श्रीसुदर्शनचक्रस्तोत्रम् अथवा सुदर्शनपूजाविधिः

श्रीसुदर्शनचक्रस्तोत्रम् अथवा सुदर्शनपूजाविधिः

रुद्र उवाच । सुदर्शनस्य पूजां मे वद शङ्खगदाधर । ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै ॥ १॥ हरिरुवाच । सुदर्शनस्य चक्रस्य श‍ृणु पूजां वृषध्वज । स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं ततः ॥ २॥ मूलमन्त्रेण वै न्यासं मूलमन्त्रं श‍ृणुष्व च । सहस्रारं हुं फट् नमो मन्त्रः प्रणवपूर्वकः ॥ ३॥ कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः । ध्यायेत्सुदर्शनं देवं हृदि पद्मेऽमले शुभे ॥ ४॥ शङ्खचक्रगदापद्मधरं सौम्यं किरीटिनम् । आवाह्य मण्डले देवं पूर्वोक्तविधिना हर ॥ ५॥ पूजयेद्गन्धपुष्पाद्यैरुपचारैर्महेश्वर । पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः ॥ ६॥ एवं यः कुरुते रुद्र चक्रस्यार्चनमुत्तमम् । सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात् ॥ ७॥ एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् । अथ स्तोत्रम् । नमः सुदर्शनायैव सहस्रादित्यवर्चसे ॥ ८॥ ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे । सर्वदुष्टविनाशाय सर्वपातकमर्दिने ॥ ९॥ सुचक्राय विचक्राय सर्वमन्त्रविभेदिने । प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः ॥ १०॥ पालनार्थाय लोकानां दुष्टासुरविनाशिने । उग्राय चैव सौम्याय चण्डाय च नमो नमः ॥ ११॥ नमश्चक्षुःस्वरूपाय संसारभयभेदिने । मायापञ्जरभेत्रे च शिवाय च नमो नमः ॥ १२॥ ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः । कालाय मृत्यवे चैव भीमाय च नमो नमः ॥ १३॥ भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमो नमः । विष्णुरूपाय शान्ताय चायुधानां धराय च ॥ १४॥ विष्णुशस्त्राय चक्राय नमो भूयो नमो नमः । इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम् ॥ १५॥ यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति । चक्रपूजाविधिं यश्च पठेद्रुद्र जितोन्द्रियः । स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते ॥ १६॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशोऽध्यायः सम्पूर्णः । Garudapurana, AchArakANDa, adhyAya 33 Proofread by PSA Easwaran
% Text title            : sudarshanachakrastotram
% File name             : sudarshanachakrastotram.itx
% itxtitle              : sudarshanachakrastotram athavA sudarshanapUjAvidhAnam (garuDapurANAntargatam)
% engtitle              : Sudarshanachakra Stotram
% Category              : vishhnu, stotra, pUjA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Garudapurana, karmakANDAkhyaH pUrvakhaNDaH 1, adhyAya 33
% Latest update         : July 27, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org