विष्णुनक्षत्रमाला

विष्णुनक्षत्रमाला

वन्दे नन्दितजिष्णुं घनरोचिष्णुं घनाघमभिभूष्णुम् । निरयं निराकरिष्णुं हृदि वर्तिष्णुं हृतामयं विष्णुम् ॥ १॥ वन्दे मन्दिततृष्णं नन्दितकृष्णं नमज्जनानुष्णम् । सततमसाधुमहोष्णं साधुसतृष्णं सकौस्तुभं कृष्णम् ॥ २॥ भुवनविमोहनरूपं यदुकुलदीपं यमीशसुप्रापम् । माधवमपास्ततापं मधुरालापं नमामि नतगोपम् ॥ ३॥ उत्पादितसुमबाणं जितमुरबाणं कृताखिलत्राणम् । ददतं निष्परिमाणं स्थिरनिर्वाणं भजे रमाप्राणम् ॥ ४॥ विदलितविविधसुरारिं विजितवलारिं नमामि नरकारिम् । धृतनन्दकतरवारिं पदसृतवारिंपरात्परं शौरिम् ॥ ५॥ दीनजनावनदक्षं दीर्णविपक्षं दयाभृतावेक्षम् । दितिभवगजहर्यक्षं देवाध्यक्षं भजे सरोजाक्षम् ॥ ६॥ जीर्णं तुलसीपर्णं तूर्णं स्वीकृत्य वेश्म विस्तीर्णम् । पूर्णं धान्यमजीर्णं स्वर्णं कृष्णेन किन्नु न वितीर्णम् ॥ ७॥ श्रुतियुवतिचिकुररत्नं कौस्तुभरत्रं जगच्च निर्यत्नम् । दधतं नमतां प्रत्नं चिन्तारत्नं भजामि यदुरत्नम् ॥ ८॥ द्वारं कृत्वा पार्थं यस्तत्त्वार्थं जगौ तमत्यर्थम् । कृष्णमबुध्बा व्यर्थं कालं स्वार्थं नयामि वाऽन्यार्थम् ॥ ९॥ सुन्दरपदारविन्दं समनुतिनिन्दं समर्पितानन्दम् । नन्दककरं मुकुन्दं नन्दितनन्दं नमामि गोदिन्दम् ॥ १०॥ कमलां वक्षसि कलयन्कम्बुं रचयन् करे शुचं दलयन् । अचलं कुशलं जनयन् अभयं कथयन् पुरोऽस्तु हरिरुदयन् ॥ ११॥ प्रभुमवनतजनमोदं प्रकटितवेदं प्रभाजिताम्भोदम् । करिगिरिशिखरविनोदं कमलाह्लादं कदापि नावेदम् ॥ १३॥ अच्युतमधिगतरङ्गंरमणीयाङ्गं रमाकृतालिङ्गम् । तल्पितशेषभुजङ्गं तार्थ्यशताङ्गं भजामि धृतशार्ङ्गम् ॥ १३॥ वेङ्कटशैलावासं वेदश्वासं विपाटितायासम् । नन्दितवेदव्यासं नीरदभासं हरिं भजन्नासम् ॥ १४॥ सद्गुणरत्ननिशान्तं सततं भान्तं सतामधिस्वान्तम् । भवगदवैद्यमनन्तं भवुकोदन्तं भजे रमाकान्तम् ॥ १५॥ वृन्दावनसञ्चारी कंसविदारी किरीटिहितकारी । यमुनातीरविहारी कौस्तुभधारी पुरोऽस्तु मधुवैरी ॥ १६॥ सुखयतु जगतां कर्ता नमतां भर्ता मुरस्य संहर्ता । चक्रगदादरधर्ता विपदपहर्ता रमाधराभर्ता ॥ १७॥ सकलचराचरनेतासम्पद्दाता समस्तरिपुजेता । सुखयतु भद्रभ्राता सुखसन्धाता सुमायुधाधाता ॥ १८॥ चम्पकवनवास्तव्यं सन्ततभव्यं सुरालिसम्भाव्यम् । देवीदक्षिणसव्यं गोपंदिव्यं विहाय किं सेव्यम् ॥ १९॥ नरनारायणनामा नवघनधामा निरस्तभवदामा । सुखयतु बदरीधामा सुखितसुदामा सुरेषु सप्रेमा ॥ २०॥ अवने प्रतिभावन्तं हृदि मणिमन्तं श्रिते दयावन्तम् । भुवने विभूतिमन्तं श्रियि रतिमन्तं भजामि भगवन्तम् ॥ २१॥ द्वाराट्टध्वजवत्यां द्वारावत्यां स्थितं प्रभावत्याम् । मधुयदुवृष्णिमहत्यां मङ्गलवत्यां हरिं दधे मत्याम् ॥ २२॥ सन्तं द्वारावत्यां सुकृतवसत्यां जितामरावत्याम् । प्रासादजालवत्यामुत्सववत्यां हरिं दधे मत्याम् ॥ २३॥ कम्बुसहोदरकण्ठं नतभयकुण्ठं नमामि वैकुण्ठम् । सज्जनलसदुपकण्ठं श्रीवैकुण्ठं श्रितं रमोत्कण्ठम् ॥ २४॥ पदरुचिजिताब्जशोभं पद्मालोभं परास्तविक्षोभम् । पाटितविमतमहेभं पङ्कजनाभं प्रणौमि जलदाभम् ॥ २५॥ विमलगुणप्राग्भारं विश्वाधारं विधेर्विधातारम् । विनुतं विबुधैर्धीरं वीरमुदारं विनौमि यदुशूरम् ॥ २६॥ प्रतिपादितपुरुषार्थं प्रमुदितपार्थं प्रकृष्टगुणसार्थम् । प्रभुमच्युतमत्यर्थं प्रास्तानर्थं प्रणौमि तत्त्वार्थम् ॥ २७॥ विष्णोस्तारामालां पठितुरबालां श्रियञ्च धारालाम् । स्वस्मिन् भक्तिमलोलां वचसां विमलां हरिर्दिशेन्मालाम् ॥ २८॥ इति श्वेतारण्यनारायणयज्वकृता विष्णुनक्षत्रमाला सम्पूर्णा ॥ Proofread by Gopalakrishnan, NA
% Text title            : Vishnu Nakshatramala 27+1 verses
% File name             : viShNunakShatramAlA.itx
% itxtitle              : viShNunakShatramAlA (shvetAraNyanArAyaNayajvanaH kRitiShu)
% engtitle              : viShNunakShatramAlA
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shvetaranya Narayana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, NA
% Description/comments  : From Vrittalamkararatnavali by Shvetaranya Narayana
% Indexextra            : (Scans 1, 2)
% Latest update         : September 26, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org