स्वप्रभुस्वरूपनिरूपणाष्टकम्
स्वामिनीभावगौरस्य स्वस्वरूपं प्रपश्यतः ।
कटाक्षैर्विठ्ठलेशस्य श्यामताचित्रितं वपुः ॥ १॥
स्वास्मिन्नभयभावेन स्वेषामुभयरूपताम् ।
स्पष्टं बोधयितुं गौरश्यामः श्रीविठ्ठलेश्वरः ॥ २॥
निजाचार्योदितस्वीयमार्गसेव्यस्वरूपताम् ।
बोधयन्नभयात्माऽयं गौरश्यामो विराजते ॥ ३॥
रसस्य द्विविधस्यापि स्वरूपे बोधयन् स्थितिम् ।
ऐक्यं विरुद्धधर्मत्वाद्गौरश्यामः कृपानिधिः ॥ ४॥
स्त्रीभावभगवद्भावोभयात्मेति विबोधितुम् ।
स्वस्वरूपं हरिर्गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ५॥
भावात्मकत्वतो दृष्टिर्हासलीलाकृतिस्तथा ।
अतो विलोक्यते गौरश्यामः श्रीविठ्ठलेश्वरः ॥ ६॥
निजानन्दप्रदानेन व्यवधाने दिवानिशम् ।
न करोति व्रजस्थानमिति श्रीमत्प्रभुस्तथा ॥ ७॥
सर्वात्मकामभावात्मस्वरूपं बोधयन्प्रभुः ।
श्रीविठ्ठलेश्वरोऽस्माकं गौरश्यामो विराजते ॥ ८॥
इति श्रीहरिदासोदितं स्वप्रभुस्वरूपनिरूयणाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran