श्रीत्रिपुरारिस्तोत्रम्
नमामोऽसुरारेस्सुरारेर्गणाग्र्यं
नमामोऽन्धकारिं मखारिं निजारेः (रिम्) ।
शिरो गाङ्गवारिप्रचारक्षमोऽस्य
नमामः पुरारिम् मुरारेः प्रियं तम् ॥ १॥
मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं
त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि ।
जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं
नमामः पुरारिं मुरारेः प्रियं तम् ॥ २॥
हरेरङ्घ्रितो गाङ्गवारि प्रसूतं
कपर्दे कपर्दे कपर्द्दीचकार ।
अखर्वं च गर्वं हरन् जह्नुजाया
नमामः पुरारिं मुरारेः प्रियं तम् ॥ ३॥
गुरूणां गुरुर्यो मतो नारदेन
उपज्ञोऽपि शिष्यः परः पूरुषस्य ।
तृतीयं गुणं यो नियन्तुं नियन्ता ।
नामः पुरारिं मुरारेः प्रियं तम् ॥ ४॥
समस्तागमा मूलमन्त्राश्च सर्वे
यतः सम्प्रसूता यतः सिद्धिमन्त्राः ।
पुराणार्णमाद्यं दशार्णं जपन्ते
नमामः पुरारिं मुरारेः प्रियं तम् ॥ ५॥
सदाम्नायमाद्यं जगौ नारदाय
विकुण्ठाधिनाथादवाप्यैव पूर्वम् ।
ततः शेषतः शेषधर्मं दधार
नमामः पुरारिं मुरारेः प्रियं तम् ॥ ६॥
कृपातो गतो व्यापिवैकुण्ठभाजां
समीपे ददर्श व्रजेशं रसेशम् ।
ततोऽनुगृहीतोऽखिलैभक्तिवर्यैः
नमामः पुरारिं मुरारेः प्रियं तम् ॥ ७॥
स्थितो यो निदेशाय सिंहासने स्वे
मणिव्रातकीर्णे मुनिव्रातमध्ये ।
उपज्ञो गुरुर्ज्ञानदानाय लोके
नमामः पुरारिं मुरारेः प्रियं तम् ॥ ८॥
व्यासेन कथितं पुण्यं त्रिपुरारेर्महास्तवम् ।
कीर्तयेच्छृणुयाद्यस्तु स मुरारेः प्रियो भवेत् ॥ ९॥
(२९-३७)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे
एकादशोऽध्याये श्रीत्रिपुरारिस्तोत्रं सम्पूर्णम् ।
मुरारिस्तोत्रम्
Proofread by Manish Gavkar