सुवासिनीकृता श्रीहरिस्तुतिः
(वसन्ततिलकम्)
मन्दस्मितं मधुरभाषि मुखारविन्दं
कर्णावलम्बिचलकुण्डलशोभिगण्डम् ।
कर्णान्तदीर्घनयनं नयनाभिरामं
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ १॥
श्रीवत्सलाञ्छनलसद् हृदयारविन्दं
लक्ष्मीनिवाससदनं नवनीततुल्यम् ।
व्यूढं विशालमधिकं च समुन्नतं हि
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ २॥
पद्मादिलक्ष्मसुविराजितहस्तपद्मं
रम्यं सुशोभि सुतरां मृदुलं सुरक्तम् ।
रक्षोगणाय भयदं वरदं निजेभ्यो
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ३॥
रम्यं सुकोमलतरं वरनाभिपद्मं
निम्नं वलित्रयगतं भ्रमवद्विशोभि ।
पद्मासनस्थवसनं जनचित्तहारि
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ४॥
वज्राङ्कुशादिशुभचिह्नयुताङ्घ्रिपद्मं
योगीन्द्रमानसमधुव्रतसेव्यमानम् ।
तापापहं सपदि दिव्यसुखप्रदायि
नित्यं स्फुद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ५॥
वाग्दोषहच्च सकलाघहरः पवित्रः
कामाग्निशामनविधौ च पयोदतुल्यः ।
मन्त्रः सदैव विबुधैरपि रट्यमानो
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ६॥
दुग्धं प्रदेहि विमलेऽतिबुभुक्षवे मे
भुक्तं मयालमिति मेऽस्ति न भोक्तुमिच्छा ।
इत्थं त्वया त्वभिहितं सुवचोऽनुवेलं
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ७॥
चेष्टा निजाश्रयवतां सुखदाः
व्यामोहदा अपि च दुष्टधियां परेश ।
मूर्तिस्तथैव निखिला परसौख्यधामन्
नित्यं स्फुरेद्धि हृदि मे हरिकृष्ण तेऽद्धा ॥ ८॥
इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे प्रथमप्रवाहे
पञ्चत्रिंशत्तमे तरङ्गे सुवासिनीकृता श्रीहरिस्तुतिः सम्पूर्णा ।