वसन्तकामाप्सरसकृतं विष्णुस्तोत्रम्
वसन्तकामाप्सरस ऊचुः ।
पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।
परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १६॥
महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् ।
त्वत्तो भवत्यच्युत सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन् ॥ १७॥
द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।
स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी ॥ १८॥
सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् ।
पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९॥
ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि ।
समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥ २०॥
क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रेषु शीघ्रो बलवत्सु वायुः ।
मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि ॥ २१॥
सर्वानयेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु ।
रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥ २२॥
दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे ।
शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥ २३॥
बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत ।
पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥ २४॥
तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः ।
घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥ २५॥
पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः ।
जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥ २६॥
पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ।
सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥ २७॥
रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः ।
साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥ २८॥
वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् ।
पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥ २९॥
अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी ।
इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥ ३०॥
स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।
त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी ॥ ३१॥
त्वत्तो हि सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रं च समस्तमूर्ते ।
त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥ ३२॥
प्रसीद सर्वेश्वर सर्वभूत सनातनात्मा परमेश्वरेश ।
त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ ३३॥
किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि ।
मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति ॥ ३४॥
न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः ।
तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥ ३५॥
नमो नमस्ते गोविन्द नारायण जनार्दन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३६॥
नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३७॥
वरेण्य यज्ञपुरुष प्रजापालन वामन ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३८॥
नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३९॥
संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।
त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ४०॥
नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।
स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥ ४१॥
उपसंहर विश्वात्मन् रूपमेतत्सनातनम् ।
वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ ४२॥
प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।
प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ ४३॥
न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते ।
सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ॥ ४४॥
किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।
माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥ ४५॥
वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः ।
गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥ ४६॥
तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।
छन्दतो जगतामीश तदेतदुपसंहर ॥ ४७॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे रेवाखण्डे त्रिनवत्यधिक-
शततमाध्यायान्तर्गतं वसन्तकामाप्सरसकृतं विष्णुस्तोत्रं
समाप्तम् ।
स्कन्दपुराण । आवन्त्यखण्ड । अध्याय १९३/१६-४७॥
skandapurANa . AvantyakhaNDa . adhyAya 193/16-47..
Proofread by PSA Easwaran