विष्णुधर्माख्यविद्यास्तोत्रम्
हरिरुवाच ।
अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया ।
सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥ १, १९६.१॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्वमोङ्का रादीनि विन्यसेत् ॥ १, १९६.२॥
नमो नारायणायेति विपर्यासमथापि च ।
करन्यासं ततः कुर्याद्द्वादक्षरविद्यया ॥ १, १९६.३॥
प्रणवादियकारान्तमङ्गुल्यं गुष्ठपर्वसु ।
न्यसेद्धृदय ओङ्कारं मनुं मूर्ध्नि समस्तकम् ॥ १, १९६.४॥
ओङ्कारन्तु भ्रुवोर्मध्ये शिकानेत्रादिमूर्धतः ।
ॐ विष्णवे इति इमं मन्त्रन्यासमुदीरयेत् ॥ १, १९६.५॥
आत्मानं परमं ध्यायेच्छेषं यच्छक्तिभिर्युतम् ।
मम रक्षां हरिः कुर्यान्मत्स्यमूर्तिर्जलेऽवतु ॥ १, १९६.६॥
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः ।
अटव्यां नरसिंहस्तु रामो रक्षतु पर्वते ॥ १, १९६.७॥
भूमौ रक्षतु वाराहौ व्योम्नि नारायणोऽवतु ।
कर्मबन्धाच्च कपिलो दत्तो रोगाच्च रक्षतु ॥ १, १९६.८॥
हयग्रीवो देवताभ्यः कुमारो मकरध्वजात् ।
नारदोऽन्यार्चनाद्देवः कूर्मो वै नैरृते सदा ॥ १, १९६.९॥
धन्वन्तीरश्चापथ्याच्च नागः क्रोधवशात्किल ।
यज्ञो रोगात्समस्ताच्च व्यासोऽज्ञानाच्च रक्षतु ॥ १, १९६.१०॥
बुद्धः पाषण्डसङ्घातात्कल्की रक्षतु कल्मषात् ।
पायान्मध्यन्दिने विष्णुः प्रातर्नारायणोऽवतु ॥ १, १९६.११॥
मधुहा चापराह्ने च सायं रक्षतु माधवः ।
हृषीकेशः प्रदोषेऽव्यात्प्रत्यूषेऽव्याज्जनार्दनः ॥ १, १९६.१२॥
श्रीधरोऽव्यादर्धरात्रे पद्मनाभो निशीथके ।
चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान् ॥ १, १९६.१३॥
शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा ।
बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः ॥ १, १९६.१४॥
शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम् ।
विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु ॥ १, १९६.१५॥
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा ।
स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत् ॥ १, १९६.१६॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
षण्णवत्यधिकशततमोऽध्यायः
गरुडपुराण । पूर्वखण्ड । अध्याय १९६/६-१६॥
garuDapurANa . pUrvakhaNDa . adhyAya 196/6-16..
Proofread by PSA Easwaran