श्रीवेणुगोपालाष्टकम्
कलित-कनक-चेलं खण्डितापत्-कुचेलं
गलधृत-वनमालं गर्विताराति-कालम् ।
कलिमल-हरशीलं कान्ति-धूतेन्द्रनीलं
विनमदवन-शीलं वेणुगोपालमीडे ॥ १॥
व्रजयुवति-विलोलं वन्दनानन्दलोलं
करधृत-गुरुशैलं कञ्जगर्भाधिपालम् ।
अभिमत-फलदान-श्रीजितामर्त्य-सालं
विनमदवन-शीलं वेणुगोपालमीडे ॥ २॥
घनतर-करुणाश्री-कल्पवल्यालवालं
कलशजलधि-कन्या-मोदक-श्रीकपोलम् ।
श्वसित-विनत-लोकानन्त-दुष्कर्म-तूलं
विनमदवन-शीलं वेणुगोपालमीडे ॥ ३॥
शुभद-सुगुण-जालं सूरि-लोकानुकूलं
दितिज-तति-करालं दिव्य-दारायितेलम् ।
मृदु मधुरवचः श्रीदूरित श्रीरसालं (?)
विनमदवन-शीलं वेणुगोपालमीडे ॥ ४॥
मृगमद-तिलक-श्रीमधुर स्वीयफालं (?)
जगदुदयलय-स्थित्यात्मकात्मीय-खेलम् ।
सकल-मुनिजनाली-मानसान्तर्मरालं
विनमदवन-शीलं वेणुगोपालमीडे ॥ ५॥
असुर-हरण-खेलं कन्दुकोत्क्षेप-लीलं
विलसित शर कालं विश्व-पूर्णान्तरालम् ।
शुचिरुचिरयसश्रि(?)धिक्कृत-श्री-मृणालं
विनमदवन-शीलं वेणुगोपालमीडे ॥ ६॥
स्व-परिचरण-लब्ध-श्री-धराशाधिपालं
स्वमहिम-लवलीला-जात-विध्यण्डगोलम् ।
गुरुतर-भवदुःखानीक-वाःपूरकूलं
विनमदवन-शीलं वेणुगोपालमीडे ॥ ७॥
चरण-कमल-शोभा-पातित-श्री-प्रवालं
सकल-सुकृति-रक्षा-दक्ष-कारुण्य-हेलम् ।
रुचि-विजित-तमालं रुक्मिणी-पुण्यमूलं
विनमदवन-शीलं वेणुगोपालमीडे ॥ ८॥
श्रीवेणुगोपाल कृपालवाल
श्रीरुक्मिणी-लोल सुवर्ण-चेल ।
कृतिं मम त्वं कृपया गृहीत्वा
स्रजं यथा मां कुरु दुःखदूरम् ॥ ९॥
इति श्रीवेणुगोपालाष्टकं सम्पूर्णम् ।
Proofread by Vani V., Rajani Arjun Shankar