श्रीवेंकटेश्वर वज्रकवचम्स्तोत्रम्
मार्कण्डेय उवाच -
नारायणं परब्रह्म सर्वकारणकारकम् ।
प्रपद्ये वेङ्कटेशाख्यं वन्दे कवचमुत्तमम् ॥ १॥ var तदेव कवचं मम
सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरोवतु ।
प्राणेशः प्राणनिलयः प्राणान् रक्षतु मे हरिः ॥ २॥
आकाशराट् सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमः पाया द्देहं मे वेङ्कटेश्वरः ॥ ३॥
सर्वत्र सर्वकालेषु मंगांबाजानिरीश्वरः ।
पालयेन्मां कर्मसाफल्यं सः प्रयच्छ ॥ ४॥
var पालयेन्मामका कर्मसफल्य नः प्रयच्छतु
य एतद्वज्रकवचमभेद्यं वेङ्कटेशितु ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ ५॥
॥ इति श्री वेङ्कटेश्वर वज्रकवच स्तोत्रं सम्पूर्णम् ॥
Encoded and Proofread by YV Malleswara Rao malleswararaoy@yahoo.com