श्रीवेङ्कटेशस्तुतिः
(स्रगधरा अनुष्टुभ् च)
ज्ञात्वा त्वामात्मरूपं निजनिरतिशयं ब्रह्म सच्चित्सुखं यत् ।
अत्राहं भो निरिच्छः सहजमुपरतो ह्यात्मभावातिरेकात् ॥ १॥
जानन्न त्वं प्रभो मां मम हृदयगतं स्तब्ध आसीरिदानीम् ।
किं वाहं त्वां वदेयं ह्यनिचितमिति यत्वत्क्वं तं दीनबन्धो ॥ २॥
अहं तु तावद्गच्छामि निर्विकारेण चेतसा ।
इतः परं स्वभक्तानामभिमानोऽस्तु ते सदा ॥ ३॥
क्षमाङ्कुरु भवार्तिहन्यदि तु मेदुरूक्तिः प्रभो ।
ह्यतीव दयया युतोऽसि कुरु भक्तसन्तारणम् ॥ ४॥
अहो खलु विडम्बनं भवति यन्मुमुक्षोर्भुवि ।
कथन्नु सहसे विभो कथमिदं नभो वार्यते ॥ ५॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीवेङ्कटेशस्तुतिः सम्पूर्णा ।
Proofread by Manish Gavkar