उत्तङ्गकृतं २ विष्णुस्तोत्रम्

उत्तङ्गकृतं २ विष्णुस्तोत्रम्

तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् । दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥ १०॥ त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः । स्थावराणि च भूतानि जङ्गमानि तथैव च । ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥ ११॥ शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ । निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत । बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ १२॥ ऊरू ते पर्वता देव खं नाभिर्मधुसूदन । पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥ १३॥ इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः । प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ १४॥ त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर । योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ १५॥ त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् । भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ १६॥ देवानां मानुषाणां च सर्वभूतसुखावहः । त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः । सुराणां समृद्धानां विनाशश्च त्वया कृतः ॥ १७॥ तव विक्रमणैर्देवा निर्वाणमगमन्परम् । पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ॥ १८॥ त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः । आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥ १९॥ इति महाभारते आरण्यके १९२ अध्यायान्तर्गतं उत्तङ्गकृतं विष्णुस्तोत्रं सम्पूर्णम् । महाभारत । आरण्यकपर्व । अध्याय १९२/११-१९॥ mahAbhArata . AraNyakaparva . adhyAya 192/11-19.. Proofread by PSA Easwaran
% Text title            : Uttangakritam 2 Vishnu Stotram
% File name             : uttangakRRitaM2viShNustotram.itx
% itxtitle              : viShNustotram (uttaNgakRitaM 2 mahAbhAratAntargatam tasya prItaH sa bhagavAnsAkShAddarshanameyivAn)
% engtitle              : uttangakRRitaM 2 viShNustotram
% Category              : vishhnu, vishnu, mahAbhArata, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | AraNyakaparva | adhyAya 192/11-19||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org