सुश्लोकलाघवे नारसिंहवर्णनम्
वयस्य पश्य यस्यास्य पञ्चास्यास्य वश्यता ।
शस्यस्य तस्य सस्यस्य सम्पत्किं न विनश्यति ॥ १॥
पित्रा पितृव्येण च नामशेषताम् ।
आपादितासीच्छूतिःस्त्रिविष्टपे ।
अतः स्वधर्माचरणे धृतव्रतः ।
प्रह्लाद एषः स्मृतितत्परोऽभवत् ॥ २॥
परमपदविजित्यै नैव सद्वंशभूतिः
मतिरपि न वयो वा सद्गुरुः किन्तिहैकः ।
इति कथयितुमीशः संसदस्तम्भमध्याद्
``गुरु गुरु गुरु'' शब्दं व्याहरन्नाविरासीत् ॥ ३॥
(सुश्लोकलाघव -विठोबा अण्णा दप्तरदार)
इति श्री विठोबाअण्णाकृत सुश्लोकलाघवे नारसिंहवर्णनं सम्पूर्णम् ।
Proofread by M K Barman