तत्त्वार्थसारावलिः

तत्त्वार्थसारावलिः

श्रीमद्वेङ्कटनायकं श्रुतिशिरःसीमन्तिनीवल्लभं लक्ष्मीप्राणधवं भुवःपतिमजं सर्वेश्वरं सद्गुणम् । शङ्खं चक्रमथाभयं वरमथ स्वैः पाणिभिः सन्ततं बिभ्राणं भगवन्तमार्तिहरणं वन्दे मदिष्टार्थदम् ॥ १॥ श्रीशेषाद्रिनिवासिनं स्मितमुखं चन्द्राननं श्रीपतिं वागीशादिसुरेन्द्रवन्दितपदं वन्दे हरिं सुन्दरम् । ज्ञानानन्दघनं श्रुतिस्तुतगुणं सर्वज्ञमात्मेश्वरं सर्वापद्विनिवारकं च सदयं सत्यं परं शाश्वतम् ॥ २॥ श्रीमद्वेङ्कटनाथ तावकपदं दीनार्ति विच्छेदनं कामप्रापकमर्थिनां कलिमलप्रध्वंसि सेव्यं सुरैः । कल्याणाकरमाश्रितोऽहमधुना किं चिन्तयानन्तया खिद्ये मामव माधवाखिलजगत्संरक्षणैकव्रत ॥ ३॥ व्याधिव्यालविषं निबर्हय विहङ्गाधीशयान प्रभो मोहध्वान्तहरे हरे व्रणमहामत्तेभविद्रावणे । श्रीमद्वेङ्कटनाथ मामक महादारिद्र्यदावानलं कारुण्यामृतवर्षिणा प्रशमयापाङ्गेन पश्यन् मुहुः ॥ ४॥ रुग्णानां निजपा दमाश्रितवतां भीतात्मनां यत्कलौ क्षिप्रारोग्यविधायकं ज्वरहरं सौख्याभयेष्टप्रदम् । लक्ष्मीशं वरवेङ्कटाचलपतिं धन्वन्तरिं धार्मिकं पक्षीन्द्रध्वजमक्षयं सकरुणं वैद्येश्वरं प्रार्थये ॥ ५॥ ब्रह्म ब्रह्महरीशरूपमहितं मायागुणैर्वस्तुत- स्त्वामाहुः श्रुतयोऽथ निर्गुणमिमाः श्रीवेङ्कटेश प्रभो । कार्यत्वाज्जगतोऽस्य हेतुरखिलैः कर्तेति नैयायिकै- स्त्वं ह्येवाह नुतोऽसि वेदकलितैः शब्दैस्तथा बोधितः ॥ ६॥ नाकेन्द्रादिनिकेतनाय नलिनद्वन्द्वप्रतिद्वन्द्वदृग्- रम्याय प्रतिपन्थिदैत्यदमनायास्तु श्रियः प्राप्तये । नाथाया स्मदभीप्सितस्य निगमान्तालङ्क्रियाशोभिने निर्निद्राय समस्तजीवजगतीसंरक्षिणे मङ्गलम् ॥ ७॥ चन्द्रस्येव हि चन्द्रिका तव विभो सन्तोषिका या कृपा जीवेषु स्वत एव सिध्यति ततः स्यादिष्टमस्मादृशाम् । किं सम्प्रार्थयते स्तनन्धयशिशुस्तन्मातरं मे पयो देहीतीश्वर नेच्छतामपि शिवं श्रीवेङ्कटेशार्पय ॥ ८॥ वन्दे वेङ्कटनायकाङ्घ्रियुगलं वन्दास्मन्दारकं वन्दे तत्करपद्मयुग्ममनिशं वृन्दारकेष्टप्रदम् । वन्दे तन्नयनारविन्दयुगलीमिन्द्रादिकेन्दिन्दिरा- नन्दार्थामपि चोर्ध्वबाहुयुगलं यच्छङ्खचक्रान्वितम् ॥ ९॥ ध्यायामि श्रुतिशाखिपल्लवपदं द्रक्ष्यामि लक्ष्मीपतिं सेवे सर्व सुखप्रदं सुरवरं श्रीवेङ्कटाद्रीश्वरम् । सच्चित्सौख्यमयं स्मरामि सततं सर्वज्ञमात्मेश्वरं विष्णुं जिष्णुमनन्तसद्गुणगणं सर्वस्वतन्त्रं विभुम् ॥ १०॥ जीवानामुपभोगसाधनवपुः कारुण्यतः कल्पय- न्निष्टप्राप्तिमनिष्टवर्जनमपि प्रख्याप्य चादृष्टतः । तत्सम्पादककर्ममार्गमखिलं तस्मान्निवृत्तिं विभो वेदैस्त्वं विशदीकरोषि भगवन् श्रीवेङ्कटाद्वीश्वर ॥ ११॥ शेषाद्रीश्वर तावकान् गुणगणान् वक्तुं फणाभृद्वरो नालं कोऽहमतीव मन्दघिषणश्चेतः परं काङ्क्षति । तन्मे साहसमद्य पूर्णशशिनं चाहर्तुमिच्छावतो डिम्भस्येव मुहुर्निरीक्ष्य सदयं मां पाहि लक्ष्मीपते ॥ १२॥ नाथ त्वं पुरुषोत्तमोऽसि कमला पत्नी वरा देवता पुत्रः पद्मभवश्च वाहनमहो तार्क्ष्यस्त्रयी विग्रहः । शस्त्रं चापि सुदर्शनं निजवपुः सच्चिन्मयं सद्गुणं त्वं चानन्दघनोऽसि वेङ्कटपते मां पाहि विश्वेश्वर ॥ १३॥ उन्मीलत्पुलकाङ्कुरं सुखजलस्राव्यक्षिहर्षोन्मिष- द्व्यत्यस्ताक्षरगद्गदस्वरमुदूढप्रीतिसत्सात्त्विकम् । लोकव्यापृतिवर्जितं निजमुखैकावासलक्ष्यं कदा श्रीमद्वेङ्कटनाथ ते पदयुगं द्रक्ष्याम्यहं निर्भयः ॥ १४॥ श्रीमद्वेङ्कटनायकाङ्घ्रिकमलं श्रद्धातटाकोदितं भक्तिध्यानतपोजलस्थितमपि स्वास्तिक्यकन्दोद्भवम् । वेदान्तार्करुचिस्फुटं सकलचैतन्यस्फुरद्वम्भरं त्राणोदारमरन्दशक्तिसुखसंवित्सत्यरूपं भजे ॥ १५॥ द्वैतध्वान्तदिवाकरे मुरहरे मध्वादिविध्वंसके सत्तामात्रशरीरिणि प्रियतमे सर्वस्य जन्तोः शिवे । आनन्दात्मनि चिन्मये निरुपमे मूलप्रकृत्याश्रये सर्वज्ञे सकलेश्वरे विहरतु श्रीवेङ्कटेशे मतिः ॥ १६॥ श्रीमद्वेङ्कटशैलनाथ भगवन् मामद्य दीनं विभो श्रामंश्राममपेक्षिताप्तिकृतिषु भ्राम्यन्तमप्राप्तितः त्वामेवाश्रितलोकरक्षणचणं स्वामीति मत्वा दृढं नामैवेश्वर ते स्मरन्तमघहन्नानन्दय श्रीपते ॥ १७॥ यस्याद्रिः स्पृशतामघान्यपनुदत्यह्नाय यत्सन्निधि- र्वैकुण्ठादतिरिच्यते यदुदरं ब्रह्माण्डकोट्याश्रयम् । यन्नाम स्मरतां मनोरथततिः सार्थैव यद्भक्तिमाञ्-- जीयाद् वेङ्कटनायकः स भगवानस्मान् भयात् त्रात्विह ॥ १८॥ श्रीशेषाद्रिविहारिणं कृतजगत्संरक्षणं चक्रिणं श्रीवत्साङ्कितवक्षसं कनकभासंस्पर्धिसद्वाससम् । कस्तूरीघनसारकुङ्कुममिलत्कालेयकालेपनं कल्याणैकनिकेतनं भज मनः कौमाररूपं हरिम् ॥ १९॥ श्रीमद्वेङ्कटनायकस्य सकलप्राणिप्रियस्य प्रभो- र्लक्ष्मीनेतुरनन्तपुण्यफलदस्योदारदानस्य च । दातुश्चाहमिहास्मि सम्प्रति पुमर्थार्थप्रतिग्राह्यतो दारिद्र्यं न ममास्ति पुष्कलधनग्रामस्य चर्णं कुतः ॥ २०॥ श्रीकान्तं शरदिन्दुकान्तिहसितं श्रेयस्करं प्राणिनां पाकारिप्रमुखामरार्चितपदं पाथोजरम्येक्षणम् । लोकानां जननस्थितिप्रलयकृल्लीलाविलासं हरिं नाकारातिरिपुं निरस्तदुरितं श्रीवेङ्कटेशं नुमः ॥ २१॥ चक्षुर्दक्षिणमब्जपोषणरतं सव्यं तदब्जात्मकं पादावब्जनिभौ करे च विलसत्यब्जं तु यस्याब्जजः । सूनुश्चाब्जनिकेतना भगवती पत्नी च नाभौ स्वके भात्यब्जं भुवनत्रयं स भगवानव्यात् स शेषाद्रिराट् ॥ २२॥ दीनानाथदयालुना भगवतानूनप्रभावेन च ज्ञानानन्दघनेन चेतनगणत्राणप्रवीणेन च । श्रीनाथेन गुणैकतानतनुना श्रीवेङ्कटस्वामिना को नामर्तिहरेण जन्तुरधुना न स्यात् सनाथः कलौ ॥ २३॥ सत्यानन्दचिदम्बुधौ गुणमणिस्थाने च मुक्ताश्रये कारुण्योर्मिकलापिनि श्रितसमस्तप्राणिवर्गे तथा । ब्रह्माण्डाह्वयबुद्बुदे घनमहामायावलम्बे त्रयी- घोषे श्रीमति वेङ्कटेशजलधौ चेतो मदीयं प्लवः ॥ २४॥ यन्नामस्मरणप्रवीणजनतानन्दोपभोगैकभू- र्यत्पादाम्बुरुहद्वयीप्रणतिरप्यापन्निवृत्तिप्रदा । यत्साक्षात्करणं नरस्य पुरुषार्थाप्तौ भवेत् कारणं श्रेयोदानचणं करार्पणकृते तं वेङ्कटेशं भजे ॥ २५॥ सुब्रह्मण्यमुखोदितस्तुतिमिमां श्रीवेङ्कटाद्रीशितुः सौभाग्योपचयप्रदां श्रुतिमयीं तत्त्वार्थसारावलिम् । यः प्रातः प्रतिमन्दवारमनिशं भक्त्या पठेत् सादरं तस्येष्टार्थसुखाप्तिबोधविजयारोग्यायुराप्तिर्भवेत् ॥ २६॥

श्रीवेङ्कटाचलनिकेतनमाश्रयामः श्रीभूसनाथमखिलात्मशरण्यपादम् । श्रीमन्ति यद्भजनशीलकुलानि लोके धन्यानि धीबलतपःसुखकीर्तिभाञ्जि ॥ २७॥ यत्पाददर्शनपवित्रितलोचनानां यत्पुण्यनामपरिकीर्तनपुण्यवाचाम् । श्रेयांसि नित्यसुलभानि नृणां भवन्ति श्रीवेङ्कटाचलपतिः परिपातु सोऽस्मान् ॥ २८॥ सच्चित्सुखादिदमजायत वर्तते च सच्चित्सुखे लयमुपैति जगत् समस्तम् । सच्चित्सुखं तदिति वेङ्कटशैलनाथ शुद्धाद्वयं श्रुतिरिहाह तत्र स्वरूपम् ॥ २९॥ पूर्णामृतद्युतिलसद्वदनस्य पद्म- पत्राभदीर्घनयनस्य रमाधिनेतुः श्रीवेङ्कटाद्रिवसतेः कमनीयरूपं कल्याणदं भवतु लोचनगोचरं नः ॥ ३०॥ आराधितोऽपि भगवन्नधुना कलौ त्वं किं नाम यच्छसि सुखं सकलास्तिकेभ्यः । गोमांसखादिवशवर्तिनि भूतले च गोविप्रसौख्यकरणे किमु बीजमस्ति ॥ ३१॥ आरोग्यदायिनि तपः फलदातरि त्व- यीशे समस्तजगतां श्रितकल्पवृक्षे । श्रीवेङ्कटाद्रिनिलये वरदे प्रसन्ने नाहं बिभेमि दुरितामयदुःखसङ्घात् ॥ ३२॥ चन्द्रश्चकोरमिव पूर्णतनुः करैः स्वै- राप्याययत्यमृतगुः सदयैरपाङ्गैः । श्रीवेङ्कटेश भगवन् विषयाभिलाप- सन्तप्तचित्तमधुना परिपाहि मां त्वम् ॥ ३३॥ जीवोपभोग्यजगदाकलनावनादि- दक्षं दयार्द्रहृदयं दयितं रमायाः । दामोदरं दरविकस्वरपुण्डरीक- पत्रेक्षणं भजत पन्नगभूधरेशम् ॥ ३४॥ दीनात्मरक्षणनिसर्गदयापयोधिं मानावनैकबिरुदं निजकिङ्कराणाम् । श्रीनायकं श्रितभुजङ्गमराजभूध्रं को नाम नाश्रयति चित्सुखरूपमर्थी ॥ ३५॥ नेत्रोत्सवं निखिलसाधुजनस्य नित्यं श्रोत्रोत्सवं श्रुतिनुतं श्रितवेङ्कटाद्रि । दिव्यं हरेर्निखिलजीवशरण्यमीडे रूपं च नाम रमणीयमनन्ययोगम् ॥ ३६॥ श्री शेषशैलशिखराभरणं रमायाः प्राणप्रियं श्रुतिशिरः सरिदीशचन्द्रम् । वित्तार्थिवित्तदमपारकृपं प्रपद्ये श्रीवेङ्कटेश्वरमखण्डसुखैकतानम् ॥ ३७॥ संसारसागरमपारमिहातितीर्षो- र्मर्त्यस्य मृत्युमकरामयजन्तुजुष्टम् । श्रीवेङ्कटेश्वरपदस्मरणाहतेऽस्ति नान्यः प्लवः प्रवितताधिशताकुलस्य ॥ ३८॥ दुष्पारकुक्षिभरणोद्यमदुर्विदग्धं दुर्वारदुःखशतदन्तुरितान्तरङ्गम् । दोषैकतानमतिदीनममुं दयालो देवेश वेङ्कटमहीधरनाथ पाहि ॥ ३९॥ अज्ञानपातकमहामयशत्रुचिन्ता- दुःखर्णदोषशमनाय तवैकमेव । श्रीवेङ्कटेशचरितामृतपानरूपं दिव्यौषधं न हि ततोऽधिकमस्ति विष्णो ॥ ४०॥ श्रीवेङ्कटेश भगवञ्जगतः पितासि माता च मामकगुरुः परिपालकश्च । गर्भस्थितस्य भरणे जनने सहाय- स्त्वं गर्भिणीं च परिरक्षसि दीनबन्धो ॥ ४१॥ कन्दर्पकोटिजनकानपि कांश्चिदीडे कल्याणजालकलनैकपटीयसोऽन्यान् । कल्याधिदावशमनोद्यतवृष्टिधारा- पूरांश्च वेङ्कटपतेः करुणाकटाक्षान् ॥ ४२॥ श्रीवेङ्कटेश भवदीयकृपाकटाक्ष- सञ्जीवितस्य सकलेप्सितभोगभाजः । विद्वज्जनस्य कलिदोषलवाप्तिशङ्का नैवास्ति धर्मपरिरक्षकता यलस्ते ॥ ४३॥ कल्याणकल्पतरुभिः करुण कटाक्षैः कञ्जातदर्पशमनैः कलयाशु धन्यान् । अस्माननन्तधरणीधरमौलिवास लक्ष्मीपते सकललोकशरण्य विष्णो ॥ ४४॥ पूर्णामृतद्युतिलसद्वदनाय फुल्ल- पद्मेक्षणाय वरदाभयपाणयेऽस्तु । शेषाद्रिमौलिनिलयाय रमासखाय शङ्खारिभृत्करयुगाय नमःसहस्रम् ॥ ४५॥ वैश्वानरोऽस्युदरगः सकलस्य जन्तो- र्भुक्तान्नपाकरसभोजनदेहवृद्धीः । कुर्वन् क्षुधां प्रतिदिनं कुरुषे त्वमेव भुङ्क्ष्वाद्य वेङ्कटपते परिपाहि मां त्वम् ॥ ४६॥ मध्वादिमत्तगजकुम्भविदारणैक- दक्षोग्रसिंहवपुषे परमेश्वराय । विद्यामयाय भजकाभयदाय सन्तु श्रीवेङ्कटाद्रिनिलयाय नमांसि नित्यम् ॥ ४७॥ श्रीवेङ्कटेशभगवच्चरणं भवाब्धि- सन्तारणं भजकभावुककारणं च । भक्तार्तिसंहरणमर्थिजनेप्सितार्थ- विश्राणनैकनिपुणं शरणं भजामः ॥ ४८॥ अर्थं हि सर्वजनकाम्यमदुःखलेश- मानन्दमाहुरनुभूथ च यं महान्तः । तत्साधनं च भवतीत्युभयात्मकस्तु श्रीवेङ्कटाचलपतिः स हि मे पुमर्थः ॥ ४९॥ स्रष्टा रजोगुणयुतः परिपालकस्त्वं सत्त्वान्वितश्च तमसा पिहितो निहन्ता । विश्वस्य कारणममुष्य गृणन्ति वेदा- स्त्वामेव वेङ्कटपते भगवन् रमेश ॥ ५०॥ आपन्निवारणमनाथजनावनैक- दीक्षाधुरीणकरुणं जगतां शर ण्यम् । श्रीशं श्रितामरतरुं शशिसूर्यनेत्रं सेवेऽन्वहं सपदि वेङ्कटशैलनाथम् ॥ ५१॥ लक्ष्मीधवाय लसदुत्तमसद्गुणाय लावण्यरत्ननिधये ललितस्मिताय । लीलाविनिर्मितजगत्ततिरक्षणैक- शीलाय सन्तु नतयः सततं मदीयाः ॥ ५२॥ कल्याणमूर्तिमखिलाघनिवृत्तिमूल- लीलाचरित्रमहिराजगिरीन्द्रवासम् । श्रीवेङ्कटेश्वरमनन्तमपारवीर्यं सेवे श्रियै श्रितजने सदयं सदैव ॥ ५३॥ विश्वावनव्यसनिने निजकिङ्करेषु विश्वासिने विहितदुष्टनिबर्हणाय । विद्रावितात्मरिपवे विधिवन्दिताय श्रीवेङ्कटाद्रिपतयेऽस्तु मम प्रणामः ॥ ५४॥ आम्नायमुड्दनुजनिग्रहदुग्धसिन्धु- निर्मग्नमन्दरसमुद्धरणादि कर्तुम् । पाठीनमूर्तिमपि कच्छपविग्रहं त्वां श्रीवेङ्कटेश भजतां न भयं कदाचित् ॥ ५५॥ आनन्दमाशु सदयं ह्यभयं विधेहि रोगं निराकुरु निबर्हय चित्ततापम् । श्रीवेङ्कटाचलपते शरणं त्वमेव देह्यन्नमीश परिपोप्ययुताय मह्यम् ॥ ५६॥ श्रीवेङ्कटाचलपते शरणागतैक- संरक्षणव्रत समस्तसुखैकधामन् । सच्चिन्मयाद्वय सनातन सर्वसाक्षिन् सर्वेश्वरस्त्वमसि मां परिपाहि विष्णो ॥ ५७॥ नाथोऽसि मामककुलस्य रमासनाथ श्रीवेङ्कटेश भगवन् मम च प्रभुस्त्वम् । क्षेमङ्करेण वरदेन तथाभयेन मां पालयस्यनिशमीश करेण विष्णो ॥ ५८॥ उत्पाद्य मामुदितबोधलवं च कृत्वा संवर्ध्य लौकिक सुखैरपि कैश्चिदीश । श्रीवेङ्कटाचलपते तव भक्तमेनं नित्यं घिनोषि निजसद्गुणचिन्तनेन ॥ ५९॥ श्रीवेङ्कटेश्वर शिवङ्कर भूसुराणां श्रीशेष शैलनिलयाश्रितकल्पशाखिन् । श्रेयो विधेहि भगवन् भवदीयपाद- कैङ्कर्यलक्षणमनन्तसुखानुभूति ॥ ६०॥ नामाक्षराणि भगवन् भवतः प्रकामं कामारिमुख्यसुरपुङ्गवसेवितानि । तन्वन्तु सन्ततमनन्यगतेरमुष्य भर्तव्यवर्गभरणार्थमनीषितानि ॥ ६१॥ श्रीवेङ्कटाचलपतौ जगतां शरण्ये जीवेश्वरे जगति कः कलिदोषसङ्गः । पापप्रसक्तिरपि नास्त्यखिलाघहन्तृ- तत्पादसेवकजनस्य न कष्टलेशः ॥ ६२॥ श्रीवेङ्कटेश्वरविभोश्चरणारविन्दं चक्राङ्कुशध्वजसरोरुहमत्स्यचिह्नम् । नित्यं भजामि निरुपाधिकसौख्यदायि निर्निद्रमस्य जगतः परिरक्षणादौ ॥ ६३॥ सर्वापदुद्धरणदीक्षितमस्मदीय- सौभाग्यपुञ्जसफलीकरणप्रभावम् । श्रीवेङ्कटेशचरणं शिरसा भजामि श्रीकण्ठपूर्वकसुरेश्वरसेव्यमानम् ॥ ६४॥ सानन्दमर्थिजनसार्थकतापहं नः सौलभ्यमूलमरविन्दविजेतृकान्ति । श्रीवेङ्कटेश्वरपदं शरणं प्रपद्ये श्रीमन्महाजनमनःसदनैकवासम् ॥ ६५॥ आनृण्यमावहति दुःखमपाकरोति चिन्तां निरस्यति सुखं जनयत्यजस्रम् । दूरीकरोति दुरितं शमयेच्च रोग- मिष्टं ददाति फणिशैलपतेः स्मृतिर्नः ॥ ६६॥ दृष्ट्वोत्तमर्णलिखिताक्षरपङ्क्तिमन्त- र्मानच्युतिव्यसनकम्पितचेतसो मे । चित्तं सुखीकुरु चिरन्तनसूक्तिगम्य श्रीवेङ्कटेश भगवन्नभयं विधेहि ॥ ६७॥ स्वामिन् मया तव गुणानविचिन्त्य लोक- संरक्षणैकनिपुणाञ्जगतः शरण्ये । आरोप्य दोषशतमस्म्यघभाजनं मा- मेनं त्वदेकमनसं परिपाहि विष्णो ॥ ६८॥ सर्वोत्तमस्त्वमसि तावक चित्रलीलाः पुण्या न वेद्मि सरहस्यमतस्त्वयीशे । श्रीवेङ्कटेश भगवन्नपकर्षमन्यै- रुक्तं शिवादहमवोचमिदं क्षमस्व ॥ ६९॥ रुद्रस्त्वमेव खलु रुद्रमथाधिकं मे त्वत्तो न वक्तुरपराधलवोऽपि विष्णो । सर्वात्मकस्य न किमस्त्यपकृष्टता ते यद्यस्ति तथ्यवचसोऽस्तु न मेऽपराधः ॥ ७०॥ सच्चासि वेदवचसा भगवंस्त्वमेव त्वच्छासि सर्वमसि केवलमेक आत्मा । द्वैतं न चेन्मम कथं वदतोऽपकर्षं मन्तुर्मृषा स यदि मद्गदितं तथैव ॥ ७१॥ विष्णुं शिवाधिक्रमथानधिकं ततोऽपि न्यूनं गुणैर्विकृतिभागिनमब्रुवं यत् । वागाद्यगोचरपदे कथमस्य योगः सोऽयं न चेन्मम कथं दुरितोपभोगः ॥ ७२॥ यत्पारमार्थिकमथेदमखण्डबोधं यद्ब्रह्मविष्णुशिवशक्त्यखिलोपगूढम् । चैतन्यमेव तदहं मयि सर्वमस्ति भातीव मायिकमतोऽस्म्युभयं प्रपन्नः ॥ ७३॥ यद्व्यावहारिकधियापकलानुभूतं द्वैतं मृषा न यदि विष्णुशिवादिभेदः । सिध्येत् तदा हि कतमावधि तारतम्यं दोषाय तद्व्यवहृतेः परतो न किञ्चित् ॥ ७४॥ त्वय्येव नाथ परिकल्प्य समस्तदोषं नाहं बिभेमि भवता परतन्त्रितात्मा । मन्तुस्तवैव यदि तत्फलभागिनो मे स्यादस्तु तात्त्विकमथैक्यमिति ध्रुवं नौ ॥ ७५॥ आनन्दरूपमखिलात्मशरीरलोक- बीजायितप्रकृतिगं परमात्मतत्त्वम् । श्रीवेङ्कटेश्वरमनन्तमचिन्त्यशक्तिं ब्रह्माहमद्वयमजस्रमखण्डमीडेम् ॥ ७६॥ नारायणस्य दशभिः शिवनन्दनस्य स्कन्दस्य षड्भिरखिलैरुदितोंऽशकैर्यः । विश्वावनाय कलिदोषनिवारणाय श्रीवेङ्कटाचलपतिः स जयत्वजस्रम् ॥ ७७॥ श्रीवेङ्कटेश्वरपदाम्बुजभृङ्गसुब्र- ह्मण्याख्ययोगिमुखनिःसृतवैखरी वा । वृत्तैर्वसन्ततिलकैरुपचीयमाना दद्याच्चिराय पठतामखिलेप्सितार्थान् ॥ ७८॥

श्रियः कान्तं शान्तेर्निलयमखिलाम्नायवचसां फलीभूतस्तुत्यं परमपुरुषं चित्सुखमयम् । महोदारं दूरं दुरितनिचयस्योस्सुगुणं शरण्यं सर्वेषां भजति सुकृती वेङ्कटपतिम् ॥ ७९॥ महिम्नस्ते मार्गं मदनजनकानन्दसुगुण प्रभो निर्णेतुं कः प्रभवति यतन्तेऽपि निगमाः । कियन्तः क्वाहं चेदपि मुहुरुपासादितमतिः स्तुतौ त्वत्कारुण्यं मुखरयति मां वेङ्कटपते ॥ ८०॥ इयत्तामेतावानिति तव महिम्नः श्रुतिरहो जगादाघो नेशा वदति हि यतो वाच इति च । कथं वा तत्तादृग्दुरधिगमतत्त्वं भगवतो भवेद् वक्तुं शक्तो नरपशुरयं वेङ्कटपते ॥ ८१॥ लसन्माहेन्द्राश्मच्छविकुलगुरूणां नवनभो- घनश्रीरम्याणां कुवलयदलश्यामलरुचाम् । फणीन्द्रादिस्वामिप्रतिकृतिजुषामस्तु महसां प्रचारो मे दिव्याञ्जनमिव दृगानन्दजनकः ॥ ८२॥ महामोहध्वान्तप्रशमनवरिष्ठार्करुचये महारोगव्यालीविदलनविहङ्गाधिपतये । महापापाम्भोधिग्रसनबडबायै स्पृहयते मुहुर्मच्चेतः श्रीफणिगिरिनिवासाय महसे ॥ ८३॥ मृगेन्द्राणां लीलागमनकुशलत्वप्रदगुरुः सरोजानां लज्जाजनकरुचिरत्वैकशरणम् । स्वभक्तैकश्रेयोवितरणसुरद्रुर्विजयते सरस्वत्या स्तुत्यः स किल चरणो वेङ्कटपतेः ॥ ८४॥ मुनीन्द्राणां चेतोभवनमणिदीपच्छविरियं दरिद्राणां तृप्तिव्यतिकरविधानाक्षयनिधिः । त्रयीसीमन्तिन्याश्चिकुरनिकुरुम्बाभरणम- प्युदारस्ते पादो जयति भगवन् वेङ्कटपते ॥ ८५॥ ययोर्लावण्याब्धौ मुनिजनमनांसि प्रतिकलं सरोजायन्ते श्रीनयनरुचयो वेङ्कटपतेः । झषायन्ते नित्यं सुकृतसुखसंवित्कुशलता- श्चिरं रत्नायन्ते विचरतु च वाङ्नश्चरणयोः ॥ ८६॥ दिशन्ती प्रोल्लासं मुनिजनमयूरप्रविततेः सृजन्ती भक्ताभीप्सितसलिलधाराश्च जगति । रमाविद्युद्रम्या भुजगपतिभूभृन्निवसति- र्घनश्यामा सा मे दुरितभवतापं शमयतु ॥ ८७॥ दिदृक्षासाफल्यं नयनयुगली यास्यति कदा फणिक्ष्माभृन्मौलिप्रथितवसतौ पद्मनयने । द्रुतं दूरीकर्तुं दुरितनिचयं बुद्धिरपि मे बुभुत्सासार्थक्यं चिरतरसमाप्तैश्च सुकृतैः ॥ ८८॥ नमस्कुर्मो नित्यं निखिलसुरकोटीरपटली- मणित्विण्मालाभिर्मुहुरुदितनीराजनविधिम् । फणिक्ष्माभृन्मौलिप्रथितवसतेर्वेङ्कटपतेः पदाम्बोजद्वन्द्वं श्रुतिनुतशताद्वन्द्वविभवम् ॥ ८९॥ स्वयं न्यक्कुर्वन्तौ रुचिरकमलाभां निजरूचा सदा सेव्यौ विष्णो तव हि चरणौ यौ कमलया । सरागौ ध्यातव्यौ मनसि हि विरागैर्नरवरै- र्मदक्ष्णोस्तौ स्यातां भजनविषयौ वेङ्कटपते ॥ ९०॥ तव स्थानं सर्वं जगदखिलचैतन्यवपुषः समस्तस्य स्थानं त्वमसि जगतो वेङ्कटपते । बहिश्चान्तर्व्याप्तं सदमलमनन्तं सुखपदं चिदानन्दाद्वैतं शिवमहमहन्त्वेन कलये ॥ ९१॥ रमानीलाभूमीकलितवरिवस्यौ श्रुतिशिरः- सहस्रस्तोतव्यौ सकलसुरसेव्यौ सुरुचिरौ । तपस्विध्यातव्यावरुणसरसीरुट्प्रतिभटौ प्रपद्ये प्रत्यञ्चौ फणिपतिगिरीशस्य चरणौ ॥ ९२॥ निसर्गप्रेमार्द्रं निरवधिकसौशल्य सुभगं जगज्जन्मस्थेमप्रलयकृतिनिस्तन्द्रमनिशम् । चिदानन्दाकारं तव हृदयमस्मानपि कदा स्मरेद् यद्यद्भक्तान् वद यदि कृपा वेङ्कटपते ॥ ९३॥ त्वमेवास्मद्दैवं तव भजनमस्माकमुचितं वयं त्वत्तो जातास्त्वमपि भरणे नः पतिरपि । त्वमस्माकं शास्ता गतिरपि च चैतन्यमखिलं त्वदन्यो नास्त्येव त्वमहमहहा वेङ्कटपते ॥ ९४॥ त्वदंशोऽहं यस्मात् त्वमहमखिलाधार भगवन् त्वमात्मा सर्वेषां जगदुदयरक्षादिनिपुणः । चिदानन्दाकारस्त्वमहमुदिताभ्यासविकृति- स्ततस्त्वद्दासं मामव फणिमहीभृन्निवसते ॥ ९५॥ फणीन्द्रः छत्रं ते शयनमपि वाहः खगपति- र्ध्वजो वा चन्द्रार्कौ नयनयुगमब्धिर्गृहमपि । रमाभूमी पत्न्यौ तनुरपि चिदानन्दसुभगा स्वयं धर्मोऽसि त्वं जय जय चिरं वेङ्कटपते ॥ ९६॥ कुमारस्ते वेधाः सकलभुवनोत्पादनपटुः तथानङ्गः कामप्रभुरखिलजेता सुमशरः । कलानामीशित्री कल्यति पतिं नः श्रुतिमयी स्नुषा श्लाघ्यं भाग्यं फणिगिरिपते तावक मिह ॥ ९७॥ तवाकारः संवित्सुखमयशरीरस्य सुभगो दृशां योगिध्येयः श्रुतिशिखरगानां हि विषयः । कथं वा मद्दृष्ट्योः सुमशरसहस्राधिकरुचि- र्विना पुण्यं लक्ष्यः प्रभवति फणिक्ष्माधरपते ॥ ९८॥ श्रुतिस्त्रीसीमन्तस्फुरदमलमुक्तामणिसरः स्वपादाविर्भूतधुसरिदुरुपूरः किमथवा । फणिक्ष्माभृन्नेतुश्चरणनखराणां धवलिमा वितर्कं मद्बुद्धेरुपदिशति मोहं शमयति ॥ ९९॥ अन्तर्यामी त्वमसि भगवन्नस्य सर्वस्य जन्तोः सर्वं व्याप्नोप्यखिलमहह त्वं पदेनैककेन । विश्वं विष्णो वरद परमस्त्वं ततस्त्वां प्रपद्ये कारुण्याब्धे कलिकलुषितं पाहि मां वेङ्कटेश ॥ १००॥ सुब्रह्मण्यमुखोदितस्तुतिमिमां भक्त्या पठन्तोऽन्वहं ब्रह्मण्यस्य जगद्गुरोर्भगवतः श्रीवेङ्कटेशप्रभोः । देवेशस्य रमापतेः करुणया विष्णोः सुखं भावुकं पुण्यं कीर्तिमनामयं चिरतरायुः प्राप्नुवन्ति ध्रुवम् ॥ १०१॥

लीलामूलं नाथ ते नैव विद्मः काले देशे कर्मयोगे विचित्रम् । दोषैर्जुष्टं दोषहीनं गुणाढ्यं निश्चेतव्यं तत् कथं वेङ्कटेश ॥ १०२॥ वेदैः शास्त्रैर्योगिभिः शिष्टवृन्दैः शस्तं लीलाजालमुक्तं तवैव । दोषैर्हीनं सद्गुणाढ्यं विचित्रं तत् प्रत्येमि श्रीपते वेङ्कटेश ॥ १०३॥ सच्चिन्मात्रं शुद्धमद्वैततत्त्वं ब्रह्मज्योतिर्निर्गुणं त्वं हि विष्णो । मायाध्यासादीश्वरः सद्गुणौघैः पूर्णः साक्षाद् वेङ्कटाद्रीश्वरोऽसि ॥ १०४॥ धर्मात्मानं सत्यसन्धं दयालुं सर्वाधारं सर्वगं सर्ववन्द्यम् । विश्वाकारं विश्ववेद्यं मुकुन्दं विष्णुं साक्षाद् वेङ्कटेशं भजामः ॥ १०५॥ वृत्तीरन्तश्चोदयस्यन्तरात्मन् मातेव त्वं रक्षसि श्रीनिवास । श्रेयः प्राप्तौ तातवत् त्वं नियोक्ष्य- स्यस्मान् विष्णो न त्वदन्योऽस्ति नाथः ॥ १०६॥ दत्त्वा वित्तं दीनलोकाय विष्णो कृत्वा चान्तः प्रेरणं कार्यजाते । ज्ञात्वा तत्तद्बुद्धितस्त्वं फलानि श्रीमच्छेषाद्रीश यच्छस्युदार ॥ १०७॥ जीवञ्जीवं यद्वदिन्दुः करैः स्वैः भास्वान् कोकीकोकयुग्मं यथोस्रैः । तद्वच्छ्रीमान् वेङ्कटेश त्वदक्ष्णो- र्लीलापाङ्गैः पाहि मां सानुरागैः ॥ १०८॥ सद्रूपस्त्वं सत्त्वदातासि विष्णो चिद्रूपत्वाच्चेतनां मे प्रयच्छ । आनन्दस्त्वं शर्म देहीश्वरं त्वां सेवे श्रीशं शेषशैलाधिवासम् ॥ १०९॥ सर्वव्यापि स्वप्रकाशस्वरूपं सत्तामात्रं संविदानन्दपूर्णम् । ब्रह्मैवेदं मायया मूर्तमेकं जीवोपास्यं वेङ्कटेशाभिधानम् ॥ ११०॥ नाहं कर्ता कारयत्यन्तरात्मा विष्णुः शेषाद्रीश्वरो वेदवेद्यः । कर्मानादि प्राकृतं मे निमित्तं भोगप्राप्तौ तत्स्वभावो हि तादृक् ॥ १११॥ देहारामे चित्तवृत्त्याख्यभूमौ सत्सङ्गत्या साधुकृयोचितायाम् । भक्तिश्रद्धाद्यालवाले गुरूक्तं बीजं श्रीमद्वेङ्कटेशस्य मन्त्रः ॥ ११२॥ ध्यानं वृक्षस्याङ्कुरं नित्यपूजा- काण्डो मन्त्रावर्तयो यस्य शाखाः । शेषाद्रीशस्योत्सवादीनि पर्णा- न्यानन्दाख्यं चिद्रसं सत्फलं नः ॥ ११३॥ सुब्रह्मण्यप्रस्तुतः श्रीनिवासः सिद्धान्तार्थः सर्ववेदान्तवाचाम् । स्तोत्रं चैतद् ये पठन्ति प्रभाते पायाद् भक्तान् तानजस्रं दयालुः ॥ ११४॥

श्रीनिवासं भजे मौनिहृन्मन्दिरं वेङ्कटाद्रीश्वरं वेदवेद्यं हरिम् । कामितार्थप्रदं स्वामिनं सर्वदा भूमिदेवप्रियं स्तौमि नौमि स्वयम् ॥ ११५॥ शेषगिरिभूषणमशेषजगदीशं दोषगणशोषणविशेषितमनीषम् । भाषितविशेषकृतसुश्रुतिसमूहं शेषशयनं भज सदा वेङ्कटेशम् ॥ ११६॥ शेषगिरीश्वर शश्वत्कामं शिवमाकल्यान्तर्यमयन् । मामकमीश्वर माधव विष्णो मोहमपाकुरु मे कुरु बोधम् ॥ ११७॥ दीनजनावनदीक्षितमीडे मानदमस्मत्कुलदैवम् । स्वामिनमहिपतिगिरिकृनवसतिं कामितदातारं श्रीशम् ॥ ११८॥ शरणागतजनभरणादरणप्रवरं सद्गुणगणशरणम् । फणिपतिधरणीधरवरभूषणचरणं भज भोऽन्तःकरण ॥ ११९॥ क्षरादतीतोऽक्षरतोऽप्यतीतो विष्णो यतोऽतः पुरुषोत्तमोऽसि । शरीरशायी पुरुषोऽहमस्मि तन्मामहीन्द्राद्रिपते पुनीहि ॥ १२०॥ सत्सङ्गमूलां सुकृतालवालां श्रद्धाङ्कुरां भक्तिरसप्रवृद्धाम् । दयाप्रसूनां श्रितवेङ्कटाद्रिं विज्ञानवल्लीं सुखसत्फलां भजे ॥ १२१॥ निजनामजपप्रवृत्तलोकावनशौण्डेन दयामयेन देव । वरवेङ्कटनाथमूर्तिभाजा भवतास्मन्नयनानि सार्थकानि ॥ १२२॥ सफलीकृतदर्शनार्थिचक्षुस्तव सौन्दर्यमहीन्द्रशैलनाथ । श्रुतिसार्थकतावहं च नाम श्रुतिमौलीशतसंस्तुतं च जीयात् ॥ १२३॥ यावत् क्रियाः कर्तुमशक्नुवानः कुर्वन् यथाशक्ति नरो न दुष्यति । तथा प्रतिज्ञातमथोपवासं मयेति जानीह्युरगाद्रिनाथ ॥ १२४॥ परं परस्मात् पुरुषं पुराणं पद्मेक्षणं चित्सुखसत्यलक्षणम् । श्रीवेङ्कटाद्रीश्वरमाश्रयामश्चिरन्तनं योगिजनात्तचिन्तनम् ॥ १२५॥ वेङ्कटपतिपदपङ्कजभक्तः सङ्कटमुक्तः सत्यनियुक्तः । सर्वजनोत्तमतां समुपैति स्वामी भूमेर्भविता धन्यः ॥ १२६॥ स्वामिन् वेङ्कटरमण श्रीमन् कामितदानधुरीण विभो । मामतिदीनं पालय दयया स्तौमि तवाङ् घ्रिद्वयमेव ॥ १२७॥ सेवे शेषाद्रीशं भक्त्या दोषातीतं तोषं प्राप्तुम् । श्रीभूमीशं श्रीदं नृणां साभिप्रायाम्नायैर्गम्यम् ॥ १२८॥ साक्षाद् विष्णुं लक्ष्मीकान्तं प्रेक्षालक्ष्यं मोक्षाधीशम् । पक्षीड्वाहं रक्षाधुर्यं द्रक्ष्याम्येकं कुक्षौ यन्मे ॥ १२९॥ क्षेत्रं श्रीवेङ्कटाद्रिः श्रिततरुदृषदो घातवो देवरूपा- स्तत्त्वानि प्राणिनः स्युस्तनुकरणगता देवता देवताश्च विप्राद्या भोजनाद्यं प्रतिदिननियतं पूजनं वेङ्कटेशः क्षेत्रज्ञस्तत्र चैतन्यमखिलपरिपूर्णं परं ब्रह्म सत्यम् ॥ १३०॥ त्वन्नाम स्मरतामघौघशमनं त्वद्भक्तिभाजां सदा योगक्षेमसमृद्धिरीप्सितफलप्राप्तिर्निरायासतः । त्वत्सेवाधिगतात्मबोधकगुरुश्रीपादुकार्चावतां ब्रह्मप्राप्तिरपि प्रसिद्धमखिलं श्रीवेङ्कटाद्रीश्वर ॥ १३१॥ सुरक्षितश्चास्मि तवाश्रयादहं जगत्प्रभो दीनशरण्य विष्णो । पाल्यस्त्वयेतश्च सदैव सादरं त्राता न चान्यो मम वेङ्कटेश ॥ १३२॥ दूरं दुरापं च दुरात्मनां हरिं पारे गिरां स्वानुभवैकलभ्यम् । हिरण्यगर्भाद्यमरार्चिताङ्घ्रि वरं श्रियः शेषगिरौ श्रयामः ॥ १३३॥ उरगपतिशिखरिशिखराकलिनवसतिं चरणनतजनसुहिनकरणचणकरुणम् । वरदमुरुसुगुणगणपरिकलितदिव्या- भरणमतसीसुमसमानरुचिमीडे ॥ १३४॥ चिदानन्दरूपं सदात्मस्वरूपं निराकारमाद्यं पराकारवेद्यम् । जगद्वक्षबीजं समं देवभाजं भवाधिप्रणाशं भजे वेङ्कटेशम् ॥ १३५॥ त्रयीचोरहन्ता महीध्रस्य धर्ता महीगोलभर्ता महादैत्यभेत्ता । बलेर्भूमिहर्ता नृपत्रातकर्ता दशग्रीवहन्ता हरिवेङ्कटेशः ॥ १३६॥ कलिन्दात्मजाखेलनः कंसहन्ता कलौ दैत्यसङ्घस्य सम्मोहकर्ता । कुराजव्रजध्वंसनः कोऽपि कल्की हरिवेङ्कटेशो हरत्वस्मदार्तिम् ॥ १३७॥ अनाथस्य नाथस्त्वमेवासि विष्णो सनाथस्त्वयाहं न मेऽन्योऽस्ति नाथः । अथानृण्यमारोग्यमायुः सुखं मे त्वमेव प्रयच्छ प्रभो वेङ्कटेश ॥ १३८॥ मनो मे समाधत्स्व मां पाहि विष्णो महाक्रोधजुष्टं महामोहदुष्टम् । मुहुर्मीनकेतुप्रभावापकृष्टं निकृष्टस्वभावं भवद्भक्तमीश ॥ १३९॥ ममारोग्यमायुष्यमानृण्यमर्थं यशः पुण्यमानन्दमीश प्रयच्छ । प्रपन्नार्तिहारिन् प्रभो वेङ्कटेश प्रसीद त्वदेकावलम्बस्य विष्णो ॥ १४०॥ विष्णो मामव विस्मृतिशीलं विश्वव्यापक मां पाहि । वेङ्कटनायक वेत्सि समस्तं वेत्तृत्वं मे देहि विभो ॥ १४१॥ वराभयदरारिभृत्करसरोजमाराधये पुरान्तकसुराधिपद्विरदवक्त्रपूर्वार्चितम् । गिरामतितरामुरःसरवरात्मके सर्वदा विराजदुरुविग्रहं वरदमर्थिनां श्रीपतिम् ॥ १४२॥ कृपारसकरम्बितान् कमलसुन्दरानिन्दिरा- कपोल परिचुम्बिनः कलुषहारिणः काङ्क्षये । कलौ कुशलदायिनः कलित भोगिराड्भूधरान् कटाक्षसुभगोदयान् परमपूरुषस्यान्वहम् ॥ १४३॥ श्रीमद्वेङ्कटनायक भगवन् कामितदानधुरीण विभो । चामीकरनिभचेलविराजित भूमीवव मामव सदयम् ॥ १४४॥ पन्नगरराजमहीधरमस्तकसन्निहिताविर्भावस्य । चिन्मयमूर्ति चेतसि कलयन् तन्मयतामाप्नोति नरः ॥ १४५॥ शेषगिरीन्द्रं श्रितवति देवे दोषविहीने दुरितारौ । सर्वार्थेशे साक्षिणि भगवति सर्वस्वं ते कुरु चेतः ॥ १४६॥ घटादेः कुलालः पटादेः कुविन्दो गृहादेश्च कारुर्यथा लोकदृष्टः । प्रपञ्चस्य कर्ता तथा वेददृष्ट- स्त्वमेवासि विष्णो फणीन्द्राद्रिवासिन् ॥ १४७॥ यथा स्वाप्निकस्य प्रपञ्चस्य कर्ता शरीराभिमानी श्रुतस्तैजसात्मा । तथा जाग्रतोऽपि त्वमेवासि विश्व- स्त्वदन्योऽस्ति को वा हरे वेङ्कटेश ॥ १४८॥ न मे किञ्चिदस्ति त्वदीयं हरे स्वं स्वतन्त्रस्त्वमेवाहमस्मि त्वदीयः । अतश्चास्वतन्त्रत्वतः किं नु कुर्यां त्वदीयां सपर्या कथं वेङ्कटेश ॥ १४९॥ कलौ वेङ्कटेशात् परं नास्ति दैवं यतस्तस्य भक्ता जयन्ति प्रकामम् । न तेषां पराभूतिरात्माखिलानां तमीशं भजामो हरिं श्रीनिवासम् ॥ १५०॥ भजे वेङ्कटेशं भवभ्रान्तिनाशं सुराणामधीशं सुपुण्योपदेशम् । विहङ्गेशवाहं विनिर्मुक्तमोहं चिदेकप्रवाहं मुदे यामि सोऽहम् ॥ १५१॥ कलौ युगे वेङ्कटनायकस्य कल्याणमूर्तेः कमलाश्रयस्य । नामस्मृतिः सर्वरुजापहन्त्री स एव देवो भिषजां भिषक्तमः ॥ १५२॥ श्रीवेङ्कटेशं स्मरतां न रोगः श्रीवेङ्कटेशं भजतां न दुःखम् । श्रीवेङ्कटेशं नमतां न भीतिः श्रीवेङ्कटेशं विदुषां न चिन्ता ॥ १५३॥ श्रीनिवास जगतां निवास ते मानवाकृतिमिवाश्रितं वपुः । दीनरक्षणविधानदीक्षितं ध्यानगोचरमिहास्तु मे सदा ॥ १५४॥ श्रियः कटाक्षैरभिषिक्तमूर्तिं पयःपयोधौ वटपत्रशायिनम् । विभावये वेङ्कटशैलमस्तके विभ्राजमानं हरिनीलभासा ॥ १५५॥ श्रियः सहायं श्रितकल्पभूजं शेषाद्रिगं दोषविवर्जितं हरिम् । समस्तलोकैकशरण्यमच्युतं सुखैकतानं शरणं भजामः ॥ १५६॥ श्रीशेषशैलं श्रितकल्पसालं श्रीवेङ्कटाख्यं श्रुतपुण्यमुख्यम् । वन्दे हरिर्यत्र वसत्यजस्रं वन्दारवो यस्य सुराः सहस्रम् ॥ १५७॥ त्रयीमयी यस्य हि पुण्यमूर्तिस्त्रयन्तकूटोऽवतु वेङ्कटो नः । यत्रैव नित्यं रमते रमेशो धात्रादिभिर्देवगणैरुपास्यः ॥ १५८॥ सुरालयादेष सुवर्णशैलात् कैलासतो वापि हिमालयाद्वा । विन्ध्यात् पुनर्मन्दरतोऽपि रम्यः श्रीवेङ्कटार्विरदश्च पुण्यः ॥ १५९॥ यत्रोदकं विष्णुपदानुषङ्गाद् गङ्गाम्भसोऽप्युत्तमतीर्थमाहुः । पुराणवाक्यानि स वेङ्कटाद्रिः पुनातु पुष्यः कलिकालिकान्नः ॥ १६०॥ यदाश्रितानामनघत्वसिद्धिर्यत्रत्यतीर्थाम्बुनिषेवणेन । ऐरम्मदीयामृतलभ्यलाभः स वेङ्कटाद्रिः सुलभो ममास्तु ॥ १६१॥ भानुप्रभामण्डलभासुराणि भास्वन्ति कार्तस्वरकान्तितोऽपि । ज्योतींषि शेषाचलश‍ृङ्गभाञ्जि ज्वरं हरन्त्वीक्षणमात्रतो नः ॥ १६२॥ घनाश्रयत्वाद् घनसारशीतः प्रवाति वातः प्रचुरो हि यत्र । तत्रैव वासोऽस्तु निरन्तरं मे श्रीवेङ्कटाद्रौ श्रिततापहारिणि ॥ १६३॥ यत्रोपला दैवतमूर्तिकल्पाः कल्पद्रुकल्पास्तरवोऽप्यनल्पाः । सुपुष्कलं पुष्करिणीजलं च नः सार्थतीर्थोऽस्तु स वेङ्कटाद्रिः ॥ १६४॥ अधित्यकायाममराधिवासप्रसाधितायां पुरुषोत्तमस्य । विराजते यत्र विहारभूमिः स वेङ्कटोऽद्रिः शरणं ममास्तु ॥ १६५॥ गुहाशये यत्र हरिर्विराजते गजेन्द्रसन्तोषकरः सुशान्तः । नान्यत्र तस्मादविरोधयुक्तः श्रीवेङ्काटाद्रिं शरणं भजामः ॥ १६६॥ महर्षिसेव्यं मनुजैरुपास्यं मुकुन्दमुख्यैरमरैरधिष्ठितम् । मूलं महिम्नो महसां निन्दानं महाफणीन्द्रादिमहं भजामि ॥ १६७॥ विहारभूमिर्वनमालिनोऽयं विलासहेतुः कमलाधिनेतुः । विवेकिनां वेङ्कटनामकोऽद्रिर्वेदात्मकत्वं विवृणोति हि स्वम् ॥ १६८॥ श्रीस्वामिनः पुष्करिणीतटस्थमश्वत्थरूपं प्रणमामि देवम् । यत्सन्निधौ भक्तजनस्य नित्यं भवन्ति कर्माणि शुभप्रदानि ॥ १६९॥ भूतानि भेतालपिशाचयक्षप्रेतानि शेषाद्रिनृसिंहतीर्थे । यः स्नाति तद्देहमपास्य मुक्तिं प्रयान्ति रक्षांसि च तत्क्षणेन ॥ १७०॥ गोविप्रनारीशिशुसर्पहत्यानास्तिक्यतत्कार्यभवान्यघानि श्रीवेङ्कटाद्रौ कपिलस्य तीर्थं निषेव्य नश्यन्ति नरस्य तत्क्षणात् ॥ १७१॥ तच्चक्रतीर्थं स्मृतिमात्रतो यद् रुग्णस्य रोगार्तिमपाकरोति । तीर्थं च शङ्खस्य सुखाय यत्र स वेङ्कटाद्रिः सुखयत्विहास्मान् ॥ १७२॥ यत्पुष्करिण्यामवगाह्य मर्त्यः पापानि सर्वाणि विधूय सद्यः । योम्यो भवेद् वेङ्कटनाथमीक्षितुं स वेङ्कटाद्रिः शरणं ममास्तु ॥ १७३॥ यदीयसोपानमुपारुरुक्षोर्भवेन्मुमुक्षोरिव भूमिकाप्तिः । विश्रामभूमिश्च मरुत्पथस्थं श्रीगोपुरं नः स पुनातु वेङ्कटः ॥ १७४॥ अधित्यकायामरविन्दनाभश्रीमूर्तिनित्योत्सवयोग्यरूपं वेदान्तवाक्यार्थमयं विमानं विराजते यस्य स वेङ्कटाद्रिः ॥ १७५॥ दैनन्दिना वारविशेषलक्ष्याः पक्षोदिता मासगताश्च वार्षिकाः । महोत्सवा यत्र हरेरनर्गलाः भवन्ति तं वेङ्कटशैलमाश्रये ॥ १७६॥ समस्त देशागतभक्तसङ्घैः करार्पणद्रव्यसमर्पणाय । यः प्रत्यहं पूर्णतनुस्तमद्रिं श्रीवेङ्कटाख्यं शरणं भजामः ॥ १७७॥ उपासकार्थार्पणयोग्यरूपं कटाहयुग्मं पुरतः श्रियः पतेः । निरन्तरं नाणकनाददन्तुरं प्रकाशते यत्र स वेङ्कटाद्रिः ॥ १७८॥ सुराः परं भूसुररूपमेत्य ब्रह्मोत्सवे यत्र हरिं दिदृक्षवः । प्रत्यक्षमेष्यन्ति कलौ तमाश्रये श्रियः पतेरायतनं गिरीन्द्रम् ॥ १७९॥ कलौ युगे कामरतस्य जन्तोर्भक्तस्य सङ्कल्पितसाधनाय । दया बभूवेशितुरञ्जनाद्रौ सा मूर्तिमत्यस्मदभीष्टदा स्यात् ॥ १८०॥ भद्रात्मने भद्रकराय देहिनां गरुत्मदुद्यद्रथकेतनाय । वरप्रदायाञ्जनशैलगाय तेजस्विने श्रीपतये नमोऽस्तु ॥ १८१॥ तवेङ्गितं वेत्तुमिहाखिलेश प्रकल्पते कः फणिशैलमौलेः । तटे निषण्णस्य रमाधिनेतुः स्वशक्तिलेशेन जगन्ति शासतः ॥ १८२॥ श्रियःपते जोवगणस्य देहं ज्ञानं च तत्साधनसाध्यभोग्यान् । प्रादाः पुरा त्वं कृपया ममापि त्वमेव नाथः परिपाहि मां त्वम् ॥ १८३॥ अद्याशनं देहि जगन्निवास त्वदेकनाथाय च वेङ्कटेश । दासाय मह्यं मुहुरर्थिने त्वां स्मृत्वाप्नुवन्तीप्सितमेव सन्तः ॥ १८४॥ इन्दिन्दिरेन्दीवरमेचकेन वृन्दारकेन्द्रार्चितपादुकेन । चन्द्रद्युतिद्योतिदरस्मितेन श्रीवेङ्कटेशेन वयं सनाथाः ॥ १८५॥ यच्चिन्तितं दुष्कृतमेव चेतसा पापं मयोक्तं वचसा च यत् कृतम् । कायेन तत् सर्वमघं क्षमस्व श्रीवेङ्कटेशाश्रितरक्षक त्वम् ॥ १८६॥ अनन्तकल्याणगुणाकरस्य शेषाचलेशस्य पदाब्जभक्तिः । अनन्तकल्याणसुखं तनोति जन्तोरशेषस्य जगत्त्रयेऽस्मिन् ॥ १८७॥ श्रियःपते वेङ्कटनायकश्च कलौ युगे त्वं वरदोऽसि नॄणाम् । अस्मत्कुलाधीश्वरमीप्सिताप्त्यै सर्वेश्वरं त्वां शरणं भजामः ॥ १८८॥ धनं नमत्सर्वसुखैकमूलं धनाय सर्वेऽपि सदा यतन्ते । धनं प्रयच्छ प्रियमद्य मह्यं धनेश्वरस्त्वं खलु वेङ्कटेश ॥ १८९॥ सच्चित्सुखाखण्डरसैकरूपं साक्षात् परब्रह्म गिरां दुरापम् । श्रीवेङ्कटेशं श्रितदुःखनाशं श्रियः पतिं मद्गतिमाश्रयामः ॥ १९०॥ मङ्गाम्बिकाजानिरमन्दबोधमाहात्म्यसम्पत्सुखशक्तिरूपः । महीन्दिराभ्यां परिसेव्यमानः श्रीवेङ्कटेशो मुदमातनोतु ॥ १९१॥ सत्योद्भवां संविदुदारकाण्डां सत्कर्मपुष्पां सुकृतप्रवालाम् । आनन्दपूर्णामृतसत्फलाढ्यां शेषाचले कल्पलतां भजामः ॥ १९२॥ जीवा न जीवन्ति बिना भवन्तं लोकैक सञ्जीवन जीवसान्ज्ञम् । स्वाधीनमायं परमेश्वरं च श्रीवेङ्कटाद्रीश निरस्तमाय ॥ १९३॥ सच्चित्सुखाखण्डमयात्ममूर्ते सर्वज्ञ सर्वेश्वर दिव्यशक्ते । लक्ष्मीपते वेङ्कटशैलनाथ विलोक्यास्मान् सदयैरपाङ्गैः ॥ १९४॥ अनन्तकल्याणगुणैकधामा समाञ्चिताचिन्त्यविचित्रभूमा । पारम्यसीमान्वितसत्यभामा शेषाचले काचन कोऽपि भाति ॥ १९५॥ समानशून्योऽप्यधिकेन हीनो रमासनाथो जगतां सहायः । पुमान् पुराणः श्रितवेङ्कटाद्रिर्ममास्तु नित्यं शरणं दयालुः ॥ १९६॥ सर्वात्मनां तुल्यदृगीश्वरस्त्वं स्वामी सहायं कुरुषे पितेव । तथाप्यहोऽप्याश्रितपक्षपाती कुतोऽसि भो वेङ्कटशैलनाथ ॥ १९७॥ फलाभिसन्ध्या त्वशनाद्यभावं तपो भवेन्नानशनं हि किं तु । त्यागः फलस्य त्वयि वेङ्कटेश तपस्तदेवानशनं हि मन्ये ॥ १९८॥ श्रीवेङ्कटेशं श्रितदुःखनाशं कृतावतारं कलितारणाय । मुकुन्दमाद्यं मुनिवृन्दवन्द्यं मध्वादिविध्वंसकमाश्रयामः ॥ १९९॥ श्रियःपते वेङ्कटशैलनाथ सर्वज्ञ सर्वेश्वर सर्वशक्ते । सर्वान्तरात्मन्नरविन्दनेत्र स्वामिन् पदं ते शरणं प्रपद्ये ॥ २००॥ श्रीवेङ्कटेशाह्वयमाश्रयामश्चिन्तामणिं सत्सुखचित्स्वरूपम् । फणीन्द्रशैलस्य फणामणिर्यथा विराजतेऽनर्ष्यगुणः सदा यः ॥ २०१॥ जगत्पतिर्वेङ्कटशैलगम्यः श्रिया धरण्या श्रितसेव्यपादः । जयत्यजस्रं जितदैत्यवर्गो देवस्तुतश्चक्रधरो मुकुन्दः ॥ २०२॥ अकिञ्चनं मां परिपाहि विष्णो निसर्गनिर्व्याजदयासमुद्र । यत्किञ्चिदस्तीह मदीयपुण्यं यदीश तद् वर्धय वेङ्कटेश ॥ २०३॥ त्वमुत्तमर्णोऽप्यघमर्णता मे ततोऽभवत् सर्वमपीह वस्तु । तवैव नो मे किमहं समर्थः कुर्यां विभो वेङ्कटशैलनाथ ॥ २०४॥ दातुं समर्थोऽसि पुमर्थजालं पातुं प्रभुः स्वाश्रितजीवजालम् । मां पाह्यतो वेङ्कटशैलनाथ त्वां पालकं प्रार्थयते न को नु ॥ २०५॥ शेषाद्रिवासी शरणं हरिर्नः केषामसौ यच्छति कामिन्तार्थम् । येषां मनस्तस्य पदारविन्दे तेषां हि नान्येषु तनोति तोषम् ॥ २०६॥ श्रियःपतिर्नः श्रियमातनोतु दहत्वधं वेङ्कटनायको मे । स पातु यः पालयति प्रपञ्चं मामीश्वरः प्रेरयतु प्रकाशे ॥ २०७॥ श्रीवैङ्कटेशस्मृतिचित्सुखाख्यफलोपभोगाप्तमहानुभावः । आयुष्यमारोग्यमुदारभाग्यं ज्ञानं च विष्णोः पदमति धन्यः ॥ २०८॥ श्रीवेङ्कटेशस्मरणौषधं नः समस्तदुःखानि निराकरोति । श्रीवेङ्कटाद्रीश्वरमन्त्रराजस्त्वसद्भयं शामयति प्रकामम् ॥ २०९॥ ब्रह्मोत्सवं शेषगिरीन्द्रनेतुर्निरीक्षते भक्तियुतः पुमान् यः । अंहो निरस्याप्तसमस्तकामः परं पदं वैष्णवमेति सत्यम् ॥ २१०॥ श्रीरङ्गशायी परिचिन्त्य सर्वे चिरं जगद्रक्षणतन्त्रतत्त्वम् । कलौ युगे वेङ्कटशैलनाथः करोति लेकरय च तेन रक्षाम् ॥ २११॥ शेषाद्रिमौलौ शिवलिङ्गमर्चयन् विष्णुत्वमेत्याखिलरक्षणाय । श्रीवेङ्कटेशात्मक आविरासीत् तं देवसेनापतिमाश्रयामः ॥ २१२॥ आगत्य शम्भोरवतारमूर्तिः श्रीवेङ्कटेशस्य कलाभिवृद्धधै । यन्त्रं धनाकर्षणमलिलेख यत्रैव तं शेषगिरीन्द्रमीडे ॥ २१३॥ मङ्गाम्बिकोद्ब्राहकृताधमर्णमात्मानमीशोऽपि समुद्दिधीर्षुः । गृह्णाति भक्तार्पितमर्थमीप्सितं प्रत्यर्पयन् यत्र स वेङ्कटाचलः ॥ २१४॥ अभ्यर्थितैर्व्याधिनिपीडितैर्वा धनार्थिभिर्जीवनकालिभिश्च । भक्त्यर्पितं प्राप्य करं प्रदिष्टं प्रत्यर्पयेद् यत्र हरिः स वेङ्कटः ॥ २१५॥ यन्मौलिगं श्रीपतिदिव्यरूपं यत्रैव सिद्धा बहवस्तपस्विनः । देवांशजा यत्र वसन्ति जन्तवो जयत्यसौ शेषगिरिर्मदीशः ॥ २१६॥ उन्मूलयेद् वाङ्मलमस्य कीर्तनं मूर्तिर्मलं चाक्षुषमुन्मृजेन्नः । स्मृतिर्मलं मानसिकं निहन्याच्छ्रीवेङ्कटाद्रेः किमितोऽधिकं शिवम् ॥ २१७॥ श्रीवेङ्कटेशायतनोदितं हि तीर्थं पिबन्तः शिरसा वहन्ति । श्रीपादरेणुं सततं लभन्ते शनेर्दिने त्वेकुभुजः सुखानि ॥ २१८॥ कलौ युगे पापिनि नास्तिकाढ्ये श्रीवेङ्कटेशाह्वयमस्ति दैवम् । यदास्तिकानां वरदं वरिष्ठं प्रत्यक्षमेतद्धि मयानुभूतम् ॥ २१९॥ सत्यप्रतिज्ञं सफलं हि कुर्यात् तथानृताञ्छिक्षयतीव भीतिम् । उत्पादयेद् भक्तियुतं मुहुस्तं सञ्जीवयेदेष दयालुरीशः ॥ २२०॥ पठन्ति पद्यान्यपि यत्र मूका जानन्ति मूढाः कुणयो लिखन्ति । पश्यन्त्यथान्धा बधिराश्च तद्वच्छृण्वन्त्यो शेषगिरिप्रभावात् ॥ २२१॥ पङ्गुः समारोहति वेङ्कटाद्रिं वन्ध्याश्च हस्ते शिशुमुद्वहन्ति । ददाति दीनोऽपि महाधनानि पापी सुखं याति हरेः प्रसादात् ॥ २२२॥ अशेषदेवांश विशेषवेषं निःशेषितानन्तविकर्मदोषम् । शेषाद्रिभूषायितदिव्यमूर्त्यन्मेषं मुहुश्चिन्तय शेमुषीशम् ॥ २२३॥ श्रीमद्वेङ्कटनायक मामक्कुलदैवतं त्वमेवासि । कामितदानधुरीणः कलौ युगे न त्वदन्योऽस्ति ॥ २२४॥ पद्माल्यासहायं मदीयचेतश्चकोरपूर्णेन्दुम् । मङ्गलमूर्ति वेङ्कटश‍ृङ्गालयमीशमाकये ॥ २२५॥ राकाशशाङ्कवदनं राक्षसमथनं कृपासदनम् । सौन्दर्यविजितमदनं सौगुण्यस्यैकतानहमीडे ॥ २२६॥ श्रीशेषशैलवासी श्रियःपतिर्नः श्रियं दिशतु । स्वाश्रितजनचिन्तामणिरखिलात्मैवाश्रयोऽस्माकम् ॥ २२७॥ अथ मम किञ्चनमधकृतमशक्तमज्ञं त्वमेव मां वेत्सि । सर्वज्ञ सर्वशक्ते सर्वेश्वर, वेङ्कटेश परिपाहि ॥ २२८॥ वेङ्कटनाथो भगवान् वेदस्तुतवैभवो धवोऽस्माकम् । वितरतु विज्ञानि मुहुः प्रतिदिनमक्षीणभोगभाग्यानि ॥ २२९॥ आपन्निवारको नः कोऽपि पुमान् वेङ्कटाद्रिकृतवासः । विजयति देवशिखामणिरोजस्वी रक्षको जगताम् ॥ २३०॥ शेषाद्रिशिखरधामा दोषान् स्पृष्टप्रशस्तगुणभूमा । श्रीवेङ्कटेशनामा श्रियःपतिर्मद्गुरुश्च तन्नामा ॥ २३१॥ योगारूढो भगवान् भोगीन्द्रगिरौ च तिन्त्रिणीमूले । वल्मीकाभिव्यक्तो विराजते वेङ्कटेशाख्यः ॥ २३२॥ अन्वहमभिषिञ्चन्तीं क्षीरं वल्मीकमूर्ध्नि गां विष्णुः । त्रातुं दधौ जिघांसोर्गोपस्य कुठारघातमन्तः स्थम् ॥ २३३॥ कुपितस्य गोजिघांसोः कुठारघातं वहन् मूर्ध्ना । तद्व्रणशामकमौषधमीशः शेषाचले निषन्नस्ति ॥ २३४॥ सुरवरवन्दितचरणं करदायिषु सज्जनेषु सादरणम् । वरवेङ्कटगिरिशरणं परमं ज्योतिः सदास्तु मे शरणम् ॥ २३५॥ पुरुषायास्तु परस्मै पुरातनाय प्रपञ्चलीलाय । पुरुहूतादिभिरमरैः पुरस्कृताय प्रणामोऽयम् ॥ २३६॥ वेङ्कटरमणाय नमः सङ्कटहरणाय सावुशरणाय । राङ्कवसाङ्कवघनसाराङ्कितवपुषे रमाविहारजुषे ॥ २३७॥ वरिवस्ये वेङ्कटगिरिशरणं करुणालुमिन्दिरारमणम् । हरिमखिललोकरक्षणधुरीणमाम्नायमस्तकाभरणम् ॥ २३८॥ वृन्दारकगणवन्दितमिन्दीवरसुन्दरं दरस्मेरम् । वन्दे वेङ्कटभूभृन्मन्दिरमानन्दवल्लरीकन्दम् ॥ २३९॥ अतसीसुमसङ्काशं शतमखमुख्यामरव्रजाधीशम् । कृतदुष्टदनुजनाशं सततं श्रीवेङ्कटेशमहमीडे ॥ २४०॥ पद्मावतीविवाहे पद्मधनर्णं कुबेरतः कृत्वा । पद्मद्वयधनकाङ्क्षी सद्मनि शेषाद्रिगे हरिर्वसति ॥ २४१॥ क्रीत्वा वराहदत्तं क्षेत्रं वित्तेन शेषगिरिमौलौ । प्रणयकुपितेन्दिरायाः प्रसादनार्थी हरिः कलौ वसति ॥ २४२॥ भृगुमुनिपदहतिधूसरभगवत्तनुसङ्गमाक्षिपन्तीव । प्रणयकुपितेन्दिरासीन्मङ्गाम्बा शेषभूभृतो निकटे ॥ २४३॥ आकाशराजतनयामाकाङ्क्षन् वेङ्कटाचले विष्णुः । मृगयामटन्नवाप प्राक् पद्मां प्रणयकोपतद्रूपाम् ॥ २४४॥ वेङ्कटभूधरशिखरप्राङ्गणभुवि तिन्त्रिणीमूले । भक्तावनाय भगवान् व्यक्ताकृतिरस्य वसतिं वल्मीके ॥ २४५॥ शम्पासनाभिचेलं सम्पादितसर्वभक्तसाफल्यम् । तं पालकं त्रिञ्जगतां चम्पसमनासमाश्रये देवम् ॥ २४६॥ अञ्जनगिरिकृतवसतिं रञ्जकमखिलस्य भक्तलोकस्य । कुञ्जरवरदं कलये कञ्जदृशं वेङ्कटेशमिष्टाप्त्यै ॥ २४७॥ का नाम देवतान्या मानावनदीक्षितास्माकम् । दीनानाथशरण्यं ज्ञानानन्दात्मकं हरिं त्यक्त्वा ॥ २४८॥ कलशातपत्रकेतनकुलिशाङ्कुशचक्रपद्मरेखाभिः । विलसत्कराब्जमीडे कुलदैवं वेङ्कटाद्रिकृतवासम् ॥ २४९॥ वस्त्वस्त्यनन्तभूभृन्मस्तकवसतिप्रदर्शिताकारम् । स्वस्त्ययनं साधूनामस्तमिताज्ञानमस्मदाराध्यम् ॥ २५०॥ वेङ्कटमहीघ्रमौलौ व्यक्तं शिवलिङ्गमर्चयन् स्कन्दः । विष्णुत्वमेत्य तत्फलविशेषयोगेन वैष्णवेशोऽभूत् ॥ २५१॥ कलिकालेऽपि कलाभिः कलितः षड्भिः कुमारस्य । कमलापतेश्च दशभिः कल्याणं वेङ्कटेश्वरः कुरुते ॥ २५२॥ वेमिति कलिमलमखिलं कटतीति दहत्यसौ स्कन्दः । वेङ्कटसुब्रह्मण्यं तं वन्दे यत्र वैष्णवं धाम ॥ २५३॥ शिवलिङ्गार्चनसुकृतं भवति हि विष्णुत्वसाधकं जन्तोः । वेङ्कटसुब्रह्मण्यो विष्णुर्भवितैष विष्णुकल्पान्ते ॥ २५४॥ नीलघनरुचिरगात्रं निरुपमविश्वातिशायिचारित्रम् । लक्ष्मीकटाक्षपात्रं लक्ष्यं भक्तैर्महोऽस्ति सुपवित्रम् ॥ २५५॥ वस्त्वस्ति शेपरौले वरदाभयशङ्खचक्रशयशोभि । विश्वामरगणमुख्यं विख्यातं वेङ्कटेशाख्यम् ॥ २५६॥ रमते रमया साकं रमणः सर्वप्रपञ्चस्य । कमलाक्षः शेषाद्रौ शमयन्नंहांसि भक्तानाम् ॥ २५७॥ ॐ तत् सदिति पदैर्यत् सततं निर्दिश्यते परं ब्रह्म । सत्यं तच्चैतन्यं नित्यं श्रीवेङ्कटेशरूपं हि ॥ २५८॥ प्राणिष्वव्याजकृतं वाणीपतिपितरमच्युतमनादिम् । पूर्णशशिवक्त्रमनिशं पूर्णगुणं श्रीनिवासमहमीडे ॥ २५९॥ यद्विषयाज्ञानभवं यत्राध्यस्तं जगन्मिथ्या । यज्ज्ञानेन तदेकं सत्यं वस्त्वस्ति वेङ्कटेशाख्यम् ॥ २६०॥ ब्रह्मैवेश्वरसान्ज्ञं स्वमायया वेङ्कटेशाख्यम् । रक्षत्यात्माविद्याप्रतिबिम्बितजीवकोटिमपि कृपया ॥ २६१॥ अत्र खलु प्रत्यक्षं शेषाद्रौ श्रीनिवासाख्यम् । प्रार्थितदानवरिष्ठं सदयं भक्तेषु सर्वदा दैवम् ॥ २६२॥ मङ्गलदेवी महिषी यत्पुत्रस्ते पितामहो जगतः । आयुधमपि च सुदर्शनमत्यधिकं वेङ्कटेश साम्राज्यम् ॥ २६३॥ विद्याधिदेवता ते स्नुषा त्वदीयान् गुणान् परं स्तौति । वागात्मना त्वमेव स्वात्मानं स्तौषि वेङ्कटाद्रीश ॥ २६४॥ विश्वासरूपिणस्ते वेदास्त्वय्येव नित्यमनुरक्ताः । सारस्वतसर्वस्वं त्वदेकफलकं हि शेषगिरिनाथ ॥ २६५॥ शेषगिरीशं स्तोतुं शेषो नालं सहस्रवदनोऽपि । आजन्मसिद्धजडिमा किमुताहं शुकवदत्र किं वच्मि ॥ २६६॥ नाहं वदामि वचनं वाचयिता वेङ्कटेश्वरो वसति । हृदये सदयः सततं मदागसो नावकाशलेशोऽपि ॥ २६७॥ जय जय निजचिच्छक्तिप्रतिबिम्बितविविधलोकविश्वात्मन् । श्रीवेङ्कटेश भगवञ्छ्रितजनसंरक्षक स्वामिन् ॥ २६८॥ शेषगिरीश्वर तावककल्याणगुणाः कथं नु गण्याः स्युः । यदि शेषिताखिलानां जीवानामप्यशेषाणाम् ॥ २६९॥ वेङ्कटरमणो भगवान् वेत्ति मदीयाघमर्णताखेदम् । वितरति वित्तं कृपया विष्णुर्विख्यातभक्तजीवातुः ॥ २७०॥ भक्तेभ्यस्त्वमभीष्टं भगवन् यदि न दिशसि त्वमीशोऽपि । तावकनिर्व्याजकृपा कां कीर्तिं प्राप्नुयाद् दत्त्वा ॥ २७१॥ विष्णुः परम इति श्रुतिरूचे यत्परेषां ते । दत्त्वा च मां परेभ्यः परमोऽसि त्वं कथं नु तद् भगवन् ॥ २७२॥ कारयसि त्वमृणार्णं तस्य निवृत्तौ धनानि दापयसि । श्रीवेङ्कटेश भगवन्नानृण्यं त्वत्प्रसादिनो भविता ॥ २७३॥ निजतनुवनितात्मजगृहधनमुख्यं यन्ममेति सर्वस्वम् । श्रीवेङ्कटेश भगवंस्तवैव चाहं द्वितीयोऽस्मि ॥ २७४॥ त्वद्भक्तं मन्वानानामस्माकं विवेकविधुराणाम् । त्वन्नामस्मरणवतां मानच्युतिमीक्षसे कथं विष्णो ॥ २७५॥ धनलाभस्यापायं किञ्चित् सन्दर्भ्य कृच्छ्रमघहेतुम् । तत्रापि भयमलाभं किं मे दर्शयसि वेङ्कटाद्रीश ॥ २७६॥ इत्थं करोषि चेदहमधमर्णत्वं कथं निराकुर्याम् । भीतोऽस्म्यभयं याचे त्वामेव श्रीनिवास तद् देहि ॥ २७७॥ वनितात्मजादिनिजजनसहवासं काङ्क्षतः प्रभो यन्मे । आकारयितुं तानिह धनदौर्लभ्यं करोषि किं श्रीश ॥ २७८॥ हर मे मनांसि कर्तुं रयेन यायान्नरोऽद्य शेषाद्रिम् । येन श्रीहरिदर्शननमस्क्रियादौ यथेच्छलाभः स्यात् ॥ २७९॥ श्रीमन्नद्य हि जगतां निवास शेषाद्रिवास गोविन्द । मामतिदीनं कृपया पाहि प्रतिपन्थिशमनमाकलयन् ॥ २८०॥ शशिरविलोचन माधव परमेश्वर ते जगत्पते यदहम् । वेङ्कटरमण श्रीमन् जय विष्णो श्रीनिवास भो भगवन् ॥ २८१॥ पन्नगरागिरिमस्तकमन्दिरवासिप्रपन्नसौभाग्यम् । चिन्मयरूपं तेजश्चित्ते नित्यं चिरन्तनं मेऽस्तु ॥ २८२॥ अन्नमयाद्यावरणैः पञ्चभिरत्यादरोपगूढधनम् । श्रीवेङ्कटेशरत्नं स्वात्माख्यं पूर्णमस्म्यतोऽस्मि धनी ॥ २८३॥ सुखतरमखिलसुखानां ज्ञानानामुत्तमं ज्ञानम् । सत्यानामपि सत्यं स्वं मे वस्त्वस्ति वेङ्कटेशाख्यम् ॥ २८४॥ उप्त्वा बीजं वेङ्कटनाथः संवित्फलानि सन्तनुते । श्रीवेङ्कटाचलपते श्रीमन्तं त्वां भजामि गोविन्दम् ॥ २८५॥ निजभक्तलोकमानससुक्षेत्रेऽत्यर्थसुप्रसादाख्यम् । उप्त्वा बीजं वेङ्कटनाथः संवित्फलानि सन्तनुते ॥ २८६॥ श्रीवेङ्कटाचलपते श्रीमन्तं त्वां भजानि गोविन्दम् । स्वामिन् प्रयच्छ कृपया मह्यमुदारां मनोरथावाप्तिम् ॥ २८७॥ शेषगिरिनाथ तावकचरणयुगालम्बिशेमुषीयोगात् । निःशेषितदोषोऽहं तोषं यास्यामि ते कृपया ॥ २८८॥ श्रोवेङ्कटाचलेश्वर तावकशक्तिः समस्तजीवेषु । आनन्दचिद्धनाख्या स्वानुभवे भाति तामहं कलये ॥ २८९॥ शेषगिरीशपदाम्बुजशेखरितात्माश्रितः सौख्यम् । संवित्सत्तारूपं सौवर्गं याति सर्वदा साक्षात् ॥ २९०॥ करवाणि वेङ्कटेश्वरचरणं शरणं समस्तजीवानाम् । दुरितनिवारणनिपुणं दूरीकृतदुःखमस्मदादरणम् ॥ २९१॥ श्रीवेङ्कटेश भगवन् श्रितजनचिन्तामणे जय श्रीमन् । मां पाहि सत्यभूमन् मुकुन्द विश्वात्मक स्वामिन् ॥ २९२॥ आवासं करुणाया अधिभूमिं सर्वसुगुणततेः । आनन्दबोधमन्दिरमालम्बे वेङ्कटाद्रीशम् ॥ २९३॥ गौरिव वत्सं भगवन् गोविन्द श्रीनिवास मामद्य । तावककरुणामृतरसतरङ्गिणी वेङ्कटेश तर्पयतु ॥ २९४॥ कमनः कमलभवायाः शमनः संसारघोरतापानाम् । दमनो दुरात्मनामपि सुमनः सेव्योऽस्ति वेङ्कटाद्रीशः ॥ २९५॥ वेङ्कटशैलनिवेशे विजयति विश्वावने श्रीशे । भक्तजनानां भद्रं निरुपद्रवमेव भवति निर्निद्रे ॥ २९६॥ वितरसि वित्तं विष्णो वेङ्कटनाथ श्रियः पते मह्यम् । योगक्षेमौ वहसे योगीश्वर मे त्वदाश्रितस्य सदा ॥ २९७॥ विधिमिह विधेरपि त्वां विद्मः श्रीवेङ्कटेश वरदं नः । विज्ञातसर्वतत्त्वं विज्ञानानन्दसत्यभूमानम् ॥ २९८॥ हरिरवतु वेङ्कटाचलशरणः सर्वार्थवर्गनुतचरणः । अस्मानुदारकरुणः कल्याणगुणो रमारमणः ॥ २९९॥ कमलानाथ कटाक्षान् कलयेऽहं कल्पपादपसदृक्षान् । दुर्जन शिक्षणदक्षान् सज्जनसंरक्षणैकदीक्षांश्च ॥ ३००॥ श्रीवेङ्कटाचलपते वेङ्कटमचलं पतिं च त्वाम् । श्रीमन्तमपि पुराणान्याहुस्त्वं विजयसे विराणमूर्तिः ॥ ३०१॥ मन्तुसहस्रं कृतवत्यन्तो मयि पातकस्य नैवास्ति । क्षन्तव्योऽस्मि त्वां श्रीकान्तं सेवे फणाभृदद्रीशम् ॥ ३०२॥ निजचरणाश्रितजनतावननिरतां देवतां भजे काञ्चित् । श्रीवेङ्कटेश्वराख्यां श्रीमन्तो यत्प्रसादिनो मनुजाः ॥ ३०३॥ कलिकलुषतारकं ते कलये कल्याणगुणनिधे भगवन् । श्रीवेङ्कटेश्वरेति च नामामृततुल्यमेव जिह्वायाम् ॥ ३०४॥ कट्वम्ललवणरसमयकरालनरसिंहदुःसहाकार । श्रीवेङ्कटाचलपते क्रोधमयस्त्वं कथं नु सत्सेव्यः ॥ ३०५॥ क्षुत्क्षामं त्वां सेवे क्षुत्क्षामोऽहं ततोऽभवं खिन्नः । सर्वाधारगतात् ते वेङ्कटरमणस्य दुःखिता न कुतः ॥ ३०६॥ लक्ष्मीपतिरिति नामानर्थं तव येन भक्तलोकस्य । दिशसि त्वं भिक्षुकतां तद्वित्तं प्राप्य वेङ्कटाद्रीश ॥ ३०७॥ भक्तजनदत्तवित्तं प्रतिगृह्य न लज्जसे कथं श्रीमन् । दीनेषु तेषु खिद्यत्स्वपि ते न दया फणीन्द्र गिरिराज ॥ ३०८॥ वित्ताशया करं ते दातुं सङ्कल्प्य कञ्चिदथ दत्त्वा । रिक्तस्त्वत्तस्तदृणं खिद्यति लब्ध्वा फणाभृदद्रीश ॥ ३०९॥ तव किल सर्वं वित्तं त्वद्भक्तस्यास्ति किन्नु तद्भिन्नम् । निःस्वः किं वा दद्यात् करदानं वेङ्कटेश कथयस्व ॥ ३१०॥ स्वत्वमथारोप्यात्मन्यभिमानी तत्प्रयुक्तसङ्कल्पैः । क्लिश्यति भक्तस्तद्भ्रमनिवृत्तये वेङ्कटेश तत् कुरुषे ॥ ३११॥ पालयितुमेनमीदृशमसमर्थश्चेज्जगत्पते दीनान् । कथमिह सर्वानवसि श्रीवेङ्कटशैलनाथ किमशक्तः ॥ ३१२॥ भ्राम्यत एव हि जीवान् योनिष्वपि चतुरशीतिलक्षासु । सर्वांस्त्वमेव पालयसीत्याहुर्वेङ्कटेश वेदान्ताः ॥ ३१३॥ पालनशक्तिसमेतस्त्वमिमं दीनं कथं न पालयसे । शक्तेः सङ्कोचो वा त्वं वाप्यलसोऽसि वेङ्कटाद्रीश ॥ ३१४॥ अथवा निर्घृणता ते लौभ्यं दृप्तत्वमनभिमानित्वम् । दोषा एते त्वयि किं सन्ति वद श्रीनिवास किं ब्रूषे ॥ ३१५॥ श्रीमद्वेङ्कटगिरिवरधामानं चित्सुखैकभूमानम् । कामितदानधुरीणं कलये कल्याणकल्पतरुमीशम् ॥ ३१६॥ वन्दे वेङ्कटनायकसुन्दरचरणारविन्दयोर्द्वन्द्वम् । अद्वन्द्वमखिलसंसृतिनिर्द्वन्द्वं द्वन्द्वदुःखपरिहरणम् ॥ ३१७॥ शेषिञ्छेषमहीभृति शेषे त्वमशेषवन्द्यचरणोऽसि पेषय मदीयपापं शोषय दुःखार्णवं च जगदीश ॥ ३१८॥ दक्षिणनयनं विष्णोर्दूरे तमसां निरस्तदुरितं च । आरोग्यदायि कलये वेङ्कटरमणस्य वाञ्छितावाप्यै ॥ ३१९॥ दीनानाथशरण्यं देवं श्रीवेङ्कटेशमहमीडे । दुरिततिमिरौघमिहिरं दूरीकृतदुःखमखिलशुभनिलयम् ॥ ३२०॥ व्याधियालसुपर्णं सुपर्णवाहं च वेङ्कटाद्रीशम् । कलये कमपि रमेशं कलिकलुपहरं कृपापूरम् ॥ ३२१॥ भुङ्क्ते ब्रह्मक्षत्राद्यखिलजगत्कबलमेकमिव देवः । उपदंशीकृतमृत्युः स त्वं श्रीवेङ्कटेश मां पाहि ॥ ३२२॥ आदित्यान्तर्वर्तिज्योतिर्मूर्तिर्हिरण्मयः पुरुषः चक्षुःप्रकाशकस्त्वं जगतश्चक्षुश्च वेङ्कटाद्रीश ॥ ३२३॥ त्वं दहरपुण्डरीके क्षेत्रे क्षेत्रे विभासि सूक्ष्मायाः । दीपशिखाया मध्ये परमात्मा वेङ्कटाद्रीश ॥ ३२४॥ श्रोतव्यस्त्वं श्रोता श्रवणमपि श्रीपते त्वमेवेति । श्रुतिराह वेङ्कटाद्रौ श्रौतार्थं त्वां प्रपद्येऽहम् ॥ ३२५॥ वक्ता वाग् वक्तव्यो वाचयिता वेङ्कटेश्वरो नान्यः । वचसामभूमिरस्य प्रभोर्हि महिमा गतिः स मे देवः ॥ ३२६॥ त्वामप्राप्य वचांसि श्रौतान्यपि यन्निवर्तन्ते । सह मनसा वेङ्कटगिरिनाथ कथं गोचरोऽसि मद्वचसाम् ॥ ३२७॥ दृश्यं द्रष्टा दृष्टिस्त्वमेव यत् सकलजगदधिष्ठानम् । सत्यं चित्सुखरूपं वेङ्कटराट् त्वां कथं नु पश्यामि ॥ ३२८॥ आधिव्याधिनिवारणमापन्नत्राणमार्तिसंहरणम् । वन्दे वेङ्कटरमणं विश्वामरवन्द्यचरणमुरुकरुणम् ॥ ३२९॥ निजचरणभक्तरक्षणनिपुणोऽयं वेङ्कटाद्रिकृतशरणः । नित्यानपायकरुणः कमलारमणः करोतु कल्याणम् ॥ ३३०॥ वरदरचक्राभयकरमरविन्दाक्षं परात्परं वस्तु । करुणैकतानमाश्रितभरणधुरीणं भजे हरिं भक्त्या ॥ ३३१॥ वेङ्कटशैलविहारी वेत्ति नराणां मनोगतं सकलम् । देवः स एव भगवान् भावं सफलीकरोतु मे कृपया ॥ ३३२॥ स्रष्टा जगतां स्रष्टुः पालयिता पालकानां च । हन्तॄणामपि हन्ता हरे त्वमेवासि वेङ्कटाद्रीश ॥ ३३३॥ भगवन् वेङ्कटनाथ त्वदाज्ञया वाति वायुरादित्यः । अम्बरचरो विभाति त्वत्तो मृत्युर्बिभेति धावति च ॥ ३३४॥ वन्दे वेङ्कटनाथं सकलबुधाश्रेयपादपद्मं यम् । आराध्य भक्तिभरिता राजन्ते देवमानिताः काले ॥ ३३५॥ त्वत्पदपङ्कजहंसायितचित्तमिमं जनं कृपाजलधे । मां पाहि सन्ततं त्वं भक्तानां क्षेमदानकृतदीक्ष ॥ ३३६॥ ॐ तत्सदिति यदुक्तं ब्रह्म श्रीवेङ्कटाद्रिगं ध्याये । तस्मात् सर्वोपास्यं सर्वज्ञं सर्वपूर्णमात्मानम् ॥ ३३७॥ श्रीवेङ्कटेशमङ्गलमूर्तिध्यानं जनस्य विमलदृशः । सर्वं श्रीविष्णुमयं भाति चिदानन्दरूपमहमेव ॥ ३३८॥ यमयत्यन्तर्यामी मदन्तरङ्गं यथा यथान्तःस्थः । कलये तथैव कर्ता वेङ्कटगिरिनायको नाहम् ॥ ३३९॥ देहदृशा जातोऽहं जीवदृशा वेङ्कटेशांशः । आत्मदृशैव तु सोऽहं प्रत्यग्ब्रह्माद्वयानन्दः ॥ ३४०॥ श्रीवेङ्कटेशकृपया श्रीमत्स्वखिलेषु भक्तवर्गेषु । कश्चित् तत्त्वं बुद्धवा सत्तामात्रो निरञ्जनो भवति ॥ ३४१॥ अभयममृतं प्रपद्य ब्रह्माकारान्तरङ्गवृत्तिर्यः । निर्द्वन्द्वः सुखसम्पत्सत्तामात्रो भवेद् विष्णुः ॥ ३४२॥ नित्यं शुद्धं बुद्धं शान्तं शिवमव्ययं चिदानन्दम् । पूर्णं ब्रह्माहमहं ब्रह्म श्रीवेङ्कटेशपदलक्ष्यम् ॥ ३४३॥ भावानाद्यज्ञानद्वैतध्वान्तप्रमापणादित्यान् । भगवत्पादकटाक्षान् कलये कल्याणकल्पवृक्षांश्च ॥ ३४४॥ जयति ब्रह्मानावृतचिदखण्डरसं जगद् यत्र । अस्तीव वेङ्कटेश्वरपदलक्ष्ये भाति लीयते तत्र ॥ ३४५॥ वेदान्तसारभूतैस्तत्त्वमसीत्यादिकैर्महावाक्यैः । श्रीमच्छङ्करभगवच्चरणोक्तार्थैः प्रबोधितः सोऽस्मि ॥ ३४६॥ सुब्रह्मण्यमुखोद्गतसिद्धान्तार्थस्तुतिं विष्णोः । पठतां पापनिवृत्तिः फलमभिलषितं भवेत् सत्यम् ॥ ३४७॥ इति सुब्रह्मण्ययोगिविरचिता श्रीतत्त्वार्थसारावलिः समाप्ता । स्तोत्रसमुच्चयः २ (५९) The Tattvdrlliasaravali (59), in 347 verses of different metres, by Subrahmanyayogin is on Lord Venkatesvara on the hills at Tirupati. It refers to certain incidents in the story of the Venkatacalamahatmya to various tirtha-s and places of importance in Tirupati and to the tradition that the God in the shrine of Venkatesvara was originally Subrahmanya. Proofread by Rajesh Thyagarajan
% Text title            : Tattvartha Saravalih
% File name             : tattvArthasArAvaliH.itx
% itxtitle              : tattvArthasArAvaliH (subrahmaNyayogivirachitA)
% engtitle              : tattvArthasArAvaliH
% Category              : vishhnu, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : subrahmaNyayogi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org