श्रीशुककृतं विष्णुस्तोत्रम्
शुक उवाच ।
नमस्ते वासुदेवाय सर्वलोकैकसाक्षिणे ॥ ५०॥
जगद्बीजस्वरूपाय पूर्णाय निभृतात्मने ।
हरये वासुकिस्थाय श्वेतद्वीपनवासिने ॥ ५१॥
हंसाय मत्स्यरूपाय वाराहतनुधारिणे ।
नृसिंहाय ध्रुवेज्याय साङ्ख्ययोगेश्वराय च ॥ ५२॥
चतुःसनाय कूर्माय पृथवे स्वसुखात्मने ।
नाभेयाय जगद्धात्रे विधात्रेऽन्तकराय च ॥ ५३॥
भार्गवेन्द्राय रामाय राघवाय पराय च ।
कृष्णाय वेदकर्त्रे च बुद्धकल्किस्वरूपिणे ॥ ५४॥
चतुर्व्यूहाय वेद्याय ध्येयाय परमात्मने ।
नरनारायणाख्याय शिपिविष्टाय विष्णवे ॥ ५५॥
ऋतधाम्ने विधाम्ने च सुपर्णाय स्वरोचिषे ।
ऋभवे सुव्रताख्याय सुधाम्ने चाजिताय च ॥ ५६॥
विश्वरूपाय विश्वाय सृष्टिस्थित्यन्तकारिणे ।
यज्ञाय यज्ञभोक्त्रे च स्थविष्ठायाणवेऽर्थिने ॥ ५७॥
आदित्यसोमनेत्राय सहओजोबलाय च ।
ईज्याय साक्षिणेऽजाय बहुशीर्षाङ्घ्रिबाहवे ॥ ५८॥
श्रीशाय श्रीनिवासाय भक्तवश्याय शार्ङ्गिणे ।
अष्टप्रकृत्यधीशाय ब्रह्मणेऽनन्तशक्तये ॥ ५९॥
बृहदारण्यवेद्याय हृषीकेशाय वेधसे ।
पुण्डरीकनिभाक्षाय क्षेत्रज्ञाय विभासिने ॥ ६०॥
गोविन्दाय जगत्कर्त्रे जगन्नाथाय योगिने ।
सत्याय सत्यसन्धाय वैकुण्ठायाच्युताय च ॥ ६१॥
अधोक्षजाय धर्माय वामनाय त्रिधातवे ।
घृतार्चिषे विष्णवे तेऽनन्ताय कपिलाय च ॥ ६२॥
विरिञ्चये त्रिककुदे ऋग्यजुःसामरूपिणे ।
एकशृङ्गाय च शुचिश्रवसे शास्त्रयोनये ॥ ६३॥
वृषाकपय ऋद्धाय प्रभवे विश्वकर्मणे ।
भूर्भुवःस्वःस्वरूपाय दैत्यघ्ने निर्गुणाय च ॥ ६४॥
निरञ्जनाय नित्याय ह्यव्ययायाक्षराय च ।
नमस्ते पाहि मामीश शरणागतवत्सल ॥ ६५॥
इति स्तुतः स भगवाञ्च्छङ्खचक्रगदाधरः ।
आरणेयमुवाचेदं भृशं प्रणतवत्सलः ॥ ६६॥
इति नारदपुराणे पर्वभागे द्विषष्टितमाध्यायान्तर्गतं
श्रीशुककृतं विष्णुस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ६२/५०-६५॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 62/50-65..
Proofread by PSA Easwaran