वसन्तकामाप्सरसकृतं विष्णुस्तोत्रम्

वसन्तकामाप्सरसकृतं विष्णुस्तोत्रम्

वसन्तकामाप्सरस ऊचुः । पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् । परायणं त्वां जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १६॥ महीनभोवायुजलाग्नयस्त्वं शब्दादिरूपस्तु परापरात्मन् । त्वत्तो भवत्यच्युत सर्वमेतद्भेदादिरूपोऽसि विभो त्वमात्मन् ॥ १७॥ द्रष्टासि रूपस्य परस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः । स्रष्टा भवान् सर्वगतोऽखिलस्य घ्राता च गन्धस्य पृथक्शरीरी ॥ १८॥ सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोकेषु न सोऽस्ति कश्चित् । पश्वादिवर्गेषु न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९॥ ब्रह्माम्बुधीन्दुप्रमुखानि सौम्य शक्रादिरूपाणि तवोत्तमानि । समुद्ररूपं तव धैर्यवत्सु तेजः स्वरूपेषु रविस्तथाग्निः ॥ २०॥ क्षमाधनेषु क्षितिरूपमग्र्यं शीघ्रेषु शीघ्रो बलवत्सु वायुः । मनुष्यरूपं तव राजवेषो मूढेषु सर्वेश्वर पादपोऽसि ॥ २१॥ सर्वानयेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु । रसस्वरूपेण जलस्थितोऽसि गन्धस्वरूपं भवतो धरित्र्याम् ॥ २२॥ दृश्यस्वरूपश्च हुताशनस्त्वं स्पर्शस्वरूपं भवतः समीरे । शब्दादिकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ॥ २३॥ बोधस्वरूपश्च मतौ त्वमेकः सर्वत्र सर्वेश्वर सर्वभूत । पश्यामि ते नाभिसरोजमध्ये ब्रह्माणमीशं च हरं भृकुट्याम् ॥ २४॥ तवाश्विनौ कर्णगतौ समस्तास्तवास्थिता बाहुषु लोकपालाः । घ्राणोऽनिलो नेत्रगतौ रवीन्दु जिह्वा च ते नाथ सरस्वतीयम् ॥ २५॥ पादौ धरित्री जठरं समस्तांल्लोकान् हृषीकेश विलोकयामः । जङ्घे वयं पादतलाङ्गुलीषु पिशाचयक्षोरगसिद्धसङ्घाः ॥ २६॥ पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः । सर्वे वयं ते दशनेषु देव दंष्ट्रासु देवा ह्यभवंश्च दन्ताः ॥ २७॥ रोमाण्यशेषास्तव देवसङ्घा विद्याधरा नाथ तवाङ्घ्रिरेखाः । साङ्गाः समस्तास्तव देव वेदाः समास्थिताः सन्धिषु बाहुभूताः ॥ २८॥ वराहभूतं धरणीधरस्ते नृसिंहरूपं च सदा करालम् । पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यच्च तदाप्रमेयम् ॥ २९॥ अमी समुद्रास्तव देव देहे मौर्वालयः शैलधरास्तथामी । इमाश्च गङ्गाप्रमुखाः स्रवन्त्यो द्वीपाण्यशेषाणि वनादिदेशाः ॥ ३०॥ स्तुवन्ति चेमे मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् । त्वामीशितारं जगतामनन्तं यजन्ति यज्ञैः किल यज्ञिनोऽमी ॥ ३१॥ त्वत्तो हि सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रं च समस्तमूर्ते । त्वत्तो न शीतं च न केशवोष्णं सर्वस्वरूपातिशयी त्वमेव ॥ ३२॥ प्रसीद सर्वेश्वर सर्वभूत सनातनात्मा परमेश्वरेश । त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ ३३॥ किं वापराद्धं तव देवदेव यन्मायया नो हृदयं तवापि । मायाभिशङ्किप्रणतार्तिहन्तर्मनो हि नो विह्वलतामुपैति ॥ ३४॥ न तेऽपराद्धं यदि तेऽपराद्धमस्माभिरुन्मार्गविवर्तिनीभिः । तत्क्षम्यतां सृष्टिकृतस्तवैव देवापराधः सृजतो विवेकम् ॥ ३५॥ नमो नमस्ते गोविन्द नारायण जनार्दन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३६॥ नमोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३७॥ वरेण्य यज्ञपुरुष प्रजापालन वामन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३८॥ नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हर । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३९॥ संसारार्णवपोताय नमस्तुभ्यमधोक्षज । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ४०॥ नमः परस्मै श्रीशाय वासुदेवाय वेधसे । स्वेच्छया गुणयुक्ताय सर्गस्थित्यन्तकारिणे ॥ ४१॥ उपसंहर विश्वात्मन् रूपमेतत्सनातनम् । वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ ४२॥ प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत । प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ ४३॥ न विद्मः कुत्र वर्तामो भवान्नाथोपलक्ष्यते । सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ॥ ४४॥ किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे । माहात्म्यं किं नु ते देव यज्जिह्वाया न गोचरे ॥ ४५॥ वक्तारो वायुतेनापि बुद्धीनामयुतायुतैः । गुणनिर्वर्णनं नाथ कर्तुं तव न शक्यते ॥ ४६॥ तदेतद्दर्शितं रूपं प्रसादः परमः कृतः । छन्दतो जगतामीश तदेतदुपसंहर ॥ ४७॥ इति श्रीस्कन्दपुराणे आवन्त्यखण्डे रेवाखण्डे त्रिनवत्यधिक- शततमाध्यायान्तर्गतं वसन्तकामाप्सरसकृतं विष्णुस्तोत्रं समाप्तम् । स्कन्दपुराण । आवन्त्यखण्ड । अध्याय १९३/१६-४७॥ skandapurANa . AvantyakhaNDa . adhyAya 193/16-47.. Proofread by PSA Easwaran
% Text title            : Vasantakamapsarasakritam Vishnu Stotram
% File name             : vasantakAmApsarasakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (vasantakAmApsarasakRitaM skandapurANAntargatam pashyAma nAdiM tava deva nAntaM)
% engtitle              : vasantakAmApsarasakRRitaM viShNustotram
% Category              : vishhnu, vishnu, skandapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | AvantyakhaNDa | adhyAya 193/16-47||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : July 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org