श्रीवेङ्कटेश्वरशतकम्

श्रीवेङ्कटेश्वरशतकम्

विधाय गुरुवन्दनं महितविघ्नराड्वन्दनं मदिष्टसुरवन्दनं तदनु भारतीवन्दनम् । अमन्दबुधवन्दनं निखिलविद्वदानन्दनं वदामि शतकं बुधा वृषगिरीश्वरानन्दनम् ॥ १॥ (शतकं मुदा) श्रीमद्वेङ्कटनायकार्यपृतनापालस्य यस्याज्ञया यद्वेत्राग्रविचालने त्रिभुवनं संरक्षितावस्थितम् । प्रत्यूहाद्रिविभेदनाशनिनिभं मोक्षप्रदं ज्ञानिनां वन्दे सूत्रवतीपतिं तमनघं विघ्नोपशान्त्यै सदा ॥ २॥ पूर्वं व्यासपतञ्जलिप्रभृतिभिर्यच्छास्त्रषट्कं कृतं धात्रा वेदचतुष्टयं विखनसा सूत्रं च यद्यत्कृतम् । तेषां तत्त्वपदार्थवेदिनमहं वेदान्तवंशाम्बुधे राकाचन्द्रमनन्तदीक्षितगुरुं वन्दे श्रितज्ञानदम् ॥ ३॥ श्रीमद्वेङ्कटनायकक्षितिपतेरक्षीणलक्ष्मीवतः क्षोणीं काङ्क्षय चित्रवाटनगरे तस्मै सुपुत्रं दिशेः । (क्षोणीकाङ्क्षित) क्षोणीरक्षणदक्षमक्षयकृपावीक्षासुसंरक्षित- क्षोणीनिर्जरद[प]क्षमक्षयसुखापेक्षावतामिष्टदम् ॥ ४॥ शारदाम्बुजविभासुरानना शारदा मदवने विशारदा । शारदेन्दुधवला ममानने सर्वदा वसतु सर्वदादरात् ॥ ५॥ सच्छात्रवृन्दं यदपाङ्गदृष्टया षट्शास्त्रवेदाकलनक्षमं स्यात् । तेभ्यो महद्भयोऽखिलगूसुरेभ्यो नमो नमो भागवतोत्तमेभ्यः ॥ ६॥ श्रीवेङ्कटेश्वर मया क्रियतेऽधुना ते । विज्ञापना सुमहती भृणु तां दयालो । कृत्वापराधमनिशं शरणागतं मां रक्षस्व देव कृपया क्षमया च युक्तः ॥ ७॥ श्रीवेङ्कटेश्वर विभो मयि तेऽनुकम्पा यद्यस्ति संस्तुतिमहं करवाणि शक्त्या । नो चेत् कथं सुरवरैर्मनसोऽप्यगम्यां ब्रह्मादिभिश्च वचसः प्रभवामि कर्तुम् ॥ ८॥ श्रीवेङ्कटेश्वर विमो भवता प्रणीतं कर्माखिलं न सुकरं चिदभूदवेद्या । मत्वाप्यशक्यमिति ते भजनं प्रपत्तुं स्मृत्वा दृढोऽस्मि चरमं वचनं तवाहम् ॥ ९॥ श्रीवेङ्कटेश्वर विभो न मयाप्यधीतं तप्तं तपो न हि हुतं न च नास्ति दत्तम् । आराधनं न विधिना कृतमेव ते मां चित्राडवास कृपया परिपाहि दीनम् ॥ १०॥ श्रीवेङ्कटेश्वर विभो भवता च सर्वं ज्ञातं मया न हि मदस्ति समोऽधिको वा । त्राताप्ययं मदवनीय इतीह लोके चित्राडवास परिपालय मां दयालो ॥ ११॥ श्रीवेङ्कटेश्वर विभो करणत्रयेण कालत्रये दुरितमेव कृतं मयासीत् । तस्मान्निवारणकृते तव चास्ति शक्ति- र्विष्णो विमोचयतु मां दुरितात् कृपा ते ॥ १२॥ श्रीवेङ्कटेश्वर कृता भवता प्रतिज्ञा मामेकमेव शरणं व्रज सर्वधर्मान् । त्यक्त्वाथ सर्वदुरितादपि मोक्षयिष्ये त्वामेव चाहमिति या ननु मा शुचस्त्वम् ॥ १३॥ श्रीविङ्कटेश्वर निशम्य तव प्रतिज्ञां तां प्रत्ययात् पदमहं शरणं प्रपन्नः । मां पाहि सर्वदुरितात् परिमोचयित्वा चित्राडवास भगवन् भव सत्यसन्धः ॥ १४॥ श्रीवेङ्कटेदवरभुजान्तरमास सद्म यस्यास्तु जन्म वसुधा तव धाम चेष्टम् । यद्वीक्षणाश्रयमिदं जगतां त्रयं स्या- द्बद्धस्त्वयाम्बुधिरमन्थि च यत्कृतेऽभूत् ॥ १५॥ श्रीवेङ्कटेश्वर विभो दयितां श्रियं तां रूपेण चेष्टितगुणैर्भवतोऽनुरूपाम् । त्वद्वल्लभां भगवती कृपया श्रिताना- मिष्टार्थदामुदधिजां प्रणमामि नित्यम् ॥ १६॥ श्रीवेङ्कटेश्वर विभो कृपणाय मह्यं दातुं त्वमर्हसि धियं गुणकीर्तने ते । चित्राडवास शरणागतवत्सलत्वात् त्वत्पादपद्ममनिशं शरणागतोऽस्मि ॥ १७॥ श्रीवेङ्कटेश्वर जनार्दन वासुदेव गोविन्द माधव हरेऽच्युत कृष्ण विष्णो । श्रीकेशव त्रिभुवनेश मुकुन्द राम नारायणेति सततं स्मरणं करिष्ये ॥ १८॥ श्रीवेङ्कटेश्वर विभो शरणागतस्य चित्ते ममास्तु सततं तव पादभक्तिः । संसारसागरवितारणमिच्छतां नौ- र्मोहान्धकारविनिवारणसूर्यरश्मिः ॥ १९॥ श्रीवेङ्कटेश्वर भवच्चरणारविन्द ध्यानामृताम्बुधिविगाहननिर्मलात्मा । ब्रह्मादिभिस्तव कृपारहितैर्यदीदृग्- गच्छाम्यगम्यपदमन्यजनैः कदा ते ॥ २०॥ श्रीवेङ्कटेश्वर सुदर्शनपाञ्चजन्यौ पञ्चायुधान्यहमनन्यमनाः स्मरामि । कौमोदकीप्रवरनन्दकदीप्य शार्ङ्गा- (नन्दकदीप्र) ण्यज्ञानकाण्डपटुदैत्यनिबर्हणानि ॥ २१॥ श्रीवेङ्कटेश्वरविभुं शिरसा नमामि ध्यायाम्यनन्यमनसा वचसा वदामि । चित्राडवासमुरसा श्रियमादधानं हस्तद्वयेन कुसुमैरपि पूजयामि ॥ २२॥ श्रीवेङ्कटेश्वरविभुं जगति स्थितानां संसारमाकलयतां मनसाप्यसारम् । हिंसाकरासुरतमिस्रनिरासहंसं (सूर्यः) कंसासुरारिमनिशं शिरसा नमामि ॥ २३॥ श्रीवेङ्कटेश्वर विभो परिपाहि मां त्वं वेतण्डदैत्यवरदण्डनपण्डितस्य । कोदण्डदण्डपटुखण्डनशौण्डशुण्डा- दोर्दण्डमण्डितसुदर्शनकाण्डजाब्जः ॥ २४॥ श्रीवेङ्कटेश्वर विभो भवतः प्रभावात् शैलीं तनुं चरणयो रजसाप्यहल्या । त्यक्त्वाथ गौतममगान्मुदिता सती त- त्पादारविन्दमनिशं कलयामि चित्ते ॥ २५॥ श्रीवेङ्कटेश्वर विभो प्रवदन्ति धीरा नीलाद्रिवेङ्कटमहीध्रपतिप्रसिद्धौ । द्वावत्र तौ पतितपावनदीनबन्धू त्वामित्ययं तु शरणागतरक्षकाख्यः ॥ २६॥ श्रीवेङ्कटेश्वर विभो भवतोऽत्र लोके दीनार्त (अपराधी) मन्तुकरपालनतत्परत्वात् । नीलाद्रिवेङ्कटमहीपतिनामधेयम् । त्वामेव तत्त्रिविधरूपमहं वदामि ॥ २७॥ श्रीवेङ्कटेश्वर विभो न गजावलिं च न स्यन्दनानि न भटान्न तु वाजिराजिम् । याचे प्रसादमवनं भवतः क्षमां त्वां चित्राडवास भगवन् त्रिविधात्मकोऽहम् ॥ २८॥ श्रीवेङ्कटेश्वर कृता भवते प्रतिज्ञा नीलाद्रिरायविभुना क्षयवत्सरे तु । क्षेत्र स्थितं युधि परत्र हृतं खलैस्ते दत्तं भवेदिति मया कुरु सत्यसन्धम् ॥ २९॥ श्रीवेङ्कटेश्वर कलौ भवता समोऽपि देवो न हीति विदिता भुवि सम्प्रतीतिः । चित्राडधामनिलयस्य समा दशाष्टौ याता ह्रिया विरहितस्य तवाद्य विष्णो ॥ ३०॥ श्रीवेङ्कटेश्वर विभो तव चाग्रपत्न्यो रेका चलाग्रमहिषी च कथं स्थिराभूत् । अन्या स्थिरापि चपला कथमास चित्रं- श्रीभूमिदेविसहितः खलु तिष्ठसीह ॥ ३१॥ श्रीवेङ्कटेश्वर भुवस्तनयोऽपवार्ता (भुवस्तवयोऽपवाह) तस्यावनिं क्षितिपतिस्तमसूययेव । हृत्वापि भीमवरकोऽपि निवासिनस्त्वं शक्तोऽसि वेङ्कटपतिर्विलयेऽपि नूनम् ॥ ३२॥ (विषयेऽपि नूनं) श्रीवेङ्कटेश्वर विभो भवदीयवर्गं ये विद्विषन्ति ननु तान् विगतान् करोषि । चित्राडवास भवति प्रतिपत्तियुक्ता ये तान् करोषि ससुखानिह सम्पदा त्वम् ॥ ३३॥ श्रीवेङ्कटेश्वर विभो मम दुष्कृताद्वा क्षेत्रं खलैरपहृतं स्थितमन्यदेशे । यद्यस्ति तेऽद्य महिमा तदपि स्वदेशे नीलाद्विराराड्र वितरति स्वयमेव राजा ॥ ३४॥ श्रीवेङ्कटेश्वर युवा खलु सम्प्रति त्व- मष्टादशाब्दवयसा सहितोऽसि देव । संस्थापनात् प्रभृति वा तव चित्रवाड- ग्रामे ह्रिया विरहितोऽसि लभस्व मानम् ॥ ३५॥ श्रीवेङ्कटेश्वर विभो भव सुप्रसन्नः स्वप्नेऽथवावनिपतेरपि बोधय त्वम् । शक्तिर्न ते मदवने किमु चित्रवाड- क्षेत्रं प्रदातुमिति मेऽवनिचक्रवर्तिन् ॥ ३६॥ श्रीमद्वेङ्कटशब्दपूर्वविलसन्नीलाद्रिरार्यप्रभु- र्दासस्ते खलु वेङ्कटेश्वरनिजस्स्वामी भावांस्तस्य च । दत्तास्मै भवतान्यराज्यवसुधा तुभ्यं न तेनावनि- र्भो चित्राडनिवासिने जनपदे स्वीये निजस्वामिने ॥ ३७॥ श्रीवेङ्कटेश्वर विभो वृषवत्सरे तु न्यायादहं स्वपरराष्ट्रभुवा युतोऽस्मि । चित्राडदेव कृपया न मयीति येन क्षेत्रं न दत्तमधुनापि सविस्मितोऽभूत् ॥ ३८॥ श्रीवेङ्कटेश्वर भुवा सहितो भवाद्य तत्त्वं प्रबोध्य निजदेशपतेः स्वदेशे । सुक्षेत्रमेव भवतेति च दीयतां मे सम्प्रार्थय त्वमथवार्जय पौरुषेण ॥ ३९॥ श्रीमद्रावुकुलोद्भवः स गुणवान् श्रीवेङ्कटाद्रिं गतः तत्रासीन्निजदैवमेव शरणं प्राप्तः पुनर्लक्ष्मणः । वत्सं गौरिव धावतीति विदितन्यायेन तस्माद्गिरे रायातः स तु चित्रवाडनगरं नूनं स्वदासास्पदम् ॥ ४०॥ श्रीवेङ्कटेश्वर विभो जलधौ निभग्न- स्त्वं मीनरूपमुपलभ्य जगद्धितार्थम् । ब्रह्माखिलं कमलजाय ददासि भूय- श्चित्राडवास भवतः परमा हि शक्तिः ॥ ४१॥ श्रीवेङ्कटेश्वर विलो कमठ प्रभुत्वात् पृष्ठे महीं धृतवतः कृपयाश्रितेषु । चित्राडधाम्न्यवनिरेव न तेऽस्ति किं वा शक्तः कथं मदवने वद सम्प्रति त्वम् ॥ ४२॥ श्रीवेङ्कटेश्वर वराहतनुर्निमग्नां रत्नाकरे धरणिमुद्धृतवान् किल त्वम् । किञ्चनया सह रतिं प्रतिलभ्य सूनु- मुत्पाद्य किं ह्रियमवाप्य न याचकोऽसि ॥ ४३॥ श्रीवेङ्कटेश्वर यथा नरसिंहमूर्ति- स्त्रातुं कयाधुसुतमुत्तमभक्तियुक्तम् । पातुं भवार्तनिजभक्तजनांस्तथास्मां श्चित्राडधाम्नि वसतिं गतवानसि त्वम् ॥ ४४॥ श्रीवेङ्कटेश्वर पुरन्दरशत्रुसत्रे त्वं वामनत्वमुपलभ्य बलेर्धरित्रीम् । लब्ध्वा च तां मघवते पुनरेव दत्त्वा लक्ष्म्या ह्रियापि सहितः किभयाचकस्त्वम् ॥ ४५॥ श्रीवेङ्कटेश्वर भवान् खलु भार्गवः सन् रामः पुरार्जुनमरिं किल कार्तवीर्यम् । निर्जित्य भूमिमखिलामपि कश्यपाय प्रादादथाम्बुधिभुवं प्रति याचकः किम् ॥ ४६॥ श्रीवेङ्कटेश्वर विभो शरणं प्रपद्ये पादौ तवाहमधुना भव रक्षको मे । रामो यतः खलु विभीषणरक्षसे वं दत्त्वाभयं पुनरपि प्रददासि लङ्काम् ॥ ४७॥ श्रीवेङ्कटेश्वर भवान् खलु रामरूपं धृत्वावनाय जगतस्तु तवाग्रजोऽभूत् । कृष्णावतारवत एव सविश्वरूप- स्वातुं स्थितोऽसि निखिलान् खलु चित्रवाटे ॥ ४८॥ श्रीवेङ्कटेश्वर विभो सुगतावतारः- कृत्वा सुशास्त्रमपि मोहयितुं जनांस्त्वम् । शक्तोऽद्य सौगतबुधान् सुगतान् करोषि त्वं पाहि मां स कृपया शरणागतं ते ॥ ४९॥ श्रीवेङ्कटेश्वर विभो कलिकावतारं गत्वाधिरुह्य हयमुत्तममेव विष्णो । धृत्वासिमाशु कलिकिन्करकन्धराणि छित्त्वावनिं सुखवतीमनिशं करोषि ॥ ५०॥ श्रीवेङ्कटेश्वर विभो तव वत्सलत्व ज्ञानादिदिव्यगुणषट्कविराजितत्वात् । त्वं पाहि वीक्ष्य पतितं कृपयातिदीनं कामादिदोषरिपुषट्कपराजितं माम् ॥ ५१॥ श्रीवेङ्कटेश्वर जनानसि पातुकाम- स्त्वार्चात्मनावतरितः कृपयास्मदादीन् । क्षेत्रेषु रङ्गवृषशैलगजाद्रिभद्र नीलाचलप्रमुखदिव्यनिकेतनेषु ॥ ५२॥ श्रीमद्वेङ्कटशैलराण्मम हरेश्चित्राडवासप्रभो (हरिश्चित्राडवासप्रभुः) कामारण्यदवानलोद्भवमहाक्रोधानलासारदः । लोभासारदमेघवातपटलो मोहप्रवाताहिरा- ण्मात्सर्याहिखगेश्वरो मदमहामातङ्गकण्ठीरवः ॥ ५३॥ श्रीवेङ्कटेश्वर मम प्रबलौ रिपू द्वौ देहाभिमानजनितौ जगति प्रसिद्धौ । ज्ञानासिनातिनिशितेन निकृन्तनीयौ वैराग्यखेदमुपगृह्य कदा भवेताम् ॥ ५४॥ श्रीवेङ्कटेश्वर विभो निखिलाव्जजाण्ड- जन्मस्थितिप्रलयकारणमप्रमेयम् । वेदा रुवन्त्यकृतकाः स्मृतयो भवन्तं नारायणं परमपूरुषमाहुरार्यः ॥ ५५॥ श्रीवेङ्कटेश्वर भवान् पुरुषात् परस्मात् व्यूहैरवातरदजाण्डकटाहमध्ये । सङ्कर्षणाख्यरविमण्डलवासुदेव प्रद्युम्रनामभिरतो ह्यनिरुद्धनामा ॥ ५६॥ श्रीवेङ्कटेश्वर भवद्विभवावताराः श्रीरामकृष्णनरसिंहवराहमुख्याः । पर्याप्नुवन्त्यमरसाधुजनावनाय दुष्टक्षितीशजनदैत्यनिबर्हणाय ॥ ५७॥ श्रीवेङ्कटेश्वर विभोऽखिलदेवदेव क्षीरेषु सर्पिरिव वह्निरिवेन्धनेषु । देहान्तरात्मसु निविष्टसदन्तरात्मा शास्तासि भूतनिवहस्य चराचरस्य ॥ ५८॥ श्रीवेङ्कटेश्वर हरे श्रितवत्सलत्वा ल्लोकेऽस्मदाद्यखिलदीनजनावनाय । ग्रामाग्रहारपुरवेश्मनदीवनाद्रि- ष्वर्चात्मनावतरितः सुलभोऽखिलानाम् ॥ ५९॥ श्रीवेङ्कटेश्वर जलांशुकधूपदीप- नैवेद्यपुष्पमुखवासफलार्पणाद्यैः । प्रीतः कुचेलमुनयेऽपि यथासि पूर्वं दाता भवाद्य निजभक्तजनाय लक्ष्म्याः ॥ ६०॥ श्रीवेङ्कटेश्वर विभो भवदीयसद्म सम्मार्जनाम्बुपरिषेचनलेपनाद्यैः । स्तोत्राभिवन्दनपरिक्रमणप्रमोद- वीक्षादिकर्मभिरकिञ्चनरक्षकोऽसि ॥ ६१॥ श्रीवेङ्कटेश्वर कुशेशयसन्निकाश- स्वास्यश्रिया हसितशारदशीतरश्मिः । सीताशया च पिशिताशविनाशनेशः कीशेशसंशयनिरासशरासनोऽसि ॥ ६२॥ इन्दिराह्रुदरविन्द मन्दिर कुन्दसुन्दरशुभाङ्गमण्डन । नन्दनन्दन मुकुन्द वन्दनं कुर्महे श्रितजनस्य चन्दन ॥ ६३॥ इन्द्रादिवृन्दारकवन्दिताङ्घ्रिं चन्द्राननं चन्दनचर्चिताङ्गम् । गोवृन्दवृन्दावनसञ्चरन्तं गोविन्दमीडे भुजगाचलेन्द्रम् ॥ ६४॥ श्रीमद्वेङ्कटनायक द्रुपदजाप्रह्लादवेतण्डराट्- कालिङ्गाहिविभीषणामरगणाहल्याम्बरीषादयः । गोपीगोकुलगोपवृन्दहरिराट्काकार्जुनेन्द्रादय- श्चैते ते शरणागतार्तिहरणे सन्त्येव मे साक्षिणः ॥ ६५॥ श्रीवेङ्कटेश्वर विधुन्तुदचैद्यनक्र- दैत्यादिदुष्टरिपुकन्धरकर्तनाय । पाणौ बिभर्षि निशितं च सुदर्शनं यत् तस्मै नमोऽस्तु सततं तमसो निहन्त्रे ॥ ६६॥ अण्डजेन्द्रनगमन्दिरावमां- मण्डजेन्द्रतुरगाभिमण्डित । कुण्डलीन्द्रशयन स्ववाहिनी- मण्डलेन्द्रकृतदैत्यदण्डन ॥ ६७॥ इन्दिरासखमन्दिराव मां- (सुखमन्दिराव) पण्डितेन्द्रनतसुन्दराङ्ग्ध्रिक् । पुण्डरीकजभवेन्द्रवन्दित खण्डितासुरविरोधिकन्धर ॥ ६८॥ नारदसंस्तुतदिव्यगुणाकर क्षीरपयोनिधिमध्यनिकेतन । नीरदसन्निभगात्रमनोहर वेङ्कटनायक मामव माधव ॥ ६९॥ कमलासनदिनुतामलगुणवैभवचरितं कमलाकरविलसत्पदकमलानतविबुधम् । अचलारुणकमलाकृतिकरपीडितचरणं भज मानस भुजगाधिपगिरिनायकमधुना ॥ ७०॥ पन्नगेन्द्रगिरिमस्तकालये दानवेन्द्रकुलपर्वताशनिः । कोसलेन्द्रकुलवार्धिचन्द्रमा राघवेन्द्र परिपालयाद्य माम् ॥ ७१॥ तरुणारुणकिरणारुणकरपङ्कजयुगलं वरुणालयतरुणीमणिजननाकरचरणाम् । करुणाकरमरुणाधरमलिकुन्तलमनिशं भज मानस फणिराड्गिरिशिखरालयमनघम् ॥ ७२॥ अरिकेतनकुलिशाङ्कुशजलजाम्बुजकलितं कलिकल्मषविनिवारणपटुवाहिनिजनकम् । जनकाधिपतनयाकरकमलाम्बुजललितं करवाणि सुचरणं तव शरणं सुमसुगुणम् ॥ ७३॥ करुणाकरविनतासुततुरगावनचतुरं- चतुरानननुतवैभवफणिराङ् गिरिनिलयम् । रजसा वरतरुणीकृतदृषदद्भुतचरितं करवाणि च चरणं तव शरणं सुमसुगुणम् ॥ ७४॥ विधिनिर्मितभुवनत्रयपदविक्रमकलितं खरदूषणशुकसारणतरुखण्डनपरशुम् । दशकन्धरकदळीतरुवनभञ्जनपवनं पवनात्मजविनुतं तव चरणं सुरशरणम् ॥ ७५॥ चरणद्वय गमनं कुरु हरिमन्दिरमभितः कमलापतिचरणं करयुगलार्चय सततम् । नयनद्वय भगवन्मुखमवलोकय सुभगं भज मानस भुजगाधिपगिरिराट्पदकमलम् ॥ ७६॥ रसने पिब मम माधवसुकथामृतमधुना श्रवणे भवहरणाच्युतचरितं बहु श‍ृणुतम् । नतिमाचर मधुसूदनपदयोः शिर उभयो- र्भज मानस फणिराङ् गिरिशिखरालयचरणम् ॥ ७७॥ चरितं मम कथितं तव विदितं ननु विततं दुरितं हर मुदितं कुरु हितमाचर सततम् । वरवेङ्कटगिरिनायक सुर मामव शरणा- गतमच्युत कलयामलमनिशं सुरविनुतम् ॥ ७८॥ प्रायो वसन्ततिलकाभिधवृत्तजात- पद्यान्यनेकविधलक्षणलक्षितानि । सन्तीह वेङ्कटमहीध्रपतिमभावात् शब्दार्थलक्षणविदां शतकेऽस्ति तोषः ॥ ७९॥ चित्रादग्रामवासी घनरुचिरतनुः पार्श्वयोर्विद्युदाभ- श्रीभूदेवीसमेतः तरणिशशिलसच्चक्रशङ्खोर्ध्वपाणिः । भक्तेभ्यो वेङ्कटेशो विलसति चरणपावृतोरुस्थिताभ्यां हस्ताभ्यामाश्रितेभ्यः प्रविततविरजागाधमुक्तिप्रदेशः (?) ॥ ८०॥ पुंसोऽर्थंश्चतुरोऽपि मोक्षसहितान् धर्मार्थकामान् दिशन् यस्मिन् यस्य मनोरथो यदि भवेत्तं तस्य धर्मादिकम् । दासान्नस्तव चित्रवाटनिलय श्रीवेङ्कटाद्रीश्वर श्रीभूदेविलसत्सुपार्श्वयुगल त्राहि प्रसादार्थिनः ॥ ८१॥ चित्रं तेऽप्यधुना कुचेलमुनये दातास्यनल्पश्रियो भिक्षित्वामरवैरिणं मघवते त्रैलोक्यराज्यश्रियः । क्षेत्रं यद्यपि वेङ्कटाचलपते चित्राटवासस्य ते नादत्तं भुवि नोपतिष्टत इति न्यायः कथं स्यान्मृषा ॥ ८२॥ ब्रह्माण्डोदरसंस्थिताखिलजनत्राणाय रङ्गस्थले सौलभ्यादिगुणान्वितः फणिपतेर्भोगे शयानः स्थितः । त्वं नाभीकमलोद्भवाद्विखनसः सञ्जातवेदस्तुत- श्श्रीभूदेविकरार्पितात्मचरणश्रीरङ्गराण्मामव ॥ ८३॥ विश्वस्यावनकर्मणे दिखनसा सम्प्रार्थितः सात्वतां वंशे चानकदुन्दुभेर्जनिमगाः कृष्णात्मना यः पुरा । दातुश्चेतसि तत्त्वचिन्तनवशात् सञ्जातवैखानस- (ध्यातश्चेतसि) श्रौताराधनराधितः स सततं शेषाद्रिराण्मामव ॥ ८४॥ वेदाङ्गप्रविराजमानगरुडारूढोऽञ्जसा गां गतो वेतण्डार्ति निवारणाय मकरं च्छित्त्वारिणा यः स्वयम् । वेतण्डाचलमस्तके वरदराजाख्यातनाम्ना स्थितः । स त्वं वेङ्कटनायकाश्रितजनत्राता भवाद्य प्रभो ॥ ८५॥ सीतालक्ष्मणमध्यभागविलसन्मूर्त्या घनश्यामलः कोदण्डेन स खण्डितामररिपुः सरक्षितारवण्डलः । रक्षोवानरराजयोरवरजौ संरक्षितौ च त्वया श्रीमद्वेङ्कटनायक त्वमधुना भद्राद्रिराण्मामव ॥ ८६॥ यस्त्वं श्रीबलभद्ररामसहितस्त्वद्दर्शनायागतान् दासांस्तान् पतितानपि त्रिजगतां नाथः सुभद्रान्वितः । क्षेत्रे श्रीपुरुषोत्तमे स्थितिमगाः पातुं प्रसादान्मुदा स त्वं वेङ्कटनायकाद्य कृपणं नीलाद्रिराण्मामव ॥ ८७॥ स्मरामि मनसा श्रिया सकललोकमात्रा स्थितं वदामि वचसा भुवाप्यखिललोकधात्राश्रितम् । नमामि शिरसा गुरुं त्रिजगतां सुसंरक्षकं सदा परिचराम्यहं वृषगिरीशमिष्टप्रदम् ॥ ८८॥ कलये सततं वृषशैलपतिं कलिदोषहरं करुणाजलधिम् । कमनीयवपुःकलितं सरमं कमलालयवक्षसमाधिहरम् ॥ ८९॥ कमलायताक्षममलात्मवैभवं विमलाम्बुजास्यमतुलाखिलामरम् । तरसा नमामि शिरसा च वेङ्कटं मनसा भजामि वचसा स्तवीम्यहम् ॥ ९०॥ श्रीमद्वेङ्कटनाथ ते यदि कृपा दीनो धनाढ्यो भवेत् नो चेत्तद्विपरीतवानिति बुधाः प्राहुर्विशिष्टादयः । रक्षां यस्य करोमि तस्य कृपया वित्तं हरामीति य- त्तथ्यं तद्वचनं हरे प्रियतरं नान्यस्य वित्तं तव ॥ ९१॥ मूको वदत्यनिशमेव निरीक्षतेऽन्धो पङ्गुर्गतिं प्रलभते बधिरः श‍ृणोति । दीनोऽप्यतीव धनवान् भवतः प्रसादा- न्नैतन्मृषा भवति वेङ्कटशैलनाथ ॥ ९२॥ सप्तप्राकारभूतावनिधरवरशेषाद्रिकूटाधिरूढ- श्रीदेवीमन्तरा भूरमणिमपि लसन्नीलमेघोज्ज्वलाङ्गः । श्रीमन्नीलाद्रिरामप्रभुवरनगरप्रान्तदेशे विराजत् चित्राटग्रामवासी मम भवतु मुदे वेङ्कटेशो मुकुन्दः ॥ ९३॥ सनकादियोगिवर्यैरनवरतसेव्यमानपदपद्म । चित्राटनगरवासिन् क्षिप्रं मे प्रदिश पादभक्तिं ते ॥ ९४॥ मित्राब्जनेत्रसुभगः सुत्रामाद्यमरविनुतचारित्रः । चित्राटवेङ्कटेशः सुत्रासितदेवतारिरवतान्माम् ॥ ९५॥ ब्रह्मेशानसुरेशमुख्यविबुधैर्मान्यैः सुमान्यो दिशा- वल्याखण्डलपूर्वदेवनिवहैर्मान्यैः सुमान्योऽपि सन् । हे चित्राटनिवास वेङ्कटपते नीलाद्रिरायप्रभो- र्देशे पुण्य जनैरमर्त्यचरितैर्मान्यो ह्यमान्यः कथम् ॥ ९६॥ शाखा यस्य तु तैत्तरीयविदिता सूत्रं च वैखानसं गोत्रं गौतममाहुतिश्च हविषां यागाः श्रुतिर्याजुषी । (हुतिश्च) कालोऽयं निगमागमप्रवचनैर्विद्यार्थिनां यापितः स्वाचार्यस्तु पिता पितामहनिभः श्रीपद्मनाभाह्वयः ॥ ९७॥ श्रीमद्गौतमगोत्रजस्य विदुषोऽनन्तार्यनाम्नो गुरो- स्तस्याहं नरसिंहनामविदितः शिष्यस्तुरीयोऽनुजः । श्रीमद्वेङ्कटनायकास्पदमिदं हृद्यं सतां श‍ृण्वतां पद्यानां शतकं चकार विदुषां विद्यानवद्यात्मनाम् ॥ ९८॥ श्रीभूदेवीसमेताय भक्ताभीष्टप्रदायिने । चित्राटाख्यपुरेशाय वेङ्कटेशाय मङ्गलम् ॥ ९९॥ इति श्रीवेङ्कटेश्वरशतकं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Venkateshvara Shatakam 06-05
% File name             : venkaTeshvarashatakam.itx
% itxtitle              : veNkaTeshvarashatakam
% engtitle              : venkaTeshvarashatakam
% Category              : vishhnu, shataka, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-05
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org