श्रीविष्णुद्वादशनामन्यासः
केशवः पातुमे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥ १॥
नाभिं विष्णुस्तु मे पातु जठरं मधुसूदनः ।
उरस्त्रिविक्रमः पातु हृदयं पातु वामनः ॥ २॥
श्रीधरः पातु मे कण्ठं हृषीकेशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ॥ ३॥
एवमेतानि नामामि जपकाले विशेषतः ।
विन्यसेदात्मरक्षार्थं सर्वमङ्गलसिद्धये ॥ ४॥
इति श्रीविष्णुद्वादशनामन्यासः समाप्तः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com