स्तवावलीसङ्ग्रहः

स्तवावलीसङ्ग्रहः

Contents अनुक्रमणिका stavAvalIsangraha स्तवावलीसङ्ग्रहः Shachisunvashtakam शचीसून्वष्टकम् Shri Gaurangastavakalpataruh श्रीगौराङ्गस्तवकल्पतरुः Manahshiksha मनःशिक्षा Shri Raghunathadasagosvaminah Prarthana श्रीरघुनाथदासगोस्वामिनः प्रार्थना Govardhanashrayadashakam गोवर्धनाश्रयदशकम् Govardhanavasaprarthanadashakam गोवर्धनवासप्रार्थनादशकम् Radhakundashtakam राधाकुण्डाष्टकम् Shri Vilapakusumanjalih श्रीविलापकुसुमाञ्जलिः Vrajavilasastava व्रजविलासस्तव Shri Radhikayah Premapurabhidhastotram श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम् Shri Shrigranthakartuh Prarthana श्रीश्रीग्रन्थकर्तुः प्रार्थना Svaniyamadashakam स्वनियमदशकम् Shriradhikashtottarashatanamastotram श्रीराधिकाष्टोत्तरशतनामस्तोत्रम् Radhikashtakam राधिकाष्टकम् रघुनाथदासगोस्वामि Premambhojamarandastavarajah प्रेमाम्भोजमरन्दस्तवराजः Svasankalpaprakashastotram स्वसङ्कल्पप्रकाशस्तोत्रम् Shri Shriradhakrishnojjvalakusumakelih श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः Prarthanamritastotram प्रार्थनामृतस्तोत्रम् Navashtakam नवाष्टकम् Shri Gopalarajastotra श्रीगोपालराजस्तोत्रम् Shri Madanagopalastotram श्रीमदनगोपालस्तोत्रम् Shri Vishakhanandabhidhastotram श्रीविशाखानन्दाभिधस्तोत्रम् Shri Mukundashtakam श्रीमुकुन्दाष्टकम् Utkanthadashakam उत्कण्ठादशकम् Shri Navayuvadvandvadidrikshashtakam श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम् Abhishtaprarthanashtakam अभीष्टप्रार्थनाष्टकम् Shri Dananirvartanakundashtakam श्रीदाननिर्वर्तनकुण्डाष्टकम् Shri Prarthanashrayachaturdashakam श्रीप्रार्थनाश्रयचतुर्दशकम् Abhishtasuchanam अभीष्टसूचनम्

Shachisunvashtakam ॥ शचीसून्वष्टकम् ॥

हरिर्दृष्ट्वा गोष्ठे मुकुरगतमात्मानमतुलं स्वमाधुर्यं राधप्रियतरसखीवाप्तुमभितः । अहो गौडे जातः प्रभुरपरगौरैकतनुभाक् शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ १॥ पुरीदेवयान्तःप्रणयमधुना स्नानमधुरो मुहुर्गोविन्दोद्यद्विशदपरिचर्यार्चितपदः । स्वरूपस्य प्राणार्बुदपरिचर्यार्चितपदः शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ २॥ दधानः कौपीनं तदुपरि बहिर्वस्त्रमरुणं प्रकाण्डो हेमाद्रिद्युतिभिरभितः सेविततनुः । मुदा गायन्नुच्चैर्निजमधुरनामावलिमसौ शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ३॥ अनावेद्यां पूर्वैरपि मुनिगणैर्भक्तिनिपुणैः श्रुतेर्गूढां प्रेमोज्ज्वलरसफलां भक्तिलतिकाम् । कृपालुस्तां गौडे प्रभु अतिकृपाभिः प्रकटय- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ४॥ निजत्वे गौडीयान्जगति परिगृह्य प्रभुरिमा- न्हरे कृष्णेत्येवं गणनविधिना कीर्तयत भोः । इति प्रायां शिक्षां चरणमधुपेभ्यः परिदिश- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ५॥ पुरः पश्यन्नीलाचलपतिमुरुप्रेमनिवहैः क्षरन्नेत्राम्भोभिः स्नपितनिजदीर्घोज्ज्वलतनुः । सदा तिष्ठन्देशे प्रणयिगरुडस्तम्भचरमे शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ६॥ मुदा दन्तरि दृष्ट्वा द्युतिविजितबन्धूकमधरं करं कृत्वा वामं कटिनिहितमन्यं परिलसन्। समुत्थाप्य प्रेम्णागणितपुलको नृत्यकुतुकी शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ७॥ सरोत्तीरारामे विरहविधुरो गोकुलविधो- र्नदीमन्यां कुर्वन्नयनजलधाराविततिभिः । मुहुर्मूर्च्छां गच्छन्मृतकमिव विश्वं विरचय- न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ८॥ शचीसूनोरस्याष्टकमिदमभीष्टं विरचय- न्सदा दैन्योद्रेकादतिविशदबुद्धिः पठति यः । प्रकामं चैतन्यः प्रभुरतिकृपावेशविवशः पृथुप्रेमाम्भोधौ प्रथितरसदे मज्जयति तम् ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीशचीसून्वष्टकं सम्पूर्णम् ।

Shri Gaurangastavakalpataruh ॥ श्रीगौराङ्गस्तवकल्पतरुः ॥

गतिं दृष्ट्वा यस्य प्रमदगजवर्येऽखिलजना मुखं च श्रीचन्द्रोपरि दधति थूत्कारनिवहम् । स्वकान्त्या यः स्वर्णाचलमधरयच्छीधु च वच- स्तरङ्गैर्गौराङ्गो हृदय उदयन्मां मदयति ॥ १॥ अलङ्कृत्यात्मानं नवविविधरत्नैरिव वल द्विवर्णत्वस्तम्भास्फुटवचनकम्पाश्रुपुलकैः । हसन्स्विद्यन्नृत्यन्शितिगिरिपतेर्निर्भरमुदे पुरः श्रीगौराङ्गो हृदय उदयन्मां मदयति ॥ २॥ रसोल्लासैस्तिर्यग्गतिभिरभितो वारिभिरलं दृशोः सिञ्चन्लोकानरुणजलयन्त्रत्वमितयोः । मुदा दन्तैर्दृष्ट्वा मधुरमधरं कम्पचलितै- र्नटन्श्रीगौराङ्गो हृदय उदयन्मां मदयति ॥ ३॥ क्वचिन्मिश्रावासे व्रजपतिसुतस्योरुविरहा- त्श्लथच्छ्रीसन्धित्वाद्दधदधिकदैर्घ्यं भुजपदोः । लुठन्भूमौ काक्वा विकलविकलं गद्गदवचा रुदन्श्रीगौराङ्गो हृदय उदयन्मां मदयति ॥ ४॥ अनुद्घाट्य द्वारत्रयमुरु च भित्तित्रयमहो विलङ्घ्योच्चैः कालिङ्गिकसुरभिमध्ये निपतितः । तनूद्यत्सङ्कोचात्कमठ इव कृष्णोरुविरहा- द्विराजन्गौराङ्गो हृदय उदयन्मां मदयति ॥ ५॥ स्वकीयस्य प्राणार्बुदसदृशगोष्ठस्य विरहा- त्प्रलापानुन्मादात्सततमति कुर्वन्विकलधीः । दधद्भित्तौ शश्वद्वदनविधुघर्षेण रुधिरं क्षातोत्थं गौराङ्गो हृदय उदयन्मां मदयति ॥ ६॥ क्व मे कान्तः कृष्णस्त्वरितमिह तं लोकय सखे त्वमेवेति द्वाराधिपमभिवदन्नुन्मद इव । द्रुतं गच्छ द्रष्टुं प्रियमिति तदुक्तेन धृतत- द्भुजान्तर्गौराङ्गो हृदय उदयन्मां मदयति ॥ ७॥ समीपे नीलाद्रेश्चटकगिरिराजस्य कलना- दये गोष्ठे गोवर्धनगिरिपतिं लोकितुमितः । व्रजन्नस्मीत्युक्त्वा प्रमद इव धावन्नवधृतो गणैः स्वैर्गौराङ्गो हृदय उदयन्मां मदयति ॥ ८॥ अलं दोलाखेलामहसि वरतन्मण्डपतले स्वरूपेण स्वेनापरनिजगणेनापि मिलितः । स्वयं कुर्वन्नाम्नामतिमधुरगानं मुरभिदः सरङ्गो गौराङ्गो हृदय उदयन्मां मदयति ॥ ९॥ दयां यो गोविन्दे गरुड इव लक्ष्मीपतिरलं पुरीदेवे भक्तिं य इव गुरुवर्ये यदुवरः । स्वरूपे यः स्नेहं गिरिधर इव श्रीलसुबले विधत्ते गौराङ्गो हृदय उदयन्मां मदयति ॥ १०॥ महासम्पद्दावादपि पतितमुद्धृत्य कृपया स्वरूपे यः स्वीये कुजनमपि मां न्यस्य मुदितः । उरोगुञ्जाहारं प्रियमपि च गोवर्धनशिलां ददौ मे गौराङ्गो हृदय उदयन्मां मदयति ॥ ११॥ इति श्रीगौराङ्गोद्गतविविधसद्भावकुसुम प्रभाभ्राजत्पद्यावलिललितशाखं सुरतरुम् । मुहुर्योऽतिश्रद्धौषधिवरबलत्पाठसलिलै- रलं सिञ्चेद्विन्देत्सरसगुरुतल्लोकनफलम् ॥ १२॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगौराङ्गस्तवकल्पतरुः समाप्तः ।

Manahshiksha ॥ मनःशिक्षा ॥

गुरौ गोष्ठे गोष्ठालयिषु सुजने भूसुरगणे स्वमन्त्रे श्रीनाम्नि व्रजनवयुवद्वन्द्वस्मरणे । (द्वन्द्वशरणे) सदा दम्भं हित्वा कुरु रतिमपूर्वामतितरा- मये स्वान्तर्भ्रातश्चटुभिरभियाचे धृतपदः ॥ १॥ न धर्मं नाधर्मं श्रुतिगणनिरुक्तं किल कुरु व्रजे राधाकृष्णप्रचुरपरिचर्यामिह तनु । शचीसूनुं नन्दीश्वरपतिसुतत्वे गुरुवरं मुकुन्दप्रेष्ठत्वे स्मर परमजस्रं ननु मनः ॥ २॥ यदीच्छेरावासं व्रजभुवि सरागं प्रतिजनु- र्युवद्वन्द्वं तच्चेत्परिचरितुमारादभिलषेः । स्वरूपं श्रीरूपं सगणमिह तस्याग्रजमपि स्फुटं प्रेम्णा नित्यं स्मर नम तदा त्वं श‍ृणु मनः ॥ ३॥ असद्वार्तावेश्या विसृज मतिसर्वस्वहरणीः कथामुक्तिव्याघ्र्या न श‍ृणु किल सर्वात्मगिलनीः । अपि त्यक्त्वा लक्ष्मीपतिरतिमितो व्योमनयनीं व्रजे राधाकृष्णौ स्वरतिमणिदौ त्वं भज मनः ॥ ४॥ असच्चेष्टाकष्टप्रदविकटपाशालिभिरिह प्रकामं कामादिप्रकटपथपातिव्यतिकरैः । गले बद्ध्वा हन्येऽहमिति बकभिद्वर्त्मपगणे कुरु त्वं फुत्कारानवति स यथा त्वां मन इतः ॥ ५॥ अरे चेतः प्रोद्यत्कपटकुटिनाटीभरखर- क्षरन्मूत्रे स्नात्वा दहसि कथमात्मानमपि माम् । सदा त्वं गान्धर्वागिरिधरपदप्रेमविलस- त्सुधाम्भोधौ स्नात्वा त्वमपि नितरां मां च सुखय ॥ ६॥ (स्वमपि) प्रतिष्ठाशा धृष्टा श्वपचरमणी मे हृदि नटे- त्कथं साधुप्रेमा स्पृशति शुचिरेतन्ननु मनः । सदा त्वं सेवस्व प्रभुदयितसामन्तमतुलं यथा त्वां निष्काश्य त्वरितमिह तं वेशयति सः ॥ ७॥ यथा दुष्टत्वं मे दवयति शठस्यापि कृपया यथा मह्यं प्रेमामृतमपि ददात्युज्ज्वलमसौ । यथा श्रीगान्धर्वाभजनविधये प्रेरयति मां तथा गोष्ठे काक्वा गिरिधरमिह त्वं भज मनः ॥ ८॥ मदीशानाथत्वे व्रजविपिनचन्द्रं व्रजवने- श्वरीं तन्नाथत्वे तदतुलसखीत्वे तु ललिताम् । (मन्नाथत्वे) विशाखां शिक्षालीवितरणगुरुत्वे प्रियसरो- गिरीन्द्रौ तत्प्रेक्षाललितरतिदत्वे स्मर मनः ॥ ९॥ रतिं गौरीलीले अपि तपति सौन्दर्यकिरणैः शचीलक्ष्मीसत्याः परिभवति सौभाग्यवलनैः । वशीकारैश्चन्द्रावलिमुखनवीनव्रजसतीः क्षिपत्याराद्या तां हरिदयितराधां भज मनः ॥ १०॥ समं श्रीरूपेण स्मरविवशराधागिरिभृतो- र्व्रजे साक्षात्सेवालभनविधये तद्गुणयुजोः । तदिज्याख्याध्यानश्रवणनतिपञ्चामृतमिदं धयन्नीत्या गोवर्धनमनुदिनं त्वं भज मनः ॥ ११॥ मनःशिक्षादैकादशकवरमेतन्मधुरया गिरा गायत्युच्चैः समधिगतसर्वार्थयति यः । सयूथः श्रीरूपानुग इह भवन्गोकुलवने जनो राधाकृष्णातुलभजनरत्नं स लभते ॥ १२॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीप्रार्थनामृतस्तोत्रं सम्पूर्णम् ।

Shri Raghunathadasagosvaminah Prarthana ॥ श्रीरघुनाथदासगोस्वामिनः प्रार्थना ॥

प्रातः पीतपटे कुचोपरिरुषा घूर्णाभरे लोचने बिम्बौष्ठे पृथु वीक्षते जटिलया सन्दृश्यमाने मुहुः । वाचा युक्तिजुषा मृषा ललितया तां संप्रतार्य क्रुधा दृष्ट्वेमं हृदि भीषिता स्तुतवती राधा ध्रुवं पातु वः ॥ १॥ पीकपटुरववाद्यैर्भृङ्गझङ्कारगानईः स्फुरदतुलकुडुङ्गक्रोडरङ्गे सरङ्गम् । स्मरसदसि कृतोद्यन्नृत्यतः श्रान्तगात्रं व्रजनवयुवयुग्मं नर्तकं वीजयानि ॥ २॥ कुहूकण्ठीकण्ठादपि कमनकण्ठी मयि पुन- र्विशाखा गानस्यापि च रुचिरशिक्षां प्रणयतु । यथाहं तेनैतद्युवयुगलमुल्लास्य सगणा- ल्लभे रासे तस्मान्मणिप्रदकहारानिह मुहुः ॥ ३॥ कान्त्या निन्दन्तमुद्यजलधरनिचयं तप्तकार्तस्वभावं वासो बिभ्राणमीषत्स्मितरुचिरमुखाम्भोजमाकल्पिताङ्गम् । वामाङ्के राधिकां तां प्रथमरसकलाकेलिसौभाग्यमत्तं आलिङ्ग्यालापभङ्ग्या व्रजपतितनयं स्मेरयन्तं स्मरामि ॥ ४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीरघुनाथदासगोस्वामिनः प्रार्थना समाप्ता ।

Govardhanashrayadashakam ॥ गोवर्धनाश्रयदशकम् ॥

सप्ताहं मुरजित्कराम्बुजपरिभ्राजत्कनिष्ठाङ्गुलि प्रोद्यद्वल्गुवरातकोपरिमिलन्मुग्धद्विरेफोऽपि यः । पाथःक्षेपकशक्रनक्रमुखतः क्रोडे व्रजं द्राग् अपा- त्कस्तं गोकुलबन्धवं गिरिवरं गोवर्धनं नाश्रयेत् ॥ १॥ इन्द्रत्वे निभृतं गवां सुरनदीतोयेन दीनात्मना शक्रेणानुगता चकार सुरभिर्येनाभिषेकं हरेः । यत्कच्छेऽजनि तेन नन्दितजनं गोविन्दकुण्डं कृती कस्तं गोनिकरेन्द्रपट्टशिखरं गोवर्धनं नाश्रयेत् ॥ २॥ स्वर्धुन्यादिवरेण्यतीर्थगणतो हृद्यान्यजस्रं हरेः सीरिब्रह्महराप्सरःप्रियकतत्श्रीदानकुण्डान्यपि । प्रेमक्षेमरुचिप्रदानि परितो भ्राजन्ति यस्य व्रती कस्तं मन्यमुनीन्द्रवर्णितगुणं गोवर्धनं नाश्रयेत् ॥ ३॥ ज्योत्स्नामोक्षणमाल्यहारसुमनोगौरीबलारिध्वजा गान्धर्वादिसरांसि निर्झरगिरिः श‍ृङ्गारसिंहासनम् । गोपालोऽपि हरिस्थलं हरिरपि स्फूर्जन्ति यत्सर्वतः कस्तं गोमृगपक्षिवृक्षललितं गोवर्धनं नाश्रयेत् ॥ ४॥ गङ्गाकोट्यधिकं बकारिपदजारिष्टारिकुण्डं वह- न्भक्त्या यः शिरसा नतेन सततं प्रेयान्शिवादप्यभूत् । राधाकुण्डमणिं तथैव मुरजित्प्रौढप्रसादं दधा- त्प्रेयःस्तव्यमनोऽभवत्क इह तं गोवर्धनं नाश्रयेत् ॥ ५॥ यस्यां माधवनाविको रसवतीमाधाय राधां तरौ मध्ये चञ्चलकेलिपातवलनात्त्रासैः स्तुवत्यास्ततः । स्वाभिष्ठं पणमादधे वहति सा यस्मिन्मनोजाह्नवी कस्तं तन्नवदम्पतिप्रतिभुवं गोवर्धनं नाश्रयेत् ॥ ६॥ रासे श्रीशतवन्द्यसुन्दरसखी वृन्दाञ्चिता सौरभ भ्राजत्कृष्णरसालबाहुविलसत्कण्ठी मधौ माधवी । राधा नृत्यति यत्र चारु वलते रासस्थली सा परा यस्मिन्स सुकृती तमुन्नतमये गोवर्धनं नाश्रयेत् ॥ ७॥ यत्र स्वीयगणस्य विक्रमभृता वाचा मुहुः फुल्लतोः स्मेरक्रूरदृगन्तविभ्रमशरैः शश्वन्मिथो विद्धयोः । तद्यूनोर्नवदानसृष्टिजकलिर्भङ्ग्या हसन्जृम्भते कस्तं तत्पृथुकेलिसूचनशिलं गोवर्धनं नाश्रयेत् ॥ ८॥ श्रीदामादिवयस्यसञ्चयवृतः सङ्कर्षणेनोल्लस- न्यस्मिन्गोचयचारुचारणपरो रीरीति गायत्यसौ । रङ्गे गूढगुहासु च प्रथयति स्मारक्रियां राधया कस्तं सौभगभूषिताञ्चिततनुं गोवर्धनं नाश्रयेत् ॥ ९॥ कालिन्दीं तपनोद्भवं गिरिगणानत्युन्नमाचेखरा- न्श्रीवृन्दाविपिनं जनेप्सितधरं नन्दीश्वरं चाश्रयम् । हित्वा यं प्रतिपूजयन्व्रजकृते मानं मुकुन्दो ददौ कस्तं श‍ृङ्गिकिरीटिनं गिरिनृपं गोवर्धनं नाश्रयेत् ॥ १०॥ तस्मिन्वासदमस्य रम्यदशकं गोवर्धनस्येह य- त्प्रादुर्भूतमिदं यदीयकृपया जीर्णान्धवक्त्रादपि । तस्योद्यद्गुणवृन्दबन्धुरखणेर्जीवातुरूपस्य तत्- तोषायाप्यलं भवत्टिह फलं पक्वं मया मृग्यते ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोवर्धनवासप्रार्थनादशकं सम्पूर्णम् ।

Govardhanavasaprarthanadashakam ॥ गोवर्धनवासप्रार्थनादशकम् ॥

निजपतिभुजदण्डच्छत्रभावं प्रपद्य प्रतिहतमदधृष्टोद्दण्डदेवेन्द्रगर्व । अतुलपृथुलशैलश्रेणिभूप प्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ १॥ प्रमदमदनलीलाः कन्दरे कन्दरे ते रचयति नवयूनोर्द्वन्द्वमस्मिन्नमन्दम् । इति किल कलनार्थं लग्नकस्तद्द्वयोर्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ २॥ अनुपममणिवेदीरत्नसिंहासनोर्वी- रुहझरदरसानुद्रोणिसङ्घेषु रङ्गैः । सह बलसखिभिः सङ्खेलयन्स्वप्रियं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ३॥ रसनिधिनवयूनोः साक्षिणीं दानकेले- र्द्युतिपरिमलविद्धं श्यामवेदिं प्रकर्ष्य । रसिकवरकुलानां मोदमास्फालयन्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ४॥ हरिदयितमपूर्वं राधिकाकुण्डमात्म- प्रियसखमिह कण्ठे नर्मणालिङ्ग्य गुप्तः । नवयुवयुगखेलास्तत्र पश्यन्रहो मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ५॥ स्थलजलतलशष्पैर्भूरुहछायया च प्रतिपदमनुकालं हन्त संवर्धयन्गाः । त्रिजगति निजगोत्रं सार्थकं ख्यापयन्मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ६॥ सुरपतिकृतदीर्घद्रोहतो गोष्ठरक्षां तव नवगृहरूपस्यान्तरे कुर्वतैव । अघबकरिपुणोच्चैर्दत्तमान द्रुतं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ७॥ गिरिनृपहरिदासश्रेणिवर्येतिनामा- मृतमिदमुदितं श्रीराधिकावक्त्रचन्द्रात् । व्रजनवतिलकत्वे क्ल्प्तवेदैः स्फुटं मे निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ८॥ निजजनयुतराधाकृष्णमैत्रीरसाक्त- व्रजनरपशुपक्षिव्रातसौख्यैकदातः । अगणितकरुणत्वान्मं उरीकृत्य तान्तं निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ ९॥ निरुपधिकरुणेन श्रीशचीनन्दनेन त्वयि कपटिशठोऽपि त्वत्प्रियेनार्पितोऽस्मि । इति खलु मम योग्यायोग्यतां मामगृह्ण- न्निजनिकटनिवासं देहि गोवर्धन त्वम् ॥ १०॥ रसददशकमस्य श्रीलगोवर्धनस्य क्षितिधरकुलभर्तुर्यः प्रयत्नादधीते । स सपदि सुखदेऽस्मिन्वासमासाद्य साक्षा- च्छुबदयुगलसेवारत्नमाप्नोति तूर्णम् ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोवर्धनवासप्रार्थनादशकं सम्पूर्णम् ।

Radhakundashtakam ॥ राधाकुण्डाष्टकम् ॥

वृषभदनुजनाशान्नर्मधर्मोक्तिरङ्गै- र्निखिलनिजसखीभिर्यत्स्वहस्तेन पूर्णम् । प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥ व्रजभुवि मुरशत्रोः प्रेयसीनां निकामै- रसुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चैर्प्रियं य- त्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥ अघरिपुरपि यत्नादत्र देव्याः प्रसाद- प्रसरकृतकताक्षप्राप्तिकामः प्रकामम् । अनुसरति यदुचाइः स्नानसेवानुबन्धै- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥ व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं व्रजमधुरकिशोरीमौलिरत्नप्रियेव । परिचितमपि नाम्ना या च तेनैव तस्या- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४॥ अपि जन इह कश्चिद्यस्य सेवाप्रसादैः प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः । सपदि किल मदीशादास्यपुष्पप्रशस्या तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५॥ तटमधुरनिकुञ्जः कॢप्तनामान उच्चै- र्निजपरिजनवर्गैः संविभज्याश्रितस्तैः । मधुकररुतरम्या यस्य राजन्ति काम्या- स्तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६॥ तटभुवि वरवेद्यां यस्य नर्मातिहृद्यां मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या । प्रठयति मिथ ईशा प्राणसख्यालिभिः सा तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७॥ अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घै- र्वरसरसिजगन्धैर्हारिवारिप्रपूर्णे । विहरत इह यस्मिन्दम्पती तौ प्रमत्तौ तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८॥ अविकलमति देव्याश्चारु कुण्डाष्टकं यः परिपठति तदीयोल्लासिदास्यार्पितात्मा । अचिरमिह शरीरे दर्शयत्येव तस्मै मधुरिपुरतिमोदैः श्लिष्यमाणां प्रियां ताम् ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां राधाकुण्डाष्टकं श्रीसम्पूर्णम् ।

Shri Vilapakusumanjalih ॥ श्रीविलापकुसुमाञ्जलिः ॥

त्वं रूपमञ्जरि सखि प्रथिता पुरेऽस्मि- न्पुंसः परस्य वदनं न हि पश्यसीति । बिम्बाधरे क्षतमनागतभर्तृकाया यत्ते व्यधायि किमु तच्छुकपुङ्गवेन ॥ १॥ (वसन्त) स्थलकमलिनि युक्तं गर्विता काननेऽस्मि- न्प्रणयसि वरहास्यं पुष्पगुच्छच्छलेन । अपि निखिललतास्ताः सौरभाक्ताः स मुञ्च- न्मृगयति तव मार्गं कृष्णभृङ्गो यदद्य ॥ २॥ (मालिनी) व्रजेन्द्रवसतिस्थले विविधवल्लवीसङ्कुले त्वमेव रतिमञ्जरि प्रचुरपुण्यपुञ्जोदया । विलासभरविस्मृतप्रणयिमेखलामार्गणे यदद्य निजनाथया व्रजति नाथिता कन्दरम् ॥ ३॥ (पृथ्वी) प्रभुरपि यदुनन्दनो च एष प्रिययदुनन्दन उन्नतप्रभावः । स्वयमतुलकृपामृताभिषेकं मम कृतवांस्तमहं गुरुं प्रपद्ये ॥ ४॥ (पुष्पिताग्रा) यो मां दुस्तरगेहनिर्जलमहाकूपादपारक्लमा- त्सद्यः सान्द्रदयाम्बुधिः प्रकृतितः स्वैरी कृपारज्जुभिः । उद्धृत्यात्मसरोजनिन्दिचरणप्रान्तं प्रपाद्य स्वयं श्रीदामोदरसाच्चकार तमहं चैतन्यचन्द्रं भजे ॥ ५॥ (शार्दूल) वैराग्ययुग्भक्तिरसप्रयत्नै- रपाययन्मामनभीप्सुमन्धम् । कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥ ६॥ (उपजाति) अत्युत्कटेन नितरां विरहानलेन दन्दह्यमानहृदया किल कापि दासी । हा स्वामिनि क्षणमिह प्रणयेन गाढं आक्रन्दनेन विधुरा विलपामि पद्यैः ॥ ७॥ (वसन्त) देवि दुःखकुलसागरोदरे दूयमानमतिदुर्गतं जनम् । त्वं कृपाप्रबलनौकयाद्भुतं प्रापय स्वपदपङ्कजालयम् ॥ ८॥ (रथोद्धता) त्वदलोकनकालाहिदंशैरेव मृतं जनम् । त्वत्पादाब्जमिलल्लाक्षाभेषजैर्देवि जीवय ॥ ९॥ (अनुष्टुभ्) देवि ते चरणपद्मदासिकां विप्रयोगभरदावपावकैः । दह्यमानतरकायवल्लरीं जीवय क्षणनिरीक्षणामृतैः ॥ १०॥ (रथोद्धता) स्वप्नेऽपि किं सुमुखि ते चरणाम्बुजात राजत्परागपटवासविभूषणेन । शोभां परामतितरामहहोत्तमाङ्गं बिभ्रद्भविष्यति कदा मम सार्थनामा ॥ ११॥ (वसन्त) अमृताब्धिरसप्रायैस्तव नूपुरसिञ्जितैः । हा कदा मम कल्याणि वाधिर्यमपनेष्यते ॥ १२॥ (अनुष्टुभ्) शशकभृदभिसारे नेत्रभृङ्गाञ्चलाभ्यां दिशि विदिशि भयेनोद्घुर्णिताभ्यां वनानि । कुवलयदलकोषाण्येव कॢप्तानि याभ्यां किमु किल कलनीयो देवि ताभ्यां जनोऽयम् ॥ १३॥ (मालिनी) यदवधि मम काचिन्मञ्जरी रूपपूर्वा व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार । तदवधि तव वृन्दारण्यराज्ञि प्रकामं चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ १४॥ (मालिनी) यदा तव सरोवरं सरसभृङ्गसङ्घोल्लस- न्सरोरुहकुलोज्ज्वलं मधुरवारिसम्पूरितम् । स्फुटत्सरसिजाक्षि हे नयनयुग्मसाक्षाद्बभौ तदैव मम लालसाजनि तवैव दास्ये रसे ॥ १५॥ (पृथ्वी) पादाब्जयोस्तव विना वरदास्यमेव नान्यत्कदापि समये किल देवि याचे । सख्याय ते मम नमोऽस्तु नमोऽस्तु नित्यं दास्यास्य ते मम रसोऽस्तु रसोऽस्तु सत्यम् ॥ १६॥ (वसन्त) अतिसुललितलाक्षाश्लिष्टसौभाग्यमुद्रा ततिभिरधिकतुष्ट्या चिह्नितीकृत्य बाहू । नखदलितहरिद्रागर्वगौरि प्रियां मे चरणकमलसेवां हा कदा दास्यसि त्वम् ॥ १७॥ (मालिनी) प्रणालीं कीलालैर्बहुभिरभि सङ्क्षाल्य मधुरै- र्मुदा सम्मार्ज्य स्वैर्विवृतकचवृन्दैः प्रियतया । कदा बाह्यागारं वरपरिमलैर्धूपनिवहै- र्विधास्ये ते देवि प्रतिदिनमहो वासितमहम् ॥ १८॥ (शिखरिणी) प्रातः सुधांशुमिलितां मृदमत्र यत्ना- दाहृत्य वासितपयश्च गृहान्तरे च । पादाम्बुजे बत कदा जलधारया ते प्रक्षाल्य भाविनि कचैरिह मार्जयामि ॥ १९॥ (वसन्त) प्रक्षाल्य पादकमलं कृतदान्तकाष्ठां स्नानार्थमन्यसदने भवतीं निविष्टाम् । अभ्यज्य गन्धिततरैरिह तैलपूरैः प्रोद्वर्तयिष्यति कदा किमु किङ्करीयम् ॥ २०॥ (वसन्त) अयि विमलजलानां गन्धकर्पूरपुष्पै- र्जितविधुमुखपद्मे वासितानां घटोघैः । प्रणयललितसख्या दीयमानैः पुरस्ता- त्तव वरमभिषेकं हा कदाहं करिष्ये ॥ २१॥ (मालिनी) पानीयं चीनवस्त्रैः शशिमुखि शनकै रम्यमृद्वङ्गयष्टे- र्यत्नादुत्सार्य मोदाद्दिशि दिशि विचलन्नेत्रमीनाञ्चलायाः । श्रोणौ रक्तं दुकूलं तदपरमतुलं चारुनीलं शिरोऽग्रा- त्सर्वाङ्गेषु प्रमोदात्पुलकितवपुषा किं मया ते प्रयोज्यम् ॥ २२॥ (स्रग्धरा) प्रक्षाल्य पादकमलं तदनुक्रमेण गोष्ठेन्द्रसूनुदयिते तव केशपाशम् । हा नर्मदाग्रथितसुन्दरसूक्ष्ममाल्यै- र्वेणीं करिष्यति कदा प्रणयैर्जनोऽयम् ॥ २३॥ (वसन्त) सुभगमृगमदेनाखण्डशुभ्रांशुवत्ते तिलकमिह ललाटे देवि मोदाद्विधाय । मसृणघुसृणचर्चामर्पयित्वा च गात्रे स्तनयुगमपि गन्धैश्चित्रितं किं करिष्ये ॥ २४॥ (मालिनी) सिन्दूररेखा सीमन्ते देवि रत्नशलाकया । मया या कल्पिता किं ते सालकाञ्छोभयिष्यति ॥ २५॥ (अनुष्टुभ्) हन्त देवि तिलकस्य समन्ता- द्बिन्दवोऽरुणसुगन्धिरसेन । कृष्णमादनमहौषधिमुख्या धीरहस्तमिह किं परिकल्प्याः ॥ २६॥ (स्वागता) गोष्ठेन्द्रपुत्रमदचित्तकरीन्द्रराज बन्धाय पुष्पधनुषः किल बद्धरज्ज्वोः । किं कर्णयोस्तव वरोरु वरावतंस युग्मेन भूषणमहं सुखिता करिष्ये ॥ २७॥ (वसन्त) या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् । किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं प्राणेभ्योऽप्यधिकं स्वकं निधियुगं सङ्गोपयत्येव हि ॥ २८॥ (शार्दूल) नानामणिप्रकरगुम्फितचारुपुष्टा मुक्तास्रजस्तव सुवक्षसि हेमगौरि । श्रान्त्याभृतालसमुकुन्दसुतूलिकायां किं कल्पयिष्यतितरां तव दासिकेयम् ॥ २९॥ (वसन्त) मणिचयखचिताभिर्नीलचूडावलीभि- र्हरिदयितकलाविद्द्वन्द्वमिन्दीवराक्षि । अपि बत तव दिव्यैरङ्गुलीरङ्गुलीयैः क्वचिदपि किल काले भूषयिष्यामि किं नु ॥ ३०॥ (मालिनी) पादाम्भोजे मणिमयतुलाकोटियुग्मेन यत्ना- दभ्यर्चे तद्दलकुलमपि प्रेष्टपादाङ्गुलीयैः । काञ्चीदाम्ना कटितटमिदं प्रेमपीठं सुनेत्रे कंसारातेरतुलमचिरादर्चयिष्यामि किं ते ॥ ३१॥ (मन्दाक्रान्ता) ललिततरमृणालीकल्पबाहुद्वयं ते मुरजयिमतिहंसीधैर्यविध्वंसदक्षम् । मणिकुलरचिताभ्यामङ्गदाभ्यां पुरस्ता- त्प्रमदभरविनम्रा कल्पयिष्यामि किं वा ॥ ३२॥ (मालिनी) रासोत्सवे य इह गोकुलचन्द्रबाहु स्पर्शेन सौभगभरं नितरामवाप । ग्रैवेयकेण किं तं तव कण्ठदेशं सम्पूजयिष्यति पुनः सुभगे जनोऽयम् ॥ ३३॥ (वसन्त) दत्तः प्रलम्बरिपुणोद्भटशङ्खचूड नाशात्प्रतोषि हृदयं मधुमङ्गलस्य । हस्तेन यः सुमुखि कौस्तुभमित्रमेतं किं ते स्यमन्तकमणिं तरलं करिष्ये ॥ ३४॥ (वसन्त) प्रान्तद्वये परिविराजितगुच्छयुग्म विभ्राजितेन नवकाञ्चनडोरकेण । क्षीणं त्रुटत्यथ कृशोदरि चेदितीव बध्नामि भोस्तव कदातिभयेन मध्यम् ॥ ३५॥ (वसन्त) कनकगुणितमुच्चैर्मौक्तिकं मत्करात्ते तिलककुसुमविजेत्री नासिका सा सुवृत्तम् । मधुमथनमहालिक्षोभकं हेमगौरि प्रकटतरमरन्दप्रायमादास्यते किम् ॥ ३६॥ (मालिनी) अङ्गदेन तव वामदोःस्थले स्वर्णगौरि नवरत्नमालिकाम् । पट्टगुच्छपरिशोभितामिमां आज्ञया परिणयामि ते कदा ॥ ३७॥ (रथोद्धता) कर्णयोरुपरि चक्रशलाके चञ्चलाक्षि निहिते मयका ते । क्षोभकं निखिलगोपवधूनां चक्रवद्भ्रमयतां मुरशत्रुम् ॥ ३८॥ कदा ते मृगशावाक्षि चिबुके मृगनाभिना । बिन्दुमुल्लासयिष्यामि मुकुन्दामोदमन्दिरे ॥ ३९॥ (अनुष्टुभ्) दशनांस्ते कदा रक्त रेखाभिर्भूषयाम्यहम् । देवि मुक्ताफलानीह पद्मरागगुणैरिह ॥ ४०॥ (अनुष्टुभ्) उत्खादिरेण नवचन्द्रविराजितेन रागेण ते वरसुधाधरबिम्बयुग्मे । गाङ्गेयगात्रि मयका परिरञ्जितेऽस्मि- न्दंशं विधास्यति हठात्किमु कृष्णकीरः ॥ ४१॥ (वसन्ततिलक) यत्प्रान्तदेशलवलेशविघूर्णितेन बद्धः क्षणाद्भवति कृष्णकरीन्द्र उच्चैः । तत्खञ्जरीटजयिनेत्रयुगं कदायं सम्पूजयिष्यति जनस्तव कज्जलेन ॥ ४२॥ (वसन्त) यस्याङ्करञ्जितशिरास्तव मानभङ्गे गोष्ठेन्द्रसूनुरधिकां सुषमामुपैति । लाक्षारसं स च कदा पदयोरधस्ते न्यस्तो मयाप्यतितरां छविमाप्स्यतीह ॥ ४३॥ (वसन्त) कलावति नतांसयोः प्रचुरकामपुञ्जोज्ज्वल- त्कलानिधिमुरद्विषः प्रकटराससम्भावयोः । भ्रमद्भ्रमरझङ्कृतैर्मधुरमल्लिमालां मुदा कदा तव तयोः समर्पयति देवि दासीजनः ॥ ४४॥ सूर्याय सूर्यमणिनिर्मितवेदिमध्ये मुग्धाङ्गि भावत इहालिकुलैर्वृतायाः । अर्घं समर्पयितुमुत्कधियस्तवारा- त्सज्जानि किं सुमुखि दास्यति दासिकेयम् ॥ ४५॥ व्रजपुरपतिराज्ञ्या आज्ञया मिष्ठमन्नं बहुविधमतियत्नात्स्वेन पक्वं वरोरु । सपदि निजसखीनां मद्विधानां च हस्तै- र्मधुमथननिमित्तं किं त्वया सन्निधास्यम् ॥ ४६॥ नीतान्नमद्विधललाटतटे ललाटं प्रीत्या प्रदाय मुदिता व्रजराजराज्ञी । प्रेम्णा प्रसूरिव भवत्कुशलस्य पृच्छां भव्ये विधास्यति कदा मयि तावकत्वात् ॥ ४७॥ कृष्णवक्त्राम्बुजोच्छिष्टं प्रसादं परमादरात् । दत्तं धनिष्ठया देवि किमानेष्यामि तेऽग्रतः ॥ ४८॥ (अनुष्टुभ्) नानाविधैरमृतसाररसायनैस्तैः कृष्णप्रसादमिलितैरिह भोज्यपेयैः । हा कुङ्कुमाङ्गि ललितादिसखीवृता त्वं यत्नान्मया किमुत्तरामुपभोजनीया ॥ ४९॥ (वसन्त) पानाय वारि मधुरं नवपाटलादि कर्पूरवासिततरं तरलाक्षि दत्त्वा । काले कदा तव मयाचमनीयदन्त काष्ठादिकं प्रणयतः परमर्पणीयम् ॥ ५०॥ (वसन्त) (युग्मकम्) भोजनस्य समये तव यत्ना- त्देवि धूपनिवहान्वरगन्धान्। बीजनाद्यमपि तत्क्षणयोग्यं हा कदा प्रणयतः प्रणयामि ॥ ५१॥ (स्वागता) कर्पूरपूरपरिपूरितनागवल्ली पर्णादिपूगपरिकल्पितवीटिकां ते । वक्त्राम्बुजे मधुरगात्रि मुदा कदाहं प्रोत्फुल्लरोमनिकरैः परमर्पयामि ॥ ५२॥ (वसन्त) आरात्रिकेण भवतीं किमु देवि देवीं निर्मञ्छयिष्यतितरां ललिता प्रमोदात् । अन्यालयश्च नवमङ्गलगानपुष्पैः प्राणार्बुदैरपि कचैरपि दासिकेयम् ॥ ५३॥ आलीकुलेन ललिताप्रमुखेन सार्धं आतन्वती त्वमिह निर्भरमर्मगोष्ठीम् । मत्पाणिकल्पितमनोहरकेलितल्पं आभूषयिष्यसि कदा स्वपनेन देवि ॥ ५४॥ संवाहयिष्यति पदौ तव किङ्करीयं हा रूपमञ्जरिरसौ च कराम्बुजे द्वे । यस्मिन्मनोज्ञहृदये सदयेऽनयोः किं श्रीमान्भविष्यतितरां शुभवासरः सः ॥ ५५॥ तवोद्गीर्णं भोज्यं सुमुखि किल कल्लोलसलिलं तथा पादाम्भोजामृतमिह मया भक्तिलतया । अयि प्रेम्णा सार्धं प्रणयिजनवर्गैर्बहुविधै- रहो लब्धव्यं किं प्रचुरतरभोग्योदयबलैः ॥ ५६॥ भोजनावसरे देवि स्नेहेन स्वमुखाम्बुजात् । मह्यं त्वद्गतचित्तायै किं सुधास्त्वं प्रदास्यसि ॥ ५७॥ (अनुष्टुभ्) अपि बत रसवत्याः सिद्धये माधवस्य व्रजपतिपुरमुद्यद्रोमरोमा व्रजन्ती । स्खलितगतिरुदञ्चत्स्वान्तसौख्येन किं मे क्वचिदपि नयनाभ्यां लप्स्यसे स्वामिनि त्वम् ॥ ५८॥ (मालिनी) पार्श्वद्वये ललितयाथ विशाखया च त्वां सर्वतः परिजनैश्च परैः परीताम् । पश्चान्मया विभृतभङ्गुरमध्यभागां किं रूपमञ्जरिरियं पथि नेष्यतीह ॥ ५९॥ हम्बारवैरिह गवामपि बल्लवानां कोलाहलैर्विविधवन्दिकलावतां तैः । सम्भ्राजते प्रियतया व्रजराजसूनो- र्गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः ॥ ६०॥ प्राप्तां निजप्रणयिनीप्रकरैः परीतां नन्दीश्वरं व्रजमहेन्द्रमहालयं तम् । दूरे निरीक्ष्य मुदिता त्वरितं धनिष्ठा त्वामानयिष्यति कदा प्रणयैर्ममाग्रे ॥ ६१॥ (युग्मकम्) प्रक्षाल्य पादकमले कुशले प्रविष्टा नत्वा व्रजेशमहिषीप्रभृतीर्गुरूस्ताः । हा कुर्वती रसवतीं रसभाक्कदा त्वं सम्मज्जयिष्यसितरां सुखसागरे माम् ॥ ६२॥ माधवाय नतवक्त्रमादृता भोज्यपेयरससञ्चयं क्रमात् । तन्वती त्वमिह रोहिणीकरे देवि फुल्लवदनं कदेक्ष्यसे ॥ ६३॥ भोजने गुरुसभासु कथञ्चि- न्माधवेन नतदृष्टि मुदोत्कम् । वीक्ष्यमाणमिह ते मुखपद्मं मोदयिष्यसि कदा मधुरे माम् ॥ ६४॥ अयि विपिनमटन्तं सौरभेयीकुलानां व्रजनृपतिकुमारं रक्षणे दीक्षितं तम् । विकलमतिजनन्या लाल्यमानं कदा त्वं स्मितमधुरकपोलं वीक्ष्यसे वीक्ष्यमाणा ॥ ६५॥ गोष्ठेशयाथ कुतुकाच्छपथादिपूर्वं सुस्निग्धया सुमुखि मातृपरार्धतोऽपि । हा ह्रीमति प्रियगणैः सह भोज्यमानां किं त्वां निरीक्ष्य हृदये मुदमद्य लप्स्ये ॥ ६६॥ आलिङ्गनेन शिरसः परिचुम्बनेन स्नेहावलोकनभरेण च खञ्जनाक्षि । गोष्ठेशया नववधूमिव लाल्यमानां त्वां प्रेक्ष्य किं हृदि महोत्सवमातनिष्ये ॥ ६७॥ हा रूपमञ्जरि सखि प्रणयेन देवीं त्वद्बाहुदत्तभुजवल्लरिमायताक्षीम् । पश्चादहं कलितकामतरङ्गरङ्गां नेष्यामि किं हरिविभूषितकेलिकुञ्जम् ॥ ६८॥ साकं त्वया सखि निकुञ्जगृहे सरस्याः स्वस्यास्तटे कुसुमभावितभूषणेन । श‍ृङ्गारितं विदधती प्रियमीश्वरी सा हा हा भविष्यति मदीक्षणगोचरः किम् ॥ ६९॥ श्रुत्वा विचक्षणमुखाद्व्रजराजसूनोः शस्ताभिसारसमयं सुभगेऽत्र हृष्टा । सूक्ष्माम्बरैः कुसुमसंस्कृतकर्णपूर हारादिभिश्च भवतीं किमलङ्करिष्ये ॥ ७०॥ नानापुष्पैः क्वणितमधुपैर्देवि सम्भाविताभि- र्मालाभिस्तद्घुसृणविलसत्कामचित्रालिभिश्च । राजद्द्वारे सपदि मदनानन्ददाभिख्यगेहे मल्लीजालैः शशिमुखि कदा तल्पमाकल्पयिष्ये ॥ ७१॥ श्रीरूपमञ्जरिकरार्चितपादपद्म गोष्ठेन्द्रनन्दनभुजार्पितमस्तकायाः । हा मोदतः कनकगौरि पदारविन्द संवाहनानि शनकैस्तव किं करिष्ये ॥ ७२॥ गोवर्धनाद्रिनिकटे मुकुटेन नर्म लीलाविदग्धशिरसां मधुसूदनेन । दानच्छलेन भवतीमवरुध्यमानां द्रक्ष्यामि किं भ्रूकुटिदर्पितनेत्रयुग्माम् ॥ ७३॥ तव तनुवरगन्धासङ्गिवातेन चन्द्रा वलिकरकृतमल्लीकेलितल्पाच्छलेन । मधुरमुखि मुकुन्दं कुण्डतीरे मिलन्तं मधुपमिव कदाहं वीक्ष्य दर्पं करिष्ये ॥ ७४॥ समन्तादुन्मत्तभ्रमरकुलझङ्कारनिकरै- र्लसत्पद्मस्तोमैरपि विहगरावैरपि परम् । सखीवृन्दैः स्वीयैः सरसि मधुरे प्राणपतिना कदा द्रक्ष्यामस्ते शशिमुखि नवं केलिनिवहम् ॥ ७५॥ सरोवरलसत्तटे मधुपगुञ्जिकुञ्जान्तरे स्फुटत्कुसुमसङ्कुले विविधपुष्पसङ्घैर्मुदा । अरिष्टजयिना कदा तव वरोरु भूषाविधि- र्विधास्यत इह प्रियं मम सुखाब्धिमातन्वता ॥ ७६॥ स्फीतस्वान्तं कयाचित्सरभसमचिरेणार्प्यमाणैर्दरोद्य- न्नानापुष्पोरुगुञ्जाफलनिकरलसत्केकिपिञ्छप्रपञ्चैः । सोत्कम्पं रच्यमानः कृतरुचिहरिणोत्फुल्लमङ्गं वहन्त्याः स्वामिन्याः केशपाशः किमु मम नयनानन्दमुच्चैर्विधाता ॥ ७७॥ माधवं मदनकेलिविभ्रमे मत्तया सरसिजेन भवत्या । ताडितं सुमुखि वीक्ष्य किन्त्वियं गूढहास्यवदना भविष्यति ॥ ७८॥ सुललितनिजबाह्वाश्लिष्टगोष्ठेन्द्रसूनोः सुवलिततरबाह्वाश्लेषदीव्यन्नतांसा । मधुरमदनगानं तन्वती तेन सार्धं सुभगमुखि मुदं मे हा कदा दास्यसि त्वम् ॥ ७९॥ जित्वा पाशकखेलायां आच्छिद्य मुरलीं हरेः । क्षिप्तां मयि त्वया देवि गोपयिष्यामि तां कदा ॥ ८०॥ अपि सुमुखि कदाहं मालतीकेलितल्पे मधुरमधुरगोष्ठीं विभ्रतीं वल्लभेन । मनसिजसुखदेऽस्मिन्मन्दिरे स्मेरगण्डां सपुलकतनुरेषा त्वां कदा बीजयामि ॥ ८१॥ आयातोद्यत्कमलवदने हन्त लीलाभिसारा- द्गत्याटोपैः श्रमविलुलितं देवि पादाब्जयुग्मम् । स्नेहात्संवाहयितुमपि ह्रीपुञ्जमूर्तेऽप्यलज्जं नामग्राहं निजजनमिमं हा कदा नोत्स्यसि त्वम् ॥ ८२॥ हा नप्त्रि राधे तव सूर्यभक्तेः कालः समुत्पन्न इतः कुतोऽसि । इतीव रोषान्मुखरा लपन्ती सुधेव किं मां सुखयिष्यतीह ॥ ८३॥ देवि भाषितपीयूषं स्मितकर्पूरवासितम् । श्रोत्राभ्यां नयनाभ्यां ते किं नु सेविष्यते मया ॥ ८४॥ कुसुमचयनखेलां कुर्वती त्वं परीता रसकुटिलसखीभिः प्राणनाथेन सार्धम् । कपटकलहकेल्या क्वापि रोषेण भिन्ना मम मुदमतिबेलं धास्यसे सुव्रते किम् ॥ ८५॥ नानाविधैः पृथुलकाकुभरैरसह्यैः संप्रार्थितः प्रियतया बत माधवेन । त्वन्मानभङ्गविधये सदये जनोऽयं व्यग्रः पतिष्यति कदा ललितापदान्ते ॥ ८६॥ प्रीत्या मङ्गलगीतनृत्यविलसद्वीणादिवाद्योत्सवैः शुद्धानां पयसां घटैर्बहुविधैः संवासितानां भृशम् । वृन्दारण्यमहाधिपत्यविधये यः पौर्णमास्या स्वयं धीरे संविहितः स किं तव महासेको मया द्रक्ष्यते ॥ ८७॥ भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे । नीतायाः सुखशोकरोदनभरैस्ते सन्द्रवन्त्याः परं वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥ ८८॥ लज्जयालिपुरतः परतो मां गह्वरं गिरिपतेर्बत नीत्वा । दिव्यगानमपि तत्स्वरभेदं शिक्ष्ययिष्यसि कदा सदये त्वम् ॥ ८९॥ याचिता ललितया किल देव्या लज्जया नतमुखीं गणतो माम् । देवि दिव्यरसकाव्यकदम्बं पाठयिष्यसि कदा प्रणयेन ॥ ९०॥ निजकुण्डतटिकुञ्जे गुञ्जद्भ्रमरसङ्कुले । देवि त्वं कच्छपिशिक्षां कदा मां कारयिष्यसि ॥ ९१॥ विहारैस्त्रुटितं हारं गुम्फितुं दयितं कदा । सखीनां लज्जया देवि संज्ञया मां निदेक्ष्यसि ॥ ९२॥ स्वमुखान्मन्मुखे देवि कदा ताम्बूलचर्वितम् । स्नेहात्सर्वदिशे वीक्ष्य समये त्वं प्रदास्यसि ॥ ९३॥ निविडमदनयुद्धे प्राणनाथेन सार्धं दयितमधुरकाञ्ची या मदाद्विस्मृतासीत् । शशिमुखि समये तां हन्त सम्भाल्य भङ्ग्या त्वरितमिह तदर्थं किं त्वयाहं प्रहेया ॥ ९४॥ केनापि दोषलवमात्रलवेन देवि सन्ताड्यमान इह धीरमते त्वयोच्चैः । रोषेण तल्ललितया किल नीयमानः सन्द्रक्ष्यते किमु मनाक्सदरं जनोऽयम् ॥ ९५॥ तवैवास्मि तवैवास्मि न जीवामि त्वया विना । इति विज्ञाय देवि त्वं नय मां चरणान्तिके ॥ ९६॥ स्वकुण्डं तव लोलाक्षि सप्रियायाः सदास्पदम् । अत्रैव मम संवास इहैव मम संस्थितिः ॥ ९७॥ हे श्रीसरोवर सदा त्वयि सा मदीशा प्रेष्ठेन सार्धमिह खेलति कामरङ्गैः । त्वं चेत्प्रियात्प्रियमतीव तयोरितीमां हा दर्शयाद्य कृपया मम जीवितं ताम् ॥ ९८॥ क्षणमपि तव सङ्गं न त्यजेदेव देवी त्वमसि समवयस्त्वान्नर्मभूमिर्यदस्याः । इति सुमुखि विशाखे दर्शयित्वा मदीशां मम विरहहतायाः प्राणरक्षां कुरुष्व ॥ ९९॥ हा नाथ गोकुलसुधाकर सुप्रसन्न वक्त्रारविन्द मधुरस्मित हे कृपार्द्र । यत्र त्वया विहरते प्रणयैः प्रियारा- त्तत्रैव मामपि नय प्रियसेवनाय ॥ १००॥ लक्ष्मीर्यदङ्घ्रिकमलस्य नखाञ्चलस्य सौन्दर्यबिन्दुमपि नार्हति लब्धुमीशे । सा त्वं विधास्यसि न चेन्मम नेत्रदानं किं जीवितेन मम दुःखदवाग्निदेन ॥ १०१॥ आशाभरैरमृतसिन्धुमयैः कथञ्चि- त्कालो मयातिगमितः किल साम्प्रतं हि । त्वं चेत्कृपां मयि विधास्यसि नैव किं मे प्राणैर्व्रजेन च वरोरु बकारिणापि ॥ १०२॥ त्वं चेत्कृपामयि कृपां मयि दुःखितायां नैवातनोरतितरां किमिह प्रलापैः । त्वत्कुण्डमध्यमपि तद्बहुकालमेव संसेव्यमानमपि किं नु करिष्यतीह ॥ १०३॥ अयि प्रणयशालिनि प्रणयपुष्टदास्याप्तये प्रकाममतिरोदनैः प्रचुरदुःखदग्धात्मना । विलापकुसुमाञ्जलिर्हृदि निधाय पादाम्बुजे मया बत समर्पितस्तव तनोतु तुष्टिं मनाक् ॥ १०४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीविलापकुसुमाञ्जलिः सम्पूर्णा ।

Vrajavilasastava ॥ व्रजविलासस्तव ॥

श्रीश्रीराधाकृष्णपादाम्बुजेभ्यो नमः । प्रतिष्ठा रज्जूभिर्बद्धं कामाद्यैर्वर्त्मपातिभिः । छित्त्वा ताः संहरन्तस्ता नघारेः पान्तु मां भटाः ॥ १॥ दग्धं वार्धकवन्यवह्निभिरलं दष्टं दुरान्ध्याहिना बिद्धं मामतिपारवश्यविशिखैः क्रोधादिसिंहैर्वृतम् । स्वामिन्प्रेमसुधाद्रवं करुणया द्राक्पायय श्रीहरे येनैतानवधीर्य सन्ततमहं धीरो भवन्तं भजे ॥ २॥ यन्माधुरी दिव्यसुधारसाब्धेः स्मृतेः कणेनाप्यतिलोलितात्मा । पद्मैर्व्रजस्थानखिलान्व्रजं च नत्वा स्वनाथौ बत तौ दिदृक्षे ॥ ३॥ प्रादुर्भावसुधाद्रवेण नितरामङ्गित्वमाप्त्वा ययो- र्गोष्ठेऽतीक्ष्णमनङ्ग एष परितः क्रीडाविनोदं रसैः । प्रीत्योल्लासयतीह मुग्धमिथुनश्रेणीवतंसाविमौ गान्धर्वा गिरिधारिणौ बत कदा द्रक्ष्यामि रागेण तौ ॥ ४॥ वैकुण्ठादपि सोदरात्मजवृता द्वारवती सा प्रिया यत्र श्रीशतनिन्दिपट्टमहिषीवृन्दैः प्रभुः खेलति । प्रेमक्षेत्रमसौ ततोऽपि मथुरा श्रेष्ठा हरेर्जन्मतो यत्र श्रीव्रज एव राजतितरां तामेव नित्यं भजे ॥ ५॥ यत्र क्रीडति माधवः प्रियतमैः स्निग्धः सखीनां कुलै- र्नित्यं गाढरसेन रामसहितोऽप्यद्यापि गोचारणैः । यस्याप्यद्भुतमाधुरीरसविदां हृद्येव कापि स्फुरे- त्प्रेष्ठं तन्मथुरापुरादपि हरेर्गोष्ठं तदेवाश्रये ॥ ६॥ वैदग्ध्योत्तरनर्मकर्मठसखीवृन्दैः परीतं रसैः प्रत्येकं तरुकुञ्जवल्लरिगिरिद्रोणीषु रात्रिन्दिवम् । ? नानाकेलिभरेण यत्र रमते तन्नव्ययूनोर्युगं तत्पादाम्बुजगन्धबन्धुरतरं वृन्दावनं तद्भजे ॥ ७॥ यत्र श्रीः परितो भ्रमत्यविरतं तास्ता महासिद्धयः स्फीताः सृष्टिरलं गवामुदयनी वासोऽपि गोष्ठौकसाम् । वात्सल्यात्परिपालितो विहरते कृष्णः पितृभ्यां सुखै स्तन्नान्दीश्वरमालयं व्रजपतेर्गोष्ठोत्तमाङ्गं भजे ॥ ८॥ पुत्रस्याभ्युदयार्थमादरभरैर्मिष्टान्नपानोत्करै- र्दिव्यानां च गवां मणिव्रजयुषां दानैरिह प्रत्यहम् । यो विप्रान्गणशः प्रतोषयति तद्भव्यस्य वार्तां मुहुः स्नेहात्पृच्छति यश्च तद्गतमनास्तं गोकुलेन्द्रं भजे ॥ ९॥ पुत्रस्नेहभरैः सदास्नुतकुचद्वन्द्वा तदीयोच्छल- द्घर्मस्यापि लवस्य रक्षणविधौ स्वप्राणदेहार्बुदैः । आसक्ता क्षणमात्रमप्यकलनात्सद्यः प्रसूतेव गौ- र्व्यग्राया विलपत्यलं बहुभयात्सा पातु गोष्ठेश्वरी ॥ १०॥ पुत्रादुच्चैरपि हलधरात्सिञ्चति स्नेहपुरै- र्गोविन्दं याद्भुतरसवतीप्रक्रियासु प्रवीणा । सख्यश्रीभिर्व्रजपुरमहाराजराज्ञीं नयैस्त- द्गोपेन्द्रं या सुखयति भजे रोहिणीमीश्वरीं ताम् ॥ ११॥ उद्यच्छुभ्रांशुकोटिद्युतिनिकरतिरस्कारकार्युज्ज्वलश्री- र्दुर्वारोद्दामधामप्रकररिपुघटोन्मादविध्वंसिदग्धः । स्नेहादप्युन्निमेषं निजमनुजमितोऽरण्यभूमौ स्ववीतं तद्वीर्यज्ञोऽपि यो न क्षणमुपनयते स्तौमि तं धेनुकारिम् ॥ १२॥ पर्जन्यनामानिजनप्तृगर्वैः पर्जन्यलक्षानभितो विनिन्दन्। यो नर्म तन्वन्रमतेऽस्य कर्णे नमाम्यहो कृष्णपितामहं तम् ॥ १३॥ प्रियस्य नप्तुः सुखतोऽतिगर्वा- त्पादौ न यस्याः पततः पृथिव्याम् । नमामि नर्मार्चितनप्तृचन्द्रां वरीयसीं कृष्णपितामहीं ताम् ॥ १४॥ श्वेतश्मश्रुभरेण सुन्दरमुखः श्यामः कृती मन्त्रणा भिज्ञः संसदि सन्ततं व्रजपतेः कुर्वन्स्थितिः योऽर्चितः । स्वप्राणार्बुदखण्डनैर्मुरभिदं भ्रातुः सुतं तोषये- त्साहारे निवसन्सगोष्ठमवतान्नाम्नोपनन्दः सदा ॥ १५॥ गौरः कोमलधीरुदारचरितः स्निग्धो व्रजेन्द्रानुजः श्यामश्मश्रुरलं तदीयचरणे भक्तः सुनन्दापिता । यः प्राणैः परिमञ्छ्य माधवसुखं दध्ना महिष्याः परं सन्नन्दस्तनुते स पातु नितरां नः कासरीणां पतिः ॥ १६॥ श्यामः सूक्ष्ममतिर्युवातिमधुरो ज्योतिर्विदामग्रणीः पाण्डित्यैर्जितगीष्पतिर्व्रजपतेः सव्ये कृतावस्थितिः । कृष्णं पालयतीह यः प्रियतमा प्राणार्बुदैरप्यलं मन्त्रेणाप्युपनन्दसूनुमिह तं प्रीत्या सुभद्रं नुमः ॥ १७॥ दैत्याद्भीतेरतिविकलधीः कोमलाङ्गस्य सूनोः कृष्णस्योच्चैः सततमवने वत्सला व्यग्रचित्ता । कृच्छ्रैरम्बां बहुभिरभितो हन्त सन्तोष्य शूरं दैत्यघ्नं या सुतमजनयत्साम्बिका पातु धात्री ॥ १८॥ नादैर्यस्य स्फुटति परितो दिव्यविध्यण्डकोटिः के ते तावत्किल दितिसुताः क्षुद्रकात्क्षुद्रजीवाः । स्नेहान्मात्रा विजयमभितो रक्षणे सन्नियुक्तं कृष्णस्यारात्परमिह भजे हन्त धात्री सुतं तम् ॥ १९॥ मन्त्रन्यासैरिह मुररिपोस्तत्पुरोधाः पुरस्ता- त्सर्वाङ्गानि प्रकटनिगमो भागुरिर्योऽभिरक्ष्य । आशीर्भिश्च प्रतिदिनमहो तच्छिरो जिघ्रतीदं वन्दे तावन्मुनिसुरपतेस्तस्य पादाब्जयुग्मम् ॥ २०॥ कृष्णस्योच्चैः प्रणयवसतिः संप्रवीणः सखीनां श्यामाङ्गस्तत्समगुणं वयोवेशसौन्दर्यदर्पः । स्नेहादन्धः क्षणमकलनाज्जायते योऽवधूतः श्रीदामानं हरिसहचरं सर्वदा तं प्रपद्ये ॥ २१॥ गाढानुरागभवतो विरहस्य भीत्या स्वप्नेऽपि गोकुलविधोर्न जहाति हस्तम् । यो राधिकाप्रणयनिर्झरसिक्तचेता स्तं प्रेमविह्वलतनुं सुबलं नमामि ॥ २२॥ कृत्वैकत्र गवां कुलानि परितः कृष्णेन सार्धं मुदा हस्ताहस्ति विनोदनर्मकथनैः खेलन्ति मित्रोत्कराः । प्रेमाम्भोधिविधौतगौरवमहापङ्कास्तदङ्कार्चिता स्तत्पादार्पितचित्तजीवितकला ये तान्प्रपद्यामहे ॥ २३॥ मूर्तो हास्यरसः सदैव सुमनाः कामं बुभुक्षातुरः प्राणप्रेष्ठवयस्ययोरनुदिनं वाग्देहभङ्ग्युत्करैः । हास्यं यो मधुमङ्गलः प्रकटयन्सम्भ्राजते कौतुकी तं वृन्दावनचन्द्रनर्मसचिवं प्रीत्याशु वन्दामहे ॥ २४॥ गूढं तत्सुविदग्धतार्चितसखीद्वारोन्नयन्ती तयोः प्रेम्ना सुष्ठु विदग्धयोरनुदिनं मानाभिसारोत्सवः । राधामाधवयोः सुखामृतरसं यैवोपभुङ्क्ते मुहु- र्गोष्ठे भव्यविधायिनीं भगवतीं तां पौर्णमासीं भजे ॥ २५॥ खर्वश्मश्रुमुदारमुज्ज्वलकुलं गौरं समानं स्फुर- त्पञ्चाशत्तमवर्षवन्दितवयःक्रान्तिं प्रवीणं व्रजे । गोष्ठेशस्य सखायमुन्नततरश्रीदामतोऽपि प्रिय श्रीराधं वृषभानुमुद्भटयशोव्रातं सदा तं भजे ॥ २६॥ अनुदिनमिह मात्रा राधिकाभव्यवार्ताः कलयितुमतियत्नात्प्रेष्यते धात्रिकायाः । दुहितृयुगलमुच्चैः प्रेमपूरप्रपञ्चै- र्विकलमति ययासौ कीर्तिदा सावतान्नः ॥ २७॥ प्रथमरसविलासे हन्त रोषेण ताव- त्प्रकटमिव विरोधं सन्दधानापि भङ्ग्या । प्रवलयति सुखं या नव्ययूनोः स्वनप्त्रोः परमिह मुखरां तां मूर्ध्नि वृद्धां वहामि ॥ २८॥ सान्द्रप्रेमरसैः प्लुता प्रियतया प्रागल्भ्यमाप्ता तयोः प्राणप्रेष्ठवयस्ययोरनुदिनं लीलाभिसारं क्रमैः । वैदग्ध्येन तथा सखीं प्रति सदा मानस्य शिक्षां रसै- र्येयं कारयतीह हन्त ललिता गृह्णातु सा मां गणैः ॥ २९॥ प्रणयललितनर्मस्फारभूमिस्तयोर्या व्रजपुरनवयूनोर्या च कण्ठान्पिकानाम् । नयति परमधस्ताद्दिव्यगानेन तुष्ट्या प्रथयतु मम दीक्षां हन्त सेयं विशाखा ॥ ३०॥ प्रतिनवनवकुञ्जं प्रेमपूरेण पूर्णा प्रचुरसुरभिपुष्पैर्भूषयित्वा क्रमेण । प्रणयति बत वृन्दा तत्र नीलोत्सवं या प्रियगणवृतराधाकृष्णयोस्तां प्रपद्ये ॥ ३१॥ सख्येनालं परमरुचिरा नर्मभव्येन राधां पाकार्थं या व्रजपतिमहिष्याज्ञया सन्नयन्ती । प्रेम्णा शश्वत्पथि पथि हरेर्वार्तया तर्पयन्ती तुष्यत्वेतां परमिह भजे कुन्दपूर्वां लतां ताम् ॥ ३२॥ व्रजेश्वर्यानीतां बत रसवतीकृत्यविधये मुदा कामं नन्दीश्वरगिरिनिकुञ्जे प्रणयिनी । छलैः कृष्णः राधां दयितमभि तां सारयति या धनिष्ठां तत्प्राणप्रियतरसखीं तां किल भजे ॥ ३३॥ अवन्तीतः कीर्तेः श्रवणभवतो मुग्धहृदया प्रगाढोत्कण्ठाभिर्व्रजभुवमुरीकृत्य किल या । मुदा राधाकृष्णोज्ज्वलरससुखं वर्धयति तां मुखीं नान्दीपूर्वां सततमभिवन्दे प्रणयतः ॥ ३४॥ मुदा राधाकृष्णप्रचुरजलकेली रसभर स्खलत्कस्तूरीतद्घुसृणघनचर्चार्चितजला । प्रमोदात्तौ फणस्मितमुदितमूर्मिस्फुटकर श्रिया सिञ्चन्तीव प्रथयतु सुखं नस्तरणिजा ॥ ३५॥ सर्वानन्दकदम्बकेन हरिणा प्राग्याचिता अप्यमूः स्वैरं चारु रिरंसया रहसि याः क्रोधादनादृत्य ताम् । प्राणप्रेष्ठसखीं निजामनुदिनं तेनैव सार्धं मुदा राधां संरमयन्ति ताः प्रियसखी मूर्ध्ना प्रपद्येतराम् ॥ ३६॥ प्रेम्णा ये परिबण्टनेन कलिताः सेवासदैवोत्सुकाः कुर्वाणाः परमादरेण सततं दासा वयस्योपमाः । वंशीदर्पणदूत्यवारिविलसत्ताम्बूलवीणादिभिः प्राणेशं परितोषयन्ति परितस्तान्पत्रिमुख्यान्भजे ॥ ३७॥ ताम्बूलार्पणपादमर्दनपयोदानाभिसारादिभि- र्वृन्दारण्यमहेश्वरीं प्रियतया यास्तोषयन्ति प्रियाः । प्राणप्रेष्ठसखीकुलादपि किलासङ्कोचिताभूमिकाः केलीभूमिषु रूपमञ्जरीमुखास्ता दासिकाः संश्रये ॥ ३८॥ तृणीकृत्य स्फारं सुखजलधिसारं स्फुटमपि स्वकीयं प्रेम्नां ये भरनिकरनम्रा मुररिपोः । सुखाभासं शश्वत्प्रथयितुमलं प्रौढकुतुका- द्घतन्ते तान्धन्यान्परमिह भजे माधवगणान्॥ ३९॥ तस्याः क्षणादर्शनतो म्रियन्ते सुखेन तस्याः सुखिनो भवन्ति । स्निग्धाः परं ये कृतपुण्यपुञ्जाः प्राणेश्वरीप्रेष्ठगणान्भजे तान्॥ ४०॥ सापत्न्योच्चयरज्यदुज्ज्वलरसस्योच्चैः समुद्वृद्धये सौभाग्योद्भटगर्वविभ्रमभृतः श्रीराधिकायाः स्फुटम् । गोविन्दः स्मरफुल्लवल्लववधूवर्गेण येन क्षणं क्रीडत्येष तमत्र विस्तृतमहापुण्यं च वन्दामहे ॥ ४१॥ ब्रह्माण्डात्परमुच्छलत्सुखभरं तत्कोटिसङ्ख्यादपि प्रेम्णा कृष्णसुरक्षिताः प्रतिमुहुः प्राप्ताः परं निर्वृताः । कामं तत्पादपद्मसुन्दरनखप्रान्तस्खलद्रेणुका रक्षाव्यग्रधियः स्फुरन्ति किल ये तान्गोपवर्यान्भजे ॥ ४२॥ प्राणेभ्योऽप्यधिकैः प्रियैरपि परं पुत्रैर्मुकुन्दस्य याः स्नेहात्पादसरोजयुग्मविगलद्घर्मस्य बिन्दोः कणम् । निर्मञ्छ्योरुशिखण्डसुन्दरशिरश्चुम्बन्ति गोप्यश्चिरं तासां पादरजांसि सन्ततमहं निर्मञ्छयामि स्फुटम् ॥ ४३॥ इन्द्रनीलखुरराजिताः परं स्वर्णबद्धवरश‍ृङ्गरञ्जिताः । पाण्डुगण्डगिरिगर्वखर्विकाः पान्तु नः सपदि कृष्णधेनवः ॥ ४४॥ यासां पालनदोहनोत्सवरतः सार्धं वयस्योत्करैः कामं रामविराजितः प्रतिदिनं तत्पादरेणूज्ज्वलम् । प्रीत्या स्फीतवनोरुपर्वतनदीकच्छेषु बद्धस्पृहो गोष्ठाखण्डलनन्दनो विहरते ताः सौरभेयीर्भजे ॥ ४५॥ मणिखचितसुवर्णश्लिष्टश‍ृङ्गद्वयश्री- रसितमणिमनोज्ञज्योतिरुद्यत्खुराढ्यः । स्फुरदरुणिमगुच्छान्दोलविद्योतिकण्ठः स जयति बकशत्रोः पद्मगन्धः ककुद्मी ॥ ४६॥ मृदुनवतृनमल्पं सस्पृहं वक्त्रमध्ये क्षिपति परमयत्नादल्पकण्डूं च गात्रे । प्रथयति मुरवैरी हन्त यद्वत्सकानां सपदि किल दिदृक्षे तत्तदाटीकनानि ॥ ४७॥ नक्तं दिवं मुररिपोरधरामृतं या स्फीता पिबत्यलमबाधमहो सुभाग्या । श्रीराधिकाप्रथितमानमपीह दिव्य नादैरधो नयति तां मुरलीं नमामि ॥ ४८॥ दूतीभिर्बहुचाटुभिः सखिकुलेनालं वचोभङ्गिभिः पादान्ते पतनैर्व्रजेन्द्रतनयेनापि क्रुद्धालीगणैः । राधायाः सखि शक्यते दवयितुं यो नैव मानो यया फुत्कृत्यैव निरस्यते सुकृतिनीं वंशीं सखीं तां नुमः ॥ ४९॥ स्फीतस्ताण्डविको हरेर्मुरलिकानादेन नृत्योत्सवं घूर्णच्चारुशिखण्डवल्गुसरसीतीरे निकुञ्जाग्रतः । तन्वन्कुञ्जविहारिणोः सुखभरं सम्पादयेद्यस्तयोः स्मृत्वा तं शिखिराजमुत्सुकतया बाढं दिदृक्षामहे ॥ ५०॥ सप्ताहं मुरमर्दनः प्रणयतो गोष्ठैकरक्षोत्सुको बिभ्रन्मानमुदारपाणिरमणैर्यस्मै सलिलं ददौ । गान्धर्वामुरभिद्विलासविगलत्काश्मीररज्यद्गुह स्तत्खट्टायितरत्नसुन्दरशिलो गोवर्धनः पातु वः ॥ ५१॥ नीपैश्चम्पकपालिभिर्नववराशोकै रसालोत्करैः पुन्नागैर्बकुलैर्लवङ्गलतिका वासन्तिकाभिर्वृतैः । हृद्यं तत्प्रियकुण्डयोस्तटमिलन्मध्यप्रदेशं परं राधामाधवयोः प्रियस्थलमिदं केल्यास्तदेवाश्रये ॥ ५२॥ श्रीवृन्दाविपिनं सुरम्यमपि तच्छ्रीमान्स गोवर्धनः सा रसस्थलिकाप्यलं रसमयी किं तावदन्यस्थलम् । यस्याप्यंशलवेन नार्हति मनाक्साम्यं मुकुन्दस्य तत्- प्राणेभ्योऽप्यधिकप्रियेव दयितं तत्कुण्डमेवाश्रये ॥ ५३॥ स्फीते रत्नसुवर्णमौक्तिकभरैः सन्निर्मिते मण्डपे थूत्कारं विनिधाय यत्र रभसात्तौ दम्पती निर्भरम् । तन्वाते रतिनाथनर्मसचिवौ तद्राज्यचर्चां मुदा तं राधासरसीतटोज्ज्वलमहाकुञ्जं सदाहं भजे ॥ ५४॥ कान्त्या हन्त मिथः स्फुटं हृदि तटे सम्बिम्बितं द्योतते प्रीत्या तन्मिथुनं मुदा पदकवद्रागेण बिभ्रद्ययोः । धात्रा भाग्यभरेण निर्मिततरे त्रैलोक्यलक्ष्म्यास्पदे गौरश्यामतमे इमे प्रियतमे रूपे कदाहं भजे ॥ ५५॥ नेत्रोपान्तविघूर्णनैरलघु तद्दोर्मूलसञ्चालनै- रीषद्धास्यरसैः सुधाधरधयैश्चुम्बैर्दृढालिङ्गनैः । एतैरिष्टमहोपचारनिचयैस्तन्नव्ययूनोर्युगं प्रीत्या यं भजते तमुज्ज्वलमहाराजं प्रवन्दामहे ॥ ५६॥ नेत्रे दैर्घ्यमपाङ्गयोः कुटिलता वक्षोजवक्षःस्थले स्थौल्यं तन्मृदुवाचि वक्रिमधुरा श्रोणौ पृथु स्फारता । सर्वाङ्गे वरमाधुरी स्फुटमभूद्येनेह लोकोत्तरा राधामाधवयोरलं नववयः सन्धिं सदा तं भजे ॥ ५७॥ दुष्टारिष्टवधे स्वयं समुदभूत्कृष्णाङ्घ्रिपद्मादिदं स्फीतं यन्मकरन्दविस्तृतिरिवारिष्टाख्यमिष्टं सरः । सोपानैः परिरञ्जितं प्रियतया श्रीराधया कारितैः प्रेम्णालिङ्गदिव प्रिया सर इदं तन्नीत्यनित्यं भजे ॥ ५८॥ कदम्बानां व्रातैर्मधुपकुलझङ्कारललितैः परीते यत्रैव प्रियसलिललीलाहतिमिषैः । मुहुर्गोपेन्द्रस्यात्मजमभिसरन्त्यम्बुजदृशो विनोदेन प्रीत्या तदिदमवतात्पावनसरः ॥ ५९॥ पर्जण्येन पितामहेन नितरामाराध्य नारायणं त्यक्त्वाहारमभूत पुत्रक इह स्वीयात्मजे गोष्ठपे । यत्रावापि सुरारिहा गिरिधरः पौत्रो गुणैकाकरः क्षुण्णाहारतया प्रसिद्धमवनौ तन्मे तडागं गतिः ॥ ६०॥ सार्धं मानसजाह्नवीमुपनदीवर्गैः सरङ्गोत्करैः सावित्र्यादिसुरीकुलैश्च नितरामाकाशवाण्या विधोः । वृन्दारण्यवरेण्यराज्यविषये श्रीपौर्णमासी मुदा राधां यत्र सिषेच सिञ्चतु सुखं सोन्मत्तराधास्थली ॥ ६१॥ प्रीत्या नन्दीश्वरगिरितटे स्फारपाषाणवृन्दै- श्चाटुष्कोण्येऽनुकृतिगुरुभिर्निर्मिता या विदग्धैः । रेमे कृष्णः सखिपरिवृतो यत्र नर्माणि तन्वन्- नास्थानीं तां हरिपदलसत्सौरभाक्तां प्रपद्ये ॥ ६२॥ वैदग्ध्योज्ज्वलवल्गुवल्लववधूवर्गेण नृत्यन्नसौ हित्वा तं मुरजिद्रसेन रहसि श्रीराधिकां मण्डयन्। पुष्पालङ्कृतिसञ्चयेन रमते यत्र प्रमोदोत्करै- स्त्रैलोक्याद्भुतमाधुरी परिवृता सा पातु रासस्थली ॥ ६३॥ गान्धर्विकामुरविमर्दननौविहार लीलाविनोदरसनिर्भरभोगिनीयम् । गोवर्धनोज्ज्वलशिलाकुलमुन्नयन्ती वीचीभरैरवतु मानसजाह्नवी माम् ॥ ६४॥ येषां क्वापि च माधवो विहरते स्निग्धैर्वयस्योत्करै- स्तद्धातुद्रवपुञ्जचित्रिततरैस्तैस्तैः स्वयं चित्रितः । खेलाभिः किलपालनैरपि गवां कुत्रापि नर्मोत्सवैः श्रीराधासहितो गुहासु रमते तान्शैलवर्यान्भजे ॥ ६५॥ स्फीते यत्र सरित्सरोवरकुले गाः पालयन्निर्वृते ग्रीष्मे वारिविहारकेलिनिवहैर्गोपेन्द्रविद्यात्मजः । प्रीत्या सिञ्चति मुग्धमित्रनिकरान्हर्षेण मुग्धः स्वयं काङ्क्षन्स्वीयजयं जयार्थिन इमान्नित्यं तदेतद्भजे ॥ ६६॥ येषां कच्छपिका लसन्मुरलिकानादेन हर्षोत्करैः स्रस्तार्धस्तृणगुच्छ एष नितरां वक्त्रेषु संस्तम्भते । सख्येनापि तयोः परं परिवृता राधाबकद्वेषिणो स्ते हृद्या मृगयूथपाः प्रतिदिनं मां तोषयन्तु स्फुटम् ॥ ६७॥ गुञ्जद्भृङ्गकुलेन जुष्टकुसुमैः संलब्धमञ्जुश्रियां कुञ्जानां निकरेषु येषु रमते सौरभ्यविस्तारिणाः । उद्यत्कामतरङ्गरङ्गितमनस्तन्नव्ययूनोर्युगं तेषां विस्तृतकेशपाशनिकरैः कुर्यामहो मार्जनम् ॥ ६८॥ येषां चारु तलेषु शीतनिविडच्छायेषु रात्रिन्दिवं पुष्पाणां विगलत्परागविलसत्तल्पेषु कॢप्ताश्रयम् । प्रीत्या स्निग्धमधुव्रतैर्मधुकणैः संसेवितं तन्नवं यूनोर्युग्मतरं मुदा विहरते ते पान्तु मां भूरुहाम् ॥ ६९॥ गान्धर्वा मुरवैरिणोः प्रणयिणोः पुष्पाणि सञ्चिन्वतोः स्वैरं स्मेरसखीकुलेन वृतयोरीषत्स्मितेन द्वयोः । दृष्ट्वा केलिकलिं तयोर्नवनवं हास्येन पुष्पच्छलैः कामं या विलसन्ति ताः किल लताः सेव्याः परं प्रेमभिः ॥ ७०॥ परिचयरसमग्नाः काममारात्तयोर्ये मधुरतररुतेनोल्लासमुल्लासयन्ति । व्रजभुवि नवयूनोः सुप्रियाः पक्षिणस्ते विदधतु मम सौख्यं स्फारमालोकनेन ॥ ७१॥ चूतेष्वेषु कदम्बकेषु बकुलेष्वन्येषु वृक्षेष्वलं प्रीत्या माधविकादिवल्लिषु तथा भाङ्कारनादैर्द्वयोः । ये भृङ्गाः परितस्तयोः सुखभरं विस्तारयन्ति स्फुटं गुञ्जन्तो बत विभ्रमेण नितरां तानेव वन्दामहे ॥ ७२॥ पुष्पैर्यस्य मुदा स्वयं गिरिधरं स्वैरं निकुञ्जेश्वरीं फुल्लां फुल्लतरैरमण्डयदलं फुल्लो निकुञ्जेश्वरः । ईषन्नेत्रविघूर्णनेन कलितस्वाधीन उच्चैस्तया श्रीमान्स प्रथयत्वहो मम दृशोः सौख्यं कदम्बेश्वरः ॥ ७३॥ नीचैः प्रौढभयात्स्वयं सुरपतिः पादौ विधृत्येह यैः स्वर्गङ्गासलिलैश्चकार सुरभिद्वाराभिषेकोत्सवम् । गोविन्दस्य नवं गवामधिपता राज्ये स्फुटं कौतुका- त्तैर्यत्प्रादुरभूत्सदा स्फुरतु तद्गोविन्दकुण्डं दृशोः ॥ ७४॥ व्रजेन्द्रवर्यार्पितभोगमुच्चै- र्धृत्वा बृहत्कायमघारिरुत्कः । वरेण राधां छलयन्विभुङ्क्ते यत्रान्नकूटं तदहं प्रपद्ये ॥ ७५॥ गिरीन्द्रवर्योपरिहाररूपी हरिः स्वयं यत्र विहारकारी । सदा मुदा राजति राजभोगै- र्हरिस्थलं तत्तु भजेऽनुरागैः ॥ ७६॥ घट्टक्रीडाकुतुकितमना नागरेन्द्रोनवीनो दानी भूत्वा मदननृपतेर्गव्यदानच्छलेन । यत्र प्रातः सखिभिरभितो वेष्टितः संरुरोध श्रीगान्धर्वां निजगणवृतां नौमि तां कृष्णवेदीम् ॥ ७७॥ निभृतमजनि यस्माद्दाननिर्वृतिरस्मि यत्र इदमभिधानं प्रापयत्तत्सभायाम् । रसविमुखनिगूढे तत्र तज्ज्ञैकवेद्ये सरसि भवति वासो दाननिर्वर्तनेन ॥ ७८॥ सीरिब्रह्मकदम्बखण्डसुमनोरुद्राप्सरोगौरिका ज्योत्स्नामोक्षणमाल्यहारविबुधारीन्द्रध्वजाद्याख्यया । यानि श्रेष्ठसरांसि भान्ति परितो गोवर्धनाद्रेरमू नीडे चक्रकतीर्थदैवतगिरि श्रीरत्नपीठान्यपि ॥ ७९॥ अहो दोलाक्रीडारसवरभरोत्फुल्लवदनौ मुहुः श्रीगान्धर्वागिरिवरधरु तौ प्रति मधु । सखीवृन्दं यत्र प्रकटितमुदान्दोलयति तत्- प्रसिद्धं गोविन्दस्थलमिदमुदारं बत भजे ॥ ८०॥ प्रिया प्रियप्राणवयस्यवर्गे धृतापराधं किल कालियं तम् । यत्रार्दयत्पादतलेन नृत्य- न्हरिर्भजे तं किल कालियं ह्रदम् ॥ ८१॥ सूर्यैर्द्वादशभिः परं मुररिपुः शीतार्त उग्रातपै- र्भक्तिप्रेमभरैरुदारचरितः श्रीमान्मुदा सेवितः । यत्र स्त्रीपुरुषैः क्वणत्पशुकुलैरावेष्टितो राजते स्नेहैर्द्वादशसूर्यनाम तदिदं तीर्थं सदा संश्रये ॥ ८२॥ अत्यन्तातपसेवनेन परितः सञ्जातघर्मोत्करै- र्गोविन्दस्य शरीरतो निपतितैर्यत्तीर्थमुच्चैरभूत् । तत्तत्कोमलसान्द्रसुन्दरतरश्रीमत्सदङ्गोच्छल- द्गन्धैर्हारिसुवारिसुद्युति भजे प्रस्कन्दनं वन्दनैः ॥ ८३॥ कात्यायन्यतुलार्चनार्थममले कृष्णाजले मज्जतः कन्यानां प्रकरस्य चीरनिकरं संरक्षितं तीरतः । हृत्वारुह्य कदम्बमुज्ज्वलपरीहासेन तं लज्जय- न्स्मेरंस्तं प्रददौ सुभङ्गिमुरजित्तं चीरघट्टं श्रये ॥ ८४॥ हेषाभिर्जगतीत्रयं मदभरैरुत्कम्पयन्तं परैः फुल्लन्नेत्रविघूर्णनेन परितः पूर्णं दहन्तं जगत् । तं तावत्तृणवद्विदीर्य बकभिद्विद्वेषिणं केशिनं यत्र क्षालितवान्करौ सरुधिरौ तत्केशितीर्थं भजे ॥ ८५॥ अन्नैर्यत्र चतुर्विधैः पृथुगणैः स्वैरं सुधानिन्दिभिः कामं रामसमेतमच्युतमहो स्निग्धैर्वयस्यैर्वृतम् । श्रीमान्याज्ञिकविज्ञसुन्दरवधूवर्गः स्वयं यो मुदा भक्त्या भोजितवान्स्थलं च तदिदं तं चापि वन्दामहे ॥ ८६॥ मुदा गोपेन्द्रस्यात्मजभुजपरिष्वङ्गनिधये स्फुरद्गोपीवृन्दैर्यमिह भगवन्तं प्रणयिभिः । भजद्भिस्तैर्भक्त्या स्वमभिलषितं प्राप्तमचिरा- द्यमीतीरे गोपीश्वरमनुदिनं तं किल भजे ॥ ८७॥ भयात्कंसस्यारात्सदयमचिराच्छन्तनुपदे विनिक्षिप्ता राधा रहसि किल पित्रा प्रकृतितः । स्फुरन्तं तं दृष्ट्वा कमपि घनपुञ्जाकृतिवरं तमेवाप्तं यत्नाद्यमभजत सूर्योऽवतु स नः ॥ ८८॥ आविर्भावमहोत्सवे मुररिपोः स्वर्णोरुमुक्ताफल श्रेणीविभ्रममण्डिते नवगवीलक्षे ददौ द्वे मुदा । दिव्यालङ्कृतिरत्नपर्वततिलप्रस्थादिकं चादरा- द्विप्रेभ्यः किल यत्र स व्रजपतिर्वन्दे बृहत्काननम् ॥ ८९॥ गान्धर्वाया जनिमणिरभूद्यत्र सङ्कीर्तितायां आनन्दोत्कैः सुरमुनिनरैः कीर्तिदागर्भखन्याम् । गोपीगोपैः सुरभीनिकरैः सम्परीतेऽत्र मुखे रावल्याख्ये वृषरविपुरे प्रीतिपूरो ममास्ताम् ॥ ९०॥ यस्य श्रीमच्चरणकमले कोमले कोमलापि श्रीराधोच्चैर्निजसुखकृते सन्नयन्ती कुचाग्रे । भीताप्यारादथ नहि दधात्यस्य कार्कश्यदोषा- त्स श्रीगोष्ठे प्रथयतु सदा शेषशायी स्थितिं नः ॥ ९१॥ यत्र कामसरः साक्षाद्गोपिकारमणं सरः । राधामाधवयोः प्रेष्ठं तद्वनं काम्यकं भजे ॥ ९२॥ मल्लीकृत्य निजाः सखीः प्रियतमा गर्वेण सम्भाविता मल्लीभूय मदीश्वरी रसमयी मल्लत्वमुत्कण्ठया । यस्मिन्सम्यगुपेयूषा बकभिदा राधा नियुद्धं मुदा कुर्वाणा मदनस्य तोषमतनोद्भाण्डीरकं तं भजे ॥ ९३॥ आकृष्टा या कुपितहलिना लाङ्गलाग्रेण कृष्णा धीरा यान्ती लवणजलधौ कृष्णसम्बन्धहीना । अद्यापीत्थं सकलमनुजैर्दृश्यते सैव यस्मि- न्भक्त्या वन्देऽद्भुतमिदमहो रामघट्टं प्रदेशम् ॥ ९४॥ प्राणप्रेष्ठवयस्यवर्गमुदरे पापीयसोऽघासुर स्यारण्योद्भटपावकोत्कटविषै`र्दुष्टे प्रविष्टं पुरः । व्यग्रः प्रेक्ष्य रुषा प्रविश्य सहसा हत्वा खलं तं बली यत्रैनं निजमाररक्ष मुरजित्सा पातु सर्पस्थली ॥ ९५॥ द्रष्टुं साक्षात्स्वपतिमहिमोद्रेकमुत्केन धात्रा वत्सव्राते द्रुतमपहृते वत्सपालोत्करे च । तत्तद्रूपो हरिरथ भवन्यत्र तत्तत्प्रसूनां मोदं चक्रेऽशनमपि भजे वत्सहारस्थलीं ताम् ॥ ९६॥ बाढं वत्सकवत्सपालहृतितो जातापराधाद्भयै- र्ब्रह्मा सास्रमपूर्वपद्यनिवहैर्यस्मिन्निपत्यावनौ । तुष्टावाद्भुतवत्सपं व्रजपतेः पुत्रं मुकुन्दं मनाक् स्मेरं भीरुचतुर्मुखाख्यमनिशं सेशं प्रदेशं नुमः ॥ ९७॥ गन्धव्याकुलभृङ्गसञ्चयचमूसङ्घृष्टपुष्पोत्करै- र्भाजत्कल्पलता पलाशिनिकरैर्विभ्राजितानि स्फुटम् । यानि स्फारतडागपर्वतनदीवृन्देन राजन्त्यहो कृष्णप्रेष्ठवनानि तानि नितरां वन्दे मुहुर्द्वादश ॥ ९८॥ पूर्णः प्रेमरसैः सदा मुररिपोर्दासः सखा च प्रियं स्वप्राणार्बुदतोऽपि तत्पदयुगं हित्वेह मासान्दश । प्रीत्या यो निवसंस्तदीयकथया गोष्ठं मुहुर्जीवय- त्यायातं किल पश्य कृष्णमिति तं मूर्ध्ना वहाम्युद्धवम् ॥ ९९॥ मुदा यत्र ब्रह्मा तृणनिकरगुल्मादिषु परं सदा काङ्क्षन्जन्मार्पितविविधकर्माप्यनुदिनम् । क्रमाद्ये तत्रैव व्रजभुवि वसन्ति प्रियजना मया ते ते वन्द्याः परमविनयात्पुण्यखचिताः ॥ १००॥ पुरा प्रेमोद्रेकैः प्रतिपदनवानन्दमधुरैः कृतश्रीगान्धर्वाच्युतचरणवर्यार्चनबलात् । निकामं स्वामिन्यः प्रियतरसरस्तीरभुवने वसन्ति स्फीत ये त इह मम जीवातव इमे ॥ १०१॥ यत्किञ्चित्तृगुल्मकीकटमुखं गोष्ठे समस्तं हि तत्- सर्वानन्दमयं मुकुन्ददयितं लीलानुकूलं परम् । शास्त्रैरेव मुहुर्मुहुः स्फुटमिदं निष्टङ्कितं याच्ञया ब्रह्मादेरपि सस्पृहेण तदिदं सर्वं मया वन्द्यते ॥ १०२॥ भ्रमञ्चच्छे कच्छे क्षितिधरपतेर्वक्रिमगतै- र्लपन्राधे कृष्णेत्यनवरतमुन्मत्तवदहम् । पतन्क्वापि क्वाप्युच्छलितनयनद्वन्द्वसलिलैः कदा केलिस्थानं सकलमपि सिञ्चामि विकलः ॥ १०३॥ न ब्रह्मा न च नारदो नहि हरो न प्रेमभक्तोत्तमाः सम्यग्ज्ञातुमिहाञ्जसार्हति तथा यस्योच्छलन्माधुरीम् । किन्त्वेको बलदेव एव परितः स्वार्धं स्वमात्रा स्फुटं प्रेम्नाप्युद्धव एष वेत्ति नितरां किं स व्रजो वर्ण्यते ॥ १०४॥ अन्यत्र क्षणमात्रमच्युतपुरे प्रेमामृटाम्भोनिधि स्नातोऽप्यचुत्यसज्जनैरपि समं नाहं वसामि क्वचित् । किन्त्वत्र व्रजवासिनामपि समं येनापि केनाप्यलं संलापैर्मम निर्भरः प्रति मुहुर्वासोऽस्तु नित्यं मम ॥ १०५॥ रागेण रूपमञ्जर्यारक्तीकृतमुरद्विषः । गुणाराधितराधायाः पादयुग्मे रतिर्मम ॥ १०६॥ इदं नियतमादराद्व्रजविलासनामस्तवं सदा व्रजजनोल्लसन्मधुरमाधुरीबन्धुरम् । मुहुः कुतुकसम्भृताः परिपठति ये वल्गु तत्- समं परिकरैर्दृढं मिथुनमत्र पश्यन्ति ते ॥ १०७॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीअभीष्टसूचनं श्रीव्रजविलासस्तवः समाप्तः

Shri Radhikayah Premapurabhidhastotram ॥ श्रीराधिकायाः प्रेमपूराभिधस्तोत्रम् ॥

मधुमधुरनिशायां ज्योतिरुद्भासितायां सितकुसुमसुवासाः कॢप्तकर्पूरभूषा । सुबलसखमुपेता दूतिकान्यस्तहस्ता क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १॥ स्मरगृहमविशन्ती वाम्यतो धाम गन्तुं सरणिमनुसरन्ती तेन संरुद्ध्य तूर्णम् । बलसवलितकाक्वा लम्भितान्तःस्मिताक्षी क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ २॥ मुदिररुचिरवक्षस्युन्नते माधवस्य स्थिरचरवरविद्युद्वल्लिवन्मल्लितल्पे । ललितकनकयूथीमालिकावच्च भान्ती क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ३॥ स्मरविलसिततल्पे जल्पलीलामनल्पां क्रमकृतिपरिहीनां बिभ्रती तेन सार्धम् । मिथ इव परिरम्भारम्भवृत्त्येकवर्ष्मा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ४॥ प्रमदमदनयुद्धश्रान्तितः कान्तकृष्ण प्रचुरसुखदवक्षःस्फारतल्पे स्वपन्ती । रसमुदितविशाखाजीविताब्धौ समृद्धा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ५॥ अपि बत सुरतान्ते प्रौढिसौभाग्यदृप्य- त्प्रणयधृतसुसख्योन्मादमत्तोरुगर्वैः । दरगदितमुकुन्दाकल्पिताकल्पतल्पा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ६॥ स्मरदयितनिकुञ्जप्राङ्गणे व्यावहास्यां व्रजनवयुवराजं वक्रिमाडम्बरेण । सदसि परिभवन्ती संस्तुतालीकुलेन क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ७॥ क्वचन च दरदोषाद्दैवतः कृष्णजाता- त्सपदि विहितमाना मौनिनी तत्र तेन । प्रकटितपटुचाटुप्रार्थ्यमानप्रसादा क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ८॥ पितुरिह वृसभानोर्भाग्यभङ्गी बकारेः प्रणयविपिनभृङ्गी सङ्गिनी तस्य देवी । निजगणकुमुदालेः कौमुदी हा कृपाब्धे क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ ९॥ निरवधिगुणसिन्धो भद्रसेनादिबन्धो निरुपमगुणवृन्दप्रेयसीवृन्दमौले । अतिकदनसमुद्रे मज्जतो हा कृपार्द्रे क्षणमपि मम राधे नेत्रमानन्दय त्वम् ॥ १०॥ नटयति रुचिनान्दीमुन्नयन्सूत्रधार प्रवर इव रसज्ञानर्तकीं रङ्गरूपे । रसवति दशकेऽस्मिन्प्रेमपूराभिधे यः स सपदि लभते तत्द्वन्द्वरत्नप्रसादम् ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकायाः प्रेमपूराभिधस्तोत्रं सम्पूर्णम् ।

Shri Shrigranthakartuh Prarthana ॥ श्रीश्रीग्रन्थकर्तुः प्रार्थना ॥

सुबलसखाधरपल्लव समुदितमधुमुग्धमधुरीलुब्धाम् । रुचिजितकञ्चनचित्रां काञ्चन चित्रां पिकीं वन्दे ॥ १॥ वृषरविजाधराबिम्बी फलरसपानोत्कमद्भुतं भ्रमरम् । धृतशिखिपिञ्छकचूलं पीतदुकूलं चिरं नौमि ॥ २॥ जितः सुधांशुर्यशसा ममेति गर्वं मूढ मा बत गोष्ठवीर । तवारिनरीनयनाम्बुपाली जिगाय तातं प्रसभं यतोऽस्य ॥ ३॥ कुञ्जे कुञ्जे पशुपवनितावाहिनीभिः समस्ता- त्स्वैरं कृष्णः कुसुमधनुषो राज्यचर्चां करोतु । एतत्प्रार्थ्यं सखि मम यथा चित्तहारी स धूर्तो बद्धं चेतस्त्यजति किमु वा प्राणमोषां करोति ॥ ४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीग्रन्थकर्तुः प्रार्थना समाप्ता ।

Svaniyamadashakam ॥ स्वनियमदशकम् ॥

गुरौ मन्त्रे नाम्नि प्रभुवरशचीगर्भजपदे स्वरूपे श्रीरूपे गणयुजि तदीयप्रथमजे । गिरीन्द्रे गान्धर्वासरसि मधुपुर्यां व्रजवने व्रजे भक्ते गोष्ठालयिषु परमास्तां मम रतिः ॥ १॥ न चान्यत्र क्षेत्रे हरितनुसनाथेऽपि सुजना- द्रसास्वादं प्रेम्णा दधदपि वसामि क्षणमपि । समं त्वेतद्ग्राम्यावलिभिरभितन्वन्नपि कथां विधास्ये संवासं व्रजभुवन एव प्रतिभवम् ॥ २॥ सदा राधाकृष्णोच्छलदतुलखेलास्थलयुगं व्रजं सन्त्यज्यैतद्युगविरहितोऽपि त्रुटिमपि । पुनर्द्वारावत्यां यदुपतिमपि प्रौढविभवैः स्फुरन्तं तद्वाचापि च न हि चलामीक्षितुमपि ॥ ३॥ गतोन्मादै राधा स्फुरति हरिणा श्लिष्टहृदया स्फुटं द्वारावत्यामिति यदि श‍ृणोमि श्रुतितटे । तदाहं तत्रैवोद्धतमति पतामि व्रजपुरा- त्समुड्डीय स्वान्ताधिकगतिखगेन्द्रादपि जवात् ॥ ४॥ अनादिः सादिर्वा पटुरतिमृदुर्वा प्रतिपद प्रमीलत्कारुण्यः प्रगुणकरुणाहीन इति वा । महावैकुण्ठेशाधिक इह नरो वा व्रजपते- रयं सूनुर्गोष्ठे प्रतिजनि ममास्तां प्रभुवरः ॥ ५॥ अनादृत्योद्गीतामपि मुनिगणैर्वैणिकमुखैः प्रवीणां गान्धर्वामपि च निगमैस्तत्प्रियतमाम् । य एकं गोविन्दं भजति कपटी दाम्भिकतया तदभ्यर्णे शीर्णे क्षणमपि न यामि व्रतमिदम् ॥ ६॥ अजाण्डे राधेतिस्फुरदभिधया सिक्तजनन्या- नया साकं कृष्णं भजति य इह प्रेमनमितः । परं प्रक्षाल्यतच्चरणकमले तज्जलमहो मुदा पीत्वा शश्वच्छिरसि च वहामि प्रतिदिनम् ॥ ७॥ परित्यक्तः प्रेयोजनसमुदयैर्बाढमसुधी- र्दुरन्धो नीरन्ध्रं कदनभरवार्ब्धौ निपतितः । तृणं दन्तैर्दृष्ट्वा चटुभिरभियाचेऽद्य कृपया स्वयं श्रीगान्धर्वा स्वपदनलिनान्तं नयतु माम् ॥ ८॥ व्रजोत्पन्नक्षीराशनवसनपात्रादिभिरहं पदार्थैर्निर्वाह्य व्यवहृतिमदम्भं सनियमः । वसामीशाकुण्डे गिरिकुलवरे चैव समये मरिष्ये तु प्रेष्ठे सरसि खलु जीवादिपुरतः ॥ ९॥ स्फुरल्लक्ष्मीव्रजविजयिलक्ष्मीभरलस- द्वपुःश्रीगान्धर्वास्मरनिकरदीव्यद्गिरिभृतोः । विधास्ये कुञ्जादौ विविधवरिवस्याः सरभसं रहः श्रीरूपाख्यप्रियतमजनस्यैव चरमः ॥ १०॥ कृतं केनाप्येतन्निजनियमशंसिस्तवमिमं पठेद्यो विश्रद्धः प्रिययुगलरूपेऽर्पितमनाः । दृढं गोष्ठे हृष्टो वसतिवसतिं प्राप्य समये मुदा राधाकृष्णौ भजति स हि तेनैव सहितः ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां स्वनियमदशकं सम्पूर्णम् ।

Shriradhikashtottarashatanamastotram ॥ श्रीराधिकाष्टोत्तरशतनामस्तोत्रम् ॥

अवीक्ष्यात्मेश्वरीं काचिद्वृन्दावनमहेश्वरीम् । तत्पदाम्भोजमात्रैकगतिर्दास्यतिकातरा ॥ १॥ पतिता तत्सरस्तीरे रुदत्यर्तरवाकुलम् । ताछ्रीवक्त्रेक्षणावाप्त्यै नामान्येतानि सञ्जगौ ॥ २॥ राधा गान्धर्विका गोष्ठयुवराजैककामिता । गान्धर्वा राधिका चन्द्रकान्तिर्माधवसङ्गिनी ॥ ३॥ दामोदराद्वैतसखी कार्त्तिकोत्कीर्तिदेश्वरी । मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी ॥ ४॥ भस्करोपासिका वार्षभानवी वृषभानुजा । अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा ॥ ५॥ कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका । विशाखासवयः प्रेष्ठविशाखाजीविताधिका ॥ ६॥ प्राणाद्वितीयललिता वृन्दावनविहारिणी । ललिताप्राणलक्षैकरक्षा वृन्दावनेश्वरी ॥ ७॥ व्रजेन्द्रगृहिनीकृष्णप्रायस्नेहनिकेतनम् । व्रजगोगोपगोपालीजीवमात्रैकजीवनम् ॥ ८॥ स्नेहलाभीरराजेन्द्रवत्सलाच्युतपूर्वजा । गोविन्दप्रणयाधारसुरभिसेवनोत्सुका ॥ ९॥ धृतनन्दीश्वरक्षेमगमनोत्कण्ठिमानसा । स्वदेहाद्वैततादृष्टिधनिष्ठाध्येयदर्शना ॥ १०॥ गोपेन्द्रमहिषीपाकशालवेदिप्रकाशिका । आयुर्वर्धकरद्धान्ना रोहिणीघ्रातमस्तका ॥ ११॥ सुबलन्यस्तसारूप्या सुबलप्रीतितोषिता । मुखरादृक्सुधानप्त्री जटिलादृष्टिभीषिता ॥ १२॥ मधुमङ्गलनर्मोक्तिजनितस्मितचन्द्रिका । परुणमासीबहिःखेलत्प्राणपञ्जरशारिका ॥ १३॥ स्वगणाद्वैतजीवातुः स्वीयाहङ्करवर्धिनी । स्वगणोपेन्द्रपादाब्जस्पर्शलम्भनहर्षिणी ॥ १४॥ स्वीयवृन्दावनोद्यानपालिकीकृतवृन्दका । ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा ॥ १५॥ ईषाचन्दनसङ्घृष्टनवकाश्मीरदेहभाः । जवापुष्पप्रभाहारिपट्टचीनारुणाम्बरा ॥ १६॥ चरणाब्जतलज्योतिररुणीकृतभूतला । हरिचित्तचमत्कारी चारुनूपुरनिःस्वना ॥ १७॥ कृष्णश्रान्तिहरश्रोणीपीठवल्गितघण्टिका । कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिका ॥ १८॥ नानारत्नोल्लसाछङ्खचूडाचारुभुजद्वया । स्यमन्तकमणिभ्राजन्मणिबन्धातिबन्धुरा ॥ १९॥ सुवर्णदर्पनज्योतिरुल्लङ्घिमुखमण्डला । पक्वदाडिमबीजाभदन्ताकृष्टाघभीछुका ॥ २०॥ अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणा । सौभाग्यकज्जलाङ्काक्तानेत्रनिन्दितखञ्जना ॥ २१॥ सुवृत्तमौक्तिकमुक्तानासिकाटिलपुष्पिका । सुचारुनवकस्तूरीतिलकाञ्चितभालका ॥ २२॥ दिव्यवेणीविनिर्धूतकेकिपिञ्छावरस्तुतिः । नेत्रान्तशरविध्वंसिकृतचाणूरजिद्धरिः ॥ २३॥ स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहा । माधवोल्लासकोन्मत्ता पिकोरुमधुरस्वरा ॥ २४॥ प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटा । कृष्णापङ्गतरङ्गोद्यत्स्मितपीयूषबुद्बुदा ॥ २५॥ पुञ्जीभूतजगल्लज्जावैदग्धीदिग्धविग्रहा । करुणविद्रवद्देहा मूर्तिमन्माधुरीघटा ॥ २६॥ जगद्गुणवतीवर्गगीयमानगुणोच्चया । शच्यादिसुभगवृन्दवन्द्यमानोरुसौभगा ॥ २७॥ वीणावादनसङीतरासलास्यविशारदा । नारदप्रमुखोद्गीतजगदानन्दसद्यशः ॥ २८॥ गोवर्धनगुहागेहगृहिणी कुञ्जमण्डना । चण्डांशुनन्दिनीबद्धभागिनीभावविभ्रमा ॥ २९॥ दिव्यकुन्दलतानर्मसख्यदामविभूषिता । गोवर्धनधराह्लादिश‍ृङ्गाररसपण्डिता ॥ ३०॥ गिरीन्द्रधरवक्षःश्रीशङ्खचूडारिजीवनम् । गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टनम् ॥ ३१॥ वृषविध्वंसनर्मोक्तिस्वनिर्मितसरोवरा । निजकुण्डजलक्रीडाजितसङ्कर्षणानुजा ॥ ३२॥ मुरमर्दनमत्तेभविहारामृतदीर्घिका । गिरीन्द्रधारपारीन्द्ररतियुद्धोरुसिंहिका ॥ ३३॥ स्वतनुसौरभोन्मत्तीकृतमोहनमाधवा । दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवा ॥ ३४॥ निजकुण्डतटीकुञ्जकॢप्तकेलिकलोद्यमा । दिव्यमल्लिकुलोल्लासिशय्याकल्पितविग्रहा ॥ ३५॥ कृष्णवामभुजान्यस्तचारुदक्षिणगण्डका । सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजा ॥ ३६॥ कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिका । गिरीन्द्रधरधृग्वक्षोमर्दिसुस्तनपर्वता ॥ ३७॥ गोविन्दाधरपीयूषवासिताधरपल्लवा । सुधासञ्चयचारूक्तिशीतलीकृतमाधवा ॥ ३८॥ गोविन्दोद्गीर्णताम्बूलरागराज्यत्कपोलिका । कृष्णसम्भोगसफलीकृतमन्मथसम्भवा ॥ ३९॥ गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखा । विशाखावीजितक्रीडाश्रान्तिनिद्रालुविग्रहा ॥ ४०॥ गोविन्दचरणन्यस्तकायमानसजीवना । स्वप्रानार्बुदनिर्मञ्छ्यहरिपादरजःकणा ॥ ४१॥ अणुमात्राच्युतादर्शशप्यमानात्मलोचना । नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शना ॥ ४२॥ निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिनी । सापत्न्यधाममुरलीमात्राभाग्यकटाक्षिणी ॥ ४३॥ गाढबुद्धिबलक्रीडाजितवंशीविकर्षिणी । नर्मोक्तिचन्द्रिकोत्फुल्लकृष्णकामाब्धिवर्धिनी ॥ ४४॥ व्रजचन्द्रेन्द्रियग्रामविश्रामविधुशालिका । कृष्णसर्वेन्द्रियोन्मादिराधेत्यक्षरयुग्मका ॥ ४५॥ इदं श्रीराधिकानाम्नामष्टोत्तरशतोज्ज्वलम् । श्रीराधालम्भकं नाम स्तोत्रं चारु रसायनम् ॥ ४६॥ योऽधीते परमप्रीत्या दीनः कतरमानसः । स नाथमचिरेणैव सनाथमीक्षते ध्रुवम् ॥ ४७॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Radhikashtakam ॥ राधिकाष्टकम् रघुनाथदासगोस्वामि ॥

रसवलितमृगाक्षीमौलिमाणिक्यलक्ष्मीः प्रमुदितमुरवैरिप्रेमवापीमराली । व्रजवरवृषभानोः पुण्यगीर्वाणवल्ली स्नपयति निजदास्ये राधिका मां कदा नु ॥ १॥ स्फुरदरुणदुकूलद्योइतोद्यन्नितम्ब स्थलमभि वरकाञ्चिलास्यमुल्लासयन्ती । कुचकलसविलासस्फीतमुक्तासरश्रीः स्नपयति निजदास्ये राधिका मां कदा नु ॥ २॥ सरसिजवरगर्भाखर्वकान्तिः समुद्य- त्तरुणिमघनसाराश्लिष्टकैशोरसीधुः । दरविकसितहास्यस्यन्दिबिम्बाधराग्रा स्नपयति निजदास्ये राधिका मां कदा नु ॥ ३॥ अतिचटुलतरं तं काननान्तर्मिलन्तं व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी । मधुरमृदुवचोभिः संस्तुता नेत्रभङ्ग्या स्नपयति निजदास्ये राधिका मां कदा नु ॥ ४॥ व्रजकुलमहिलानां प्राणभूताखिलानां पशुपपतिगृहिण्याः कृष्णवत्प्रेमपात्रम् । सुललितललितान्तःस्नेहफुल्लान्तरात्मा स्नपयति निजदास्ये राधिका मां कदा नु ॥ ५॥ निरवधि सव्विशाखा शाखियूथप्रसूनैः स्रजमिह रचयन्ती वैजयन्तीं वनान्ते । अघविजयवरोरःप्रेयसी श्रेयसी सा स्नपयति निजदास्ये राधिका मां कदा नु ॥ ६॥ प्रकटितनिजवासं स्निग्धवेणुप्रसादै- र्द्रुतगतिहरिमारात्प्राप्य कुञ्जे स्मिताक्षी । श्रवणकुहरकुण्डं तन्वती नम्रवक्त्रा स्नपयति निजदास्ये राधिका मां कदा नु ॥ ७॥ अमलकमलराजिस्पर्शिवातप्रशीते निजसरसि निदाघे सायमुल्लासिनीयम् । परिजनगणयुक्ता क्रीडयन्ती बकारिं स्नपयति निजदास्ये राधिका मां कदा नु ॥ ८॥ पठति विमलचेता मृष्टराधाष्टकं यः परिहृतनिखिलाशासन्ततिः कातरः सन्। पशुपपतिकुमारः काममामोदितस्तं निजजनगणमध्ये राधिकायास्तनोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीराधिकाष्टकं सम्पूर्णम् ।

Premambhojamarandastavarajah ॥ प्रेमाम्भोजमरन्दस्तवराजः ॥

महाभावोज्ज्वलच्चिन्तारत्नोद्भावितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ १॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लप्तेन्दिराम् ॥ २॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ३॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तताः । उन्मादो जाड्यमित्येतै रथनिर्नवभिरुत्तमैः ॥ ४॥ क्ल्प्तालङ्कृतिसंस्लिष्टां गुणालीपुष्पमालिनीम् । धीराधीरात्वसद्वासपटवासैः परिष्कृताम् ॥ ५॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्राववतंसोल्लासिकर्णिकाम् ॥ ६॥ रागताम्बूलरक्तौष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिस्यन्दस्मितकर्पूरवासिताम् ॥ ७॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ८॥ प्रणयक्रोधसच्चोलीबन्ध्गुप्तीकृतस्तनाम् । सपत्नीवक्त्रहृच्छोषियशःश्रीकच्छपीवराम् ॥ ९॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ १०॥ त्वां नत्वा याचते धृत्वा तृणं दन्तैरयं जनः । स्वदास्यामृतसेकेन जीवयामुं सुदुःखितम् ॥ ११॥ न मुञ्चेच्छरणायातमपि दुष्टं दयामयः । अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥ १२॥ प्रेमाम्भोजमरन्दाख्यं स्तवराजमिमं जनः । श्रीराधिकाकृपाहेतुं पठंस्तद्दास्यमाप्नुयात् ॥ १३॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां प्रेमाम्भोजमरन्दस्तवराजः सम्पूर्णः ।

Svasankalpaprakashastotram ॥ स्वसङ्कल्पप्रकाशस्तोत्रम् ॥

अनाराध्य राधापदाम्भोजरेणुं अनाश्रित्य वृन्दाटवीं तत्पदाङ्काम् । असम्भाष्य तद्भावगम्भीरचित्ता- न्कुतः श्यामसिन्धौ रस्यस्यावगाहः ॥ १॥ नवं दिव्यं काव्यं स्वकृतमतुलं नाटककुलं प्रहेलीर्गूढार्थाः सखि रुचिरवीणाध्वनिगतीः । कदा स्नेहोल्लासैर्ललितललिताप्रेरणबला- त्सलज्जं गान्धर्वा सरसमसकृच्छिक्षयति माम् ॥ २॥ अलं मानग्रन्थेर्निभृतचटुमोक्षाय निभृतं मुकुन्दे हा हेति प्रथयति नितान्तं मयि जने । तदर्थं गान्धर्वाचरणपतितं प्रेक्ष्य कुटिलं कदा प्रेमक्रौर्यात्प्रखरललिता भर्त्सयति माम् ॥ ३॥ मुदा वैदग्ध्यान्तर्ललितनवकर्पूरमिलन स्फुरन्नानानर्मोत्करमधुरमाध्वीकरचने । सगर्वं गान्धर्वागिरिधरकृते प्रेमविवशा विशाखा मे शिक्षां वितरतु गुरुस्तद्युतसखी ॥ ४॥ कुहूकण्ठीकण्ठादपि कमनकण्ठी मयि पुन- र्विशाखा गानस्यापि च रुचिरशिक्षां प्रणयतु । यथाहं तेनैतद्युवयुगलमुल्लास्य सगणा- ल्लेभे रासे तस्मान्मणिपदकहारानिह मुहुः ॥ ५॥ क्वचित्कुञ्जे कुञ्जे छलमिलित्गोपालमनु तां मदीशां मध्याह्ने प्रियतरसखीवृन्दवलिताम् । सुधाजैत्रैरन्नैः पचनरसविच्चम्पकलता कृतोद्यच्छिक्षोऽहं जन इह कदा भोजयति भोः ॥ ६॥ क्वचित्कुञ्जक्षेत्रे स्मरविषमसङ्ग्रामगरिम क्षरच्चित्रश्रेणीं व्रजयुवयुगस्योत्कटमदैः । विधत्ते सोल्लासं पुनरसमयं पर्णकचयै- र्विचित्रं चित्रातः सखि कलितशिक्षोऽप्यनु जनः ॥ ७॥ परं तुङ्गाद्या यौवतसदसि विद्याद्भुतगुणैः स्फुटं जित्वा पद्माप्रभृतिनवनारीर्भ्रमति या । जनोऽयं सम्पाद्य सखि विविधविद्यास्पदतया तया किं श्रीनाथाच्छलनिहितनेत्रेङ्गितलवैः ॥ ८॥ स्फुरन्मुक्तागुञ्जामणिसुमनसां हाररचने मुदेन्दोर्लेखा मे रचयतु तथा शिक्षणविधिम् । यथा तैः सङ्कॢप्तैर्दयितसरसीमध्यसदने स्फुटं राधाकृष्णावयमपि जनो भूषयति तौ ॥ ९॥ अये पूर्वं रङ्गेत्यमृतमयवर्णद्वयरस स्फुरद्देवीप्रार्थ्यं नटनपटलं शिक्षयति चेत् । तदा रासे दृश्यं रसवलितलास्यं विदधतो- स्तयोर्वक्त्रे युञ्जे नटनपटुवीटिं सखि मुहुः ॥ १०॥ सदक्षक्रीडानां विधिमिह तथा शिक्षयितुं सा सुदेवी मे दिव्यं सदसि सुदृशां गोकुलभुवाम् । तयोर्द्वन्द्वे खेलामथ विदधतोः स्फूर्जति तथा करोमि श्रीनाथां सखि विजयिनीं नेत्रकथनैः ॥ ११॥ रहः कीरद्वाराप्यतिविषमगूडार्थरचनं दले पाद्मे पद्यं प्रहितमुदयच्चाटुहरिणा । समग्रं विज्ञायाचलपतिवलत्कन्दरपदे तदभ्यर्णे नेष्ये द्रुतमति मदीशां निशि कदा ॥ १२॥ अदभ्रं बिभ्राणौ स्मररणभरं कन्दरखले मिथो जेतुं विद्धावपि निशितनेत्राञ्चलशरैः । अपि क्लिद्यद्गात्रौ नखदशनशस्त्रैरपि दरा त्यजन्तौ द्रष्टुं तौ किमु तमसि वत्स्यामि समये ॥ १३॥ समानं निर्वाह्य स्मरसदसि सङ्ग्राममतुलं तदाज्ञातः स्थित्वा मिलिततनु निद्रां गतवतोः । तयोर्युग्मं युक्त्या त्वरितमभिसङ्गम्य कुतुका- त्कदाहं सेविष्ये सखि कुसुमपुञ्जव्यजनभाक् ॥ १४॥ मुदा कुञ्जे गुञ्जद्भ्रमरनिकरे पुष्पशयनं विधायारान्मालाघुसृणमधुवीटीविरचनम् । पुनः कर्तुं तस्मिन्स्मरविलसितान्युत्कमनसो- स्तयोस्तोषायालं विधुमुखि विधास्यामि किमहम् ॥ १५॥ जितोन्मीलन्नीलोत्पलरुचिनि कान्त्योरसि हरे- र्निकुञ्जे निद्राणां द्युतिविजितगाङ्गेयगुरुताम् । कदा दृष्ट्वा राधां नभसि नवमेघे स्थिरतया वलद्विद्युल्लक्ष्म्यां मुहुरिह दधे थुत्कृतिमहम् ॥ १६॥ विलासे विस्मृत्य स्खलितमुरुरङ्गैर्मणिसरं द्रुतं भीत्यागत्य प्रियतमसखीसंसदि ह्रिया । तमानेतुं स्मित्वा तदविदितनेत्रान्तनटनैः कदा श्रीमन्नाथा स्वजनमचिरात्प्रेरयति माम् ॥ १७॥ क्वचित्पद्माशैव्यादिकवलितचन्द्रावलिमुरु प्रियालापोल्लासैरतुलमपि धिन्वन्नघहरः । कदा वा मत्प्रेक्षालवकलितवैलक्ष्यभरतः क्व राधेत्याजल्पन्मलिनयति सर्वाः परमिमाः ॥ १८॥ सगर्वाः संरुद्ध्य प्रखरललिताद्याः सहचरी- स्ततो दानं दर्पात्सखि मृगयता स्वं गिरिभृता । विशाखा मन्नाथानयननटनप्रेरणबला- द्विधृत्यारान्नीता रुषमिह दधाना क्षिपतु नः ॥ १९॥ स्तनौ शैलप्रायावपि तव नितम्बो रथसमः स्फुटं जीर्णा नौर्मे कलय तटिनीं वातविषमाम् । कथं पारं गच्छेरिह निवस रात्राविति हरे- र्वचः श्रुत्वा राधा कपटकुपिता स्मेरयतु माम् ॥ २०॥ इदं स्वान्ते भुञ्जे कदलमपि यद्रङ्गणलता भिधैकस्वर्वल्लीपवनलभनेनैव फलितम् । तदभ्यासे स्फूर्जन्मदनसुभगं तद्युवयुगं भजिष्ये सोल्लासं प्रियजनगणैरित्थमिह किम् ॥ २१॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां स्वसङ्कल्पप्रकाशस्तोत्रं सम्पूर्णम् ।

Shri Shriradhakrishnojjvalakusumakelih ॥ श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः ॥

सखीवृन्दैर्वृन्दार्चितमुदितवृन्दावनपदं विनोदेनासाद्य प्रियकुसुमपात्राङ्कुरफलम् । हरन्त्यां राधायां ध्वनिभिरभिसङ्गम्य गिरिभृ- द्धृताटोपं ताभिः सह विवदमानोऽवददिदम् ॥ १॥ रहः पाटचर्यः कुरुत किमिदं यौवतमदा- त्स्फुटं युष्माभिर्मे विपिनमपणं नाशितमदः । अतो वल्लर्यर्थे तनुतटिमवश्यं फलकृते कुचान्वो लुण्ठामः किसलयपदे चाधरकुलम् ॥ २॥ इति निशम्य भ्रुभङ्गमवलोकन्त्यां ललितायामन्याः सस्मितमूचुः वदन्त्यः स्मो नूनं तव किटव सत्यं हितमिदं वृथाटोपं हित्वा व्रज झटटि नन्दीश्वरपुरम् । न जानीषे किं तं प्रखरललिताविक्रमतटिं यया ते वान्यान्तः क्षपितमसकृत्पौरुषयशः ॥ ३॥ इति विशाखाकथितमाकर्ण्य सदर्पाभिनयं कृष्णः पुनः प्राह अहो शिष्या एवं हि कुरुत धाऋष्त्यं मयि पुन- र्यथा श्रुत्वा क्रुधन्त्यखिललतिकामण्डनवरः । मया कामं यत्र प्रगुणगुरुणा यत्करुणया वितीर्णा वो दीक्षा न किल कतिधा जैनरचिताः ॥ ४॥ एतन्निशम्य लज्जया कोपमिव विवृण्वतीषु सर्वासु प्रसङ्गान्तरेण तं विजेतुं विशाखा सन्यासमाह स्वयं यो निर्बन्धाद्धनवितरणैर्लोकतटिभिः करोत्यारामं यं स हि भवति तस्यैव नियतम् । इदं तु श्रीवृन्दावनमकृतमन्यैरनुदिनं समानं सर्वेषां कथमिव तवैवाद्य भविता ॥ ५॥ इति विशाखासन्यायकथितमाकर्ण्य सदर्पाभिनयं श्रीकृष्णः पुनः प्राह अकुण्ठं वैकुण्ठे दिवि भुवि च रसायां श्रुतिगणैः प्रगीतं मन्नाम्ना वनमिति न यद्वः श्रुतिमितम् । न युष्मद्दोषोऽस्मिन्प्रबलमदगर्वोत्तरुणता त्रिदोषि बाधिर्यं प्रचुरमकरोद्यत्स्फुटमिदम् ॥ ६॥ एतदाकर्ण्य तिर्यग्विलोकयन्ती राधा सस्मितमुवाच अये चेद्यन्नाम्नाङ्कितमिति भवेत्तस्य विपिनं तदास्मद्वृन्दाया भवति सुतरामेव कपटिन्। यतोऽस्य नाम्नैव त्रिजगति जनैर्गीयत इह स्वयं च श्रीस्वामिन्बत तु न हि नाम्ना क्वचिदपि ॥ ७॥ इति राधायाः सयुक्तिकवाक्पीयूषमत्तः श्रीकृष्णः सस्मितमाह इयं लक्ष्मीवृन्दादपि मधुरवृन्दा मम वधू- र्भवेन्नो चेदारात्सशपथमिमं पृच्छत सतीम् । श्रुतौ यद्दम्पत्योर्न हि भवति भेदस्त्रुटिरतो द्वयोर्नौ नाम्नैव त्रिजगति जनो गायति वनम् ॥ ८॥ इति श्रीकृष्णस्य वागमृतमापीय राधा वृन्दां प्रति नीचैराह इदं वृन्दे सत्यं भवति न हि किं वा कथय नः पुरो लज्जां हा हा कथमिव तनोषि प्रियगणे । ऋतं चेत्तद्रोषच्छलत इव गच्छ क्षणमितो यथा नानावादैर्वयमिह जयामः शठगुरुम् ॥ ९॥ इदं कर्णे तस्या निगदितवतीष्वाशु सहसं मृषारोषादेषा चलकुटिलचिल्लीक्षणतटैः । अलं शोणैरेणीदृगतिकुटिलाः प्रेक्ष्य सखि ताः सगर्वे गोविन्दे परिषदि ददावुत्तरमिदम् ॥ १०॥ अये पद्माषण्ड व्रजनगरभण्ड व्रजवना- दितस्त्वं चेदिच्छे रुचिरवनराजत्वमचिरात् । सखीस्थल्याः षष्ठीं भज निजवधूं तां किल तदा यथा सा तुष्ट्या ते बदरवनराज्यं वितरती ॥ ११॥ तत इत्थं तत्सौन्दर्यादिस्तवनारभट्या श्रीगान्धर्वाया वृन्दाटव्यां स्वतामर्पयन्ती तमुपलभ्य सोल्लासं पुनराह यदेतद्बिम्बत्वाल्लसति मुखमस्याः कमलतो दृशोर्द्वन्द्वं चञ्चत्कुवलयमृगानामिव चयात् । उदञ्चन्नासश्रीः शुकनवयुवत्रोटिवलना- ल्लसद्बन्धूकेभ्योऽपि च रुचिघटराज्यदधरः ॥ १२॥ अये दन्ताः कुन्दावलीकरकबीजादिरचना- दपि स्फीता गीताः कुमुदवनतोऽपि स्मितलवः । श्रुतिद्वन्द्वं मुञ्जाललितगुणपुञ्जादपि पुन- र्ललाटोद्यल्लक्ष्मीः सुभगबकपुष्पादतितराम् ॥ १३॥ चलाचिल्लीवल्ली भ्रमरवरपङ्क्तेरपि ततः स्फुरञ्जम्बूपक्वप्रचुरफलतोऽप्येतदलकः । कचोल्लासः स्फुर्जन्मदशिखिशिखण्डादपि मधौ पिकोत्तानध्वानादपि परमुदारं मृदुवचः ॥ १४॥ नितम्बः शैलानामपि विपुलभारादतिगुरुः कुचौ तुङ्गौ बिल्वादिकफलकुलादप्यतिघनौ । भुजयुग्मं भ्राजद्व्रततिततितोऽपीह ललितां ललामश्रीलोमावलीरपि भुजाङ्गीततिरुचेः ॥ १५॥ वरोरू रम्भालिक्रमरचनजृम्भादपि गति- र्मरालीपालीनामपि चलनरङ्गान्मृदुतरा । पदद्वन्द्वं फुल्लस्थलकमलवृन्दादपि सदा वदान्यत्वं कल्पद्रुमनिकरतोऽपि व्रजपुरे ॥ १६॥ दृशोः प्रेम्णा शश्वत्क्षरदमृतनिःस्यन्दवितति- स्तथा स्वेदस्तोमः कनकजयिवर्ष्मप्रपतितः । मनोगङ्गाकृष्णाविविधसरसीवृन्दविचल- त्प्रवाहादप्युच्चैः पुलक उत नीपस्तवकतः ॥ १७॥ अलं गन्धस्निग्धा कनकगिरिवन्द्या द्युतिरपि स्फुटत्फुल्लचम्पावलीकनकयूथीनिवहतः अपि भ्राजद्वक्षःस्थलमतुलसिंहासनकुला- दपि भ्राम्यन्नेत्रक्रमणनटनं खञ्जनगणा- परं चास्यादीनां विकसनभरादेषु किल स क्वचिन्मानान्म्लानेर्बत भवति सैवैष्विह यतः । अतोऽस्याश्छायैव स्फुटमटविरित्थं खलु भवे- त्कथङ्कारं स्वामिन्भवतु भवतः साम्प्रतमियम् ॥ १९॥ अपि च मुखादीनां पद्मादिकपुरुपदार्थः समरुचः प्रपन्नाः सारूप्यं यदति विलसन्ति स्फुटमतः । अजाण्डे विख्याता प्रकृतिमधुरेयं समगुणा ततः श्रीराधायाः प्रकटमटवीयं प्रियसखी ॥ २०॥ विराजाछायात्वे प्रकटतरसारूप्यवलना- त्सखीत्वेऽपि क्रीडास्पदमटविरेषा रसमयी । सदैतस्या एव व्रजभुवि भवत्येव सुतरां यतश्छायासख्योः स्फुरति न हि भेदः क्वचिदपि ॥ २१॥ अदो वृन्दानान्दीस्तवरसभरैः पोषितवपुः श्रिया पूर्णे घूर्णत्स्मरनटनतृष्णातरलिते । अहो राधोन्मीलन्मनसिजमहानाटकनटी नटाचार्ये तस्मिन्नटितुमिव दृष्टिं समतनोत् ॥ २२॥ विशाखा तु स्नेहस्नपनकृतरोमञ्चविलस- द्वपुस्तामालिङ्ग्य स्तवरचितह्रीश्रीस्मितवृताम् । सहासं दृग्भङ्ग्या गिरिधरमुपालभ्य सहसं विनोदैर्वृन्दायाः शिरसि सुमनोवृष्टिमकरोत् ॥ २३॥ एतन्मधुरवर्णनाकर्णनेन स्वान्तस्तोषं बहिर्विहस्य सोत्प्रासं कृष्णः पुनराह त्वदालेरङ्गाली मम कमनवृन्दावनतनोः सदङ्गानां कुञ्जादिकरुचिरनाम्नां रुचिधनम् । ध्रुवं हृत्वा म्लानं प्रकटमकरोत्तं कथमिमं इदानीं सारूप्यस्तवनमिषतो रक्षसि शठे ॥ २४॥ तवाल्या एवं चेदति गुणगणा मत्प्रियवना- दपि श्रेष्ठः सुष्ठु ध्रुवमिह भवन्ति स्फुटममी । तदा तुच्छं पुष्पं कथमपहरेत्सेयमथवा स्वभावश्चौराणां परधनजिघृक्षुर्न हि चलेत् ॥ २५॥ प्रकारैश्छायातो यदतिवरबिम्बास्य महिमा नमुच्चैर्विस्फार्य स्मरसि मयि राधां वितरितुम् । कथं तत्स्याद्यस्मात्पतिपरवशेयं तत इमं स चेदाराद्दद्याद्भवति मम तर्ह्येव ममता ॥ २६॥ एतद्विचित्ररङ्गोच्छलितवाग्भणिविलाससुधास्वर्धुनीतरङ्गेनोत्तरलीकृत- हृद्वृत्तिदृढनौकं श्रीराधां सस्मितमलोकयन्तीषु सर्वासु सस्मितं ललिता ललाप पिपासार्थः कश्चित्क्षुदितविवशो वर्त्मनि चल- न्मरुक्षेत्रे क्षारोदकमलभमानोऽपि विरसम् । स्वयम्भूसंस्तव्यं हरिपुरवरस्थामपि सुधां प्रपातुं द्रागिच्छन्जगति किल हास्यास्पदमभूत् ॥ २७॥ ततो रसिकशेखरं व्रजराजकुमारं स दृगञ्चलविभ्रमेण पश्यन्ती सखीः प्रति श्रीराधा व्यजहार स्फुटं काली शैब्या चमरवनिता मध्यमवधू- र्महापद्मा पद्मा परमरुचिकृत्कामदकुचा । वरा षष्ठी चन्द्रावलिरपि लसेद्यस्य महिषी कथं तस्याप्यन्या भवतु भुवि योग्या नववधूः ॥ २८॥ ताछ्रवणतो रोषेणैव साटोपं तासां वासनहारादिकमादातुमुपसर्पति श्रीव्रजेन्द्रनन्दने स्फुटमेव चम्पकलता सोल्लुण्ठमवदी- वने फुल्ले चिल्लातकपतिरयं बाढमसकृ- त्सतीरस्मान्प्रीत्या परिचरति भोगादिकुसुमैः । इति श्रीवृत्तान्तं निषमयितुमार्यां दिश नृपे यथा श‍ृण्वन्नस्मै स्रजमिह सुखं प्रेषयति सः ॥ २९॥ इति चम्पकलतालपितमवधार्य स्मित्वा सशिरोधुनानमुवाच कृष्णः नृपेन्द्रेणैवारादपणविपिनस्यावनकृते नियुज्यास्मान्शश्वद्यदुत गदितं ता छृणुत भोः । निजो वा बाह्यो वा हरति य इहास्यापि गलितं दलं वा पुष्पं वा हरत किल तद्वस्त्रपदकम् ॥ ३०॥ अतोऽहं युष्माकं मणिवसनहारादिकमिदं बलेनैवालुञ्च्य प्रमदभरतो यामि सदनम् । न मन्यध्वे पुष्पाङ्कुरदलहृतिं चेन्ननु तदा विचारं नीवीनामपि कुचपटानां वितरत ॥ ३१॥ इति सोल्लुण्ठमाभाष्य सोद्ग्रीवमुद्वीक्ष्य अये ध्रुवमेता गुणवत्यो नीव्यः परद्रव्यं न रक्षयिष्यन्त एव किन्तु कठिणेष्वेतेष्वेव तल्लक्षणं लक्ष्यते । तथा हि उरोजानुच्छूनान्यदभिकलयाम्यद्य दिवसा- त्परस्मात्तस्मान्मे कुसुमकुलमात्रैव भविता । अतो जिज्ञासोर्मे स्वकरमिलने दोष इह वो भवेच्चेन्मत्स्पर्शात्स्वयमकपटं प्रेक्षयत तान्॥ ३२॥ तदनन्तरं भङ्ग्या श्रीराधानीव्यामेव सन्देहमिवोद्भव्य तस्यां दृष्टिं निक्षिप्य अहो न्याय्यमित्युच्चैराभाष्य राधां प्रत्युवाच राधे त्वन्नवनीविका गुणमयी साध्वीति साध्वीगुणैः सश्लाघं परिगीयते यदिह तत्सोल्लुण्ठमेव स्फुटम् । यद्दृष्टेः कृपया द्रुतं निविदतो बन्धाद्विमुक्ताप्यसौ तामेवाद्य दृढं सदात्मसविधे नीत्वा बबन्ध स्वयम् ॥ ३३॥ भोः पश्यत पश्यत कृताघ्न्योऽनया नीव्या दम्भवृत्तिमाचार्य मत्सुरभिपुष्पाणि स्वाधस्ताद्रक्षितानि सन्ति यतो रोमावली नाम भ्रमरपङ्क्तिस्तत्सौरभ्यमनुभूय तदनुसरन्ति वर्तते। एतदाकर्णनेन भ्रूभङ्ग्या तमाक्षिप्य गृहाय गच्छन्त्यां बलात्कृष्णेन व्याघोतितायां राधायां तुङ्गविद्याब्रवी- शठेन्द्र त्वं शश्वत्पदकमपि हर्तुं वदसि य- त्तदस्माभिः सोढं नृपसुततया संप्रति श्र्णु । समस्ताः सम्भूय ह्रियमिह विहाय प्रियतमां ग्रहिष्यामोऽवश्यं वयमपि तवाच्छिद्य मुरलीम् ॥ ३४॥ ततः श्रीकृष्णः सदर्पमुपदिशन्निवाह अहं सख्ये दक्षस्चतुरयुवराजो व्रजपुरे स्वकं वृन्दारण्यं विकसदभिरक्षाम्यविवशः प्रदायारादङ्कस्रजमनुगता मत्करुणया समस्ता हित्वैतामपसरत चौरीं चलसखीम् ॥ ३५॥ एवमाकर्ण्य ललितान्तः सुष्ठु प्रमुदिता साकुटभङ्ग्याह पुनर्गर्वं कुर्यान्न हि विट शठास्मत्पुर इह व्रजस्यैतस्यालं चतुरयुवराजोऽहमिति भोः । यदेषा त्वत्सेव्यस्मरनुतरसेन्द्रप्रियसखी महारञ्जी चण्डा त्वदुपरि च रागात्प्रतपति ॥ ३६॥ कुटिलदृष्ट्या सहासलज्जया तामवलोकयन्तीं श्रीराधां प्रति श्रीकृष्णो व्यजहार मुधावादं राधे न सृज निजमत्तालिलपना- द्व्रजे शुद्धा साध्वी यदसि तदिदं वाच्णि विनयैः । त्वमेता हित्वोग्रा वनकरकृते मह्यमचिरा- त्प्रसादं दत्त्वा ते रुचिरशुचिमालां व्रज गृहम् ॥ ३७॥ ता छ्रुत्वा सभ्रूभङ्गं श्रीराधा भङ्ग्याह त्वमासां वैदग्धीघटितवपुषां संसदि मदा- न्न चेमं भङ्ग्याख्यां कुनटकुनतिं नाटय वृथा । वनादस्माद्गत्वा स्वकमुचितभण्डत्वमचिरा- न्निजस्थानीमध्ये रचय निवसन्भण्डसखिभिः ॥ ३८॥ ततः कृष्णः स्मित्वा ससौटीर्यमुवाच व्रजेऽस्मञ्जुष्टान्नाशननिरतकीनाशवनिताः कुरुध्वे मे नष्टां प्रकटमटवीं कस्य बलतः । इदानीं ताछान्तिं बत झटिति लब्धुं गिरिपते- र्गुहाकारागारं घनतरतमिश्रं प्रविशत ॥ ३९॥ तदाकर्ण्य सस्मितगर्वं विशाखाब्रवी- भवादृक्सम्पूज्योज्ज्वलकुलवदेतत्पितृपदैः स्वयं दत्ता यस्मै नवकमलिनीयं गुणवती । अहो सर्वश्रेष्ठः स च तव वितस्यापि कृषक- स्तथोच्छिष्टप्राशी प्रथितजटिलासूनुरभवत् ॥ ४०॥ सदा पद्मापुष्टाधरगलितमाध्वीकधयना- न्निकामं श्यामात्मा भवसि यदपि द्रागपि तथा । विचार्य त्वं साध्वीनुतगुणविधुं मातुलवधूं भजेमामत्र स्यात्किटव शिवलाभस्तव यथा ॥ ४१॥ ता छ्रुत्वा सनर्मभङ्ग्योक्त्या दवीयःसम्बन्धं ख्यापयन्कृष्णः साद्रमाललाप असावस्मन्मातुर्जनयतृप्रसूपौत्रवनितेत्य्- अलं ज्ञातं यस्मिन्क्षण इह सदैनं तदवधि । नमामि ध्यायामि द्रुतमनुसरामि व्रजपुरे ग्रहीतुं सत्कामाशिषमतितरां भक्तिविनतः ॥ ४२॥ उदञ्चन्मञ्जीरध्वनिसहचरीसञ्चयजुष- श्चलन्त्या राधायाः प्रकटितरुषः श्रीगिरिधरः । गिरीन्द्रात्पारीन्द्राधिकगतिरुपेत्याशु नखरै- र्गजेन्द्रोद्यत्कुम्भद्वयमिव ददार स्तनयुगम् ॥ ४३॥ इदं राधाकृष्णोज्ज्वलकुसुमकेलिकलिमधु प्रियालीनर्मालिपरिमलयुतं यस्य भजनात् । ममान्धस्याप्येतद्वचनमधुपेनाल्पगतिना मनाग्घ्रातं तन्मे गतिरतुलरूपाङ्घ्रिजरजः ॥ ४४॥ इति श्रीरर्घुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीराधाकृष्णोज्ज्वलकुसुमकेलिः सम्पूर्णा ।

Prarthanamritastotram ॥ प्रार्थनामृतस्तोत्रम् ॥

श्रीरूपरतिमञ्जर्यो- रङ्घ्रिसेवैकगृध्नुना । असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥ १॥ अयं जीवो रङ्गैर्नयनयुगलस्यन्दिसलिल प्रधौताङ्गो रङ्गो घटितपटुरोमालिनटनः । कदा रासे लास्यैः प्रेमजलपरिक्लिन्नपुलक- श्रियौ राधाकृष्णौ मदनसुनटौ विजयति भोः ॥ २॥ प्रेमोद्रेकैर्नयननिपतद्वारिधारो धरण्यां वैवर्ण्यालीसवलितवपुः प्रौढकम्पः कदाहम् । स्वेदाम्भोभिः स्नपितपुलकश्रेणिमूलः स्मितोक्तौ राधाकृष्णौ मदनसमरस्फारदक्षौ स्मरामि ॥ ३॥ मसारक्ष्मासारोद्भवनवतमालोद्भटमद- प्रहारिश्रीभारोज्ज्वलवपुषमुद्याछुचिरसैः । कदा राकाचन्द्रस्तुतवदननिद्रालसदृशं दृशा कृष्णं वक्षःस्वपनपरराधं सखि भजे ॥ ४॥ सरागं कुर्वत्यः सखि हरिकृते हाररचनं करे श्रीराधायाः प्रकटपुलकोद्रेकि मयका । विचित्यालं चञ्चद्द्युतिविविधवर्णं मणिकुलं क्रमेणाराद्देयं किमिति कृपया ताचरणयोः ॥ ५॥ मानेनालं कवलितधिया श्यामया राधिकार्द्रा द्रागाहूता व्यसनकथनायेति संविद्य कीरात् । तस्या वेशैर्गतमघहरं तस्य दोषं लपन्तं तुष्ट्यालिङ्ग्य त्वरितमथ सा ज्ञाततत्त्वा जडासीत् ॥ ६॥ सनीरमुदिरद्युतिः पुरटनिन्दिवस्त्रं दधा- छिखण्डकृतशेखरः स्फुरितवान्यवेशः सुखी । समृद्धविधुमण्डलीस्तवनलङ्घिवक्त्रे धृतं क एष सखि वादयन्मुरलिमद्य बुद्धिं हरेत् ॥ ७॥ एकं स्वप्नवरं श‍ृणुष्व ललिते हा हा सखि श्रावय स्वप्ने पुष्पहृतौ त्वया सह मया प्राप्ते वने मत्पुरः । तन्वत्या दरवीक्ष्य चञ्चलदृशानङ्गं सदङ्गं बला- त्स्मेरः कश्चन मेघसुन्दरवपुस्त्वामालिलिङ्गोन्मदः ॥ ८॥ दृष्ट्वा गोपतिनन्दनस्य कदनं वेणुर्गतो मूकतां सर्वे स्थावरजङ्गमा व्रजवनीजाता ययुः क्षीणताम् । सोऽपि व्याग्रसुहृद्वृतो भुवि लुठन्नास्ते विभूषः कृशो राधे त्वं तु मुदा सदाधिपयसा मानोरगं पोषय ॥ ९॥ क्व राधे त्वं साक्षादित इतवती त्वद्वशमिमं जनं हा हागत्य स्नपय कृपया कौतुकरसैः । इति व्याग्रं शश्वन्मुरलिविवरे घर्घररवं वितन्वाने कृष्णे स्मितवलितवामेयमुदभूत् ॥ १०॥ कृत्वा वामकरेऽद्य कर्मुकमये पौष्पं करस्यापर- स्याभुग्नाङ्गुलियुग्मकेन सरलं न्यास्येषुमस्मिन्पुरः । कः श्यामो नटवेश एष सुहृदां सङ्गेन रङ्गं सृज- न्स्मेरः सुन्दरि बम्भ्रमीति मदनस्योन्मादिदृग्विभ्रमः ॥ ११॥ श्यामाश्यामनिकामकामसमरोज्जृम्भच्युतालङ्कृति- स्तोमामोदितमाल्यकुङ्कुमहिमव्याकीर्णकुञ्जं मुदा । दृष्ट्वागत्य सखि श्रमेण पवनं दूरे भजत्तद्युगं द्रष्टुं न्यस्तदृशौ कदापि मयि तत्स्मेरं दृशं धास्यति ॥ १२॥ सुबलसखाधरपल्लव- समुदितमधुमाधुरीलुब्धाम् । रुचिजितकाञ्चनचित्रां कञ्चनचित्रां पिकीं वन्दे ॥ १३॥ वृषरविजाधरबिम्बी- फलरसपानोत्कमद्भुतं भ्रमरम् । कृतशिखिपिञ्छकचूलं पीतदुकूलं चिरं नौमि ॥ १४॥ जितः सुधांशुर्यशसा ममेति गर्वं मूढ मा बत गोष्ठवीर । तवारिनरीनयनाम्बुपाली जिगाय तातं प्रसभं यतोऽस्य ॥ १५॥ अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात् । अपूर्वेणापुर्वां रमय हरिणैनामिति सरा- धिकोद्यद्भङ्ग्युक्त्या विदितयुवतित्वः स्मितमधात् ॥ १६॥ त्वद्भाग्यादिन्दुकान्तिर्वनमणिसदनं मण्डयन्ती समन्ता- द्भ्राजत्यस्मिन्वसन्ती हतमपि तिमिरं मध्यरात्रं च वीतम् । तूर्णं तस्माच्चकोर व्रज निजगगनात्सेवितुं तं पिपासो यावत्सूरोऽभिमन्युर्द्रुतमिह उदितस्त्वां न दूरीकरोति ॥ १७॥ चकोरीव ज्योत्स्नायुतममृतरश्मिं स्थिरतडि- द्वृतं दिव्याम्भोदं नवमिव रताचातकवधूः । तमालं भृङ्गीवोद्यतरुचि कदा स्वर्णलतिका- श्रितं राधाश्लिष्टं हरिमिह दृगेषा भजति मे ॥ १८॥ दूतीभिश्चटुवारिभिः सखिगणैर्भेदार्द्रशाखाहति- व्रातैः पादलुठाछिरःश्रितरजोवृष्ट्या बकीविद्विषा । राधायाः सखि शक्यते शमयितुं यो मानवह्निर्न यातं निर्वापयतीह फुत्कृतीकणैस्तां सिद्धवंशीं नुमः ॥ १९॥ प्राणक्ष्वेलिभुवं व्रजं व्रजजनं तातं प्रसूं गाः सखी- न्गोपीः कामपि तां विना विषमभूद्द्वारावती मित्र मे । इत्थं स्वप्निकशीर्णमाधववचः श्रुत्वैव भामापि सा तद्युक्ता किल लोकितुं तदखिलं तं चाटुना याचते ॥ २०॥ तमालस्य क्रोडे स्थितकनकयूथीं प्रविलस- त्प्रसूनां लोलालिं सखि कलय वन्द्यं चिरमिमम् । तिरस्कर्तुर्मेघद्युतिमघभिदोऽङ्के स्थितचल- द्दृशं स्मेरां राधां तडिदतिरुचिं स्मारयति या ॥ २१॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां प्रार्थनामृतस्तोत्रं सम्पूर्णम् ।

Navashtakam ॥ नवाष्टकम् ॥

गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप्रेयसीं स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम् । प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः ॥ १॥ स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो- त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते । माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा- मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः ॥ २॥ कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः । फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः ॥ ३॥ जित्वा पाशककेलिसङ्गरतरे निर्वादबिम्बाधरं स्मित्वा द्विः पणितं धयत्यघहरे सानन्दगर्वोद्धुरे । ईषाछोणदृगन्तकोणमुदयद्रोमञ्चकम्पस्मितं निघ्नन्तीं कमलेन तं भज मनो राधामगाधां रसैः ॥ ४॥ अंसे न्यस्य करं परं बकरिपोर्बाढं सुसख्योन्मदां पश्यन्तीं नवकाननश्रियमिमामुद्यद्वसन्तोद्भवाम् । प्रीत्या तत्र विशाखया किशलयं नव्यं विकीर्णं प्रिय- श्रोत्रे द्राग्दधतीं मुदा भज मनो राधामगाधां रसैः ॥ ५॥ मिथ्यास्वापमनल्पपुष्पशयने गोवर्धनाद्रेर्गुहा- मध्ये प्राग्दधतो हरेर्मुरलिकां हृत्वा हरन्तीं स्रजम् । स्मित्वा तेन गृहीतकण्ठनिकटां भीत्यापसारोत्सुकां हस्ताभ्यां दमितस्तनीं भज मनो राधामगाधां रसैः ॥ ६॥ तूर्णं गाः पुरतो विधाय सखिभिः पूर्णं विशन्तं व्रजे घूर्णद्यौवतकाङ्क्षिताक्षिनटनैः पश्यन्तमस्या मुखम् । श्यामं श्यामदृगन्तविभ्रमभरैरान्दोलयन्तीतरां पद्माम्लानिकरोदयां भज मनो राधामगाधां रसैः ॥ ७॥ प्रोद्यत्कान्तिभरेण बल्लववधूताराः परार्धात्पराः कुर्वाणां मलिनः सदोज्ज्वलरसे रासे लसन्तीरपि । गोष्ठारण्यवरेण्यधन्यगगने गत्यानुराधाश्रितां गोविन्देन्दुविराजितां भज मनो राधामगाधां रसैः ॥ ८॥ प्रीत्या सुष्ठु नवाष्टकं पटुमतिर्भूमौ निपत्य स्फुटं काक्वा गद्गदनिस्वनेन नियतं पूर्णं पठेद्यः कृती । घूर्णन्मत्तमुकुन्दभृङ्गविलसद्राधासुधावल्लरीं सेवोद्रेकरसेण गोष्ठविपिने प्रेम्णा स तां सिञ्चति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां नवाष्टकं सम्पूर्णम् ।

Shri Gopalarajastotra ॥ श्रीगोपालराजस्तोत्रम् ॥

वपुरतुलतमालस्फीतबाहूरुशाखो परिधृतगिरिवर्यस्वर्णवर्णैकगुच्छः । कटिकृतपरहस्तारक्तशाखाग्रहृद्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १॥ रुचिरदृगभिधाने पङ्कजे फुल्लयन्तं सुभगवदनगात्रं चित्रचन्द्रं दधानः । विलसदधरबिम्बघ्रायिनासाशुकोष्ठः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ २॥ चलकुटिलतरभ्रूकर्मुकान्तर्दृगन्त क्रमणनिशितबाणं शीघ्रयानं दधानः । दवयितुमिव राधाधैर्यपारीन्द्रवर्यं प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ३॥ असुलभमिह राधावक्त्रचुम्बं विजानन्- निव विलसितुमेता छाययापि प्रदूरात् । मुकुरयुगलमच्छं गण्डदम्भेन बिभ्र- त्प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ४॥ रुचिनिकरविराजद्दाडिमीपक्वबीज प्रकरविजयिदन्तश्रेणिसौरभ्यवातैः । रचितयुवतिचेतःकीरजिह्वातिलौल्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ५॥ वचनमधुरसानां पायनैर्गोपरामा कुलमुरुधृतधामाप्युन्मदीकृत्य कामम् । अभिमतरतिरत्नान्याददानस्ततो द्राक् प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ६॥ कुवलयनिभभाले कौङ्कुमद्रावपुण्ड्रं दधदिव घनशण्डे निश्चलाचञ्चलाग्रम् । रचयितुमिव साध्वीकीर्तिमुग्धालिभीतिं प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ७॥ श्रवणमदनरज्जू सज्जयल्लज्जिराधा नयनचलचकोरौ बन्धुमुत्कः किशोरौ । कृतमकरवतंसस्निग्धचन्द्रांशुचारः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ८॥ युवतिकरणरत्नव्रातमाच्छिद्य नेत्र भ्रमणपटुभटैस्तं न्यस्य हृत्सौधमध्ये । गरुडमणिकवाटेनोरसाघुष्य हृष्टः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ९॥ त्रिबलिललिततुण्डस्यन्दिनाभिह्रदोद्य- त्तनुरुहततिसर्पीमत्र बिभ्राण उग्राम् । युवतिपतिभयाखुग्रासनायेव सद्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १०॥ मरकतकृतरम्भागर्वसर्वाङ्कशोरु द्वयमुरुरसधाम प्रेयसीनां दधानः । स्फुरदविरलपुष्टश्रोणिभारातिरम्यः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ ११॥ मदनमणिवरालीसम्पुटक्षुल्लजानु द्वयसुललितजङ्घामञ्जुपादाब्जयुग्मः । विविधवसनभूषाभूषिताङ्गः सुकण्ठः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १२॥ कलितवपुरिव श्रीविट्ठलप्रेमपुञ्जः परिजनपरिचर्यावर्यपीयूषपुष्टः । द्युतिभरजितमद्यन्मन्मथोद्यत्समाजः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १३॥ विविधभजनपुष्पैरिष्टनामानि गृह्ण- न्पुलकिततनुरिह श्रीविट्ठलस्योरुसख्यैः । प्रणयमणिसरं स्वं हन्त तस्मै ददानः प्रतपति गिरिपट्टे सुष्ठु गोपालराजः ॥ १४॥ गिरिकुलपतिपट्टोल्लासिगोपालराज स्तुतिविलसितपद्यान्युद्भटप्रेमदानि । नटयति रसनाग्रे श्रद्धया निर्भरं यः स सपदि लभते तत्प्रेमरत्नं प्रसादम् ॥ १५॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीगोपालराजस्तोत्रं सम्पूर्णम् ।

Shri Madanagopalastotram ॥ श्रीमदनगोपालस्तोत्रम् ॥

वनभुवि रविकन्यास्वच्छकच्छालिपालि ध्वनियुतवरतीर्थद्वादशादित्यकुञ्जे । सकनकमणिवेदीमध्यमध्याधिरूढः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १॥ सुभगनवशिखण्डभ्राजदुष्णीषहारा- ङ्गदवलयसमुद्राध्वानमञ्जीररम्यः । वसनघुसृणचर्चामल्लिकोल्लासिताङ्गः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २॥ कटिकृतवरभङ्गन्यस्तजङ्घान्यजङ्घः करयुगधृतवंशीं न्यस्तबिम्बाधराग्रे । सुमधुरमतितिर्यग्ग्रीवया वादयंस्तां स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ३॥ विधिकृतविधुसृष्टिव्यर्थताकारिवक्त्र द्युतिलवहृतराधास्थूलमानान्धकारः । स्मितलपितमधूल्योन्मादितैतद्धृषीकः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ४॥ शरदुदितसरोजव्रातवित्रासिनेत्रऽ- न्चलकुटिलकटाक्षैर्मन्दरोड्डण्डचालैः । झटिति मथितराधास्वान्तदुग्धार्णवान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ५॥ कुटिलचटुलचिल्लीवल्लिलास्येन लब्ध प्रथितसकलसाध्वीधर्मरत्नप्रसादः । तिलकवदलिकेन ध्वस्तकामेषुचापः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ६॥ शुकयुववरचञ्चुप्रांशुनासांशुसिन्धौ जनितकुलवधूटीदृष्टिमत्स्यीविहारः । स्मितलवयुतराधाजल्पमन्त्रोन्मदान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ७॥ विकसदधरबन्धूकान्तरुड्डीय गन्धैः पतितमुप विधर्तुं राधिकाचित्तभृङ्गम् । दशनरुचिगुणाग्रे दत्ततत्सीधुचारः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ८॥ श्रवणमदनकन्दप्रेक्षणोड्डीनराधा धृतिविभवविहङ्गे न्यस्तनेत्रान्तबाणः । अलकमधुपदत्तद्योतमाध्वीकसत्रः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ९॥ परिमलरुचिपालीशालिगान्धर्विकोद्य- न्मुखकमलमधूलीपानमत्तद्विरेफः । मुकुरजयिकपोले मृग्यताचुम्बबिम्बः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १०॥ मकरमुखसदृक्षस्वर्णवर्णावतंस प्रचलनहृतराधासर्वशारीरधर्मः । तदतिचलदृगन्तस्वस्थवंशे धृताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ११॥ हरिमणिकृतशङ्खश्लाघितोल्लङ्घिलेखा त्रयरुचिवृतकण्ठस्योपकण्ठे मणीन्द्रम् । दधदिह परिरब्धुं राधिकां बिम्बितां च स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १२॥ कुवलयकृतवक्षस्तल्पमुच्चं दधानः श्रमविलुलितराधास्वापनायैव नव्यम् । भुजयुगमपि दिव्यं तत्प्रकाण्डोपधानं स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १३॥ रुचिरजठरपत्रे चित्रनाभीतटोद्य- त्तनुरुहततिनाम्नीं बल्लवीवृन्दभुक्त्यै । स्मरनृपतिसमुद्रस्वाक्षरालीं दधानः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १४॥ युवतिहृदलसेभप्रौढबन्धाय काम स्थपितचितरसोरुस्तम्भजृम्भाभिरामः । मरकतकटजैत्रफुल्लजानुप्रसन्नः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १५॥ प्रणयनवमधूनां पानमात्रैकगत्या सकलकरणजीव्यं राधिकामत्तभृङ्ग्याः । अरुणचरणकञ्जद्वन्द्वमुल्लास्य पश्य- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १६॥ अतुलविलसदङ्गश्रेणिविन्यासभङ्ग्या ग्लपितमदनकोटिस्फारसौन्दर्यकीर्तिः । बललवहतमत्तापारपारीन्द्रदर्पः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १७॥ तरणिदुहितृकच्छे स्वच्छपाथोदधामा समुदितनवकामाभिररामावलीणाम् । तडिदतिरुचिबाहुस्फुर्जदंसोऽतिजृम्भ- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १८॥ नवतरुणिमभट्टाचार्यवर्येण शास्त्रं मनसिजमुनि क्ल्प्तं न्यायमध्यापिताभिः । नवनवयुवतीभिर्बिभ्रदुद्ग्राहमस्मि- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १९॥ रतिमतिरचयन्त्या राधिकानर्मकान्त्या स्थगितवचनदर्पः स्फारितान्यप्रसङ्गः । खरमतिललितास्ये किञ्चिदञ्चत्स्मिताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २०॥ सविधरमितराधः साग्रजस्निग्धरूप प्रणयरुचिरचन्द्रः कुञ्जखेलावितन्द्रः । रचितजनचकोरप्रेमपीयूषवर्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २१॥ मदनवलितगोपालस्य यः स्तोत्रमेत- त्पठति सुमतिरुद्यद्दैन्यवन्याभिषिक्तः । स खलु विषयरागं सौरिभागं विहाय प्रतिजनि लभते तत्पादकञ्जानुरागम् ॥ २२॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।

Shri Vishakhanandabhidhastotram ॥ श्रीविशाखानन्दाभिधस्तोत्रम् ॥

भावनामगुणादीनामैक्यात्श्रीराधिकैव या । कृष्णेन्दोः प्रेयसी सा मे श्रीविशाखा प्रसीदतु ॥ १॥ जयति श्रीमती काचिद्वृन्दारण्यविहारिणी । विधातुस्तरुणीसृष्टिकौशलश्रीऋ इहोज्ज्वला ॥ २॥ छिन्नस्वर्णसदृक्षाङ्गी रक्तवस्त्रावगुण्ठिनी । निर्बन्धबद्धवेणीका चारुकाश्मीरचर्चिता ॥ ३॥ द्विकालेन्दुललाटोद्यत्कस्तूरीतिलकोज्ज्वला । स्फुटकोकनदद्वन्द्व बन्धुरीकृतकर्णिका ॥ ४॥ विचित्रवर्णविन्यास चित्रितीकृतविग्रहा कृष्णचोरभयाच्चोली गुम्फीकृतमणिस्तनी ॥ ५॥ हारमञ्जीरकेयूर चूडानासाग्रमौक्तिकैः । मुद्रिकादिभिरन्यैश्च भूषिता भूषणोत्तमैः ॥ ६॥ सुदीप्तकज्जलोद्दीप्त नयनेन्दीवरद्वय । सौरभोज्ज्वलताम्बूल मञ्जुला श्रीमुखाम्बुजा ॥ ७॥ स्मितलेशलसत्पक्व चारुबिम्बफलाधरा । मधुरालापपीयूष सञ्जीवितसखीकुला ॥ ८॥ वृषभानुकुलोत्कीर्ति वर्धिका भानुसेविका । कीर्तिदाखणिरत्नश्रीः श्रीजितश्रीः श्रियोज्ज्वला ॥ ९॥ अनङ्गमञ्जरीज्येष्ठा श्रीदामानन्ददानुजा । मुखरादृष्टिपीयूष वर्तिनप्त्री तदाश्रिता ॥ १०॥ पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका । सुबलप्रणयोल्लासा तत्र विन्यस्तभारका ॥ ११॥ व्रजेश्याः कृष्णवत्प्रेम पात्री तत्राति भक्तिका । अम्बावात्सल्यसंसिक्ता रोहिणीघ्रातमस्तका ॥ १२॥ व्रजेन्द्रचरणाम्भोजे ऽर्पितभक्तिपरम्परा । तस्यापि प्रेमपात्रीयं पितुर्भानोरिव स्फुटम् ॥ १३॥ गुरुबुद्ध्या प्रलम्बारौ नतिं दूरे वितन्वती । वधूबुद्ध्यैव तस्यापि प्रेमभूमीह ह्रीयुता ॥ १४॥ ललिताललिता स्वीय प्राणोरुललितावृता । ललिताप्राणरक्षैकरक्षिता तद्वशात्मिका ॥ १५॥ वृन्दाप्रसाधितोत्तुङ्ग कुडुङ्गानङ्गवेश्मनि । कृष्णखण्डितमानत्वाल् ललिताभीतिकम्पिनी ॥ १६॥ विशाखनर्मसख्येन सुखिता तद्गतात्मिका । विशाखाप्राणदीपालि निर्मञ्छ्यनखचन्द्रिका ॥ १७॥ सखीवर्गैकजीवातुस्मितकैरवकोरका । स्नेहफुल्लीकृतस्वीयगणा गोविन्दवल्लभा ॥ १८॥ वृन्दारण्यमहाराज्यमहासेकमहोज्ज्वला । गोष्ठसर्वजनाजीव्यवदना रदनोत्तमा ॥ १९॥ ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा । तदीयसख्यसौरभ्यसुरभीकृतमानसा ॥ २०॥ सर्वत्र कुर्वति स्नेहं स्निग्धप्रकृतिराभवम् । नाममात्रजगाचित्तद्राविका दीनपालिका ॥ २१॥ गोकुले कृष्णचन्द्रस्य सर्वापच्छान्तिपूर्वकम् । धीरलालित्यवृद्ध्यर्थं क्रियमाणव्रताधिका ॥ २२॥ गुरुगोविप्रसत्काररता विनयसन्नता । तदाशीःशतवर्धिष्णुसौभाग्यादिगुणाञ्चिता ॥ २३॥ आयुर्गोश्रीयशोदायिपाको दुर्वाससो वरात् । अतः कुन्दलतानीयमाना राज्ञ्याः समाज्ञया ॥ २४॥ गोष्ठजीवातुगोविन्दजीवातुलपितामृता । निजप्रानार्बुदश्रेणिरक्ष्यतत्पादरेणुका ॥ २५॥ कृष्णपदारविन्दोद्यन्मकरन्दमये मुदा । अरिष्टमर्दि कासारे स्नात्री निर्बन्धतोऽन्वहम् ॥ २६॥ निजकुन्दपुरस्तीरे रत्नस्थल्यामहर्निशम् । प्रेष्ठनर्मालिभिर्भङ्ग्या समं नर्म वितन्वती ॥ २७॥ गोवर्धनगुहालक्ष्मीर्गोवर्धनविहारिणी । धृतगोवर्धनप्रेमा धृतगोवर्धनप्रिया ॥ २८॥ गान्धर्वाद्भुतगान्धर्वा राधा बाधापहारिणी । चन्द्रकान्तिश्चलापङ्गी राधिका भानुराधिका ॥ २९॥ गान्धर्विका स्वगन्धातिसुगन्धीकृतगोकुला । इति पञ्चभिराहूता नामभिर्गोकुले जनैः ॥ ३०॥ हरिणी हरिणीनेत्रा रङ्गिणी रङ्गिणीप्रिया । रङ्गिणीध्वनिनागच्छत्सुरङ्गध्वनिहासिनी ॥ ३१॥ बद्धनन्दीश्वरोत्कण्ठा कान्तकृष्णैककङ्क्षया । नवानुरागसम्बन्धमदिरोन्मत्तमानसा ॥ ३२॥ मदनोन्मादिगोविन्दमकस्मात्प्रेक्ष्य हासिनी । लपन्ती रुदती कम्प्रा रुष्टा दष्टाधरातुरा ॥ ३३॥ विलोकयति गोविन्दे स्मित्वा चारुमुखाम्बुजम् । पुष्पाकृष्टिमिषादूर्ध्वे धृतदोर्मुलचालना ॥ ३४॥ समक्षमपि गोविन्दमविलोक्येव भावतः । दले विलिख्य तन्मूर्तिं पश्यन्ती तद्विलोकिताम् ॥ ३५॥ लीलया याचकं कृष्णमवधीर्येव भामिनी । गिरीन्द्रगाह्वरं भङ्ग्या पश्यन्ती विकसद्दृशा ॥ ३६॥ सुबलस्कन्धविन्यस्तबाहौ पश्यति माधवे । स्मेरा स्मेरारविन्देन तमालं तडयन्त्यथ ॥ ३७॥ लीलया केलिपाथोजं स्मित्वा चुम्बितमाधवे । स्मित्वा भालात्तकस्तूरीरसं घृतवती क्वचित् ॥ ३८॥ महाभावोज्ज्वलाचिन्तारत्नोद्भवितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ ३९॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लपितेन्दिराम् ॥ ४०॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ४१॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तता । उन्मदो जाड्यमित्येतै रत्नैर्नवभिरुत्तमैः ॥ ४२॥ क्ल्प्तालङ्कृतिसंश्लिष्टां गुणालिपुष्पमालिनीम् । धीराधिरत्वसद्वषपटवासैः परिष्कृताम् ॥ ४३॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्रावावतंसोल्लासिकर्णिकाम् ॥ ४४॥ रागतम्बूलरक्तोष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिःस्यन्दस्मितकर्पूरवासिताम् ॥ ४५॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ४६॥ प्रणयक्रोधसाचोलीबन्धगुप्तिकृतस्तनाम् । सपत्नीवक्त्रहृच्छोशियशःश्रीकच्छपीरवाम् ॥ ४७॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ ४८॥ सुभगवल्गुविञ्छोलीमौलीभूषणमञ्जरी । आवैकुण्ठमजाण्डालिवतंसीकृतसद्यशः ॥ ४९॥ वैदग्ध्यैकसुधासिन्धुश्चाटुर्यैकसुधापुरी । माधुर्यैकसुधावल्ली गुणरत्नैकपेटिका ॥ ५०॥ गोविन्दानङ्गराजीवे भानुश्रीर्वार्षभानवी । कृष्णहृत्कुमुदोल्लासे सुधाकारकरस्थितिः ॥ ५१॥ कृष्णमानसहंसस्य मानसी सरसी वरा । कृष्णचातकजीवातुनवाम्भोदपयःश्रुतिः ॥ ५२॥ सिद्धाञ्जनसुधावार्तिः कृष्णलोचनयोर्द्वयोः । विलासश्रान्तकृष्णाङ्गे वातली माधवी मता ॥ ५३॥ मुकुन्दमत्तमातङ्गविहारापरदीर्घिका । कृष्णप्राणमहामीनखेलनानन्दवारिधिः ॥ ५४॥ गिरीन्द्रधारिरोलम्बरसालनवमञ्जरी । कृष्णकोकिलसम्मोदिमन्दरोद्यानविस्तृतिः ॥ ५५॥ कृष्णकेलिवरारामविहाराद्भुतकोकिला । नादाकृष्टबकद्वेषिवीरधीरमनोमृगा ॥ ५६॥ प्रणयोद्रेकसिद्ध्येकवशिकृतधृताचला । माधवातिवशा लोके माधवी माधवप्रिया ॥ ५७॥ कृष्णमञ्जुलतापिञ्छे विलसत्स्वर्णयूथिका । गोविन्दनव्यपाथोदे स्थिरविद्युल्लताद्भुता ॥ ५८॥ ग्रीष्मे गोविन्दसर्वाङ्गे चन्द्रचन्दनचन्द्रिका । शीते श्यामशुभाङ्गेषु पीतपट्टलसत्पटी ॥ ५९॥ मधौ कृष्णतरूल्लासे मधुश्रीर्मधुराकृतिः । मञ्जुमल्लाररागश्रीः प्रावृषी श्यामहर्षिणी ॥ ६०॥ ऋतौ शरदि रासैकरसिकेन्द्रमिह स्फुटम् । वरितुं हन्त रासश्रीर्विहरन्ती सखीश्रिता ॥ ६१॥ हेमान्ते स्मरयुद्धार्थमटन्तं राजनन्दनम् । पौरुषेण पराजेतुं जयश्रीर्मूर्तिधारिणी ॥ ६२॥ सर्वतः सकलस्तव्यवस्तुतो यत्नतश्चिरात् । सारणाकृष्य तैर्युक्त्या निर्मायाद्भुतशोभया ॥ ६३॥ स्वश्लाघं कुर्वता फुल्लविधिना श्लाघिता मुहुः । गौरीश्रीमृग्यसौन्दर्यवन्दितश्रीनखप्रभा ॥ ६४॥ शरत्सरोजशुभ्रांशुमणिदर्पनमालया । निर्मञ्छितमुखाम्भोजविलसत्सुषमकणा ॥ ६५॥ स्थायीसञ्चारिसूद्दीप्तसत्त्विकैरनुभावकैः । विभावाद्यैर्विभावोऽपि स्वयं श्रीरसतां गता ॥ ६६॥ सौभाग्यदुन्दुभिप्रोद्यद्ध्वनिकोलाहलैः सदा । वित्रस्तीकृतगर्विष्ठविपक्षाखिलगोपिका ॥ ६७॥ विपक्षलक्षाहृत्कम्पासम्पादकमुखश्रिया । वशीकृतबकारातिमानसा मदनालसा ॥ ६८॥ कन्दर्पकोटिरम्यश्रीजयिश्रीगिरिधारिणा । चञ्चलापङ्गभङ्गेन विस्मारितसतीव्रता ॥ ६९॥ कृष्णेतिवर्णयुग्मोरुमोहमन्त्रेण मोहिता । कृष्णदेहवरामोदहृद्यमादनमादिता ॥ ७०॥ कुटिलभ्रूचलाचण्डकन्दर्पोद्दण्डकर्मुका । न्यस्तापङ्गशरक्षेपैर्विह्वलीकृतमाधवा ॥ ७१॥ निजाङ्गसौरभोद्गारमदकौषधिवात्यया । उन्मदीकृतसर्वैकमदकप्रवराच्युता ॥ ७२॥ दैवाच्छ्रुतिपथायातनामनीहारवायुना । प्रोद्यद्रोमाञ्चशीत्कारकम्पिकृष्णमनोहरा ॥ ७३॥ कृष्णनेत्रलसञ्जिह्वालेह्यवक्त्रप्रभामृता । कृष्णान्यतृष्णासंहारी सुधासारैकझर्झरी ॥ ७४॥ रासलास्यरसोल्लासवशीकृतबलानुजा । गानफुल्लीकृतोपेन्द्रा पिकोरुमधुरस्वरा ॥ ७५॥ कृष्णकेलिसुधासिन्धुमकरी मकरध्वजम् । वर्धयन्ती स्फुटं तस्य नर्मास्फलनखेलया ॥ ७६॥ गतिर्मत्तगजः कुम्भौ कुचौ गन्धमदोद्धुरौ । मध्यमुद्दामसिंहोऽयं त्रिबल्यो दुर्गभित्तयः ॥ ७७॥ रोमाली नागपाशश्रीर्नितम्बो रथ उल्बनः । दान्ता दुर्दन्तसामान्ताः पादाङ्गुल्यः पदातयः ॥ ७८॥ पादौ पदतिकाध्यक्षौ पुलकः पृथुकङ्कतः । ऊरू जयमणिस्तम्भौ बाहू पाशवरौ दृढौ ॥ ७९॥ भ्रूद्वन्द्वं कर्मुकं क्रूरं कटाक्षाः शनिताः शराः । भालमर्धेन्दुदिव्यास्त्रमङ्कुशाणि नखाङ्कुराः ॥ ८०॥ स्वर्णेन्दुफलकं वक्त्रं कृपणी करयोर्द्युतिः । भल्लभारः कराङ्गुल्यो गण्डौ कनकदर्पनौ ॥ ८१॥ केशपाशः कटुक्रोधः कर्णौ मौर्वगुणोत्तमौ । बन्धुकाधररागोऽतिप्रतापः करकम्पकः ॥ ८२॥ दुन्दुभ्यादिरवश्चूडाकिङ्किनीनूपुरस्वनः । चिबुकं स्वस्तिकं शास्तं कण्ठः शङ्खो जयप्रदः ॥ ८३॥ परिष्वङ्गो हि विद्ध्यस्त्रं सौरभं मदकौषदम् । वाणी मोहनमन्त्रश्रीर्देहबुद्धिविमोहिनी ॥ ८४॥ नाभी रत्नादिभाण्डारं नासाश्रीः सकलोन्नता । स्मितलेशोऽप्यचिन्त्यादि वशीकरणतन्त्रकः ॥ ८५॥ अलकानां कुलं भीष्मं भृङ्गास्त्रं भङ्गदायकम् । मूर्तिः कन्दर्पयुद्धश्रीर्वेणी सञ्जयिनी ध्वजा ॥ ८६॥ इति ते कामसङ्ग्रामसामग्यो दुर्घटाः परैः । ईदृश्यो ललितादीनां सेनानीनां च राधिके ॥ ८७॥ अतो दर्पमदाद्यूतं दानीन्द्रमवधीर्य माम् । महामारमहाराजनियुक्तं प्रथितं व्रजे ॥ ८८॥ सुष्ठु सीमान्तसिन्दूर तिलकानां वरत्विषाम् । हाराङ्गदादिचोलीनां नासामौक्तिकवाससाम् ॥ ८९॥ केयूरमुद्रिकादीनां कज्जलोद्यद्वतंसयोः । एतावद्युद्धवस्तूनां परार्ध्यानां परर्ध्यतः ॥ ९०॥ तथा दध्यादिगव्यानाममूल्यानानां व्रजोद्भवात् । अदत्त्वा मे करं न्याय्यं खेलन्त्यो भ्रमतेह यत् ॥ ९१॥ ततो मया समं युद्धं कर्तुमिच्छत बुध्यते । किं चैकोऽहं शतं यूयं कुरुध्वं क्रमशस्ततः ॥ ९२॥ प्रथमं ललितोच्चण्डा चरताच्चण्डसङ्गरम् । ततस्त्वं तदनु प्रेष्ठसङ्गराः सकलाः क्रमात् ॥ ९३॥ अथ चेन्मिलिताः कर्तुं कामयध्वे रणं मदात् । अग्रे सरत तद्दोर्भ्यां पिनष्मि सकलाः क्षणात् ॥ ९४॥ इति कृष्णवचः श्रुत्वा साटोपं नर्मनिर्मितम् । सानन्दं मदनाक्रान्तमानसालिकुलान्विता ॥ ९५॥ स्मित्वा नेत्रान्तबाणैस्तं स्तब्धीकृत्य मदोद्धतम् । गच्छन्ती हंसवद्भङ्ग्या स्मित्वा तेन धृताञ्चला ॥ ९६॥ लीलयाञ्चलमाकृष्य चलन्ती चारुहेलया । पुरो रुद्धपथं तं तु पश्यन्ती रुष्टया दृशा ॥ ९७॥ मानसस्वर्धुनीं तूर्णमुत्तरीतुं तरीं श्रिता । कम्पितायां तरौ भीत्या स्तुवन्ती कृष्णनाविकम् ॥ ९८॥ निजकुण्डपयःकेलिलीलानिर्जितमच्युतम् । हसितुं युञ्जती भङ्ग्या स्मेरा स्मेरमुखीः सखीः ॥ ९९॥ मकन्दमकुलस्यन्दिमरन्दस्यन्दिमन्दिरे । केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता ॥ १००॥ नानापुष्पमणिव्रातपिञ्छागुञ्जाफलादिभिः । कृष्णगुम्फितधम्मिल्लोत्फुल्लरोमस्मरङ्कुरा ॥ १०१॥ मञ्जुकुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् । क्षपयन्ती कुचक्षेपैः सुसख्यमधुनोन्मदा ॥ १०२॥ विलासे यत्नतः कृष्णदत्तं ताम्बूलचर्वितम् । स्मित्वा वाम्यादगृह्णाना तत्रारोपितदूषणम् ॥ १०३॥ द्यूते पाणिकृतां वंशीं जित्वा कृष्णसुगोपिताम् । हसित्वाच्छिद्य गृह्णाना स्तुता स्मेरालिसञ्चयैः ॥ १०४॥ विशाखागूढनर्मोक्तिजितकृष्णार्पितस्मिता । नर्माध्यायवराचार्या भारतीजयवाग्मिता ॥ १०५॥ विशाखाग्रे रहःकेलिकथोद्घाटकमाधवम् । ताडयन्ती द्विरब्जेन सभ्रूभङ्गेन लीलया ॥ १०६॥ ललितादिपुरः साक्षात्कृष्णसम्भोगलञ्छने । सूच्यमाने दृशा दूत्या स्मित्वा हुङ्कुर्वती रुषा ॥ १०७॥ क्वचित्प्रणयमानेन स्मितमावृत्य मौनिनी । भीत्या स्मरशरैर्भङ्ग्यलिङ्गन्ती सस्मितं हरिम् ॥ १०८॥ कुपितं कौतुकैः क्र्ष्णं विहारे बाढमौनिनम् । कतरा परिरभ्याशु मानयन्ती स्मिताननम् ॥ १०९॥ मिथः प्रणयमानेन मौनिनी मौनिनं हरिम् । निर्मौना स्मरमित्रेण निर्मौनं वीक्ष्य सस्मिता ॥ ११०॥ क्वचित्पथि मिलाचन्द्रावलीसम्भोगदूषणम् । श्रुत्वा क्रूरसखीवक्त्रान्मुकुन्दे मानिनी रुषा ॥ १११॥ पादलक्षारसोल्लासिशिरस्कं कंसविद्विषम् । कृतकाकुशतं सास्रा पश्यन्तीषाचलद्दृशा ॥ ११२॥ क्वचित्कलिन्दजातीरे पुष्पत्रोटनखेलया । विहरन्ती मुकुन्देन सार्धमालीकुलावृता ॥ ११३॥ तत्र पुष्पकृते कोपाद्व्रजन्ती प्रेमकारितात् । व्याघोतिता मुकुन्देन स्मित्वा धृत्वा पटाञ्चलम् ॥ ११४॥ विहारश्रान्तितः कान्तं ललितान्यस्तमस्तकम् । वीजयन्ती स्वयं प्रेम्णा कृष्णं रक्तपटाञ्चलैः ॥ ११५॥ पुष्पकल्पितदोलायां कलगानकुतूहलैः । प्रेम्णा प्रेष्ठसखीवर्गैर्दोलिता हरिभूषिता ॥ ११६॥ कुण्डकुञ्जाङ्गने वल्गु गायदालीगणान्विता । वीणानन्दितगोविन्ददत्तचुम्बेन लज्जिता ॥ ११७॥ गोविन्दवदनाम्भोजे स्मित्वा ताम्बूलवीटिकाम् । युञ्जतीह मिथो नर्मकेलिकर्पूरवासिताम् ॥ ११८॥ गिरीन्द्रगाह्वरे तल्पे गोविन्दोरसि सालसम् । शयना ललितावीज्यमाना स्वीयपटाञ्चलैः ॥ ११९॥ अपूर्वबन्धगान्धर्वाकलयोन्मद्य माधवम् । स्मित्वा हरिततद्वेणुहारा स्मेरविशाखया ॥ १२०॥ वीणाध्वनिधुतोपेन्द्रहस्ताच्च्योतितवंशिका । चूडास्वनहृतश्यामदेहगेहपथस्मृतिः ॥ १२१॥ मुरलीगिलितोत्तुङ्गगृहधर्मकुलस्थितिः । श‍ृङ्गतो दत्ततत्सर्वसतिलापोऽञ्जलित्रया ॥ १२२॥ कृष्णपुष्टिकरामोदिसुधासाराधिकाधरा । स्वमधुरित्वसम्पादिकृष्णपादाम्बुजामृता ॥ १२३॥ राधेति निजनाम्नैव जगत्ख्यापितमाधवा । माधवस्यैव राधेति ज्ञापितात्मा जगत्त्रये ॥ १२४॥ मृगनाभेः सुगन्धश्रीरिवेन्दोरिव चन्द्रिका । तरोः सुमञ्जरीवेह कृष्णस्याभिन्नतां गता ॥ १२५॥ रङ्गिना सङ्गरङ्गेन सानङ्गरङिनीकृता । सानङ्गरङ्गभङ्गेन सुरङ्गीकृतरङ्गदा ॥ १२६॥ इत्येतन्नामलीलाक्तपद्यैः पीयूषवर्षकैः । तद्रसास्वादनिष्णातवसनावासितान्तरैः ॥ १२७॥ गीयमानं जनैर्धन्यैः स्नेहविक्लिन्नमानसैः । नत्वा तां कृपयाविष्टां दुष्टोऽपि निष्ठुरः शठः ॥ १२८॥ जनोऽयं याचते दुःखी रुदन्नुच्चैरिदं मुहुः । तत्पदाम्भोजयुग्मैकगतिः कातरतां गतः ॥ १२९॥ कृत्वा निजगणस्यान्तः कारुण्यान्निजसेवने । नियिजयतु मां साक्षात्सेयं वृन्दावनेश्वरी ॥ १३०॥ भजामि राधामरविन्दनेत्रां स्मरामि राधां मधुरस्मितास्याम् । वदामि राधां करुणभरार्द्रां ततो ममान्यास्ति गतिर्न कापि ॥ १३१॥ लीलानामाङ्कितस्तोत्रं विशाखानन्ददाभिधम् । यः पठेन्नियतं गोष्ठे वसेन्निर्भरदीनधीः ॥ १३२॥ आत्मालङ्कृतिराधायां प्रीतिमुत्पद्य मोदभाक् नियोजयति तां कृष्णः साक्षात्तत्प्रियसेवने ॥ १३३॥ श्रीमद्रूपपदाम्भोजधूलीमात्रैकसेविना केनचिद्ग्रथिता पद्यैर्मालाघ्रेया तदाश्रयैः ॥ १३४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीविशाखानन्दाभिधस्तोत्रं सम्पूर्णम् ।

Shri Mukundashtakam ॥ श्रीमुकुन्दाष्टकम् ॥

बलभिदुपलकान्तिद्रोहिणि श्रीमदङ्गे घुसृणरसविलासैः सुष्ठु गान्धर्विकायाः । स्वमदननृपशोभां वर्धयन्देहराज्ये प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ १॥ उदितविधुपरार्धज्योतिरुल्लङ्घिवक्त्रो नवतरुणिमरज्यद्बाल्यशेषातिरम्यः । परिषदि ललितालीं दोलयन्कुण्डलाभ्यां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ २॥ कनकनिवहशोभानिन्दि पीतं नितम्बे तदुपरि नवरक्तं वस्त्रमित्थं दधानः । प्रियमिव किल वर्णं रागयुक्तं प्रियायाः प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ३॥ सुरभिकुसुमवृन्दैर्वासिताम्भःसमृद्धे प्रियसरसि निदाघे सायमालीपरीता । मदनजनकशेकैः खेलयन्नेव राधां प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ४॥ परिमलमिह लब्ध्वा हन्त गान्धर्विकायाः पुलकिततनुरुच्चैरुन्मदस्तत्क्षणेन । निखिलविपिनदेशान्वासितानेव जिघ्र- न्प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ५॥ प्रणिहितभुजदण्डः स्कन्धदेशे वराङ्ग्याः स्मितविकसितगण्डे कीर्तिदाकन्यकायाः । मनसिजजनिसौख्यं चुम्बनेनैव तन्व- न्प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ६॥ प्रमददनुजगोष्ठ्याः कोऽपि संवर्तवह्नि- र्व्रजभुवि किल पित्रोर्मूर्तिमान्स्नेहपुञ्जः । प्रथमरसमहेन्द्रः श्यामलो राधिकायाः प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ७॥ स्वकदनकथयाङ्गीकृत्य मृद्वीं विशाखां कृतचटु ललितां तु प्रार्थयन्प्रौढशीलाम् । प्रणयविधुरराधामानविध्वंसनाय प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ८॥ परिपठति मुकुन्दस्याष्टकं काकुभिर्यः सकलविषयसङ्गात्सन्नियम्येन्द्रियाणि । व्रजनवयुवराजो दार्शयन्स्वं सराधे स्वजनगणनमध्ये तं प्रियायास्तनोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।

Utkanthadashakam ॥ उत्कण्ठादशकम् ॥

छिन्नस्वर्णविनिन्दिचिक्कणरुचिं स्मेरां वयःसन्धितो रम्यां रक्तसुचीनपट्टवसनां वेशेन विभ्राजिताम् । उद्घूर्णाच्छितिकण्ठपिञ्छविलसद्वेणीं मुकुन्दं मनाक् पश्यन्तीं नयनाञ्चलेन मुदितां राधां कदाहं भजे ॥ १॥ यस्याः कान्ततनूल्लसत्परिमलेनाकृष्ट उच्चैः स्फुर- द्गोपीवृन्दमुखारविन्दमधुतत्प्रीत्या धयन्नप्यदः । मुञ्चन्वर्त्मनि बम्भ्रमीति मदतो गोविन्दभृङ्गः सतां वृन्दारण्यवरेण्यकल्पलतिकां राधां कदाहं भजे ॥ २॥ श्रीमत्कुण्डतटीकुडुङ्गभवने क्रीडाकलानां गुरुं तल्पे मञ्जुलमल्लिकोमलदलैः कॢप्ते मुहुर्माधवम् । जित्वा मानिनमक्षसङ्गरविधौ स्मित्वा दृगन्तोत्सवै- र्युञ्जानां हसितुं सखीं परमहो राधां कदाहं भजे ॥ ३॥ रासे प्रेमरसेन कृष्णविधुना सार्धं सखीभिर्वृतां भावैरष्टभिरेव सात्त्विकतरैर्लास्यं रसैस्तन्वतीम् । वीणावेणुमृदङ्गकिङ्किणिचलन्मञ्जीरचूडोच्छल- द्ध्वानैः स्फीतसुगीतमञ्जुनितरां राधां कदाहं भजे ॥ ४॥ उद्दामस्मरकेलिसङ्गरभरे कामं वनान्तःखले कृष्णेनाङ्कितपीनपर्वतकुचद्वन्द्वां नखैरस्त्रकैः । तद्दर्पेण तथा मदोद्धुरमहो तं विद्धमाकुर्वतीं दूरे स्वालिकुलैः कृताशिषमहो राधां कदाहं भजे ॥ ५॥ मित्राणां निकरैर्वृतेन हरिणा स्वैरं गिरीन्द्रान्तिके शुल्कादानमिषेण वर्त्मनि हठाद्दम्भेन रुद्धाञ्चलाम् । सार्धं स्मेरसखीभिरुद्धुरगिरां भङ्ग्या क्षिपन्तीं रुषा भ्रूदर्पैर्विलसच्चकोरनयनां राधां कदाहं भजे ॥ ६॥ पारावारविहारकौतुकमनःपूरेण कंसारिणा स्फारे मानसजाह्नवीजलभरे तर्यां सौमुत्थापिताम् । जीर्णा नौर्मम चेत्स्खलेदिति मिषाच्छायाद्वितीयां मुदा पारे खण्डितकञ्चुलीं धृतकुचां राधां कदाहं भजे ॥ ७॥ उल्लासैर्जलकेलिलोलुपमनःपूरे निदाघोद्गमे क्ष्वेलीलम्पटमानसाभिरमितः सायं सखीभिर्वृताम् । गोविन्दं सरसि प्रियेऽत्र सलिलक्रीडाविदग्धं कणैः सिञ्चन्तीं जलयन्त्रकेण पयसां राधां कदाहं भजे ॥ ८॥ वासन्तीकुसुमोत्करेण परितः सौरभ्यविस्तारिणा स्वेनालङ्कृतिसञ्चयेन बहुधाविर्भावितेन स्फुटन्। सोत्कम्पं पुलकोद्गमैर्मुरभिदा द्राग्भूषिताङ्गीं क्रमै- र्मोदेनाश्रुभरैः प्लुतां पुलकितां राधां कदाहं भजे ॥ ९॥ प्राणेभ्योऽप्यधिकप्रिया मुररिपोर्या हन्त यस्या अपि स्वीयप्राणपरार्धतोऽपि दयितास्तत्पादरेणोः कणाः । धन्यां तां जगतीत्रये परिलसज्जङ्घालकीर्तिं हरेः प्रेष्ठावर्गशिरोऽग्रभूषणमणिं राधां कदाहं भजे ॥ १०॥ उत्कण्ठादशकस्तवेन नितरां नव्येन दिव्यैः स्वरै- र्वृन्दारणयमहेन्द्रपट्टमहिषीं यः स्तौति सम्यक्सुधीः । तस्मै प्राणसमागुणानुरसनात्सञ्ज्तहर्षोत्सवैः कृष्णोऽनर्घमभीष्टरत्नमचिरादेतत्स्फुटं यच्छति ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यामुत्कण्ठादशकं सम्पूर्णम् ।

Shri Navayuvadvandvadidrikshashtakam ॥ श्रीनवयुवद्वन्द्वदिदृक्षाष्टकम् ॥

स्फुरदमलमधूलीपूर्णराजीवराज- न्नवमृगमदगन्धद्रोहिदिव्याङ्गगन्धं मिथ इह उदितैरुन्मादितान्तर्विघूर्ण- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ १॥ कनकगिरिखलोद्यत्केतकीपुष्पदीव्य- न्नवजलधरमालाद्वेषिदिव्योरुकान्त्या । सबलमिव विनोदैरीक्षयात्स्वं मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ २॥ निरुपमनवगौरीनव्यकन्दर्पकोटि प्रठितमधुरिमोर्मिक्षालितश्रीनखान्तम् । नवनवरुचिरागैर्हृष्टमिष्टैर्मिथस्त- द्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ३॥ मदनरसविघूर्णन्नेत्रपद्मान्तनृत्यैः परिकलितमुखेन्दुह्रीविनाम्रं मिथोऽल्पैः । अपि च मधुरवाचं श्रोतुमावर्धिताशं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ४॥ स्मरसमरविलासोद्गारमङ्गेषु रङ्गै- स्तिमितनवसखीषु प्रेक्षमानासु भङ्ग्या । स्मितमधुरदृगन्तैर्ह्रीणसम्फुल्लवक्त्रं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ५॥ मदनसमरचर्याचार्यमापूर्णपुण्य प्रसरनववधूभिः प्रार्थ्यपादानुचर्यम् । स्मररसिकमेकप्राणमन्योन्यभूषं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ६॥ तटमधुरनिकुञ्जे श्रान्तयोः श्रीसरस्यः प्रचुरजलविहारैः स्निग्धवृन्दैः सखीनाम् । उपहृतमधुरङ्गैः पाययात्तन्मिथस्तै- र्व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ७॥ कुसुमशररसौघग्रन्थिभिः प्रेमदाम्ना मिथ इह वशवृत्त्या प्रौढयाद्धा निबद्धम् । अखिलजगति राधामाधवाख्यप्रसिद्धं व्रजभुवि नवयूनोर्द्वन्द्वरत्नं दिदृक्षे ॥ ८॥ प्रणयमधुरमुच्चैर्नव्ययूनोर्दिदृक्षा ष्टकमिदमतियत्नाद्यः पठेत्स्फारदैन्यैः । स खलु परमशोभापुञ्जमञ्जु प्रकामं युगलमतुलमक्ष्णोः सेव्यमारात्करोति ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीनवयुवद्वन्द्वदिदृक्षाष्टकं सम्पूर्णम् ।

Abhishtaprarthanashtakam ॥ अभीष्टप्रार्थनाष्टकम् ॥

कदा गोष्ठे गोष्ठक्षितिपगृहदेव्या किल तया सबाष्पं कुर्वत्या विलसति सुते लालनविधिम् । मुहुर्दृष्टं रोहिण्यपीहितनिवेशामवनतं निषेवे ताम्बूलैरहमपि विशाखाप्रियसखीम् ॥ १॥ कदा गान्धर्वायां शुचि विरचयन्त्यां हरिकृते मुदा हारान्वृन्दैः सह सवयसामात्मसदने । विचित्य श्रीहस्ते मणिमिह मुहुः सम्पुटचया- दहो विन्यस्यन्ती सफलयति सेयं भुजलताम् ॥ २॥ कदा लीलाराज्ये व्रजविपिनरूपे विजयिनी निजं भाग्यं साक्षादिह विदधती वल्लभतया । समन्ताद्क्रीडन्ती पिकमधुपमुख्याभिरभितः प्रजाभिः सञ्जुष्टा प्रमदयति सा मां मदधिपा ॥ ३॥ कदा कृष्णातीरे त्रिचतुरसखीभिः सममहो प्रसूनां गुम्फन्तीं रविसखसुतामानततया । समेत्य प्रच्छन्नं सपदि परिरिप्सोर्बकरिपो- र्निषेधे भ्रूभङ्गं भृशमनुभजेऽहम् व्यजनिनी ॥ ४॥ कदा शुभ्रे तस्मिन्पुलिनवलये रासमहसा सुवर्णाग्गीसङ्घेष्टहमहमिकामत्तमतिषु । हरौ याते नीलोत्पलनिकसतां जित्वरगुणा- द्गुणादस्मान्दिव्यद्रविणमिव राधा मदयति ॥ ५॥ कदा भाण्डीरस्य प्रथितरुचिरोत्सङ्गनिलये वरामध्यासीनं कुसुममयतूलीमतुलितम् । प्रिये चित्रं पत्रं लिखति निहितस्वङ्गलतिकां विशाखाप्राणालीं भजति दिशती वर्णकमसौ ॥ ६॥ कदा तुङ्गे तुङ्गे रहसि गिरिश‍ृङ्गे व्रततिजा- न्प्रिये पूर्वा लीला निगमयति संस्तव्य निलयान्। मदेनाविष्पष्टं सकलितपदं व्रीडिततया द्रुतमौत्क्येनैषा विरचयति पृच्छां मम पुरः ॥ ७॥ गतिर्यन्मे नित्या यदखिलमपि स्वं सवयसाम् मदीश्वर्याः प्रेष्ठप्रणयकृतसौभाग्यवरिमा । हरेर्यत्प्रेमश्रीर्निवसतिरमुष्यस्तुलनया सदा तस्मिन्कुण्डे लसतु ललिताली मम दृशी ॥ ८॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां अभीष्टप्रार्थनाष्टकं सम्पूर्णम् ।

Shri Dananirvartanakundashtakam ॥ श्रीदाननिर्वर्तनकुण्डाष्टकम् ॥

स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः कपटकलहकेलिं कुर्वतोर्नव्ययूनोः । निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ १॥ निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि- नत इदमभिधानं प्राप यत्तत्सभायाम् । रसविमुखनिगूढे तत्र तज्ञैकवेद्ये सरसि भवतु वासो दाननिर्वर्तने नः ॥ २॥ अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ ध्वनिललितसरोजव्रातसौरभ्यशीते । नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे सरसि भवतु वासो दाननिर्वर्तने नः ॥ ३॥ हिमकुसुमसुवासस्फारपानीयपूरे रसपरिलसदालीशालिनोर्नव्ययूनोः । अतुलसलिलखेलालब्धसौभाग्यफुल्ले सरसि भवतु वासो दाननिर्वर्तने नः ॥ ४॥ दरविकसितपुष्पैर्वासितान्तर्दिगन्तः खगमधुपनिनादैर्मोदितप्राणिजातः । परितौपरि यस्य क्ष्मारुहा भान्ति तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ५॥ निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे प्रणयिनवसखीभिः संप्रवेश्य प्रियौ तौ । निरुपमनवरङ्गस्तन्यते यत्र तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ६॥ स्फटिकसममतुच्छं यस्य पानीयमच्छं खगनरपशुगोभिः सम्पिबन्तीभिरुच्चैः । निजनिजगुणवृद्धिर्लभ्यते द्रागमुस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ७॥ सुरभिमधुरशीतं यत्पयः प्रत्यहं ताः सखिगणपरिवीतो व्याहरन्पाययन्गाः । स्वयमथ पिबति श्रीगोपचन्द्रोऽपि तस्मि- न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ८॥ पठति सुमतिरेतद्दाननिर्वर्तनाख्यं प्रथितमहिमकुण्डस्याष्टकं यो यतात्मा । स च नियतनिवासं सुष्ठु संलभ्य काले कलयति किल राधाकृष्णयोर्दानलीलाम् ॥ ९॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीदाननिर्वर्तनकुण्डाष्टकं सम्पूर्णम् ।

Shri Prarthanashrayachaturdashakam ॥ श्रीप्रार्थनाश्रयचतुर्दशकम् ॥

अलं दीपावल्यां विपुलरति गोवर्धनगिरिं जनन्या सम्पूज्योज्ज्वलितमहिलोद्गीतकुतुकैः । निशाद्रावैः पृष्ठे रचितकरलक्ष्माश्रियमसौ वहन्मेघध्वानैः कलय गिरिभृत्खेलयति गाः ॥ १॥ पुरो गोभिः सार्धं व्रजनृपतिमुख्या व्रजजना व्रजन्त्येषां पश्चान्निखिलमहिलाभिर्व्रजनृपा । ततो मित्रव्रातैः कृतविविधनर्मा व्रजशशी छलैः प्श्यन्राधां सहचरि परिक्रामति गिरिम् ॥ २॥ उदञ्चत्कारुण्यामृतवितरणैर्जीवितजग- द्युवद्वन्द्वं गन्धैर्गुणसुमनसं वासितजनम् । कृपां चेन्मय्येवं किरति न तदा त्वं कुरु तथा यथा मे श्रीकुण्डे सखि सकलमङ्गं निवसति ॥ ३॥ उद्दामनर्मरसकेलिविनिर्मिताङ्गं राधामुकुन्दयुगलं ललिताविशाखे । गौराङ्गचन्द्रमिह रूपयुगं न पश्य- न्हा वेदनाः कति सहे स्फुट रे ललाट ॥ ४॥ व्रजपतिकृतपर्वानन्दिनन्दीश्वरोद्य- त्परिषदि वदनान्तःस्मेरतां राधिकायाः । रचयति हरिरादाद्दृग्विभङ्गेन नद्यां रविरिव कमलिन्यः पुष्पकान्तिं करेण ॥ ५॥ उपगिरि गिरिधर्तुः सुस्मिते वक्त्रबिम्बे भ्रमति निभृतराधा नेत्रभङ्गीच्छलेन । अतितृषितचकोरी लालसेवाम्बुदस्यो परि शशिनि सुधाढ्ये मध्य आकाशदेशम् ॥ ६॥ द्युतिजितरतिगौरीक्ष्मारमासत्यभामा व्रजपुरवरनारीवृन्दचन्द्रावलीकाम् । गिरिभृत इह राधां तन्वतो मण्डितं तत्- तदुपकरणमग्रे किं निधास्ये क्रमेण ॥ ७॥ कनकरचितकुम्भद्वन्द्वविन्यासभङ्गी रुचिहरकुचयुग्मं सौरभोच्छूनमस्याः । सपुलकमथ गन्धैश्चित्रितं कर्तुमिच्छो- र्गिरिभृत इह हस्ते हन्त दास्ये कदा तान्॥ ८॥ कृष्णस्यांसे विनिहितभुजवल्लिरुत्फुल्लरोमा रामा केयं कलयतितरं भूधरारण्यलक्ष्मीम् । ज्ञातं ज्ञातं प्रणयचतुला व्याकुला रागपूरै- रन्या कान्ते सहचरि विना राधिकामीदृशी वा ॥ ९॥ अपूर्वप्रेमाब्धेः परिमलपयःफेननिवहैः सदा यो जीवातुर्यमिह कृपयासिञ्चदतुलम् । इदानीं दुर्दैवात्प्रतिपदविपद्दाववलितो निरालम्बः सोऽयं कमिह तं ऋते यातु शरणम् ॥ १०॥ शून्यायते महागोष्ठं गिरीन्द्रोऽजगरायते । व्याघ्रतुण्डायते कुण्डं जीवातुरहितस्य मे ॥ ११॥ न पतति यदि देहस्तेन किं तस्य दोषः स किल कुलिशसारैर्यद्विधात्रा व्यधायी । अयमपि परहेतुर्गाढतर्केण दृष्टः प्रकटकदनभारं को वहत्वन्यथा वा ॥ १२॥ गिरिवरतटकुञ्जे मञ्जुवृन्दावनेश सरसि च रचयन्श्रीराधिकाकृष्णकीर्तिम् । धृतरति रमणीयं संस्मरंस्तत्पदाब्जं व्रजदधिफलमश्नन्सर्वकालं वसामि ॥ १३॥ वसतो गिरिवरतटकुञ्जे लपतः श्रीराधिकेऽनु कृष्णेति । धायतो व्रजदधितक्रं नाथ सदा मे दिनानि गच्छन्तु ॥ १४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीप्रार्थनाश्रयचतुर्दशकं सम्पूर्णम् ।

Abhishtasuchanam ॥ अभीष्टसूचनम् ॥

आभीरपल्लीपतिपुत्रकान्ता- दास्याभिलासातिबलाश्ववारः । श्रीरूपचिन्तामणिसप्तिसंस्थो मत्स्वान्तदुर्दान्थयेच्छुरास्ताम् ॥ १॥ यद्यत्नतः शमदमात्मविवेकयोगै- रध्यात्मलग्नमविकारमभून्मनो मे । रूपस्य तत्स्मितसुधं सदयावलोकं आसाद्य माद्यति हरेश्चर्तैरिदानीम् ॥ २॥ निभृतविपिनलीलाः कृष्णवक्त्रं सदाक्ष्णा प्रपिबथ मृगकन्या यूयमेवातिधन्याः । क्षणमपि न विलोके सारमेयी व्रस्थाप्य्- उदरभरणवृत्त्या बम्भ्रमन्ती हताहम् ॥ ३॥ मन्मानसोन्मीलदनेकसङ्गम प्रयासकुञ्जोदरलब्धसङ्ग्योः । निवेद्य सख्यर्पय मां स्वसेवने वीटीप्रदानावसरे व्रजेशयोः ॥ ४॥ निविडरतिविलासायासगाढालसाङ्गीं श्रमजलकणिकाभिः क्लिन्नगण्डां नु राधाम् । व्रजपतिसुतवक्षःपीठविन्यस्तदेहां अपि सखि भवतीभिः सेव्यमानां विलोके ॥ ५॥ दितिजकुलनितान्तध्वान्तमश्रान्तमस्य- न्स्वजनजनचकोरप्रेमपीयूषवर्षी करशिशिरितराधाकैरवोत्फुल्लवल्ली कुचकुसुमगुलुच्छः पातु कृष्णौषधीशः ॥ ६॥ रासे लास्यं रसवति समं राधया माधवस्य क्ष्माभृत्कच्छे दधिकरकृते स्फारकेलीविवादम् । आलीमध्ये स्मरपवनजं नर्मभङ्गीतरङ्गं काले कस्मिन्कुशलभरिते हन्त साक्षात्करोमि ॥ ७॥ रोहिण्याग्रे कृताशीःशतमथ सभयानन्दमाभीरभर्ता भीत्या शश्वन्नृसिंहे हलिनि सखिकुले न्यस्य सास्रं व्रजेश्या । साटोपस्नेहमुद्यद्व्रजजननिवहै राधिकादिप्रियाभिः सश्लाघं वीक्ष्यमाणः श्रितसुरभिरटन्नव्यगोपः स पायात् ॥ ८॥ अदृष्टा दृष्टेव स्फुरति सखि केयं व्रजवधूः कुतोऽस्मिन्नायाता भजितुमतुला त्वां मधुपुरात् । अपूर्वेणापूर्वां रमय हरिणैनामिति स रा- धिकोद्यद्भङ्ग्युक्त्या विदितयुवतिभ्यः स्मितमधात् ॥ ९॥ राधेति नाम नवसुन्दरदीधुमुग्धं कृष्णेति नाम मधुराद्भुतगाढदुग्धम् । सर्वक्षणं सुरभिरागहिमेन रम्यं कृत्वा तदेव पिब मे रसने क्षुधार्ते ॥ १०॥ चैतन्यचन्द्र मम हृत्कुमुदं विकाश्य हृद्यं विधेहि निजचिन्तनभृङ्गरङ्गैः । किं चापराधतिमिरं निविडं विधूय पादामृतं सदय पायय दुर्गतं माम् ॥ ११॥ पिकपटुरववाद्यैर्भृङ्गझङ्कारगानैः स्फुरदतुलकुडुङ्गक्रोडरङ्गे सरङ्गम् । स्मरसदसि कृतोद्यन्नृत्यतः श्रान्तगात्रं व्रजनवयुवयुग्मं नर्तकं वीजयामि ॥ १२॥ यत्पादाम्बुजयुग्मविच्युतरजःसेवाप्रभावादहं गान्धर्वासरसीगिरीन्द्रनिकटे कष्टोऽपि नित्यं वसन्। तत्प्रेयोगणपालितो जितसुधा राधामुकुन्दाभिधा उद्गायामि श‍ृणोमि मां पुनरहो श्रीमान्स रूपोऽवतु ॥ १३॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीअभीष्टसूचनं सम्पूर्णम् ।
% Text title            : Collected prayers by Raghunatha Dasa Goswami Stavavali
% File name             : stavAvalI.itx
% itxtitle              : stavAvalI saNgrahaH (raghunAthadAsagosvAmivirachitA)
% engtitle              : Collected prayers by Raghunatha Dasa Goswami Stavavali
% Category              : vishhnu, raghunAthadAsagosvAmin, krishna, stavAvalI, sangraha, vishnu, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Indexextra            : (Text, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org