विष्णोस्त्रिंशोपचार पूजनम्
१ ध्यानम् --
सुरकदम्बकैः प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् ।
किरीटकुण्डलं पीतजाम्बरं खलनिषूदनं चिन्तये विभुम् ॥
२ आवाहनम् --
खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् ।
सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् ॥
३ आसनम् --
विधिमुखामरैर्नम्रमूर्तिभिः प्रणतसंश्रितं दुर्धरादिमत् ।
वरमणिप्रभा भासुरन्नवं जनपगृह्यतां स्वर्णमासनम् ॥
४ पाद्यम् --
कुसुमवासितं गन्धविस्तृतं
मुनिनिषेवितं सादरेण वै ।
ध्रुवपराशराभीष्टद ! प्रभो
जनपगृह्यतां पाद्यमुत्तमम् ॥
५ अर्घ्यम् ः-
कनकसम्पुटे स्थापितं वरं जलसुवर्णमुक्ताफलैर्युतम् ।
करसरोरुहाभ्यां घृतम्मया जनपगृह्यतामर्घ्यमुत्तमम् ॥
६ आचमनीयम् --
तव रमायुजः सेवनाज्जना
नृपतिसन्निभाः सम्भवन्ति हि ।
सुरतरङ्गिणी शुद्धवारिभि-
र्जनपगृह्यतामाचमं शुभम् ॥
७ स्नानम् --
हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् ।
जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥
८ पयःस्नानम् --
सुरगवुद्भभवं वीर्यवर्धकं निखिलदेहिनां जीवनप्रदम्
शशधरप्रभं फेनसंयुतम् जनपगृह्यतामर्पितं पयः ॥
९ दधि स्नानम् --
शुचिपयः समुद्भूतमुतप्रदं
व्रजनिवासिभिः स्वादितं शुभम् ।
रजतसंनिभं शीततामयं
जनपगृह्यतामर्पितन्दधिम् ॥
१० घृतस्नानम् --
हुतवहप्रियं क्षीरजोद्भवं सकलदेहिनां सत्त्ववर्धकम् ।
कुमुदसदृशं विष्णु दैवतं जनपगृह्यतामर्पितङ्घृतम् ॥
११ मधुस्नानम् --
मधुलतोद्भवं स्वादुमञ्जुलं मधुपमक्षिकाद्यैर्विनिर्मितम् ।
मधुरतामयं गन्धसम्प्रदं मधुहतेऽर्पितं गृह्यताम्मधु ॥
१२ शर्करा स्नानम् --
मदनकार्मुकाद्या विनिर्मिता मधुरतान्विता सर्वपापहा ।
सरसताङ्गता तारकोपमा जनपगृह्यतां शुद्धशर्करा ॥
१३ उद्वर्तन स्नानम् --
कदम्बकेतकी पुष्पसम्भवं
मृगमदान्वितं यन्त्रनिर्मितम् ।
जनुपकारिणा भक्तितो मया
जनपगृह्यतां तैलमर्पितम् ॥
१४ शुद्धोदक स्नानम् --
हरिपदाम्बुजा नर्मदामही
सरयूचन्द्रभागाभ्य आहृतम् ।
जलजवासितं स्नानहेतवे
जनपगृह्यतामर्पितञ्जलम् ॥
१५ वस्त्रम् --
विविधतन्तुभिर्गुम्फितं नवं
सुतपनीयभं सोत्तरीयकम् ।
मधुरिपो जगन्नाथ माधव
जनपगृह्यतां वस्त्रमर्पितम् ॥
१६ यज्ञोपवीतम् --
त्रिगुणितं सितैरर्कतन्तुभिः कृतमिदम्मया शुद्धचेतसा ।
निगमसम्मतं बन्धमोचकः जनपगृह्यतामुपवीतकम् ॥
१७ गन्धम्-चन्दनम् --
मलयसम्भवं पीतवर्णकं मृगमदाधिभिर्वासितं वरम् ।
मुक्तिषट्पदं कुङ्कुमान्वितं जनपगृह्यतां गन्धमर्पितम् ॥
१८ अक्षतान् --
कमलसम्भवा मौक्तिकोपमा
स्त्रिपथगोदकैः शालिताः शिवाः ।
अगरुकुङ्कुमैर्मिश्रितावरा
जनपगृह्यतामर्पिताक्षताः ॥
१९ पुष्पमाला --
तरुणमल्लिका कुन्दमालती
बकुलपङ्कजानां समुच्चयैः ।
सततसुत्रितं भक्तितो मया
जनपगृह्यतां हारमर्पितम् ॥
२० श्वेत चूर्ण --
कदम्बकेतकी वृक्षसम्भवं विविधसौख्यदं कान्तिवर्धनम् ।
सितकरोपमं स्नेहसत्कृतं जनपगृह्यतां श्वेतचूर्णकम् ॥
२१ रक्तचूर्ण ;--
अमरजादिभिर्देववृन्दकैः शिरसिवैधृतं प्रश्रयेण वा ।
तपनसदृशं दृष्टिमुत्कलं जनपगृह्यतां रक्तचूर्णकम् ॥
२२ सिन्दूर चूर्ण --
गणपतिप्रियं बालसूर्यभं
पवनसूनुना स्वीकृतं सदा ।
सुरभिवासितं सूक्ष्मचूर्णकं
जनपगृह्यतां नागसम्भवम् ॥
२३ धूपम् --
अगरगुग्गुला ज्यादिमिश्रितं
तपनयोगजोद् भूतसौरभम् ।
अमरवृन्दकैः स्नेह सत्कृतं
जनपगृह्यतां धूपमुत्तमम्। ॥
२४ दीपम् --
अनलतैलिनी गोघृतान्वितं तिमिरनाशकं दीप्ततन्तुभिः ।
कनकभाजने स्थापितम्मया जनपगृह्यतां दीपमुत्तमम् ॥
२५ नैवेद्यम् --
पनसदाडिमाम्रादिसत्फलं
सुघृतमोदका पूपपायसम् ।
रजतभाजने स्थापितम्मया
जनपगृह्यतां खाद्यमुत्तमम् ॥
२६ जळ-आचमनी --
जलधिगोद्भवं शीततामयं
सकलप्राणिनां प्राणदायकम् ।
विधिसमर्पितं शुद्धचेतसा
जनपगृह्यतामाचममं शुभम् ॥
२७ मुखवास --(पूगीफलं ताम्बूलं) --
खपुरसम्भवं पूगचूर्णयुग्
मृगमदेलुका वासितं वरम् ।
फणिलतादलैः क्लृप्तबीडकं
जनपगृह्यतामास्यभूषणम् ॥
२८ दक्षिणा --
निखिलयाचिनां श्रेष्ठभोगदा
निगमसम्मता कर्मपूर्णदा ॥
सकलभूजनैर्वाञ्छिता सदा
जनपगृह्यतां हेमदक्षिणा ॥
२९ नीराजनम् --
हुतवहप्रियैर्मिश्रितं वरं
जलधिजैर्युतं सर्वपापहम् ।
मुखविलोकनार्थाय संस्कृतं
जनपगृह्यतामार्तिकं शुभम् ॥
३० प्रदक्षिणाम् --
वरदसञ्चितं पूर्वजन्मभिर्दहति किल्विषं त्वत्प्रदक्षिणा ।
नरहरिमुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम् ॥
इति विष्णोर्स्त्रिंशोपचारपूजनं सम्पूर्णम् ।
Proofread by Sunder Hattangadi