वामनस्तुतिः २
देवेश्वराय देवाय देवसम्भूतिकारिणे ।
प्रभवे सर्ववेदानां वामनाय नमो नमः ॥ १॥
नमस्ते पद्मनाभाय नमस्ते जलशायिने ।
प्रणमामि सदा भक्त्या बालवामनरूपिणे ॥ २॥
नमः शार्ङ्गधनु-र्बाणपाणये वामनाय च ।
यज्ञभुक् फलदात्रे च वामनाय नमो नमः ॥ ३॥
इति वामनस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com