श्रीविष्णोरेकादशनामस्तोत्रम्
राम नारायणानन्त मुकुन्द मधुसूदन ।
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ॥ १॥
इत्येकादशनामानि पठेद्वा पाठयेद्यतः ।
जन्मकोटिसहस्राणां पातकादेव मुच्यते ॥ २॥
इति श्रीविष्णोरेकादशनामस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran