वामदेवभरद्वाजकृतं श्रीकृष्णस्तोत्रम्
इदानीमपि देवेश देवदेव यदोः कुले ।
अवतीर्य हरे विष्णो देवपक्षविरोधिनः ॥ १॥
गोपालवेषमास्थाय कृष्णोऽसि शुभवेषवान् ।
प्रलम्बं केशिनं हत्वा हन्ता कंसस्य माधव ॥ २॥
अहो रम्यमिदं विष्णो वपुर्नीलोत्पलच्छवि ।
नीलकुञ्चितकेशाढ्यमुन्निद्रकमलेक्षणम् ॥ ३॥
वनमालाकृतोरस्कं रज्जुयज्ञोपवीतिनम् ।
शिक्यालम्बिघटीकक्षं करीषप्रोक्षितोदरम् ॥ ४॥
किंकिणीजालसंच्छन्नकटिशोभिप्रभामयम् ।
दामकीलसमासक्तं भुजद्वयविभूषितम् ॥ ५॥
वेणुवीणारवं कुर्वन् पर्णवाद्यमनोहरम् ।
अहो मनोरमं रूपं पश्यामस्तव माधव ॥ ६॥
गोपालास्ते चिरं धन्या ये रूपमिदमीदृशम् ।
पश्यन्ति नित्यशो विष्णो नमस्ते पुरुषोत्तम ॥ ७॥
नमः कृष्णवपुर्धात्रे गोपवेषविलासिने ।
अचिन्त्यविभवे तुभ्यं सर्वगाय नमो नमः ॥ ८॥
नमः सकलकल्याण कल्याणाय नमो नमः ।
नमः परमतत्त्वाय नमः परमयोगिने ॥ ९॥
देवदेव जगद्वास सर्वकारणकारण ।
भूयः पुनर्नमस्यामस्तव योगपदं हरे ।
साधयामो नमस्तेऽस्तु तीर्थाय जगतां पते ॥ १०॥
इति हरिवंशान्तर्गतं वामदेव-भरद्वाजकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ१३.६०॥
harivaMsha . anubandha - parishiShTa . adhyAya a13.60..
Proofread by PSA Easwaran