विष्णोर्नीराजनम्
जय देव जय देव वन्दे गोपालं, प्रभु वन्दे गोपालम् ।
मृगमदशोभितभालं करुणाकल्लोलम् ॥ जय देव. ॥
निर्गुणसगुणाकारं संहृतभूभारं, संहृतभूभारं
करुणापारावारं गोवर्धनधारम् ।
कुञ्चितकुन्तलनीलं शरदिन्दुवदनं, शरदिन्दुवदनं
मणिगणमण्डितकुण्डलराजच्छ्रुतियुगलम् ॥ जय देव. ॥ १॥
फुल्लेन्दीवरनयनं विलसितभ्रूयुगलं, विलसितभ्रूयुगलं
बिम्बाधरमतिसुन्दरनासामणिलोलम् ।
कम्बुग्रीवं कौस्तुभमणिकण्ठाभरणं, मणिकण्ठाभरणं
श्रीवत्साङ्कितवक्षालम्बितवनमालम् ॥ जय देव. ॥ २॥
मुरलीवादनलीलासप्तस्वरगीतं, सप्तस्वरगीतं
जलचरस्थलचरवनचररञ्जितसमगीतम् ।
निर्मलयमुनातीरे अगणिततवचरितं, अगणिततवचरितं
गोपीजनमनमोहन दधतं श्रीकान्तम् ॥ जय देव. ॥ ३॥
रासक्रीडामण्डितवेष्टितव्रजललनं, वेष्टितव्रजललनं
मध्येताण्डवमण्डितकुवलयदलनयनम् ।
कुसुमाकारं रञ्जितमन्दस्मितवदनं, मन्दस्मितवदनं
कालियफणिवरदमनं पक्षीश्वरगमनम् ॥ जय देव. ॥ ४॥
किङ्किणिमेखलमध्ये पीताम्बरवसनं, पीताम्बरवसनं
तोडरनूपुरगर्जितविलसितभ्रूयुगलम् ।
गोपीजनपरिवेष्टितयमुनातटसंस्थं, यमुनातटसंस्थं
दासाभयदं सुखदं भुवनत्रयपालम् ॥ जय देव. ॥ ५॥
भासुरमणिगणराजितभूषणलसदङ्गं, भूषणलसदङ्गं
मृगमदकेशरभालम्पदनखभवभङ्गम् ।
विश्वम्भर हे स्वामिन्नगणितगुणसङ्गं, अगणितगुणसङ्गं
त्वामहमीडे माधव तर्तुं भवभङ्गम् ॥ जय देव. ॥ ६॥
इति विष्णोर्नीराजनं सम्पूर्णम् ।
Proofread by Paresh Panditrao