तुरगशतकम्
चलत्प्रोथप्रान्तं चटुनटदुदग्राग्रचरणं
मुहुर्हुङ्काराञ्चन्मुखगलितफेनस्तबकितम् ।
खलीनाभुग्नास्यं खमिव निगिलन्तं निजजवात्
तुषाराद्र्युत्तुङ्गं तुरगवरमारोहति हरिः ॥ १॥
अथ कथमपि सोढुं रङ्गनाथस्य रिङ्खत्-
तुरखुरनिपातानक्षमेव क्षमेयम् ।
अविरलबहुलोद्यन्मांसलोत्तालधूली-
पटलकपटतः खं लक्ष्यते धावमाना ॥ २॥
विचरति परिवीथि रङ्गनाथे हयमधिरुह्य खुरक्षतावनीकम् ।
सपदि वियदवेक्ष्य रेणुसान्द्रं चकितमनोभिरभावि चक्रवाकैः ॥ ३॥
पटुतरखुरकोटिक्षुण्णपृथ्वीतलोद्यत्-
प्रसृमरघनरेणुव्याप्तरोदोऽन्तरालम् ।
हयवरमधिरूढो वीक्षते वक्षसि द्राग्
जनकविलयभीतामङ्गनां रङ्गनाथः ॥ ४॥
स्वामिन् रङ्गविभो जगत्त्रयपरित्राणाय बद्धादर
ब्रूमः किं भुवनस्वतन्त्र भक्तो लीलाविहारक्रमम् ।
धाटीकौतुकिनि त्वयि श्रितवति त्वङ्गत्तुरङ्गोत्तमं
व्योम क्ष्मातलतां दधाति रजसा क्षुण्णा क्षितिर्व्योऽमताम् ॥ ५॥
त्वद्धाटीपटुघोटनिष्ठुरखुरप्रत्यग्रटङ्कत्रुटत्-
पृथ्वीनिर्यदवार्यरेणुपटले द्रागुज्जिहाने दिवम् ।
स्त्रैणं सर्वसुपर्वणां घटगतं मन्दाकिनीयं पयः
कृच्छ्रादच्छयितुं चिराय कतकक्षोदेषु सन्नयति ॥ ६॥
त्वङ्गत्तुङ्गतुरङ्गनिष्ठुरखुरक्षुण्णक्षमामण्डली-
धूलीभिर्भुवनोदरं स्थगयति श्रीरङ्गनाथ त्वयि ।
बाधिर्यं भुजगाधिपः सुरपतिस्त्वान्ध्यं रविः पङ्गुतां
मूकत्वं जलधिः प्रयाति भगवन् को न्वेप लीलाक्रमः ॥ ७॥
रङ्गेशे सहसाधितिष्ठति जवं तुङ्गं तुरङ्गोत्तम
धूलीपालिषु जृम्भितासु परितोऽप्यन्यत् किमचक्ष्महे ।
नद्यो बिभ्यति लज्जते वसुमती पद्मा परं खिद्यते
शम्भुः कुप्यति च प्रयाति वरुणो वस्तुं च वास्त्वन्तरम् ॥ ८॥
रङ्गेशतुङ्गतुरगोदितरेणुवृन्दै-
र्मन्दाकिनीपयसि पङ्किलतां दधाने ।
तत्सम्भवानि कमलान्यपि पङ्कजाख्यां
मन्ये चिराय दधते किल योगरूढाम् ॥ ९॥
पुर्यामद्भुतभोगसीम्नि भवतो रङ्गप्रभो वासिनां
देवानामविरूपवैभवगुणैः किञ्चिन्न वीक्षेऽन्तरम् ।
देवा नैव महीं स्पृशन्ति पुनरित्येको विशेषो यदि
त्वद्धाटीतुरगोत्थरेणुनिबिडस्वर्वासिनस्तेऽप्यहो ॥ १०॥
रङ्गेशस्य विहारसीमसु वलज्जङ्घालतुङ्गाश्वराड्-
वेगोदग्रखुराग्रचूर्णितधरा धूलीकदम्बेऽम्बरे ।
सन्ध्याभ्रभ्रमतः सचन्द्रकशिखौ चञ्चत्कलापाञ्चितौ
सोत्कण्ठं किल ताण्डवं कलयतो द्राङ्नीलकण्ठौ क्षणम् ॥ ११॥
श्रीरङ्गेशतुरङ्गमस्य महतो घाट्यारभट्युच्चलत्-
पादाघातमहाजवार्तिमतुलां प्राप्ता धरामण्डली ।
आपातालनिपातखातविवरप्रोद्यत्फणिग्रामणी-
रत्नश्रेणिरुचां भरैः सरुधिरस्यन्देव सन्दृश्यते ॥ १२॥
हेषाभिर्बधिरीकृतत्रिभुवनं पादाग्रवज्राहति-
प्रोड्डीनक्षितिमण्डलं हयवरं देवे समारोहति ।
अद्योद्ग्रीविकया चिराद् विदधते दिक्कुम्भिकुम्भीनस-
ग्रामण्यादिमपोत्रिकूर्मपतयो विश्रान्तितः फूत्कृतिम् ॥ १३॥
आपातालतलादहीश्वरशिरोरत्नांशुनीराजिता-
दा विध्यण्डकरण्डभित्तिशिखरादच्छाम्बुसम्प्लावितात् ।
राकाकाशमयान्यशेषभुवनान्यन्तर्धिनिर्भेदनात्
सद्यः कर्तुमना इवाद्य तुरगो निर्याति रङ्गेशितुः ॥ १४॥
रुद्धा दिग्वलभीर्जगत्त्रयमभिव्याप्योर्ध्वमुज्जृम्भिते
रङ्गेशस्य तुरङ्गधावनसमुद्भूते रजोमण्डले ।
आबघ्नन् सनकादयो मुनिगणाः पुस्तान्यदृष्टाक्षरा-
ण्याधुन्वन्नुदतिष्ठदात्तकलशः स्वीयां ब्रसीमब्जभूः ॥ १५॥
रंहःसंहृततार्क्ष्यमारुतमनोगर्वेऽश्वरत्ने सुखं
स्थित्वा खेलति रङ्गधामनि विभौ क्षोणी समालक्ष्यते ।
हेषाघोषविशेषजर्झरजरद्ब्रह्माण्डखण्डं जवा-
दुच्चैर्घर्तुमुदस्तहस्तयुगलेवोत्तालधूलीमिषात् ॥ १६॥
धाटीमाटी कमाने दृढधरणिहतिप्रौढवाहाधिरूढे
रङ्गेन्द्रे सान्द्रसान्द्रं वियति विसृमरापारपांसुच्छटानाम् ।
सेवाहेवाकदेवावलिबलिनिबिडोदस्तकल्पप्रसून-
स्रस्तस्फायत्परागैः क्षणमजनि किलान्योन्यसङ्घर्षयोगः ॥ १७॥
श्रीरङ्गेश्वर तावकाश्वचरणन्यासाहतोर्वीतल-
प्रोद्यन्मांसलपांसुबन्धनिबिडं वीक्ष्यान्तरिक्षं क्षणम् ।
वप्राघातकृताग्रहं नियमयत्यालग्नकुम्भं वल-
च्छुण्डामण्डलमङ्कुशेन हि निजं वेतण्डमाखण्डलः ॥ १८॥
रिङ्खत्तुङ्गतुरङ्गवङ्गिवपुषो धाटीषु रङ्गेशितु-
र्नीरन्ध्रोद्गतरेणुबन्धनिबिडाभोगे नभःप्राङ्गणे ।
सर्वस्वर्वनिताविमुक्तसुमनोमाध्वीकजम्बालिते
मन्दं वाहयते रथं दिनपतेर्मग्नप्रथिं सारथिः ॥ १९॥
विहृतिपरान्तरङ्गवति रङ्गपतौ भुवने
चतुरतुरङ्गचङ्क्रमणमत्र तरङ्गयति ।
अजनि रसातलं बत रसा तरसा वियद-
प्यवनितटीसमस्थितिमटीकत रेणुभरैः ॥ २०॥
धाटीजातकुतूहलाकुलधियः श्रीरङ्गधाम्नः प्रभो-
रुद्यद्बन्धुरगन्धसैन्धवखुराघातक्षतैरङ्किता ।
आक्रन्दाय वसुन्धराद्य नितरामारं कुमारं निजं
द्रष्टुं निर्भरपांसुबन्धमिषतो नूनं दिवं धावति ॥ २१॥
चतुरतुरगारूढं त्रैलौक्यमोहनमात्मनो
रमणमवनी दृष्ट्वा दृष्ट्वाद्य रङ्गमहीपतिम् ।
प्रतिकलमपि प्रोद्दामोद्यत्परागभरच्छला-
दजनि विपुलानन्दादापूर्यमाणतनूरिव ॥ २२॥
धाटीषु रङ्गपतिना पटु धावितस्य वाहोत्तमस्य खुरजृम्भितधूलिपालिः ।
रङ्गस्थलीनटनकौतुकिमुक्तिनट्या नेपथ्यकल्पिततिरस्करिणीव भाति ॥ २३॥
अध्यम्भोनिध्यमन्दभ्रमणखगपतिव्याकुलाहीश्वराणि
क्षुत्क्षामक्रन्ददाशाकरटिमधुकराण्युत्पिपासापराणि ।
प्रम्लानाम्भोरुहाणि द्रुतगतितुरगारोहिणो रङ्गभर्तु-
र्धाटीकाले जयन्ति क्षितिजनितरजोमण्डलोज्जृम्भितानि ॥ २४॥
आरूढस्तुरगं हरिर्वसुमतीचूर्णीकृतिप्रक्रिया-
विक्रान्तं शयनालयस्य सहसाशास्ते शिवं चेतसा ।
गौष्ठीनस्य महानसस्य विलयत्रस्ते सुराणां गणे
गङ्गा प्रार्थयते च कर्णगतयोस्ताटङ्कयोर्मङ्गलम् ॥ २५॥
दिङ्मण्डलीमथ नभश्च सचन्द्रसूर्य
हन्त क्षणात् कबलयन्निव रङ्गभर्तुः ।
धाटीषु सत्वरतुरङ्गरजः समूहः
पातुं च सप्तजलधीनुपधावतीव ॥ २६॥
धाटीधावितरङ्गराजतुरगव्याधूतधूलीभरैः
सान्द्रे मन्दरुचिः प्रदीपति रविः सौवर्गमार्गान्तरे ।
किं चोदञ्चितकौतुकं विचरतां वैमानिकानां रथा
विद्योतैः क्षणदर्शितैर्विदधते खद्योतलीलायितम् ॥ २७॥
रङ्गेशस्य हि गर्वपर्वतचरत्खर्वेतरार्वाधिप-
प्रेङ्खत्तिग्मखुराग्रविष्टधरणीपांसुच्छटाबन्धुरे ।
दृश्यन्ते गगनाङ्गणेऽद्य परितो नक्षत्रताराग्रहाः
प्रत्यग्रप्रविकीर्णतद्धनयशोबीजप्ररोहा इव ॥ २८॥
हरनगरुचिलेशस्तेयमाधाय सोऽयं
भुवनमखिलमुच्चैर्भासयन् भ्राम्यतीव ।
तुरगखुरजधूलीपालिरभ्युज्जिहीते
ग्रसितुमिव सरोषं मण्डलं चण्डमानोः ॥ २९॥
आलोक्यते तुरगरेणुकदम्बलक्ष्या
त्रैलोक्यमप्यभिविगाह्य विजृम्भमाणा ।
पादत्रयीमितजगत्त्रयमात्मनाथं
प्रायोऽनुकर्तुमभिलाषवतीव पृथ्वी ॥ ३०॥
सन्दृश्यते तुरगवाहनसादरस्य रङ्गेशितुस्तुरगजृम्भितधूलिपालिः ।
सेवाजुषां भगवतो दययाधिरोढुं सोपानपद्धतिरिव त्रिदिवस्य बद्धा ॥ ३१॥
धाटीषु रङ्गाधिपतेर्धरित्री रजस्वलाभून्मलिनाम्बरा च ।
मन्ये ततः पांसुकदम्बदम्भान्मन्दाकिनीं स्नातुमभिप्रयाति ॥ ३२॥
तुरगखुरविधूतधूलिपाली निबिडतरा दिवि रङ्गनायकस्य ।
रविकिरणनिवारणाय पृथ्व्या विधृतमिवोपरि वीक्ष्यते वितानम् ॥ ३३॥
निर्मातुर्जगतां चराचरगुरोर्देवस्य सर्गक्रमे
पद्भ्यां भूमिरभूदिति श्रुतिरियं युक्तार्थमाह ध्रुवम् ।
रङ्गेशस्य तुरङ्गधूलिमिषतः संव्याप्तलोकत्रयी
शक्तिं कामपि येन कारणगुणाधीनां व्यनक्ति क्षितिः ॥ ३४॥
लोकासेचनकाकृतेर्भगवतो वीथीषु वीथीषु च
क्रीडत्प्रौढतुरङ्गचङ्क्रमकलाचातुर्यमालोकितुम् ।
आयाते द्युसदां गणे धुतरजोव्यूहौ विधीन्द्रौ परं
हंसैरावणपक्षकर्णपवनैः कृच्छ्राद् गतौ सन्निधिम् ॥ ३५॥
कैलासाचलतुङ्गशृङ्गधवलस्वाङ्गं तुरङ्गाधिपं
प्रत्यारुह्य सुरूपधेयविभवे रङ्गेश्वरे खेलति ।
ऊर्ध्वोज्जृम्भितसान्द्ररेणुविहतालोकाश्चिरं मेदिनी-
वासाय स्पृहयन्ति वासवमुखा बर्हिर्मुखानां गणाः ॥ ३६॥
दिवि विसृमरशीलैर्देवदेवस्य धाटी-
चलितहयरजोभिश्छादिते पद्मबन्धौ ।
सपदि कृतनिरोधे सङ्कुचन्नाभिपद्मे
मुखकमलमपश्यन्मुह्यतीवाब्जयोनिः ॥ ३७॥
रङ्गेशस्य हि घोटवर्तकसमुद्धतस्त्रिलोकाङ्गणा-
भोगोल्लङ्घनसाहसीप्रचलितो यः सान्द्रधूलीभरः ।
तत्सन्दर्शनतर्षहर्षिदिविषद्गन्धर्वविद्याधरा-
मन्दानन्दभराश्रुवृष्टिभिरसौ खञ्जोऽजनिष्टाञ्जसा ॥ ३८॥
अव्यासुर्भुवनत्रयीं भगवतो देवस्य रङ्गेशितु-
र्लीलातुङ्गतुरङ्गरिङ्खणभवाः पुण्यौः परागोद्भवाः ।
प्रत्युद्यत्कलिपङ्कहारिकनकक्षोदा विमुक्त्यङ्गना-
पिष्टाता भवदुष्टभूतसरयप्रोच्चाटना भूतयः ॥ ३९॥
आभाति रङ्गपतिघोटकफेनपुञ्ज-
सञ्च्छन्नतत्खुरपदावलिमेदुरा भूः ।
क्षौमेण वल्लभसमागमसम्भृतानि
संवृण्वतीव कुटिलानि नखक्षतानि ॥ ४०॥
धाटीवेगार्भटीभिर्जितविहगपतिं कल्यपल्याणभूषं
वन्दे श्रीरङ्गदेवाद्भुतपदकमलन्यासधन्यं तुरङ्गं
सद्यो यद्वेगलेशं कमपि कथयितुं हन्त सोत्कण्ठकण्ठं
मूकं वा लोहलं वा मुखरयति नरं कापि साहित्यधाटी ॥ ४१॥
फूत्कुर्वत्फण्यधीशान्यतिचलितमहीभ्रान्त्युदस्ताम्बुधीनि
क्रीङ्कुर्वद्दिग्गजान्युद्भटखुरघटनारुग्णताराग्रहाणि ।
अत्यारब्धोग्रवाक्यस्खलितनिपतिताकीर्णवैमानिकानि
श्रीरङ्गेशस्य धाटीचतुरगतुरगक्रीडितान्युल्लसन्ति ॥ ४२॥
धाटीवेगार्भटीभिर्निशितखुरपुटीगर्भनिर्भिन्नपृथ्वी-
जृम्भद्गम्भीरधूलीपटलविलुलितार्केन्दुबिम्बे त्वयि द्राक् ।
त्वामारूढोऽद्य रङ्गो भुवनपरिबृढः सत्वरोदित्वराणा-
मक्षीणाक्षिव्यधानां तुरगकुलपतेर्याति देवोऽप्युपज्ञाम् ॥ ४३॥
धाटीसंरम्भसज्जे हरितुरगपतौ मज्जदुन्मज्जदुर्वी-
निर्वाहादक्षचक्षुःश्रुतिपतिकृतफूत्कारचण्डानिलेन ।
तद्भारस्फारघर्षोद्गतचटुलतनूपम्यकूर्माधिराज-
श्वासैः पाताललोकेऽजनि पवनभुजामन्धसामाशु वृद्धिः ॥ ४४॥
हेषाघोषैरशेषैः खुरपुटघटितक्ष्मातटीटङ्क्रियाभि-
र्बन्धूरस्कन्वभित्तिस्खलितमणिलसत्किङ्किणीक्रेङ्क्रियाभिः ।
घोरप्रोद्गीर्णघोणाचुरुचुरितरवैः शार्ङ्गिणो भूषशब्दैः
शब्दै काद्वैतभाञ्जि व्यतनिषत जगन्त्यश्वरत्नेन शश्वत् ॥ ४५॥
अग्रे श्रीरङ्गभर्तुः प्रचलितजनतोद्धूतधूलीकदम्बैः
श्रीमूर्त्यालोकसौख्याननुभवविफलीभूतनेत्रे जनौघे ।
अश्वं शश्वत् स्ववालानिलघुतरजसं संश्रितस्यास्य पश्चात्
सौन्दर्यं वीक्ष्य के चिन्नयनसफलतां मन्वते नन्वतीव ॥ ४६॥
वाहं वाहं हि वाहं निजजवविजितस्यानिलस्याभ्युदेति
स्पर्धालोर्मानसस्यात्मज इति च रुचा स्वच्छफेनच्छलेन ।
श्रीरङ्गेशेन धाटीकुतुकितमनसा धाव्यमानो मुदा द्रा-
गर्वागर्वातिगर्वाद् रजनिकरमसौ सर्वतश्चर्वतीव ॥ ४७॥
अच्छैर्माणिक्यगुच्छैः कलितरविमहः खण्डनैर्मण्डनैर्वा
घोषैः कल्पान्तपोषैः सहितमतिरजोधूसरैः केसरैश्च ।
उच्चैराधातुमुच्चैःश्रवसि पदमिवोदग्रनम्राग्रपादं
पश्याम्यश्वं विनश्यद्वजिनधनदृशां दृश्यमस्याद्य ॥ ४८॥
नव्यं नव्यं च नव्यं सकलजनदृशां रूपमाबित्रदश्वो
हस्ताब्जन्यस्तशक्तिं हरिमपि च वहन् सादिवेषेऽपि रम्यम् ।
वीथीष्वाधाव्यमानस्तिमितनिजशिरश्चामरश्चामरेड्यो
ऽप्यंहः संहारकारी मम भवतु परं रंहसा सिंहसारः ॥ ४९॥
कल्याणाञ्चितनूत्नरत्नकलिकावल्यावभुग्नाननः
कल्याङ्गो हरिसङ्गतो जलनिधीन् कुल्या इवोल्लङ्घयन् ।
कल्यावेगकृतानि सज्जनमनःशल्यानि सद्यो हरन्
कल्याणं वितनोतु कल्पितमणीपल्याणरम्यो हयः ॥ ५०॥
इति श्रीकुट्टिकविविरचितं तुरगशतकं अथवा धाटीशतकं सम्पूर्णम् ।
वाञ्छेश्वर अथवा वाञ्छानाथ अथवा कुट्टिकविविरचितं
स्तोत्रसमुच्चयः २ (६०)
The Turagashataka (60) also called Dhatishataka
is by Vanchesvara (I) or Vanchanatha, popularly
known its Kuttikavi. It is actually a eulogy on
Lord Ranganatha at Srirangam in perfect Kavya
style with fine imagery.
The poet describes the Lord mounting on a
horse, perhaps during a festival procession.
Proofread by Rajesh Thyagarajan