विष्णुना परशुरामाय प्रोक्तं कवचम्
विष्णुः कवचमादाय रामं प्रति समाययौ ॥ ६२॥
ददौ समन्त्रं परशुरामाय तच्छृणु प्रिये ।
``ॐ श्रीकमलवासिन्यै स्वाहा'' मन्त्रं ददौ ततः ॥ ६३॥
प्रजापतिः ऋषिर्यस्य छन्दश्च बृहती तथा ।
देवी पद्मालया यस्य चतुर्वर्गं नियोजनम् ॥ ६४॥
ॐ श्रीकमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
ॐ श्री कपालं मे पातु लोचने श्रींश्रियै नमः ॥ ६५॥
ओ श्रींश्रियै स्वाहेति वै कर्णयुग्मं सदाऽवतु ।
ॐ श्रीङ्क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ ६६॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान् सदाऽवतु ।
औश्रीं कृष्णप्रियायै च दन्तरन्ध्रान् सदाऽवतु ॥ ६७॥
ॐ श्रीनारायणेशायै मम कण्ठं सदाऽवतु ।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥ ६८॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ ६९॥
ॐ श्रीम्मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ॐ ह्रींश्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ ७०॥
ॐ श्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ॐ श्रींह्रीङ्क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ ७१॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैरृत्यां श्रीहरिप्रिया ॥ ७२॥
पद्मालया पश्चिमे मां वायव्यां पातु मां स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ ७३॥
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ ७४॥
इति सर्वैश्वर्यप्रदं वर्म बाहौ सुधारय ।
देवेन्द्रैश्चासुरेन्द्रैश्चाऽवध्यो भवसि निश्चितम् ॥ ७५॥
इत्युक्त्वा कवचं दत्वा ययौ वैकुण्ठमच्युतः ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ४५८-अध्यायान्तर्गतं
विष्णुना परशुरामाय प्रोक्तं कवचम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ४५८/६२-७५॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 458/62-75..
Proofread by PSA Easwaran