडनक्रीडनाभ्यां
नाभ्यामभ्युद्गतस्य द्वियुगमुखशिशोः श्रूयमाणस्तवाभ्याम् ।
बोधामोदार्णवाभ्यां भुजगपरिबृढक्ष्माधरालङ्कृतिभ्यां
दिव्याभ्यां दम्पतिभ्यां भवतु नम इदं देवतासेविताभ्याम् ॥ १००॥
॥ इत्यात्रेय श्रीवेङ्कटध्वरिकृतिषु श्रवणानन्दे
श्रीनिवासस्तवे प्रथमशतकम् ॥
॥ अथ द्वितीयशतकम् ॥
श्रियः प्रियतमं सेवे शेषाचलशिरोमणिम् ।
महितं सुमनोवृन्दैर्मन्दारमिव मादृशाम् ॥ १॥
कमनीयैर्निजालोकैः कमलानन्दकारिभिः
तमसामपनेतारं तमेव हरिमाश्रये ॥ २॥
परिष्कृताञ्जनधरं परं श्रुत्यन्तगोचरम् ।
लोचनं स्तौमि लोकानां किमप्यज्ञानमोचनम् ॥ ३॥
प्रतीपशरभारावलोपकं गजपालकम् ।
दधामि हरिमाश्चर्यं गुहाशयमिहाश्रये ॥ ४॥
अदृश्यं योगिवर्यैरप्यब्जदीप्तिकरं हरिम् ।
उपतिष्ठेऽधिकारुण्यमुद्यन्तमिव भास्करम् ॥ ५॥
देवतामादिमां वन्दे धृतां भुजगभूभृता ।
समुद्रमाश्रितामुर्वीं पृथुचापप्रसाधिताम् ॥ ६॥
आनन्दनिलयं वन्दे श्लाघ्यं दुग्धार्णवादपि ।
श्रीधरं यत्र जागर्ति परं ज्योतिर्निरञ्जनम् ॥ ७॥
प्रपन्नाभयदोस्मीति सत्यापय वचो मयि ।
नाळीकशब्द उचितः श्रीनिवासस्य ते यतः ॥ ८॥
प्रपञ्चास्यमुपास्य त्वां नृपञ्चास्यति मानवः ।
करोषि तस्य यत्स्वामिन् करोषितमभीप्सितम् ॥ ९॥
वृषाचलेशस्य तुषारदीधितित्विषा मुखेनार्तविषादहारिणः ।
मुदां निदानं द्युसदावलिस्तुतं सदा पदाम्भोजमुदारमाश्रये ॥ १०॥
सकृत्प्रपन्नाय कृशाय दैवतैरनाप्यमप्यर्पयसि स्थिरं पदम् ।
दयालुता माधव दुर्बलेषु हि प्रभूत्तमानां परमं विभूषणम् ॥ ११॥
अजस्रमप्यब्धिसुतां वहन्नुरस्यजामधिष्ठाय सृजन् प्रजा हरे ।
भवत्यहो मन्मथजन्मभूर्भवान् तथापि कन्दर्पजिताऽभिमन्यसे ॥ १२॥
त्व किमिन्दुना तेन कलङ्कितेन यं प्रबिभ्रतो नापगतान्धकारिता ।
तवैव वीक्षे मुखचन्द्रमद्भुतं तमो मुरारे हरति स्मृतोऽपि यः ॥ १३॥
पतङ्ग उद्यन्नुपमानतां भव-
स्पदो नु[दोर्न]देव प्रतिवक्तु [पत्तु]मर्हति ।
असंशयं दुष्यति यस्य दर्शने
जनो ययोस्त्वभ्युदयं प्रपद्यते ॥ १४॥
फणभृदद्रीश गुणालिभिः क्षमा-
घृणाविरोधिक्षपणादिभिश्श्रुतम् ।
प्रणामतस्त्वां निपुणाश्रयं त [-णः श्रयन् स]दा
नृणां पतीनेव तृणाव[य] मन्यते ॥ १५॥
मनस्तुरङ्गं विषयच्छटावटान्तरे गभीरेव द[पत]यालुमाशु मे ।
वितु[कृ]ष्य दक्षं विरचय्य शिक्षया
हरे तदु[मु]च्चैरधिरोढुमर्हसि ॥ १६॥
स्थिरमङ्गलदायकम् श्रितानां परमं धाम वृषाद्रिधाम वन्दे ।
स्मरमन्युमदैर्गदैरयुक्ता न रमन्ते हि यतोऽपरत्र युक्ताः ॥ १७॥
वलवैरिशिलावलेपलोपक्षमभू[भा]मण्डलभव्यदिव्यदेहम् ।
प्रणमत्तित्रदशा[शं] दृशोः पुरस्तात्
परमं वस्तु तदस्तु निष्कलं मे ॥ १८॥
तरुणार्ककरावमर्शहृष्यन्नलिनाहङ्कृतिहुङ्कृतिप्रवीणम् ।
भवमोचन लोचनद्वयं ते भगवन्मामकमानसे चकास्तु ॥ १९॥
भुवनाभ्युदयावनान्तलील स्तवनादेव सतीहितार्थदातः ।
तव दास्यपदे मयीह शौरे भवदावानलपातिता न युक्ता ॥ २०॥
वृषशैलवनस्थलीविहारी मधुहारी सुमनश्शिरस्सु नित्यम् ।
निहिताङ्घ्रिरलङ्कृतागमान्तो मम चेतःकमले तु लालगीतु ॥ २१॥
द्युतरो नमतां प्रसीद शार्ङ्गिन् इतरोपायविधावहं न शक्तः ।
तरणौ तरणे त्र[कृ]पां सृजन्तौ
चरणौ ते शरणं वृणे शरण्यम्[ण्य] ॥ २२॥
इदमेव पदं सुरस्रवन्तीं जनयित्वा शिवयाम्बभूव शम्भुम् ।
इति माधव दर्शयन् करस्ते सततं लोचनगोचरो मम स्तात् ॥ २३॥
जगदण्डसहस्रभारखेदो जठरस्यातिकृशस्य जतु मा भूत् ।
इति तद्बलकल्पनाय कट्यां कलितं श्रीधर चिन्तये करं ते ॥ २४॥
नतिरस्तु तटिद्धनद्युतिभ्यां श्रितशेषाचलशृङ्गसङ्गतिभ्याम् ।
परिपालितभक्तसन्ततिभ्यां प्रथमाभ्यामनुरूपदम्पतिभ्याम् ॥ २५॥
हरिनीलनिभं हरेरुरस्तत्कलये श्रीः किल यत्र वर्तमाना ।
उषिता ध्रुवमुत्पलेऽपि नीले कमला पद्म इवेति सौति बुद्धिम् ॥ २६॥
गारुत्मतद्युतिविडम्बिनि कैटभारे
गाढे विराजति तवोरसि कौस्तुभोऽयम् ।
दीव्यत्तमालगहनाहितमेचकिम्नि
प्राच्यावनीधरतटे भगवानिवार्कः ॥ २७॥
सर्वज्ञमस्तकगृहीतकलस्य तस्य
भ्रातुर्विधातुमनसः परमं प्रक[ह]र्षम् ।
लक्ष्म्याः किमिङ्गितमवेत्य वृषाचलेन्दो
वक्त्रेऽर्धचन्द्रतिलकं वहसि प्रसन्नः ॥ २८॥
गोवर्धनं धृतवता गुणपूर्ण मूर्ध्ना
मन्थानमप्यचलमूढवता महान्तम् ।
अम्भोरुहाक्ष वहसे किमपक्षपातात्
तं चारु काञ्चनमयम् च [गिरिं सु]मेरुम् ॥ २९॥
प्रह्लादवारणविभीषणभानुसूनु-
पाञ्चालराजतनयाप्रमुखावनेन ।
तावद्बभूव तव नैवे वृषाचलेन्दो
यावद्यशोऽतिकृशमादृशरक्षणेन ॥ ३०॥
ग्राहग्रहेण विरटन् करटीव नैते
लोकान्तरागमविलम्बसहिष्णवो मे ।
इत्यस्मदाद्यलसदासरिरक्षिषातो
जागर्ति[र्षि] नाथ वृषभूभृति सावधाने[नः] ॥ ३१॥
यन्मेखलापरिलसन्मणिमञ्जुदीप्ति-
पीताम्बरस्सु[रं सु]मनसः कथयन्ति या[यं] च ।
यद्भोगिभूभृदिति यश्च हरे प्रसिद्धं
वासस्तवावहतु तञ्च स च श्रियं नः ॥ ३२॥
अत्युन्नतं तिलकभूषितमायताक्ष-
मुद्भासिमेखलमुदारसहस्रपादम् ।
शेषाचलेशितरनन्तपदाभिधेयं
त्वां त्वद्गिरिं च सममेव विचिन्तयामः ॥ ३३॥
अल्पेतरश्रमविकासकरैरसारै-
र्घोरैरलं तव[बत] लुलायकुलानुसारैः ।
काङ्क्षाधिकार्पणकृतत्रिदिवद्रुनिन्दे
वन्दे मुकुन्द भवतश्चरणारविन्दे ॥ ३४॥
अक्षाणि मे विषयपङ्कमलीमसानि
प्रक्षिप्य [-क्षाल्य] नाथ गुरुणा करुणारसेन ।
पादाम्बुजे ननु निजे अमृतप्रदो [दे]
षडेतानि तल्पदय [सङ्गमय] षट्पदकूजितानि ॥ ३५॥
मन्देतरस्फुरणमङ्गलकालमेघ-
मन्देहदायिसुषुमैकनिकायकायम् ।
वन्दे तमेव वरदं शरम्बुजाक्षं
यं देवमाहुररविन्दगृहासहायम् ॥ ३६॥
कमलनयन दीव्यत्कौस्तुभोदारदीपं
भवनभवतु नस्तद्बाहुमध्याभिधानम् ।
प्रथितसदनुभावैस्सात्विकैर्भाव्यमानं
यदुतिलक समिन्धे यत्र शृङ्गारवत्वम् ॥ ३७॥
अनुचितमहमीदृङ्मुक्ततां यत्समीहे
मशकशिशुरिवोच्चैर्भक्त [मत्त] मातङ्गरूपम् ।
क्षममिदमथवा मे त्वां प्रपन्नस्य तूर्णं
तृणमपि वृषशैलाधीश दिव्यास्त्रयन्तम् ॥ ३८॥
विषद[ज]विततिरास्तामुत्पलं धिक् सरोगं
कृतमतिकठिनैस्तैर्गोत्रभिद्ग्रावभिश्च ।
नियतममृतदं ते निर्मितातङ्कभङ्गं
वपुरतिसुकुमारं वासुदेव स्तुतो[वेऽ]हम् ॥ ३९॥
प्रकृतिमहदहङ्कृत्यादिकं तत्त्वजातं
पुरुषमपि शरीरं तावकं सङ्गिरन्ते ।
मधुमथन परं ब्रह्मैकमेवाद्वितीयं
त्वमसि तदखिलश्रुत्यन्ततात्पर्यभूमिः ॥ ४०॥
निखिलविहितहातॄन् नीतकालान्निषिद्धैः
निरुपधिकरुणाब्धिस्त्रातुमस्मानकस्मात् ।
विभुरपहतपाप्मा विश्वभूतान्तरात्मा-
प्यधिवससि वृषागाधित्यकां सत्यकामः ॥ ४१॥
पुनरपि जननीनां चेन्न कुक्षौ विविक्षा
निरवधिनि सुखे चेदस्ति साक्षादपेक्षा ।
चरणनलिनयुग्मे तावके देव के वा
शरणवरणमेते श्रीपते नाचरन्ति ॥ ४२॥
वरद मदपचाराः किञ्चिदालोचिताश्चे-
न्नलिननयन नालं नारकास्त्वत्प्रक्लृप्ताः ।
वितरणकरुणाद्यास्त्वद्गुणाश्शीलिताश्चे-
दमृतमपि सुधान्धुं [सुरान्धः] स्वल्पमित्यप्यवैमि ॥ ४३॥
हृदि मम कलुषेऽस्मिन् पादपद्मं त्वदीयं
चरतु कथमिदं ते नाथ हन्तेति चिन्ताम् ।
दुरुपलसुतनृकृत्यद्भुतानःप्रहार-
प्रभृति चरितमस्य श्रीपते निर्धुनीते ॥ ४४॥
अशरणं भगवन्नभिरक्ष मामयमहं भवतः करुणापदम् ।
प्रचुररोगगणेन च पाप्मनां ननु यतश्चयतः प्रसृतोऽस्म्यहम् ॥ ४५॥
अतितरामपराधपरम्परां रचयतो मनुजानभिरक्षितुम् ।
कमलया सहखेलमभूषयन् हि[द्धि]ततमं ततमञ्जनभूधरम् ॥ ४६॥
त्रिभुवनैकवदान्यमनन्यधीः किमपि नाथ भवन्तमिहार्थये ।
तव पदाम्बुजभक्तिमनुत्तमां कलय मे लयमेति यथा[या] तमः ॥ ४७॥
कृतबुधावमतीन् कुमहीपतीनिह विहाय मदीयगिरां चयः ।
मधुरिपुं भजतां मधुरस्फुरन्नवरसो वरसोमसुहृन्मुखम् ॥ ४८॥
विफलया विषयान्तरचिन्तया किमनयाऽपितु कामपि देवताम्
भज मनस्सुमनःप्रकरैः सदा नमसितामसिताम्बुधरोपमाम् ॥ ४९॥
तव रमासख तुङ्गतमा क्षमा तमपि येन ररक्षिथ वायसम् ।
त्वदितरो निहतिं बत तत्र को न कुरुते कुरुतेऽपि कृतागसि ॥ ५०॥
अपि कृतागसि तेऽजनयत्क्षमां मयि रमा क्षणमप्यनया भवान् ।
मुररिपो वरिवर्ति कन[कर]स्फुरद्वनजया न जयावहया विना ॥ ५१॥
मधुरिपो भवदीयभुजान्तरं मनसि मे लगताद् धृतकौस्तुभम् ।
स्फुरति यत्र हि मादृशगुप्तये सरसिजोरसिजोपमिताचला ॥ ५२॥
फणिपतिक्षितिभृत्तटभूषणे बलिरिपो हृदयं रिपुभीषणे ।
भवति रज्यति मूर्तिरिवोल्लसन्मरतके रतकेलिजुषः श्रियः ॥ ५३॥
फणिगिरौ हि स एव भवान् [वन्] भवान्मितधियामवनार्थमवातरत्
अविरतं मुनयः कमलोल्लसत्पद हरे दहरे यमुपासते ॥ ५४॥
तावकं किमपि देव कञ्जभूवामदेववलशासनादिभिः ।
दैवतैरविरतं निषेवितम् पादपङ्कजयुगं भजामहे ॥ ५५॥
अञ्चतां दुरितपुञ्जभञ्जनादञ्जनावनिधरावतंसकात् ।
अन्यमत्र नहि चित्तमानये मानये न च विरोधिहानये ॥ ५६॥
दासमाविधि [थ] कयासु [धु] नन्दनं
दन्तिनं दशमुखानुजं घ [श्रि] तम् ।
श्रीनिवास चरितानि ते परं कानि वा न विकृतानि पण्डितैः ॥ ५७॥
राजमानविभवां महीमरुद्राजमानसविहारहा [वा] सिकाम् ।
मानयामि फणिशैलदेवतामानयामि च तदङ्घ्रिमाशयम् ॥ ५८॥
देवकीतनय तावकी तनूरिन्दिराविहृतिमन्दिरायिता ।
आतनोति मम नूतनोत्पलश्यामला परमकोमला मुदम् ॥ ५९॥
प्रातराशयमहीशभूमिभृन्नेतराश [श्र] य रमापते मम ।
वीतरागविनुतात् त्वदुञ्चकैर्नेतरानिह भजामि निर्जरान् ॥ ६०॥
नीति [च] राजिमनुसृत्य नित्यमप्याचरामि विहितं न माधव ।
खेचराभिनुत नो मतिर्भवद्गोचरापि कृपयैव पाहि माम् ॥ ६१॥
मेघदर्पहरदीप्तिवैखरी शेखरीकृतपदाम्बुजा सुरैः ।
भाविता मुनिभिरादिदेवता सं [सा] वतादुपविता पदाऽवता ॥ ६२॥
दुर्वचप्रथिमगर्वचर्वितप्राज्ञमुद्भिरकृपैरलं नृपैः ।
अञ्जनाद्रिचर कञ्जनाभ ते चिन्तये वपुररण्य शान्तये ॥ ६३॥
अप्रबुद्धमकृतत्वदञ्जनं कञ्जलोचन कृतात्मवञ्चनम् ।
भावितापरिचितप्रपञ्चनं पाहि चक्रधर मामकिञ्चनम् ॥ ६४॥
वरुणस्य भक्तिमरुणस्य शूलिनो वलशासनस्य वनजासनस्य वा ।
तनुतां च नोत्र विनुतां सुरैस्समं स्मर गाढभक्तिरुरगाद्रिदेवताम् ॥ ६५॥
कमलाभिरामविमलायतेक्षणां कमनीयमूर्तिममनीषिदुर्गमाम् ।
परमामुपस्थितरमामिमां मनो भज गाढमेव भुजगाद्रिदेवताम् ॥ ६६॥
स्मरणं पदत्रभरणं मुकुन्द ते यजनं पदाब्जभजनं च कीर्तनम् ।
स्तवनं गुणानुभवनं शुभालयव्रजनं
च हन्ति वृजिनं शरीरिणम् ॥ ६७॥
निजवैभवेन नहि केवलं स्वयं तव सारसत्वमुपयाति लोचनम् ।
निजगोचरेऽपि पुरुषे परं रमासख सारसत्वमुपपादयत्यदः ॥ ६८॥
रमया सदैव रममाण उच्चकैर्नरमानितस्त्वमिति नाथ साम्प्रतम् ।
नलिनायताक्ष परमेतदद्भुतं नमदिष्टकार्यपि मदिष्टकार्यसि ॥ ६९॥
दुरितानि साधु चरितानि वा जनस्तनुते मुकुन्द ननु ते प्रचोदनात् ।
उचिते स्तवं [वे] विरचितो [ते] पि मे [वचः] परिपोषणे
मधुरिपो तव स्पृहा ॥ ७०॥
उरगेशभूमिधरगेहमच्युतं शरणं गतस्य तरणं भवाम्बुधेः ।
सुकरं ननु श्रमकरं यदाश्रयात् कपयोऽपि नैव नपयोधिलङ्घिनः ॥ ७१॥
दलितोग्रचाप तुलितोभ्र [ग्र] गूढपाद्विषया त्वन [द]
न्यविषयाशया कृतम् ।
तव नागशैलभवनास्मदाशये चिरमस्तु वीतविरमस्तु सन्निधिः ॥ ७२॥
हृदयं प्रविश्य हृतसर्वकल्मषो विदुषां विधातुमपवर्गमुत्सवम् ।
तनुते तदीयतनुषु प्रहर्षतः पुरुषोत्तमं सु [मस्स]
पुलकाङ्कुरार्पणम् ॥ ७३॥
मदमोहलोभमुखवैरिधूतये परितापकारिदुरितापनीतये ।
किमपि स्मरामि कमलाब्धिकन्यकाकिलिकिञ्चितैकरसिकं परं महः ॥ ७४॥
अविच्छेदामोदा कलशजलराशेर्दुहितरि-
स्फुरद्रागा नागाधिपशिखरिणीशादिमहिता ।
असौ दासत्रासक्षपणनिपुणा दुष्टदमने
कृतासक्तिव्यक्तिर्निगमगणगीता विजयते ॥ ७५॥
विदित्वा तत्त्वार्थानपि विशदमाम्नायशिरसां
पुराणानि श्रुत्वाप्यसकृदपि बुद्ध्वा स्मृतिगिरः ।
समाजे स्थित्वापि श्रुतिनयविदां हन्त विदुषां [विषयान्]
न हातुं शक्तोहं नरकहर किं मे न दयसे ॥ ७६॥
धनायाभिः क्षुद्रं नृपमपि विना यादवनुतिं
वपनायानीतीच्छां जनयसि महायासजननीम् ।
अहन्तामाहत्म्यादसुरबलहन्तारमतुलं
न हन्तारे चेतो नयसि खलु चिन्ताविषयताम् ॥ ७७॥
अशेषान् शेषाद्रेरधिप मम दोषान्निरसितुं
महत्प्रायश्चित्तं मधुमथन नैवास्त्यनुगुणम् ।
प्रपश्यन्नापीठान्मणिमकुटपर्यन्तमतुलं
पवित्रं गात्रं ते परमपुरुषाभूवमनघः ॥ ७८॥
स्पृहा दीनत्राणस्थिरबिरुदरक्षासु यदि ते
यशः प्राप्तुं व्याप्तं यदि च रुचिराशासु दशसु ।
तदाशैषैर्दोषैः शरणितमसम्भावितगुणं
विपद्भ्यस्त्रायेथा वृषगिरिपते खिन्नमिह माम् ॥ ७९॥
नरं वा देवं वा कमपि नलिनाक्ष श्रुतवतां
प्रसिद्ध्यन्ते [न्तो] दृष्टाः परमभिमतर्थाः कतिपये ।
प्रपन्नानां त्वां नः परममधिपं ब्रूहि जगता-
महो कष्टं सिद्ध्यत्यभिलषितमद्यापि न कथम् ॥ ८०॥
धनादित्सोपज्ञव्यसनजनितप्राणिविपदां
महीभृत्पाशानां मदनमदनद्धोग्रमनसाम् ।
मुखं दूरे हित्वा मुरमथन मे लोचनयुगं
वदान्यं वक्त्रं ते वरद शरदः पश्यतु शतम् ॥ ८१॥
नियन्ता [न्तर्वि] विश्वेषां नियतमनुकूलस्तव भवन्-
नपन्थानं मुञ्चन्नतिदृढमतिस्त्रास्यस इति ।
वृणानो गोप्ता स्याः स्वयमिति विमुक्तेतरगतिः
प्रपद्ये भीतोहं परमपुरुष त्वामभयदम् ॥ ८२॥
न दा [या] तुं न स्ता [स्ना] तुं न च रचयितुं ते स्तुतिगिरो
न दा [गा] तुं न ध्यातुं न कलयितुमाराधनमपि ।
न यष्टुं न स्प्रष्टुं किमपि तव तुष्ट्यै पटुरहं
शरण्यौ ते लक्ष्मीरमण शरणं यामि चरणौ ॥ ८३॥
अभक्त्या भक्त्या वा शुचिरशुचिर्वा मधुरिपो
सकृद्वा भूयो वा सकलफलदं त्वां स्मरति यः ।
निरातङ्कं तुङ्गं निखिलमपि दत्सेऽभिलषितं
न केषामाश्चर्यं जनयति तवौदार्यमतुलम् ॥ ८४॥
॥ इति श्री पञ्चमतभञ्जन
विख्याततातयज्वभागिनेयाप्तोर्यामादियज्वात्रेयवंशमौक्तिकाप्पयाचार्य
तनूभवश्लेषयमकचक्रवर्तिरवुनाथाचार्यतनयस्य
श्रीनिवासकृपाविदितनयस्य श्रीसीताम्बागर्भसम्भवस्य
काञ्चीनगरवास्तव्यस्य वेङ्कटाचार्ययज्वनः कृतिषु श्रवणानन्दे
द्वितीय शतकं सम्पूर्णम् ॥
श्रवणनन्दपद्येषु काठिन्यं यत्र लक्षितम् ।
श्रीशैलस्तातयाचार्यस्तत्रैवं विवृतिं व्यधात् ॥
From a telugu book veNkaTeshakAvyakalApa
Encoded and proofread by Malleswara Rao Yellapragada
malleswararaoy at yahoo.com