सुदर्शनषट्कम् २
सहस्रादित्यसङ्काशं सहस्रवदनं परम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १॥
रणत्कङ्किणिजालेन राक्षसघ्नं महाद्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ २॥
प्राकारसहितं मन्त्रं वदन्तं शत्रुनिग्रहम् ।
भूषणैर्भूषितकरं प्रपद्येऽहं सुदर्शनम् ॥ ३॥
पुष्करस्थमनिर्देश्यं महामन्त्रेण संयुतम् ।
शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ४॥
हुङ्कारभैरवं भीमं प्रपन्नार्तिहरं प्रियम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५॥
अनन्तहारकेयूरमुकुटादिविभूषितम् ।
सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ६॥
एतैष्षड्भिस्तुतो देवो भगवाञ्च्छ्रीसुदर्शनः ।
रक्षां करोति सर्वत्र सर्वत्र विजयी भवेत् ॥ ७॥
इति सुदर्शनषट्कं २ सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com