श्रीविष्णवष्टोत्तरशतनामस्तोत्रम्

श्रीविष्णवष्टोत्तरशतनामस्तोत्रम्

नमाम्यहं हृषीकेशं केशवं मधुसूदनम् । सूदनं सर्वदैत्यानां नारायणमनामयम् ॥ १॥ जयन्तं विजयं कृष्णं अनन्तं वामनं तथा । विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ॥ २॥ अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् । श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ३॥ श्रीरामं माधवं मोक्षक्षमारूपं जनार्दनम् । सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ ४॥ हरिं मुरारिं गोविन्दं पद्मनाभं प्रजापतिम् । आनन्दज्ञानसम्पन्नं ज्ञानदं ज्ञानदायकम् ॥ ५॥ अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् । योगेश्वरं जगद्योनिं ब्रह्मरूपं महेश्वरम् ॥ ६॥ मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् । वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ ७॥ गोप्रियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् । यज्ञस्यापि च भोक्तारं वेदवेदाङ्गपारगम् ॥ ८॥ वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् । प्रत्यक्षं च महाहंसं शङ्खपाणिं पुरातनम् ॥ ९॥ पुष्करं पुष्कराक्षं च वराहं धरणीधरम् । प्रद्युम्नं कामपालं च व्यासध्यातं महेश्वरम् ॥ १०॥ सर्वसौख्यं महासौख्यं साङ्ख्यं च पुरुषोत्तमम् । योगरूपं महाज्ञानं योगीशमजितप्रियम् ॥ ११॥ असुरारिं लोकनाथं पद्महस्तं गदाधरम् । गुहावासं सर्ववासं पुण्यवासं महाजनम् ॥ १२॥ वृन्दानाथं बृहत्कायं पावनं पापनाशनम् । गोपीनाथं गोपसखं गोपालं च गणाश्रयम् ॥ १३॥ परात्मानं पराधीशं कपिलं कार्यमानुषम् । नमामि निखिलं नित्यं मनोवाक्कायकर्मभिः ॥ १४॥ नाम्नां शतेनापि तु पुण्यकर्ता यः स्तौति विष्णुं मनसा स्थिरेण । स याति लोकं मधुसूदनस्य विहाय दोषानिह पुण्यभूतः ॥ १५॥ नाम्नां शतं महापुण्यं सर्वपातकशोधनम् । अनन्यमनसा ध्याजेज्जपेद्ध्यानसमन्वितः ॥ १६॥ नित्यमेव नरः पुण्यं गङ्गास्नानफलं लभेत् । तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् ॥ १७॥ इति श्रीविष्णवष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : viShNavaShTottarashatanAmastotram
% File name             : viShNavaShTottarashatanAmastotram.itx
% itxtitle              : viShNavaShTottarashatanAmastotram
% engtitle              : viShNavaShTottarashatanAmastotram
% Category              : vishhnu, aShTottarashatanAma, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (VSM 1)
% Latest update         : March 10, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org