वामनप्रभाववर्णनम्

वामनप्रभाववर्णनम्

प्रह्लाद उवाच । देवदेवो जगद्योनिरयोनिर्जगदादिजः । अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ १७॥ परावराणां परमः परापरसतां गतिः । प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः । स्थितिं कर्तुं जगन्नाथः ह्यदित्या गर्भगः प्रभुः ॥ १८॥ प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः । त्रैलोक्यमंशेन सनाथमेकः कर्त्तुं महात्मादितिजोऽवतीर्णः ॥ १९॥ न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः । जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ २०॥ यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः । यस्मिन् प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥ २१॥ भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् । लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतोऽस्म्यचिन्त्यम् ॥ २२॥ न यस्य रूपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः । विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥ २३॥ रूपं च चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहेऽथो रसना रसस्य । घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥ २४॥ स्वयम्प्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या । शक्यं तमीड्यमनघं च देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥ २५॥ येनैकदंष्ट्रेण समुद्धृतेयं धराचला धारयतीह सर्वम् । शेते ग्रसित्वा सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ २६॥ अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् । नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ २७॥ देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्र । सुरेन्द्रमातुर्जठरं प्रविष्टो हृतानि वस्तेन बलं वपूंषि ॥ २८॥ इति वामनपुराणे एकोनत्रिंशाध्यायान्तर्गतं बलये प्रह्लादप्रोक्तं अदितेर्गर्भगतस्य वामनप्रभाववर्णनं समाप्तम् । वामनपुराण । अध्याय २९/१७-२८॥ vAmanapurANa . adhyAya 29/17-28.. Proofread by PSA Easwaran
% Text title            : Vamanaprabhavavarnanam
% File name             : vAmanaprabhAvavarNanam.itx
% itxtitle              : vAmanaprabhAvavarNanam (vAmanapurANAntargatam)
% engtitle              : vAmanaprabhAvavarNanam
% Category              : vishhnu, vishnu, vAmanapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : vAmanapurANa | adhyAya 29/17-28||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, English, Marathi)
% Latest update         : September 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org