त्रैलोक्यविजयं नाम वर्मकवचम्

त्रैलोक्यविजयं नाम वर्मकवचम्

(श्रीकृष्णस्तोत्रम्) ननाम मूर्ध्ना शम्भुं स वृत्तान्तं समुवाच तम् । प्रसन्नः शङ्करस्तस्मै ददौ श्रीकृष्णसन्मनुम् ॥ ११॥ त्रैलोक्यविजयं वर्म तथा स्तोत्रं हरेः शुभम् । त्रैलोक्यविजयस्याऽस्य कवचस्य प्रजापतिः ॥ १२॥ ऋषिश्छन्दश्च गायत्री देवो रासेश्वरः प्रभुः । त्रैलोक्यविजयप्राप्तौ विनियोगः सदा मतः ॥ १३॥ प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा । पायात्कपालं ``कृष्णाय स्वाहा'' पञ्चाक्षरात्मकः ॥ १४॥ कृष्णेति पातु नेत्रे च कृष्णः स्वाहेति तारकम् । हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ १५॥ ॐ गोविन्दाय स्वाहेति नासिकां पातु सर्वदा । गोपालाय नमो गण्डौ पातु मे सर्वतः प्रभो ॥ १६॥ ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम । ॐ कृष्णाय नमः शश्वत्पातु मेऽधरयुग्मकम् ॥ १७॥ ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु । पातु कृष्णाय दन्ताऽधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ १८॥ ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा । रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ १९॥ राधिकेशाय स्वाहेति कण्ठं पातु सदा मम । नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ २०॥ ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम । नमः किशोरवेशाय स्वाहा पृष्ठं सदाऽवतु ॥ २१॥ उदरं पातु मे नित्यं मुकुन्दाय नमः सदा । औं ह्रीं क्लीं कृष्णाय स्वाहा करौ पातु सदा मम ॥ २२॥ ॐ विष्णवे नमो बाहुयुग्मं पातु सदा मम । ॐ ह्रीं भगवते स्वाहा नखरं पातु मे सदा ॥ २३॥ ॐ नमो नारायणाय नखरन्ध्रं सदाऽवतु । औं ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ २४॥ ॐ सर्वेशाय स्वाहेति कपालं पातु मे सदा । ॐ गोपीरमणाय स्वाहा नितम्बं पातु मे सदा ॥ २५॥ ॐ गोपीरमणनाथाय पादौ सदाऽवतु मम । ॐ हीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ २६॥ ॐ केशवाय स्वाहेति मम केशान् सदाऽवतु । नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ २७॥ ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु । ॐ ह्रीं श्रीं राधिकेशाय स्वाहा सर्वं सदाऽवतु ॥ २८॥ परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु । स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥ २९॥ पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु । नैरृत्यां पातु मां कृष्णः प्रतीच्यां पातु मां हरिः ॥ ३०॥ गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः । उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ ३१॥ ऐशान्यां मां सदा पातु वृन्दावनविहारकृत् । वृन्दावनीप्राणनाथः पातु मामूर्ध्वदेशतः ॥ ३२॥ सदैव माधवः पातु बलिहारी बलाधिकः । जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ ३३॥ स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा । सर्वात्मा श्रीकृष्णनारायणो मां पातु सर्वतः ॥ ३४॥ इति त्रैलोक्यविजयं वर्मोक्तं ते महाऽद्भुतम् । कण्ठे वा दक्षिणे बाहौ धारणाद्विजयः सदा ॥ ३५॥ स भवेत् सिद्धकवचो दशलक्षं जपेत्तु यः । दशांशहोमः कर्तव्यो यथेष्टसिद्धिमिच्छता ॥ ३६॥ ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा । सिद्धः स्यात् पञ्चलक्षैस्तु मन्त्रः सप्तदशाक्षरः ॥ ३७॥ अथ स्तोत्रं श‍ृणु दिव्यं सद्यस्तुष्टिकरं परम् । दिव्यं श्रीश्रीकृष्णनारायणस्य वेधसोदितम् ॥ ३८॥ सूक्ष्मतमं चाक्षरेशं निर्गुणं सगुणं हरिम् । निराकारं च साकारं श्रीकृष्णं प्रणमाम्यहम् ॥ ३९॥ सर्वाधारं स्वतन्त्रं च कमनीयं विभुं हरिम् । साक्षिणं कर्मफलदं श्रीकृष्णं प्रणमाम्यहम् ॥ ४०॥ जगज्जन्मादिकर्तारं सच्चिदानन्दमर्थगम् । स्त्रीपुन्नपुंसकात्मानं श्रीकृष्णं प्रणमाम्यहम् ॥ ४१॥ तारकं धारकं सर्वकारणानां तु कारणम् । बीजं विप्रं रविं चन्द्रं श्रीकृष्णं प्रणमाम्यहम् ॥ ४२॥ शङ्करं शेषरूपं च ब्रह्माणं कपिलं मुनिम् । सनत्कुमारं राधेशं श्रीकृष्णं प्रणमाम्यहम् ॥ ४३॥ विष्णुं देवीं मनुं भक्तं वसन्तं मार्गशीर्षकम् । एकादशीं सागरं च श्रीकृष्णं प्रणमाम्यहम् ॥ ४४॥ हिमालयं क्षितिं वृन्दां चन्दनं कल्पपादपम् । धान्यं च पारिजातं च श्रीकृष्णं प्रणमाम्यहम् ॥ ४५॥ ऐरावतं वैनतेयं कामधेनुं तथामृतम् । सुवर्णं च यवं सिंहं श्रीकृष्णं प्रणमाम्यहम् ॥ ४६॥ बृहस्पतिं कुबेरं च वेदमिन्द्रं सरस्वतीम् । अकारं जाह्नवीं मनः श्रीकृष्णं प्रणमाम्यहम् ॥ ४७॥ सुदर्शनं ब्रह्मतेजः कान्तं कालं बलं गुरुम् । मातरं विश्वकर्माणं श्रीकृष्णं प्रणमाम्यहम् ॥ ८८॥ पतिव्रतां पितरं च शालग्रामं सुतं नृपम् । सामवेदं वृषं शैत्यं श्रीकृष्णं प्रणमाम्यहम् ॥ ४९॥ गन्धं शब्दं राजसूयं गायत्रीं पावकं पयः । सुचित्रस्थं स्तुतिं दर्भं श्रीकृष्णं प्रणमाम्यहम् ॥ ५०॥ शान्तिं विभुं मतिं चित्रं श्यामलं गोपिकापतिम् । दिव्यभूषाधरं कान्तं श्रीकृष्णं प्रणमाम्यहम् ॥ ५१॥ विहारिणं च रसिकं राधाकान्तं मनोहरम् । लक्ष्मीशं श्रीकृष्णनारायणं नित्यं नमाम्यहम् ॥ ५२॥ इति स्तोत्रेण त्रैलोक्ये सर्वदा विजयो भवेत् । गच्छ साधय सङ्कुरु प्रतिज्ञान्तं जयस्तव ॥ ५३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४५७-अध्यायान्तर्गतं शिवेन ब्रह्मणे प्रोक्तं त्रैलोक्यविजयं नाम वर्म (कवचम्)तथा श्रीकृष्णस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४५७/११-५३॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 457/11-53.. Proofread by PSA Easwaran
% Text title            : Trailokyavijayam Nama Varma Kavacham
% File name             : trailokyavijayaMnAmavarmakavacham.itx
% itxtitle              : trailokyavijayaMnAmavarmakavacham (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : trailokyavijayaMnAmavarmakavacham
% Category              : vishhnu, vishnu, krishna, lakShmInArAyaNIyasaMhitA, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 457/11-53||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : January 13, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org