तुरगशतकम्

तुरगशतकम्

चलत्प्रोथप्रान्तं चटुनटदुदग्राग्रचरणं मुहुर्हुङ्काराञ्चन्मुखगलितफेनस्तबकितम् । खलीनाभुग्नास्यं खमिव निगिलन्तं निजजवात् तुषाराद्र्युत्तुङ्गं तुरगवरमारोहति हरिः ॥ १॥ अथ कथमपि सोढुं रङ्गनाथस्य रिङ्खत्- तुरखुरनिपातानक्षमेव क्षमेयम् । अविरलबहुलोद्यन्मांसलोत्तालधूली- पटलकपटतः खं लक्ष्यते धावमाना ॥ २॥ विचरति परिवीथि रङ्गनाथे हयमधिरुह्य खुरक्षतावनीकम् । सपदि वियदवेक्ष्य रेणुसान्द्रं चकितमनोभिरभावि चक्रवाकैः ॥ ३॥ पटुतरखुरकोटिक्षुण्णपृथ्वीतलोद्यत्- प्रसृमरघनरेणुव्याप्तरोदोऽन्तरालम् । हयवरमधिरूढो वीक्षते वक्षसि द्राग् जनकविलयभीतामङ्गनां रङ्गनाथः ॥ ४॥ स्वामिन् रङ्गविभो जगत्त्रयपरित्राणाय बद्धादर ब्रूमः किं भुवनस्वतन्त्र भक्तो लीलाविहारक्रमम् । धाटीकौतुकिनि त्वयि श्रितवति त्वङ्गत्तुरङ्गोत्तमं व्योम क्ष्मातलतां दधाति रजसा क्षुण्णा क्षितिर्व्योऽमताम् ॥ ५॥ त्वद्धाटीपटुघोटनिष्ठुरखुरप्रत्यग्रटङ्कत्रुटत्- पृथ्वीनिर्यदवार्यरेणुपटले द्रागुज्जिहाने दिवम् । स्त्रैणं सर्वसुपर्वणां घटगतं मन्दाकिनीयं पयः कृच्छ्रादच्छयितुं चिराय कतकक्षोदेषु सन्नयति ॥ ६॥ त्वङ्गत्तुङ्गतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डली- धूलीभिर्भुवनोदरं स्थगयति श्रीरङ्गनाथ त्वयि । बाधिर्यं भुजगाधिपः सुरपतिस्त्वान्ध्यं रविः पङ्गुतां मूकत्वं जलधिः प्रयाति भगवन् को न्वेप लीलाक्रमः ॥ ७॥ रङ्गेशे सहसाधितिष्ठति जवं तुङ्गं तुरङ्गोत्तम धूलीपालिषु जृम्भितासु परितोऽप्यन्यत् किमचक्ष्महे । नद्यो बिभ्यति लज्जते वसुमती पद्मा परं खिद्यते शम्भुः कुप्यति च प्रयाति वरुणो वस्तुं च वास्त्वन्तरम् ॥ ८॥ रङ्गेशतुङ्गतुरगोदितरेणुवृन्दै- र्मन्दाकिनीपयसि पङ्किलतां दधाने । तत्सम्भवानि कमलान्यपि पङ्कजाख्यां मन्ये चिराय दधते किल योगरूढाम् ॥ ९॥ पुर्यामद्भुतभोगसीम्नि भवतो रङ्गप्रभो वासिनां देवानामविरूपवैभवगुणैः किञ्चिन्न वीक्षेऽन्तरम् । देवा नैव महीं स्पृशन्ति पुनरित्येको विशेषो यदि त्वद्धाटीतुरगोत्थरेणुनिबिडस्वर्वासिनस्तेऽप्यहो ॥ १०॥ रङ्गेशस्य विहारसीमसु वलज्जङ्घालतुङ्गाश्वराड्- वेगोदग्रखुराग्रचूर्णितधरा धूलीकदम्बेऽम्बरे । सन्ध्याभ्रभ्रमतः सचन्द्रकशिखौ चञ्चत्कलापाञ्चितौ सोत्कण्ठं किल ताण्डवं कलयतो द्राङ्नीलकण्ठौ क्षणम् ॥ ११॥ श्रीरङ्गेशतुरङ्गमस्य महतो घाट्यारभट्युच्चलत्- पादाघातमहाजवार्तिमतुलां प्राप्ता धरामण्डली । आपातालनिपातखातविवरप्रोद्यत्फणिग्रामणी- रत्नश्रेणिरुचां भरैः सरुधिरस्यन्देव सन्दृश्यते ॥ १२॥ हेषाभिर्बधिरीकृतत्रिभुवनं पादाग्रवज्राहति- प्रोड्डीनक्षितिमण्डलं हयवरं देवे समारोहति । अद्योद्ग्रीविकया चिराद् विदधते दिक्कुम्भिकुम्भीनस- ग्रामण्यादिमपोत्रिकूर्मपतयो विश्रान्तितः फूत्कृतिम् ॥ १३॥ आपातालतलादहीश्वरशिरोरत्नांशुनीराजिता- दा विध्यण्डकरण्डभित्तिशिखरादच्छाम्बुसम्प्लावितात् । राकाकाशमयान्यशेषभुवनान्यन्तर्धिनिर्भेदनात् सद्यः कर्तुमना इवाद्य तुरगो निर्याति रङ्गेशितुः ॥ १४॥ रुद्धा दिग्वलभीर्जगत्त्रयमभिव्याप्योर्ध्वमुज्जृम्भिते रङ्गेशस्य तुरङ्गधावनसमुद्भूते रजोमण्डले । आबघ्नन् सनकादयो मुनिगणाः पुस्तान्यदृष्टाक्षरा- ण्याधुन्वन्नुदतिष्ठदात्तकलशः स्वीयां ब्रसीमब्जभूः ॥ १५॥ रंहःसंहृततार्क्ष्यमारुतमनोगर्वेऽश्वरत्ने सुखं स्थित्वा खेलति रङ्गधामनि विभौ क्षोणी समालक्ष्यते । हेषाघोषविशेषजर्झरजरद्ब्रह्माण्डखण्डं जवा- दुच्चैर्घर्तुमुदस्तहस्तयुगलेवोत्तालधूलीमिषात् ॥ १६॥ धाटीमाटी कमाने दृढधरणिहतिप्रौढवाहाधिरूढे रङ्गेन्द्रे सान्द्रसान्द्रं वियति विसृमरापारपांसुच्छटानाम् । सेवाहेवाकदेवावलिबलिनिबिडोदस्तकल्पप्रसून- स्रस्तस्फायत्परागैः क्षणमजनि किलान्योन्यसङ्घर्षयोगः ॥ १७॥ श्रीरङ्गेश्वर तावकाश्वचरणन्यासाहतोर्वीतल- प्रोद्यन्मांसलपांसुबन्धनिबिडं वीक्ष्यान्तरिक्षं क्षणम् । वप्राघातकृताग्रहं नियमयत्यालग्नकुम्भं वल- च्छुण्डामण्डलमङ्कुशेन हि निजं वेतण्डमाखण्डलः ॥ १८॥ रिङ्खत्तुङ्गतुरङ्गवङ्गिवपुषो धाटीषु रङ्गेशितु- र्नीरन्ध्रोद्गतरेणुबन्धनिबिडाभोगे नभःप्राङ्गणे । सर्वस्वर्वनिताविमुक्तसुमनोमाध्वीकजम्बालिते मन्दं वाहयते रथं दिनपतेर्मग्नप्रथिं सारथिः ॥ १९॥ विहृतिपरान्तरङ्गवति रङ्गपतौ भुवने चतुरतुरङ्गचङ्क्रमणमत्र तरङ्गयति । अजनि रसातलं बत रसा तरसा वियद- प्यवनितटीसमस्थितिमटीकत रेणुभरैः ॥ २०॥ धाटीजातकुतूहलाकुलधियः श्रीरङ्गधाम्नः प्रभो- रुद्यद्बन्धुरगन्धसैन्धवखुराघातक्षतैरङ्किता । आक्रन्दाय वसुन्धराद्य नितरामारं कुमारं निजं द्रष्टुं निर्भरपांसुबन्धमिषतो नूनं दिवं धावति ॥ २१॥ चतुरतुरगारूढं त्रैलौक्यमोहनमात्मनो रमणमवनी दृष्ट्वा दृष्ट्वाद्य रङ्गमहीपतिम् । प्रतिकलमपि प्रोद्दामोद्यत्परागभरच्छला- दजनि विपुलानन्दादापूर्यमाणतनूरिव ॥ २२॥ धाटीषु रङ्गपतिना पटु धावितस्य वाहोत्तमस्य खुरजृम्भितधूलिपालिः । रङ्गस्थलीनटनकौतुकिमुक्तिनट्या नेपथ्यकल्पिततिरस्करिणीव भाति ॥ २३॥ अध्यम्भोनिध्यमन्दभ्रमणखगपतिव्याकुलाहीश्वराणि क्षुत्क्षामक्रन्ददाशाकरटिमधुकराण्युत्पिपासापराणि । प्रम्लानाम्भोरुहाणि द्रुतगतितुरगारोहिणो रङ्गभर्तु- र्धाटीकाले जयन्ति क्षितिजनितरजोमण्डलोज्जृम्भितानि ॥ २४॥ आरूढस्तुरगं हरिर्वसुमतीचूर्णीकृतिप्रक्रिया- विक्रान्तं शयनालयस्य सहसाशास्ते शिवं चेतसा । गौष्ठीनस्य महानसस्य विलयत्रस्ते सुराणां गणे गङ्गा प्रार्थयते च कर्णगतयोस्ताटङ्कयोर्मङ्गलम् ॥ २५॥ दिङ्मण्डलीमथ नभश्च सचन्द्रसूर्य हन्त क्षणात् कबलयन्निव रङ्गभर्तुः । धाटीषु सत्वरतुरङ्गरजः समूहः पातुं च सप्तजलधीनुपधावतीव ॥ २६॥ धाटीधावितरङ्गराजतुरगव्याधूतधूलीभरैः सान्द्रे मन्दरुचिः प्रदीपति रविः सौवर्गमार्गान्तरे । किं चोदञ्चितकौतुकं विचरतां वैमानिकानां रथा विद्योतैः क्षणदर्शितैर्विदधते खद्योतलीलायितम् ॥ २७॥ रङ्गेशस्य हि गर्वपर्वतचरत्खर्वेतरार्वाधिप- प्रेङ्खत्तिग्मखुराग्रविष्टधरणीपांसुच्छटाबन्धुरे । दृश्यन्ते गगनाङ्गणेऽद्य परितो नक्षत्रताराग्रहाः प्रत्यग्रप्रविकीर्णतद्धनयशोबीजप्ररोहा इव ॥ २८॥ हरनगरुचिलेशस्तेयमाधाय सोऽयं भुवनमखिलमुच्चैर्भासयन् भ्राम्यतीव । तुरगखुरजधूलीपालिरभ्युज्जिहीते ग्रसितुमिव सरोषं मण्डलं चण्डमानोः ॥ २९॥ आलोक्यते तुरगरेणुकदम्बलक्ष्या त्रैलोक्यमप्यभिविगाह्य विजृम्भमाणा । पादत्रयीमितजगत्त्रयमात्मनाथं प्रायोऽनुकर्तुमभिलाषवतीव पृथ्वी ॥ ३०॥ सन्दृश्यते तुरगवाहनसादरस्य रङ्गेशितुस्तुरगजृम्भितधूलिपालिः । सेवाजुषां भगवतो दययाधिरोढुं सोपानपद्धतिरिव त्रिदिवस्य बद्धा ॥ ३१॥ धाटीषु रङ्गाधिपतेर्धरित्री रजस्वलाभून्मलिनाम्बरा च । मन्ये ततः पांसुकदम्बदम्भान्मन्दाकिनीं स्नातुमभिप्रयाति ॥ ३२॥ तुरगखुरविधूतधूलिपाली निबिडतरा दिवि रङ्गनायकस्य । रविकिरणनिवारणाय पृथ्व्या विधृतमिवोपरि वीक्ष्यते वितानम् ॥ ३३॥ निर्मातुर्जगतां चराचरगुरोर्देवस्य सर्गक्रमे पद्भ्यां भूमिरभूदिति श्रुतिरियं युक्तार्थमाह ध्रुवम् । रङ्गेशस्य तुरङ्गधूलिमिषतः संव्याप्तलोकत्रयी शक्तिं कामपि येन कारणगुणाधीनां व्यनक्ति क्षितिः ॥ ३४॥ लोकासेचनकाकृतेर्भगवतो वीथीषु वीथीषु च क्रीडत्प्रौढतुरङ्गचङ्क्रमकलाचातुर्यमालोकितुम् । आयाते द्युसदां गणे धुतरजोव्यूहौ विधीन्द्रौ परं हंसैरावणपक्षकर्णपवनैः कृच्छ्राद् गतौ सन्निधिम् ॥ ३५॥ कैलासाचलतुङ्गश‍ृङ्गधवलस्वाङ्गं तुरङ्गाधिपं प्रत्यारुह्य सुरूपधेयविभवे रङ्गेश्वरे खेलति । ऊर्ध्वोज्जृम्भितसान्द्ररेणुविहतालोकाश्चिरं मेदिनी- वासाय स्पृहयन्ति वासवमुखा बर्हिर्मुखानां गणाः ॥ ३६॥ दिवि विसृमरशीलैर्देवदेवस्य धाटी- चलितहयरजोभिश्छादिते पद्मबन्धौ । सपदि कृतनिरोधे सङ्कुचन्नाभिपद्मे मुखकमलमपश्यन्मुह्यतीवाब्जयोनिः ॥ ३७॥ रङ्गेशस्य हि घोटवर्तकसमुद्धतस्त्रिलोकाङ्गणा- भोगोल्लङ्घनसाहसीप्रचलितो यः सान्द्रधूलीभरः । तत्सन्दर्शनतर्षहर्षिदिविषद्गन्धर्वविद्याधरा- मन्दानन्दभराश्रुवृष्टिभिरसौ खञ्जोऽजनिष्टाञ्जसा ॥ ३८॥ अव्यासुर्भुवनत्रयीं भगवतो देवस्य रङ्गेशितु- र्लीलातुङ्गतुरङ्गरिङ्खणभवाः पुण्यौः परागोद्भवाः । प्रत्युद्यत्कलिपङ्कहारिकनकक्षोदा विमुक्त्यङ्गना- पिष्टाता भवदुष्टभूतसरयप्रोच्चाटना भूतयः ॥ ३९॥ आभाति रङ्गपतिघोटकफेनपुञ्ज- सञ्च्छन्नतत्खुरपदावलिमेदुरा भूः । क्षौमेण वल्लभसमागमसम्भृतानि संवृण्वतीव कुटिलानि नखक्षतानि ॥ ४०॥ धाटीवेगार्भटीभिर्जितविहगपतिं कल्यपल्याणभूषं वन्दे श्रीरङ्गदेवाद्भुतपदकमलन्यासधन्यं तुरङ्गं सद्यो यद्वेगलेशं कमपि कथयितुं हन्त सोत्कण्ठकण्ठं मूकं वा लोहलं वा मुखरयति नरं कापि साहित्यधाटी ॥ ४१॥ फूत्कुर्वत्फण्यधीशान्यतिचलितमहीभ्रान्त्युदस्ताम्बुधीनि क्रीङ्कुर्वद्दिग्गजान्युद्भटखुरघटनारुग्णताराग्रहाणि । अत्यारब्धोग्रवाक्यस्खलितनिपतिताकीर्णवैमानिकानि श्रीरङ्गेशस्य धाटीचतुरगतुरगक्रीडितान्युल्लसन्ति ॥ ४२॥ धाटीवेगार्भटीभिर्निशितखुरपुटीगर्भनिर्भिन्नपृथ्वी- जृम्भद्गम्भीरधूलीपटलविलुलितार्केन्दुबिम्बे त्वयि द्राक् । त्वामारूढोऽद्य रङ्गो भुवनपरिबृढः सत्वरोदित्वराणा- मक्षीणाक्षिव्यधानां तुरगकुलपतेर्याति देवोऽप्युपज्ञाम् ॥ ४३॥ धाटीसंरम्भसज्जे हरितुरगपतौ मज्जदुन्मज्जदुर्वी- निर्वाहादक्षचक्षुःश्रुतिपतिकृतफूत्कारचण्डानिलेन । तद्भारस्फारघर्षोद्गतचटुलतनूपम्यकूर्माधिराज- श्वासैः पाताललोकेऽजनि पवनभुजामन्धसामाशु वृद्धिः ॥ ४४॥ हेषाघोषैरशेषैः खुरपुटघटितक्ष्मातटीटङ्क्रियाभि- र्बन्धूरस्कन्वभित्तिस्खलितमणिलसत्किङ्किणीक्रेङ्क्रियाभिः । घोरप्रोद्गीर्णघोणाचुरुचुरितरवैः शार्ङ्गिणो भूषशब्दैः शब्दै काद्वैतभाञ्जि व्यतनिषत जगन्त्यश्वरत्नेन शश्वत् ॥ ४५॥ अग्रे श्रीरङ्गभर्तुः प्रचलितजनतोद्धूतधूलीकदम्बैः श्रीमूर्त्यालोकसौख्याननुभवविफलीभूतनेत्रे जनौघे । अश्वं शश्वत् स्ववालानिलघुतरजसं संश्रितस्यास्य पश्चात् सौन्दर्यं वीक्ष्य के चिन्नयनसफलतां मन्वते नन्वतीव ॥ ४६॥ वाहं वाहं हि वाहं निजजवविजितस्यानिलस्याभ्युदेति स्पर्धालोर्मानसस्यात्मज इति च रुचा स्वच्छफेनच्छलेन । श्रीरङ्गेशेन धाटीकुतुकितमनसा धाव्यमानो मुदा द्रा- गर्वागर्वातिगर्वाद् रजनिकरमसौ सर्वतश्चर्वतीव ॥ ४७॥ अच्छैर्माणिक्यगुच्छैः कलितरविमहः खण्डनैर्मण्डनैर्वा घोषैः कल्पान्तपोषैः सहितमतिरजोधूसरैः केसरैश्च । उच्चैराधातुमुच्चैःश्रवसि पदमिवोदग्रनम्राग्रपादं पश्याम्यश्वं विनश्यद्वजिनधनदृशां दृश्यमस्याद्य ॥ ४८॥ नव्यं नव्यं च नव्यं सकलजनदृशां रूपमाबित्रदश्वो हस्ताब्जन्यस्तशक्तिं हरिमपि च वहन् सादिवेषेऽपि रम्यम् । वीथीष्वाधाव्यमानस्तिमितनिजशिरश्चामरश्चामरेड्यो ऽप्यंहः संहारकारी मम भवतु परं रंहसा सिंहसारः ॥ ४९॥ कल्याणाञ्चितनूत्नरत्नकलिकावल्यावभुग्नाननः कल्याङ्गो हरिसङ्गतो जलनिधीन् कुल्या इवोल्लङ्घयन् । कल्यावेगकृतानि सज्जनमनःशल्यानि सद्यो हरन् कल्याणं वितनोतु कल्पितमणीपल्याणरम्यो हयः ॥ ५०॥ इति श्रीकुट्टिकविविरचितं तुरगशतकं अथवा धाटीशतकं सम्पूर्णम् । वाञ्छेश्वर अथवा वाञ्छानाथ अथवा कुट्टिकविविरचितं स्तोत्रसमुच्चयः २ (६०) The Turagashataka (60) also called Dhatishataka is by Vanchesvara (I) or Vanchanatha, popularly known its Kuttikavi. It is actually a eulogy on Lord Ranganatha at Srirangam in perfect Kavya style with fine imagery. The poet describes the Lord mounting on a horse, perhaps during a festival procession. Proofread by Rajesh Thyagarajan
% Text title            : Turaga Shatakam
% File name             : turagashatakam.itx
% itxtitle              : turagashatakam (shrIkuTTikavivirachitaM)
% engtitle              : turagashatakam
% Category              : vishhnu, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : shrIkuTTikaviM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org