महाबलिकृतं सुदर्शनस्तोत्रम्

महाबलिकृतं सुदर्शनस्तोत्रम्

बलिरुवाच - अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः । नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ ५०॥ सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव । कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ ५१॥ दुष्टराहुगलच्छेदशोणितारुणतारकम् । तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ५२॥ यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः । तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ५३॥ धारायां द्वादशादित्याः समस्ताश्च हुताशनाः । धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५४॥ समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः । यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ५५॥ यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणं दैत्यौजसां च नाशाय तन्नमामि सुदर्शनं भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरं तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनं नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलं तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनं स्वभावतेजसा युक्तं यदर्काग्निमयं महत् । विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ ५७॥ दुर्वृत्तदैत्यमथनं जगतः परिपालकम् । तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ५८॥ करोतु मे सदा शर्म धर्मतां च प्रयातु मे । प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ ५९॥ स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभं प्रसीद संयुगेऽरीणां सुदर्शनसुदर्शनम् । विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥ ६०॥ जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् । विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ ६१॥ एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत् । बभूव प्रकटं चक्रं दैत्यचक्रपतेस्तदा ॥ ६२॥ ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् । अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥ ६३॥ भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते । त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥ ६४॥ मेर्वादीनखिलाञ्छैलान्गङ्गाद्याः सरितस्तथा । क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसंज्ञितान् ॥ ६५॥ वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान् । नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥ ६६॥ रुद्रादित्यांश्च मरुतां साध्यानां च महीपते । सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥ ६७॥ ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः । नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥ ६८॥ यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ । यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥ ६९॥ प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य । सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥ ७०॥ इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्यायान्तर्गतं महाबलिकृतं सुदर्शनस्तोत्रम् । Proofread by PSA Easwaran
% Text title            : Mahabalikritam Sudarshana Stotram
% File name             : sudarshanastotraMmahAbalikRRitam.itx
% itxtitle              : sudarshanastotraM mahAbalikRitam (viShNudharmopapurANAntargatam)
% engtitle              : sudarshanastotraM mahAbalikRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 78
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org