$1
श्रीसुदर्शननामावलिः
$1

श्रीसुदर्शननामावलिः

ॐ कल्याणगुणसम्पन्नाय नमः । कल्याणवसनोज्ज्वलाय । कल्याणाचलगम्भीराय । कल्याणजनरञ्जकाय । कल्याणदोष- नाशाय । कल्याणरुचिराङ्गकाय । कल्याणाङ्गदसम्पन्नाय । कल्याणा- कारसन्निभाव । करालवदनाय । अत्रासिने । करालाङ्गाय । अभयङ्कराय । करालतनुजोद्दायाय । करालतनुभेदकाय । करञ्जवनमध्यस्थाय । करञ्जदधिभोजनाय । करजासुरसंहर्त्रे । करञ्जमधुराङ्गकाय । खञ्जनानन्दजनकाय । खञ्जनाहारजूषिताय नमः ॥ २० ॐ खञ्जनायुधभृते नमः । दिव्यखञ्जनाखण्डगर्वहृते । खरान्तकाय । खररुचये । खरदुःखैरसेविताय । खरान्तकाय । खरोदाराय । खरासुरविभञ्जनाय । गोपालाय । गोपतये । गोप्त्रे गोपस्त्रीनाथरञ्जकाय । गोजारुणतनवे । गोजाय । गोजारतिकृतोत्सवाय । गम्भीरनाभये । गम्भीराय । गम्भीरार्थसमन्विताय । गम्भीरवैद्यमरुताय । गम्भीरगुणभूषिताय नमः ॥ ४० ॐ घनरावाय नमः । घनरुचये । घनगम्भीरनिःस्वनाय । घनाघनौघनाशिने । घनसन्तानदायकाय । घनरोचिषे । घनचराय । घनचन्दनचर्चिताय । घनहेतये । घनभुजाय । धनाय । अखिल- सुरार्चिताय । ङकारावधिविभवाय । ङकाराय । मुनिसम्मताय । ङकारवीतसहिताय । ङकाराकारभूषिताय । चक्रराजाय । चक्रपतये । चक्राधीशाय नमः ॥ ६० ॐ सुचक्रभुवे नमः । चक्रसेव्याय । चक्रधराय । चक्रभूषणभूषिताय । चक्रराजरुचये । चक्राय । चक्रपालनतत्पराय । चक्रधृते । चक्रवरदाय । चकभूषणभूषिताय । सुचक्रधिये । सुचक्राख्याय । सुचक्रगुणभूषिताय । विचक्राय । चक्रनिरताय । चक्रसम्पन्नवैभवाय । चक्रदोषे । चक्रदाय । चक्राय । चक्रराजपराक्रमाय नमः ॥ ८० ॐ चक्रनादाय नमः । चक्रचराय । चक्रगाय । चक्रपाशकृते । चक्रव्यापिने । चक्रगुरवे । चक्रहारिणे । विचक्रभृते । चक्राङ्गाय । चक्रमहिताय । चक्रवाकगुणाकराय । आचक्राय । चक्रधर्मज्ञाय । चक्रकाय । चक्रमर्दनाय । आचक्रनियमाय । चक्राय । सर्वपापविधूननाय । चक्रज्वालाय । चक्रधराय नमः ॥ १०० ॐ चक्रपालितविग्रहाय नमः । चक्रवर्तिने । चक्रदायिने । चक्रकारिणे । मदापहाय । चक्रकोटिमहानादाय । चक्रकोटि- समप्रभाय । चक्रराजावनचराय । चक्रराजान्तरोज्ज्वलाय । चञ्चला- रातिदमनाय । चञ्चलस्वान्तरोमकृते । चञ्चलाय । मानसोल्लासिने । चञ्चलाचलभासुराय । चञ्चलारातिनिरताय । चञ्चलाधिकचञ्चलाय । छाययाऽखिलतापघ्नाय । छायामदविभञ्जनाय । छायाप्रियाय । अधिकरुचये नमः ॥ १२० ॐ छायावृक्षसमाश्रयाय नमः । छायान्विताय । छाय- याऽर्च्याय । छायाधिकसुखप्रदाय । छायांवरपरीधानाय । छायात्मजनमुञ्चिताय । जलजाक्षीप्रियकराय । जलजानन्ददायकाय । जलजासिद्धिरुचिराय । जलजालसमाय । भराय । जलजालाप- संस्तुत्पाय । जलजाताय मोदकृते । जलजाहारचतुराय । जलजारा- धनोत्सुकाय । जनकस्तुतिसन्तुष्टाय । जनकाराधिताधिकाय । जनकामोदनपराय । जनकानन्ददायकाय । जनकाध्यानसन्तुष्ट- हृदयाय नमः ॥ १४० ॐ जनकार्चिताय नमः । जनकानन्दजननाय । जनकृ- द्धृदयाम्बुजाय । झञ्झामारुतवेगाढ्याय । झञ्झामारुतसङ्गराय । झञ्झामारुतसंरावाय । झञ्झामारुतविक्रमाय । ञकाराम्भुजमध्यस्थाय । ञकारकृतसन्निधये । टङ्कधारिणे । टङ्कवपुषे । टङ्कसंहारकारकाय । टङ्कच्छिन्नसुवर्णाभाय । टङ्कारधनुरुज्ज्वलाय । टङ्काराग्निसमाकाराय । टङ्काररवमेदुराय । टङ्कारकीर्तिभरिताय । टकारानन्दवर्धनाय । डम्भसंहतिसंहर्त्रे । डम्भसन्ततिवर्धनाय नमः ॥ १६० ॐ डम्भधृशे नमः । डम्भहृदयाय । डम्भदण्डनतत्पराय । डिम्भधृशे । डिम्भकृते । डिम्भाय । डिम्भसूदनतत्पराय । डिम्भपापहराय । डिम्भसम्भावितपदाम्बुजाय । डिम्भरोद्यत्कटम्बाजाय । डमरुध्यानतत्पराय । डमरूद्भवसंहर्त्रे । डमरूद्भवनन्दनाय । डाडिमीवनमध्यस्थाय । डाडिमीकुसुमप्रियाय । डाडिमीफलसन्तुष्टाय । डाडिमीफलवर्जिताय । ढक्कामनोहरवपुषे । ढक्कारवविराजिताय । ढक्कावाद्येषु निरताय नमः ॥ १८० ॐ ढक्काधारणतत्पराय नमः । ढकारबीजसपन्नाय । ढकाराक्षरमेदुराय । ढकारमध्यसदनाय । ढकारविहितान्त्रकाय । णकारबीजवसतये । णकारवसनोज्ज्वलाय । णकारातिगभीराङ्गाय । णकाराराधनप्रियाय । तरलाक्षीमहाहर्त्रे । तारकासुरहृते । तरये । तरलोज्ज्वलहाराढ्याय । तरलस्वान्तरञ्जकाय । तारकासुर- संसेव्याय । तारकासुरमानिताय । तुरङ्गवदनस्तोत्रसन्तुष्ट- हृदयाम्बुजाय । तुरङ्गवदनाय । श्रीमते । तुरङ्गवदनस्तुताय नमः ॥ २०० ॐ तमःपटलसञ्छन्नाय नमः । तमःसन्ततिमर्दनाय । तमोनुदाय । जलशयाय । तमःसंवर्धनाय । हराय । थवर्णमध्य- संवासिने । थवर्णवरभूषिताय । थवर्णबीजसम्पन्नाय । थवर्णरुचिरालयाय । दरभृते । दरसाराक्षाय । दरहृदे । दरवञ्चकाय । दरफुल्लाम्बुजरुचये । दरचक्रविराजिताय । दधिसङ्ग्रहणव्यग्राय । दधिपाण्डरकीर्तिभृते । दध्यन्नपूजनरताय । दधिवामनमोदकृते नमः ॥ २२० ॐ धन्विने नमः । धनप्रियाय । धन्याय । धनाधिपसमञ्चिताय । धराय । धरावनरताय । धनधान्यसमृद्धिदाय । धनञ्जयाय । धनाध्यक्षाय । धनदाय । धनवर्जिताय । धनग्रहण- सम्पन्नाय । धनसम्मतमानसाय । धनराजवनासक्ताय । धनराज- यशोभराय । धनराजमदाहर्त्रे । धनराजसमीडिताय । धर्मकृते । धर्मभृते । धर्मिणे नमः ॥ २४० ॐ धर्मनन्दनसन्नुताय नमः । धर्मराजाय । धनासक्ताय । धर्मज्ञाकल्पितस्तुतये । नरराजावनायत्ताय । नरराजाय निर्भराय । नरराजस्तुतगणाय । नरराजसमुज्ज्वलाय । नवतामरसोदाराय । नवतामरसेक्षणाय । नथतामरसाहाराय । नवतामरसारुणाय । नवसौवर्णवसनाय । नवनाथदयापराय । नवनाथस्तुतनदाय । नवनाथसमाकृतये । नालिकानेत्रमहिताय । नालिकावलिराजिताय । नालिकागतिमध्यस्थाय । नालिकासनसेविताय नमः ॥ २६० ॐ पुण्डरीकाक्षरुचिराय नमः । पुण्डरीकमदापहाय । पुण्डरीकमुनिस्तुत्याय । पुण्डरीकसुहृद्युतये । पुण्डरीकप्रभारम्याय । पुण्डरीकनिभाननाय । पुण्डरीकाक्षसन्मानाय । पुण्डरीकदयापराय । पराय । परागतिवपुषे । परानन्दाय । परात्पराय । परमानन्द- जनकाय । परमान्नाधिकप्रियाय । पुष्कराक्षकरोदाराय । पुष्कराक्षाय । शिवङ्कराय । पुष्करव्रातसहिताय । पुष्करारवसंयुताय । फट्कारतः स्तूयमानाय नभः ॥ २८० ॐ फट्काराक्षरमध्यगाय नमः । फट्कारध्वस्तदनुजाय । फट्कारासनसङ्गताय । फलाहाराय । स्तुतफलाय । फलपूजा- कृतोत्सवाय । फलदानरताय । अत्यन्तफलसम्पूर्णमानसाय । बलस्तुतये । बलाधाराय । बलभद्रप्रियङ्कराय । बलवते । बलहारिणे । बलयुग्वैरिभञ्जनाय । बलदात्रे । बलधराय । बलराजितविग्रहाय । बलाद्वलाय । बलकराय । बलासुरनिषुदनाय नमः ॥ ३०० ॐ बलरक्षणनिष्णाताय नमः । बलसम्मोददायकाय । बलसम्पूर्णहृदयाय । बलसंहारदीक्षिताय । भवस्तुताय । भवपतये । भवसन्तानदायकाय । भवध्वंसिने । भवहराय । भवस्तभनतत्पराय । भवरक्षणनिष्णाताय । भवसन्तोषकारकाय । भवसागरसञ्छेत्त्रे । भवसिन्धुसुखप्रदाय । भद्रदाय । भद्रहृदयाय । भद्रकार्यसमाश्रिताय । भद्रश्रीचर्चिततनवे । भद्रश्रीदानदीक्षिताय । भद्रपादप्रियाय नमः ॥ ३२० ॐ भद्राय नमः । अभद्रवनभञ्जनाय । भद्रश्रीगानसरसाय । भद्रमण्डलमण्डिताय । भरद्वाजस्तुतपदाय । भरद्वाजसमाश्रिताय । भरद्वाजाश्रमरताय । भरद्वाजदयाकराय । मसारनीलरुचिराय । मसारचरणोज्ज्वलाय । मसारसारसत्कार्याय । मसाराशुक- भूषिताय । माकन्दवनसञ्चारिणे । माकन्दजनरञ्जकाय । माकन्दानन्द- मन्दाराय । माकन्दानन्दबन्धुराय । मण्डलाय । मण्डलाधीशाय । मण्डलात्मने । सुमण्डलाय नमः ॥ ३४० ॐ मण्डलेशाय नमः । मण्डलान्तर्मण्डलार्चितमण्डलाय । मण्डलावननिष्णाताय । मण्डलावरण्ये । घनाय । मण्डलस्थाय । मण्डलाग्र्याय । मण्डलाभरणाङ्किताय । मधुदानवसंहर्त्रे । मधु- मञ्जुलवाग्भराय । मधुदानाधिकरताय । मधुमङ्गलवैभवाय । मधुजेत्रे । मधुकराय । मधुराय । मधुराधिपाय । मधुवारणसंहर्त्रे । मधुसन्तानकारकाय । मधुमासातिरुचिराय । मधुमासविराजिताय नमः ॥ ३६० ॐ मधुपुष्टाय नमः । मधुतनवे । मधुगाय । मधुसंवराय । मधुराय । मधुराकाराय । मधुराम्बरभूषिताय । मधुरानगरीनाथाय । मधुरासुरभञ्जनाय । मधुराहारनिरताय । मधुराह्वाददक्षिणाय । मधुराम्भोजनयनाय । मधुराधिपसङ्गताय । मधुरानन्दचतुराय । मधुरारातिसङ्गताय । मधुराभरणोल्लासिने । मधुराङ्गदभूषिताय । मृगराजवनीसक्ताय । मृगमण्डलमण्डिताय । मृगादराय नमः ॥ ३८० ॐ मृगपतये नमः । मृगारातिविदारणाय । यज्ञप्रियाय । यज्ञवपुषे । यज्ञसम्प्रीतमानसाय । यज्ञसन्ताननिरताय । यज्ञसम्भारसम्भ्रमाय । यज्ञयज्ञाय । यज्ञपदाय । यशसपादनोत्सुकाय । यज्ञशालाकृतावासाय । यज्ञसम्भावितान्नकाय । रसेन्द्राय । रससम्पन्नाय । रसराजाय । रसोत्सुकाय । रसान्विताय । रसधराय । रसचेलाय । रसाकराय नमः ॥ ४०० आ रसजेत्रे नमः । रसश्रेष्ठाय । रसराजाभिरञ्जिताय । रसतत्त्वसमासक्ताय । रसदारपराक्रमाय । रसराजाय । रसधराय । रसेशाय । रसवल्लभाय । रसनेत्रे । रसावासाय । रसोत्करविरा- जिताय । लवङ्गपुष्पसन्तुष्टाय । लवङ्गकुसुमोचिताय । लवङ्गवन- मध्यस्थाय । लवङ्गकुसुमोत्सुकाय । लतावलिसमायुक्ताय । लतारससमर्चिताय । लताभिरामतनुभृते । लतातिलकभूषिताय नमः ॥ ४२० ॐ वीरस्तुतपदाम्भोजाय नमः । विराजगमनोत्सुकाय । विराजपत्रमध्यस्थाय । विराचरससेविताय । वरदाय । वरसम्पन्नाय । वराय । वरसमुन्नताय । वरस्तुतये । वर्धमानाय । वरधृते । वरसम्भवाय । वरदानरताय । वर्याय । वरदानसमुत्सकाय । वरदानार्द्रहृदयाय । वरवारणसंयुताय । शारदास्तुतपादाब्जाय । शारदाम्भोजकीर्तिभृते । शारदाम्भोजनयनाय नमः ॥ ४४० ॐ शारदाध्यक्षसेविताय नमः । शारदापीठवसतये । शारदाधिपसन्नुताय । शारदावासदमनाय । शारदावासभासुराय । शतक्रतुस्तूयमानाय । शतक्रतुपराक्रमाय । शतक्रतुसमैश्वर्याय । शतक्रतुमदापहाय । शरचापधराय । श्रीमते । शरसम्भववैभवाय । शरपाण्डरकीर्तिश्रिये । शरत्सारसलोचनाय । शरसङ्गमसम्पन्नाय । शरमण्डलमण्डिताय । शरातिगाय । शरधराय । शरलालन- लालसाय । शरोद्भवसमाकाराय नमः ॥ ४६० ॐ शरयुद्धविशारदारा नमः । शरवृन्दावनरतये । शरसम्मितविक्रमाय । षट्पदाय । षट्पदाकाराय । षट्पदावलि- सेविताय । षट्पदाकारमधुराय । षट्पदिने । षट्पदोद्धताय । षडङ्गवेदविनुताय । षडङ्गपदमेदुराय । षट्पद्मकवितावासाय । षड्बिन्दुरचितद्युतये । षड्बिन्दुमध्यवसतये । षड्बिन्दुविशदीकृताय । षडाम्नायस्तूयमानाय । षडाम्नायान्तरस्थिताय । षट्छक्तिमङ्गलवृताय । षट्चक्रकृतशेरवराय । सारसारसरक्ताङ्गाय नमः ॥ ४८० ॐ सारसारसलोचनाय नमः । सारदीप्तये । सारतनवे । सारसाक्षकरप्रियाय । सारदीपिने । सारकृपाय । सारसावन- कृज्ज्वलाय । सारङ्गसारदमनाय । सारकल्पितकुण्डलाय । सारसारण्यवसतये । सारसारवमेदुराय । सार(म)गानप्रियाय । साराय । सारसारसुपण्डिताय । सद्रक्षकाय । सदामोदिने । सदानन्दनदेशिकाय । सद्वैद्यवन्द्यचरणाय । सद्वैद्योज्ज्वलमानसाय । हरिजेत्रे नमः ॥ ५०० ॐ हरिरथाय नमः । हरिसेवापरायणाय । हरिवर्णाय । हरिचराय । हरिगाय । हरिवत्सलाय । हरिद्राय । हरिसंस्तोत्रे । हरिध्यानपरायणाय । हरिकल्पान्तसंहर्त्रे । हीरसारसमुज्ज्वलाय । हरिचन्दनलिप्ताङ्गाय । हरिमानससम्मताय । हरिकारुण्यनिरताय । हंसमोचनलालसाय । हरिपुत्राभयकराय । हरिपुत्रसमञ्चिताय । हीरधारणसान्निध्याय । हरिसम्मोददायकाय । हेतिराजाय नमः ॥ ५२० ॐ हेतिधराय नमः । हेतिनायकसंस्तुताय । हेतये । हरये । हेतिवपुषे । हेतिघ्ने । हेतिवर्धनाय । हेतिहन्त्रे । हेतियुद्धकराय । हेतिविभूषणाय । हेतिदात्रे । हेतिपराय । हेतिमार्गप्रवर्तकाय । हेतिसन्ततिसम्पूर्णाय । हेतिमण्डलमण्डिताय । हेतिदानपराय । सर्वहेत्युग्रपरिभूषिताय । हंसरूपिणे । हंसगतये । हंससन्नुतवैभवाय नमः ॥ ५४० ॐ हंसमार्गरताय नमः । हंसरक्षकाय । हंसनायकाय । हसदृग्गोचरतनवे । हंससङ्गीततोषिताय । हंसजेत्रे । हंसपतये । हंसगाय । हंसवाहनाय । हंसजाय । हंसगमनाय । हसराजसु- पूजिताय । हंसवेगाय । हक्त्यराय । हंससुन्दरविग्रहाय । हंसव- त्सुन्दरतनवे । हंससङ्गतमानसाय । हंसस्वरूपसारज्ञाय । हंससन्नत- मानसाय । हंससंस्तुतसामर्थ्याय नमः ॥ ५६० ॐ हरिरक्षणतत्पराय नमः । हंससंस्तुतमाहात्म्याय । हरपुत्रपराक्रमाय । क्षीरार्णवसमुद्भूताय । क्षीरसम्भवभाविताय । क्षीराब्धिनाथसंयुक्ताय । क्षीरकीर्तिविभासुराय । क्षणदारवसंहर्त्रे । क्षणदारवसम्मताय । क्षणदाधीशसंयुक्ताय । क्षणदानकृतोत्सवाय । क्षीराभिषेकसन्तुष्टाय । क्षीरपानाभिलाषुकाय । क्षीराज्यभोजना- सक्ताय । क्षीरसम्भववर्णकाय नमः ॥ ५७५ इति सुदर्शननामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : sudarshananAmAvaliH
% File name             : sudarshananAmAvaliH.itx
% itxtitle              : sudarshananAmAvaliH
% engtitle              : sudarshananAmAvaliH
% Category              : vishhnu, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji,  575 names
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org