$1
श्रीसुदर्शनकवचम् ५
$1

श्रीसुदर्शनकवचम् ५

अस्य श्रीसुदर्शनकवचमहामन्त्रस्य अहिर्बुध्न्य ऋषिः । अनुष्टुप् छन्दः । सुदर्शनरूपी परमात्मा देवता । सहस्रारं इति बीजम् । सुदर्शनं इति शक्तिः । चक्रराडिति कीलकम् । मम सर्वरक्षार्थे जपे विनियोगः । ॐ आचक्राय स्वाहा - अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ विचक्राय स्वाहा - तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ सुचक्राय स्वाहा - मध्यमाभ्यां नमः । शिखायै वषट् । ॐ धीचक्राय स्वाहा - अनामिकाभ्यां नमः । कवचाय हुम् । ॐ ज्वालाचक्राय स्वाहा - कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ सुचक्राय स्वाहा - करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बधः । ध्यानम्- शङ्खं शार्ङ्गं सुखेटं हलपरशुगदापाशमन्तर्दधाने सव्ये वामेऽ थ चक्रेऽप्यसिमुसललसद्वज्रहस्तं त्रिशूलम् । ज्वालाकेशं च पाशं ज्वलदनलशिखा विद्युदृङ्गपडलस्थं प्रत्यालीढं त्रिणेत्रं पुरगणमथनं भावये मन्त्रराजम् ॥ मूलमन्त्रं- ॐ श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा । ॐ मस्तकं मे सहस्रारं पातु फालं सुदर्शनम् । भ्रूमध्ये चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचनः ॥ १॥ कर्णौ वेदस्तवः पातु घ्राणं पातु विभीषणः । महादेवः कपोलं मे चक्षू रुद्रो वरप्रदः ॥ २॥ दन्तान् पातु जगद्वन्द्यो रसनां मम सर्वदः । सर्वविद्यां नृपः पातु गिरं वागीश्वरोऽवतु ॥ ३॥ वीरसिंहो मुखं पातु चिबुकं भक्तवत्सलः । सर्वदा पृष्ठदेशे मे देवानामभयप्रदः ॥ ४॥ नाभिं षट्कोणगः पातु घण्टारावः कटिं तथा । ऊरू पातु महाशूरो जानुनी भीमविक्रमः ॥ ५॥ जघे पातु महावेगो गुल्फावदितिरञ्जनः । पातु पादतलद्वन्द्वं विश्वभारो निरन्तरम् ॥ ६॥ सुदर्शननृसिंहो मे शरीरं पातु सर्वदा । पातु सर्वाङ्गकान्तिं मे कल्पान्ताग्निसमप्रभः ॥ ७॥ मम सर्वाङ्गरोमाणि ज्वालाकेशस्तु रक्षतु । अन्तर्बहिश्च मे पातु विश्वात्मा सर्वतोमुखः ॥ ८॥ रक्षाहीनं च यत्स्थानं प्रचण्डस्तत्र रक्षतु । सर्वतो दिक्षु मे पातु ज्वालासाहस्रसंस्तुतम् ॥ ९॥ इति सौदर्शनं दिव्यं कवचं सर्वकामदम् । सर्वपापोपशमनं सर्वव्याधिनिवारणम् ॥ १०॥ सर्वशत्रुक्षयकरं सर्वमङ्गलदायकम् । त्रिसन्ध्यं जपतां नॄणां सर्वदा सर्वकामदम् ॥ ११॥ प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नरः । तस्य कार्येषु सर्वेषु विघ्नः कोऽपि न जायते ॥ १२॥ यक्षराक्षसवेतालपिशाचाश्च विनायकः । शाकिनी डाकिनी माला कालिका चण्डिकादयः ॥ १३ भूतप्रेतपिशाचाश्च येऽन्ये दुष्टग्रहा अपि । कवचस्य प्रभावेन दृष्टिमात्रेण तेऽखिलाः ॥ १४॥ पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् । अस्यायुतं पुरश्चर्या दशांशं तिलसर्पिषा ॥ १५॥ हवनं तत्समं चैव तर्पणं गन्धवारिणा । पुष्पाञ्जलिं दशांशेन मृष्टान्नैः सुघृतप्लुतैः ॥ १६॥ चतुर्विंशद्विजा भोज्यास्ततः कार्याणि साधयेत् । विन्यस्य जवनो धीरो युद्धार्थं योऽधिगच्छति ॥ १७॥ क्षणाज्जित्वाऽखिलान् शत्रून् विजयी भवति ध्रुवम् । मन्त्रिताम्बु त्रिवारं वै पिबेत्सप्तदिनावधि ॥ १८॥ व्याधयः प्रशमं यान्ति सकलाः कुक्षिसम्भवाः । मुखरोगाक्षिरोगाणां नाशनं परमं मतम् ॥ १९॥ भीतानामभिषेकाच्च महाभयनिवारणम् । सप्ताभिमन्त्रितानेन तुलसीमूलमूत्तिका ॥ २०॥ लिम्पेन्नश्यन्ति तद्रोगाः सप्त कृच्छ्रादयोऽखिलाः । ललाटे तिलकं नृणां मोहनं सर्ववश्यकृत् ॥ २१॥ परेषां मन्त्रतन्त्रादि नाशनं परमं मतम् । अग्निसर्पादिसर्वेषां विषाणां हरणं परम् ॥ २२॥ सौवर्णे राजते वापि पत्रे भूर्जादिकेऽपि वा । लिखित्वा पूजयेद्भक्त्या स श्रीमान्भवति धुवम् ॥ २३॥ बहुना किमिहोक्तेन यद्यद्वाञ्छति मानवः । सकलं प्राप्नुयादस्य कवचस्य प्रभावतः ॥ २४॥ इति सुदर्शनकवचं ४ समाप्तम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : sudarshanakavacham 5
% File name             : sudarshanakavacham4.itx
% itxtitle              : sudarshanakavacham 5
% engtitle              : sudarshanakavacham 5
% Category              : vishhnu, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org