श्रीसुदर्शनस्तोत्रम् ३
श्रीमन्नारायणं देवं ब्रह्मरुद्रादिवन्दितम् ।
सर्वलोकनियन्तारं नमामि पुरुषोत्तमम् ॥ १॥
श्रीमद्रामानुजाचार्यपौत्रस्तत्पादसंश्रितः ।
श्रीरङ्गार्यगुरोः पुत्रः श्रीरामाह्वयदेशिकः ॥ २॥
श्रीवाधूलकुलोद्भूतस्तपचक्रविधायकम् ।
स्तोत्रं सौदर्शनं चक्रे वेदवेदान्तगोचरम् ॥ ३॥
पवित्रं त इति प्रोक्तं वेदेषु त्रिषु च स्थितम् ।
चरणं तैत्तिरीये तु missing in the manuscript ॥ ४॥
लोकस्य द्वारमित्येतद्वाक्यं तत्रैव चोदितम् ।
चमू षु चेति यद्वाक्यं तत्रोक्तमृचि साम्नि च ॥ ५॥
मैत्रावरुणशाखायां पठ्यते सुमहात्मभिः ।
चक्रं बिभर्तीत्यृग्वेदे खिले सम्यक् प्रकीर्तितम् ॥ ६॥
अथर्वणोपनिषदि ह्येभिर्वयमिति स्मृतम् ।
ऋचि पौष्कलशाखायां प्रतिविष्णो इतीरितम् ॥ ७॥
धृतोर्ध्वपुण्ड्रमिति यदथ शाखोदितं हि तत् ।
दक्षिणे त्विति यद्वाक्यं महोपनिषदि स्थितम् ॥ ८॥
वषट् इति च यद्वाक्यं कठवल्ल्यां तदीरितम् ।
तापनीये तु तं प्राप्तमिति मन्त्रमुदाहृतम् ॥ ९॥
यज्ञोपवीतीत्यारभ्य ये वा शून्यं त इत्यपि ।
सुदर्शनोपनिषदि वेदविद्भिस्तु पठ्यते ॥ १०॥
तस्माद्ब्राह्मणवाक्यं तु श्वेताश्वतरचोदितम् ।
तत्रोपवीतादि पञ्च कथ्यते सुमहात्मभिः ॥ ११॥
कात्यायनेति होवाचेत्येवं शतपथेरितम् ।
तत्रैव कथितं चक्रं द्विभुजे धार्यमित्यपि ॥ १२॥
तत्रैव दशपर्यायैः कथितं चक्रधारणम् ।
देवास इति वाक्यं च तत्रैव परिकथ्यते ॥ १३॥
विवस्वत इति ह्येतद्वाक्यं तत्रैव संस्थितम् ।
चक्रमादायेति वाक्यं स्थितं यत्तदथर्वणे ॥ १४॥
तथैव पाञ्चजन्यं च पठ्यते वेदवित्तमैः ।
अग्निनेति तथा वाक्यं तत्रैव परिपठ्यते ॥ १५॥
इत्येवं तप्तचक्रस्य धारणं श्रुतिचोदितम् ।
तस्मात् सर्वप्रयत्नेन धार्यं मोक्षफलेप्सुभिः ॥ १६॥
ब्रह्मचारी गृही वानप्रस्थ इत्याश्रमैस्तथा ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चापि तथा परैः ॥ १७॥
अनुलोमैर्विलोमैश्च भक्तिश्रद्धासमन्वितैः ।
सुवासिनीभिर्नारीभिर्विधवाभिस्तथैव च ॥ १८॥
विष्णोः सुदर्शनं धार्यं वेदवेदान्तगोचरम् ।
इति सौदर्शनं स्त्रोत्रमकरोद्रामदेशिकः ॥ १९॥
इति श्रीसुदर्शनस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan