वसुदेवकृतं २ श्रीकृष्णस्तोत्रम्

वसुदेवकृतं २ श्रीकृष्णस्तोत्रम्

वसुदेव उवाच । विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः । केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३॥ स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४॥ यथेमेऽविकृता भावास्तथा ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५॥ सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६॥ एवं भवान् बुद्ध्यनुमेयलक्षणै- र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः । अनावृतत्वाद्बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥ य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्वव्यतिरेकतोऽबुधः । विनानुवादं न च तन्मनीषितं सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥ १८॥ त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वदन्त्यनीहादगुणादविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वदाश्रयत्वादुपचर्यते गुणैः ॥ १९॥ स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २०॥ त्वमस्य लोकस्य विभो रिरक्षिषु- र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपै- र्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥ अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ॥ २२॥ इति श्रीमद्भागवतमहापुराणे दशमस्कन्धे पूर्वार्धे तृतीयाध्यायान्तर्गतं वसुदेवकृतं श्रीकृष्णस्तोत्रं समाप्तम् । भागवतपुराण । अध्याय १०/३/१३-२॥ bhAgavatapurANa . adhyAya 10/3/13-2.. Proofread by PSA Easwaran
% Text title            : Vasudevakritam 2 Shri Krishna Stotram
% File name             : vasudevakRRitaM2shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (vasudevakRitaM 2 bhAgavatapurANAntargatam vidito.asi bhavAn sAkShAtpuruShaH prakRiteH paraH)
% engtitle              : vasudevakRRitaM 2 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, bhAgavatapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhAgavatapurANa | adhyAya 10/3/13-2||
% Indexextra            : (Text 1, 2, 3, Scans 1, 2, 3, 4, 5, 6, Hindi)
% Latest update         : October 1, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org